मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
श्रीमन्मेरुधराधराधिप महास...

श्री सुब्रह्मण्य मानसिकपूजा - श्रीमन्मेरुधराधराधिप महास...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.
N/A

श्रीमन्मेरुधराधराधिप महासौभाग्यसंशोभिते मन्दारद्रुमवाटिकापरिवृते श्रीस्कन्दशैलेमले
सौधे हाटकनिर्मिते मणिमये सन्मण्टपाभ्यन्तरे ब्रह्मानन्दघनं गुहाख्यमनघं सिंहासनं चिन्तये ॥१॥
मदनायुतलावण्यं नव्यारुणशतारुणं नीलजीमूतचिकुरं अर्धेन्दु सदृशालिकं ॥२॥
पुण्डरीकविशालाक्षं पूर्णचन्द्रनिभाननं चाम्पेय विलसंनासं मन्दहासाञ्चितोरसं ॥३॥
गण्डस्थलचलच्छोत्र कुण्डलं चारुकन्धरं करासक्तकनः दण्डं रत्नहाराञ्चितोरसं ॥४॥
कटीतटलसद्दिव्यवसनं पीवरोरुकं सुरासुरादिकोटीर नीराजितपदाम्बुजं ॥५॥
नानारत्न विभूषाढ्यं दिव्यचन्दनचर्चितं सनकादि महायोगि सेवितं करुणानिधिं ॥६॥
भक्तवाञ्चितदातारं देवसेनासमावृतं तेजोमयं कार्तिकेयं भावये हृदयाम्भुजे ॥७॥
आवाहयामि विश्वेशं महासेनं महेश्वरं तेजस्त्रयातमकम्पीठं शरजन्मन् गृहाणभोः ॥८॥
अनवद्यं गृहाणेश पाद्यमद्यषडानन पार्वतीनन्दनानर्घ्यं अर्पयाम्यर्घ्यमत्भुतं ॥९॥
आचम्यतामग्निजात स्वर्णपात्रोद्यतैर्जलैः पञ्चामृतरसैः दिव्यैः सुधासमविभावितैः ॥१०॥
दधिक्षीराज्यमधुभिः पञ्चगव्यैः फलोदकैः नानाफलरसैः दिव्यैः नाळिकेरफलोदकैः ॥११॥
दिव्यौषधिरसैः स्वर्णरत्नोदककुशोदकैः हिमाम्बुचन्दनरसैः घनसारादिवासितैः ॥१२॥
ब्रह्माण्डोदरमध्यस्थ तीर्थैः परमपावनैः पवनं परमेशान त्वां तीर्थैः स्नापयाम्यहं ॥१३॥
सुधोर्मिक्षीरधवळं भस्मनोधूळ्यतावकं सौवर्णवाससाकायां वेष्टयेभीष्टसिद्धये ॥१४॥
यज्ञोपवीतं सुग़्यानदायिने तेर्पयेगुहं किरीटहारकेयूर भूषणानि समर्पये ॥१५॥
रोचनागरुकस्तूरी सिताभ्रमसृणान्वितं गन्धसारं सुरभिलं सुरेशाभ्युपगम्यतां ॥१६॥
रचये तिलकं फाले गन्धं मृगमदेनते अक्षय्यफलदानर्घान् अक्षतानर्पये प्रभो ॥१७॥
कुमुदोत्पलकल्हारकमलैः शतपत्रकैः जातीचम्पकपुन्नाग वकुळैः करवीरकैः ॥१८॥
दूर्वाप्रवाळमालूर माचीमरुवपत्रकैः अकीटादिहतैर्नव्यैः कोमळैस्तुळसीदळैः  ॥१९॥
पावनैश्चन्द्रकदळी कुसुमैर्नन्दिवर्धनैः नवमालालिकाभिः मल्लिकातल्ल्जैरपि ॥२०॥
कुरण्डैरपि शम्याकैः मन्दारैरतिसुन्दरैः अगर्हितैश्च बर्हिष्ठः पाटीदैः पारिजातकैः ॥२१॥
आमोदकुसुमैरन्यैः पूजयामि जगत्पतिं धूपोऽयं गृह्यतां देव घानेन्द्रिय विमोहकं ॥२२॥
सर्वान्तरतमोहन्त्रे गुहते दीपमर्पये सद्यसमाभृतं दिव्यं अमृतं तृप्तिहेतुकं ॥२३॥
शाल्यान्नमत्भुतं नव्यं गोघृतं सूपसङ्गतं कदळीनाळिकेरामृधान्याद्युर्वारुकादिभिः ॥२४॥
रचितैर्हरितैर्दिव्य खचरीभिः सुपर्पटैः सर्वसंस्तारसम्पूर्णैः आज्यपक्वैरतिप्रियैः ॥२५॥
रम्भापनसकूश्माण्डापूपा निष्पकन्तकैः विदारिका कारवेल्लपटोलीतगरोन्मुखैः  ॥२६॥
शाकैबहुविधैरन्यैः वटकैर्वटुसंस्कृतैः ससूपसारनिर्गंय सरचीसुरसेनच ॥२७॥
कूश्माण्दखण्डकलित तप्तक्ररसेनच सुपक्वचित्रान्नशतैः लड्डुकेड्डुमकादिभिः ॥२८॥
सुधाफलामृतस्यन्दिमण्डक क्षीरमण्डकैः माषापूपगुळापूप गोधूमापूप शार्करैः ॥२९॥
शशाङ्ककिरणोत्भासि पोळिका शष्कुळीमुखैः भक्ष्यैरन्यैसुरुचिरैःपायसैश्चरसायनैः ॥३०॥
लेह्यरुच्चावचैः खण्डचर्कराफाणितादिभिः गुळोदकैनाळिकेररसैरिक्षुरसैरपि ॥३१॥
कूर्चिकाभिरनेकाभिः मण्डिकाभिरुपस्कृतं कदळीचूतपनसगोस्तनी फलराशिभिः ॥३२॥
नारङ्ग शृङ्गगिबेरैल मरीचैर्लिकुचादिभिः उपदंशैः शरःचन्द्र गौरगोदधिसङ्गतं ॥३३॥
जम्बीररसकैसर्या हिङ्गुसैन्धवनागरैः लसताजलतक्रेणपानीयेन समाश्रितं ॥३४॥
हेमपात्रेषु सरसं साङ्गर्येणचकल्पितं नित्यतृप्त जगन्नाथ तारकारे सुरेश्वर ॥३५॥
नैवेद्यं गृह्यतां देव कृपया भक्तवत्सल सर्वलोकैक वरद मृत्यो दुर्दैत्यरक्षसां ॥३६॥
गन्धोदकेन ते हस्तौ क्षाळयामि षडानन एलालवङ्गकर्पूर जातीफलसुगन्धिलां ॥३७॥
वीटीं सेवय सर्वेश चेटीकृतजगत्रय दत्तेर्नीराजयामित्वां कर्पूरप्रभयानय ॥३८॥
पुष्पाञ्जलिं प्रदास्यामि स्वर्णपुष्पाक्षतैर्युतं चत्रेणचामरेणापि नृत्तगीतादिभिर्गुह ॥३९॥
राजोपचारैखिलैः सन्तुष्टोभवमत्प्रभो प्रदक्षिणं करोमित्वां विश्वात्मकनमोऽस्तुते ॥४०॥
सहस्रकृत्वो रचये शिरसा तेभिवादनां अपराधसहस्राणि सहस्व करुणाकर ॥४१॥
नमः सर्वान्तरस्थाय नमः कैवल्यहेतवे श्रुतिशीर्षकगम्याय नमः शक्तिधरायते ॥४२॥
मयूरवाहनस्येदं मानसं च प्रपूजनं यः करोति सकृद्वापि गुहस्तस्य प्रसीदति ॥४३॥
॥इति श्री सुब्रह्मण्यमानसिकपूजासमाप्तम् ॥

N/A

References :
Encoded and proofread by antaratma

Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP