मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
शिवयोसूनुजायास्तु श्रितमन...

श्री सुब्रह्मण्यमङ्गळाष्टकं - शिवयोसूनुजायास्तु श्रितमन...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


शिवयोसूनुजायास्तु श्रितमन्दार शाखिने । शिखिवर्यातुरङ्गाय सुब्रह्मण्याय मङ्गळं ॥
भक्ताभीष्टप्रदायास्तु भवमोग विनाशिने । राजराजादिवन्द्याय रणधीराय मङ्गळं ॥
शूरपद्मादि दैतेय तमिस्रकुलभानवे । तारकासुरकालाय बालकायास्तु मङ्गळं ॥
वल्लीवदनराजीव मधुपाय महात्मने । उल्लसन्मणि कोटीर भासुरायास्तु मङ्गळं ॥
कन्दर्पकोटिलावण्यनिधये कामदायिने । कुलिशायुधहस्ताय कुमारायास्तु मङ्गळं ॥
मुक्ताहारलसत् कुण्ड राजये मुक्तिदायिने । देवसेनासमेताय दैवतायास्तु मङ्गळं ॥
कनकाम्बरसंशोभि कटये कलिहारिणे । कमलापति वन्द्याय कार्तिकेयाय मङ्गळं ॥
शरकाननजाताय शूराय शुभदायिने । शीतभानुसमास्याय शरण्यायास्तु मङ्गळं ॥
मङ्गळाष्टकमेतन्ये महासेनस्यमानवाः । पठन्ती प्रत्यहं भक्त्याप्राप्नुयुस्तेपरां श्रियं ॥
॥इति सुब्रह्मण्य मङ्गळाष्टकं सम्पूर्णं ॥
॥इतर मङ्गळ श्लोकानि ॥
नित्योत्सवो भवत्येषां नित्यश्रीर्नित्य मङ्गळं । येषां हृदिस्थो भगवान् मङ्गळायतनं गुहः ॥
राजाधिराजवेषाय राजत् कोमळपाणये । राजीवचारुनेत्राय सुब्रह्मण्याय मङ्गळं ॥

॥इतिः ॥

N/A

References :
Encoded and proofread byAntaratma

Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP