मराठी मुख्य सूची|स्तोत्रे|राम स्तोत्रे|
यो नित्यमच्युतपदाम्बुजयुग...

शरणागति गद्यम् - यो नित्यमच्युतपदाम्बुजयुग...

श्री राम हा विष्णूचा सातवा अवतार आहे.


यो नित्यमच्युतपदाम्बुजयुग्मरुक्म -व्यामोहतस्तदितराणि तृणाय मेने ।
अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः रामानुजस्य चरणौ शरणं प्रपद्ये ॥

वन्दे वेदान्त कर्पूर चामीकरकरण्डकम् रामानुजार्यमार्याणां चूडामणि महर्निशम् ॥

श्री रङ्गनायिका रामानुज संवादः ॥
श्री रामानुजः - - -

भगवन्नारायणाभिमतानुरूप स्वरूपरूप गुणविभव ऐश्वर्य शीलाद्यनवधिकातिशय असंख्येय कल्याणगुणगणां पद्मवनालयां भगवतीं श्रियं देवीं नित्यानपायिनीं निरवद्यां देवदेवदिव्यमहिषीम् अखिलजगन्मातरम् अस्मन्मातरम् अशरण्यशरण्याम् अनन्यशरणः शरणमहं प्रपद्ये ॥

पारमार्थिक भगवच्चरणारविन्दयुगळ ऐकान्तिकात्यन्तिक परभक्ति परज्ञान परमभक्तिकृत परिपूर्णानवरत नित्यविशदतम अनन्यप्रयोजन अनवधिकातिशयप्रिय भगवदनुभवजनित अनवधिकातिशय प्रीतिकारित अशेषावस्थोचित अशेषशेषतैकरतिरूप नित्यकैङ्कर्यप्राप्त्यपेक्षया पारमार्थिकी भगवच्चरणारविन्द शरणागतिः यथावस्थिता अविरताऽस्तु मे ॥

श्री रङ्गनायिका - - -

अस्तु ते । तयैव सर्वं संपत्स्यते ॥

॥ श्री रङ्गनाथ रामानुज संवादः ॥

श्री रामानुजः - - -

अखिलहेयप्रत्यनीक कल्याणैकतान ! स्वेतर समस्तवस्तुविलक्षण  अनन्तज्ञानानन्दैकस्वरूप ! स्वाभिमतानुरूप एकरूप अचिन्त्य दिव्याद्भुत नित्यनिरवद्य निरतिशय औज्ज्वल्य सौन्दर्य सौगन्ध्य सौकुमार्य लावण्य  यौवनाद्यनन्तगुणनिधिदिव्यरूप !

स्वाभाविकानवधिकातिशय ज्ञानबलैश्वर्य वीर्यशक्ति तेजस्सौशील्य वात्सल्य मार्दव आर्जव सौहार्द साम्य कारुण्य माधुर्य गाम्भीर्य औदार्य  चातुर्य स्थैर्य धैर्य शौर्य पराक्रम सत्यकाम सत्यसङ्कल्प कृतित्व कृतज्ञताद्यसंख्येय कल्याणगुणगणौघमहार्णव !

स्वोचितविविधविचित्र अनन्ताश्चर्य नित्य निरवद्य निरतिशयसुगन्ध निरतिशयसुखस्पर्श निरतिशयौज्ज्वल्य किरीट मकुट चूडावतंस मकरमुण्डल ग्रैवेयक हार केयूर कटक श्रीवत्स कौस्तुभ मुक्तादाम उदरबन्धन पीताम्बर काञ्चीगुण नूपुराद्यपरिमित दिव्यभूषण ! स्वानुरूप अचिन्त्यशक्ति शङ्खचक्र गदासि शार्ङ्गद्यसंख्येय नित्यनिरवद्य निरतिशय कल्याणदिव्यायुध !

स्वाभिमत नित्यनिरवद्यानुरूप स्वरूप रूप गुण विभव ऐश्वर्य शीलाद्यनवधिकातिशय असंख्येय कल्याणगुणगणश्रीवल्लभ !  एवंभूतभूमिनीळानायक !

स्वच्छन्दानुवर्ति स्वरूपस्थितिप्रवृत्तिभेद अशेषशेषतैकरतिरूप नित्यनिरवद्यनिरतिशय ज्ञानक्रियैश्चर्याद्यनन्त कल्याणगुणगण शेष शेषाशन गरुडप्रमुख नानाविध अनन्तपरिजन परिचारिका परिचरित चरणयुगळ !

परमयोगिवाङ्मनसाऽपरिच्छेद्य स्वरूपस्वभाव स्वाभिमत विविधविचित्रानन्त भोग्य भोगोपकरण भोगस्थानसमृद्ध अनन्ताश्चर्य अनन्तमहाविभव अनन्तपरिमाण नित्य निरवद्य निरतिशय श्रीवैकुण्ठनाथ !

स्वसङ्कल्पानुविधायि स्वरूपस्थितिप्रवृत्ति स्वशेषतैकस्वभाव प्रकृति पुरुष कालात्मक विविध विचित्रानन्त भोग्य भोक्तृवर्ग भोगोपकरण भोगस्थानरूप निखिलजगदुदय विभव लयलील !

सत्यकाम! सत्यसङ्कल्प ! परब्रह्मभूत ! पुरुषोत्तम महाविबूते ! श्रीमन्!  नारायण! वैकुण्ठनाथ !

अपार कारुण्य सौशील्य वात्सल्य औदार्य ऐश्वर्य सौन्दर्य महोदधे !  अनालोचितविशेष अशेषलोकशरण्य ! प्रणतार्तिहर !  आश्रितवात्सल्यैकजलधे! अनवरतविदित निखिलभूतजातयाथात्म्य!  अशेषचराचरभूत निखिलनियमननिरत! अशेषचिदचिद्वस्तु शेषिभूत!  निखिलजगदाधार! अखिलजगत्स्वामिन्! अस्मत्स्वामिन्! सत्यकाम!  सत्यसङ्कल्प! सकलेतरविलक्षण! अर्थिकल्पक! आपत्सख! श्रीमन्!  नारायण! अशरण्यशरण्य! अनन्यशरणः त्वत्पादारविन्दयुगळं  शरणमहं प्रपद्ये ॥

अत्र द्वय( मनुसन्देय) म् ।

"पितरं मातरं दारान् पुत्रान् बन्धून् सखीन् गुरून् । रत्नानि धनधान्यानि क्षेत्राणि च गृहाणि च ॥
सर्वधर्माश्च संत्यज्य सर्वकामांश्च साक्षरान् । लोकविक्रान्तचरणौ शरणं तेऽव्रजं विभो! ॥"
"त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च गुरुस्त्वमेव । त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥
पिताऽसि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्र येऽप्यप्रतिमप्रभाव ! ॥"
"तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् । पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥"
मनोवाक्कायैरनादिकालप्रवृत्त अनन्त अकृत्यकरण कृत्याकरण भगवदपचार भागवतापचार असह्यापचाररूप नानाविध अनन्तापचारान्
आरब्धकार्यान् , अनारब्धकार्यान् , कृतान् , क्रियमाणान् , करिष्यमाणांश्च सर्वान् अशेषतः क्षमस्व ।
अनादिकालप्रवृत्तविपरीतज्ञानं , आत्मविषयं   कृत्स्नजगद्विषयं च , विपरीतवृत्तं च अशेषविषयं , अद्यापि वर्तमानं वर्तिष्यमाणं च सर्वं क्षमस्व ॥
मदीयानादिकर्मप्रवाहप्रवृत्तां , भगवत्स्वरूपतिरोधानकरीं , विपरीतज्ञानजननीं , स्वविषयायाश्च भोग्यबुद्धेर्जननीं , देहेन्द्रियत्वेन भोग्यत्वेन सूक्ष्मरूपेण च अवस्थितां , दैवीं गुणमयीं मायाम् ,
 " दासभूतः शरणागतोऽस्मि तवास्मि दासः, "
 इति वक्तारं मां तारय ।

"तेषां ज्ञानी नित्ययुक्तः एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥
बहूनां जन्मनामस्ते ज्ञानवान् मां प्रपद्यते ।वासुदेवः सर्वमिति स महात्मा सुदुर्लभः " ॥

इति श्लोकत्रयोदितज्ञानिनं मां कुरुष्व ।

" पुरुषः स परः पार्थ ! भक्त्या लभ्यस्त्वनन्यया " , "भक्त्या
त्वनन्यया शक्यः", "मद्भक्तिं लभते पराम्"
इति स्थानत्रयोदितपरभक्तियुक्तं मां कुरुष्व ।
परभक्तिपरज्ञानपरमभक्त्येकस्वभावं मां कुरुष्व ।
परभक्ति परज्ञान परमभक्तिकृत परिपूर्णानवरत नित्यविशदतम अनन्यप्रयोजन अनवधिकातिशयप्रिय भगवदनुभवोऽहं , तथाविध
भगवदनुभवजनित अनवधिकातिशय प्रीतिकारित अशेषावस्थोचित अशेषशेषतैकरतिरूप नित्यकिङ्करो भवानि ।

श्री रङ्गनाथः - - - -
एवंभूत मत्कैङ्कर्यप्राप्त्युपायतया अवकॢप्तसमस्तवस्तुविहीनोऽपि , अनन्त तद्विरोधिपापाक्रान्तोऽपि , अनन्त मदपचारयुक्तोऽपि , अनन्त मदीयापचारयुक्तोऽपि , अनन्त असह्यापचारयुक्तोऽपि , एतत्कर्यकारणभूत अनादि विपरीताहङ्कार विमूढात्मस्वभावोऽपि , एतदुभयकार्यकारणभूत अनादि विपरीतवासनासंबद्धोऽपि , एतदनुगुण प्रकृतिविशेषसंबद्धोऽपि , एतन्मूल आध्यात्मिक आधिभौतिक आधिदैविक सुखदुःख तद्धेतु तदितरोपेक्षणीय विषयानुभव ज्ञानसंकोचरूप मच्चरणारविन्दयुगळ एकान्तिकात्यन्तिक परभक्ति परज्ञान परमभक्तिविघ्नप्रतिहतोऽपि , येनकेनापि प्रकारेण द्वयवक्ता त्वम् , केवलं मदीययैव दयया , निश्शेषविनष्ट सहेतुक मच्चरणारविन्दयुगळ एकान्तिकत्यन्तिक परभक्ति परज्ञान परमभक्तिविघ्नः , मत्प्रसादलब्ध मच्चरणारविन्दयुगळ एकान्तिकात्यन्तिक परभक्ति परज्ञान परमभक्तिः , मत्प्रसादादेव साक्षात्कृत यथावस्थित मत्स्वरूपरूपगुणविभूति लीलोपकरणविस्तारः , अपरोक्षसिद्ध मन्नियाम्यता मद्दास्यैकरसात्मस्वभावात्मस्वरूपः , मदेकानुभवः , मद्दास्यैकप्रियः ,  परिपूर्णानवरत नित्यविशदतम अनन्यप्रयोजन अनवधिकातिशयप्रिय मदनुभवस्त्वं तथाविध मदनुभवजनित अनवधिकातिशय प्रीतिकारित अशेषावस्थोचित अशेषशेषतैकरतिरूप नित्यकिंकरो भव ।
एवंभूतोऽसि ।
आध्यात्मिक आधिभौतिक आधिदैविक दुःखविघ्नगन्धरहितस्त्वं द्वयमर्थानुसन्धानेन सह सदैवं वक्ता यावच्छ रीरपातं अत्रैव श्रीरङ्गे सुखमास्व ॥ शरीरपातसमये तु केवलं मदीययैव दयया अतिप्रबुद्धः , मामेवावलोकयन् ,  अप्रच्युत पूर्वसंस्कारमनोरथः , जीर्णमिव वस्त्रं सुखेन इमां प्रकृतिं
स्थूलसूक्ष्मरूपां विसृज्य , तदानीमेव मत्प्रसादलब्ध मच्चरणारविन्दयुगळ एकान्तिकात्यन्तिक परभक्ति परज्ञान परमभक्तिकृत परिपूर्णानवरत नित्य विशदतम अनन्यप्रयोजन अनवधिकातिशयप्रिय मदनुभवस्त्वं तथाविध मदनुभवजनित अनवधिकातिशय प्रीतिकारित अशेषावस्थोचित अशेषशेषतैकरतिरूप नित्यकिङ्करो भविष्यसि ॥

मातेऽभूदत्र संशयः ।
"अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।"
" रामो द्विर्नाभिभाषते ।"
" सकृदेव प्रपन्नाय तवास्मीति च याचते ।
अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम ॥"
" सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥"
इति मयैव ह्युक्तम् ।
अतस्त्वं तव तत्त्वतो मद्ज्ञानदर्शन प्राप्तिषु निस्संशयः सुखमास्व ॥
अन्त्यकाले स्मृतिर्यातु तव कैङ्कर्यकारिता । तामेनां भगवन्नद्य क्रियामाणां कुरुष्व मे ॥

इति श्री भगवद्रामानुज विरचिते गद्यत्रय प्रबन्धे शरणागति गद्यम
सर्वं श्री कृष्णार्पणमस्तु

N/A

References : N/A
Last Updated : July 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP