TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

उपदेशसाहस्री - उपदेश १८

भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे.


उपदेश १८
येनात्मना विलीयन्त उद्भवन्ति च वृत्तयः । नित्यावगतये तस्मै नमो धीप्रत्ययात्मने ॥
प्रमथ्य वज्रोपमयुक्तिसंभृतैः श्रुतेररातीञ् शतशो वचोऽसिभिः । ररक्ष वेदार्थिनिधिं विशालधीर्नमो यतीन्द्रियाय गुरोर्गरीयसे ॥
नित्यमुक्तः सदेवास्मीत्येवं चेन् न भवेन् मतिः । किमर्थं श्रावयत्येवं मातृवच्छ्रुतिरादृता ॥
सिद्धादेवाहमित्यस्माद् युष्मद्धर्मो निषिध्यते । रज्ज्वामिवाहिधीर्युक्त्या तत् त्वमित्यादिशासनैः ॥
शास्त्रप्रामण्यतो ज्ञेया धर्मादेरस्तिता यथा । विषापोहो यथा ध्यानाद् ह्नुतिः स्यात् पाप्मनस्तथा ॥
सद् ब्रह्माहं करोमीति प्रत्ययावात्मसाक्षिकौ । तयोरज्ञानजस्यैव त्यागो युक्ततरो मतः ॥
सदस्मीति प्रमाणोत्था धीरन्या तन्निबोद्भवा । प्रत्यक्षादिनिभा वापि बाध्यते दिग्भ्रमादिवत् ॥
कर्ता भोक्तेति यच्छास्त्रं लोकबुद्ड्यनुवादि तत् । सदस्मीति  श्रुतेर्जाता बाध्यतेऽनित्यैतयैव धीः ॥
सदेव त्वमसीत्युक्ते नात्मनो मुक्ततां स्थिराम् । प्रपद्यते प्रसंचक्षामतो युक्त्यानुचिन्तयेत् ॥
सकृदुक्तं न गृह्णाति वाक्यार्थज्ञोऽपि यो भवेत् । अपेक्षतेऽत एवान्यदवोछाम द्वयं हि तत् ॥
नियोगोऽप्रतिपन्नत्वात् कर्मणां स यथा भवेत् । अविरुद्धो भवेत् तावद् यावत् संवेद्यतादृढा ॥
चेष्टितं च तथा मिथ्या स्वच्छन्दः प्रतिपद्यते । प्रसंख्यानमतः कार्यं यावदात्मानुभूयते ॥
सदस्मीति च विज्ञानमक्षजो बाधते ध्रुवम् । शब्दोत्थं दृढसंस्कारो दोषैश्चाकृष्यते बहिः ॥
श्रुतानुमानजन्मानौ सामान्यविषयौ यतः । प्रत्ययावक्षजोऽवश्यं वीशेषार्थो  निवारयेत् ॥
वाक्यार्थप्रत्ययी कश्चिन् निर्दुःखो नोपलभ्यते । यदि वा दृश्यते कश्चिद् वाक्यार्थश्रुतिमात्रतः ॥
निर्दुःखोऽतीतदेहेषु कृतभावोऽनुमीयते । चर्या नोऽशास्त्रसंवेद्या स्यादनिष्टं तथा सति ॥
सदसीति फलं चोक्त्वा विधेयं साधनं यतः । न तदन्यत् प्रसंख्यानात् प्रसिद्धार्थमिहेष्यते ॥
तस्मादनुभवायैव प्रसंचक्षीत यत्नतः । त्यजन् साधनतत्साध्यविरुद्धं शमनादिमान् ॥
नैतदेवं रहस्यानां नेतिनेत्यवसानतः । क्रियासाध्यं पुरा श्राव्यं न मोक्षो नित्यसिद्धतः ॥
पुत्रदुःखं यथाध्यस्तं नित्यादुःखे स्व आत्मनि । अहंकर्त्रा तथाध्यस्तं पित्रादुःखे स्व आत्मनि ॥
सोऽध्यासो नेति नेतीति प्राप्तवत् प्रतिषिध्यते । भूयोऽध्यासविधिः कश्चित् कुतश्चिन् नोपपद्यते ॥
आत्मनीह यथाध्यासः प्रतिषेधस्तथैव च । मलाध्यासनिषेधौ खे क्रियेते च यथाबुधैः ॥
प्राप्तश्चेत् प्रतिषिध्येत मोक्षोऽनित्यो भवेद् ध्रुवम् । अतोऽप्राप्तनिषेधोऽयं दिव्यग्निचयनादिवत् ॥
संभाव्यो गोचरे शब्दः प्रत्ययो वा न चान्यथा । न संभाव्यौ तदात्मत्वादहंकर्तुस्तथैव च ॥
अहंकर्त्रात्मनि न्यस्तं चैतन्ये कर्तृतादि यत् । नेति नेतीति तत् सर्वं साहंकर्त्रा निषिध्यते ॥
उपलभिः स्वयंज्योतिर्दृशिः प्रत्यक्षदक्रियः । साक्षात् सर्वानतरः साक्षी चेता नित्योऽगुणोऽद्वयः ॥
संनिधौ सर्वदा तस्य स्यात् तदाभोऽभिमानकृत् । आत्मात्मीयं द्वयं चातः स्यादहंममगोचरः ॥
जातिकर्मादिमत्त्वाद् धि तस्मिञ् शब्दस्त्वहंकृति । न कश्चिद् वर्तते शब्दस्तदभावात् स्व आत्मनि  ॥
आभासो यत्र तत्रैव शब्दाः प्रत्यग्दृशिं स्थिताः । लक्षयेयुर्न साक्षात् तमभिदध्युः कथंचन ॥
नह्यजात्यादिमान् कश्चिदर्थः शब्दैर्निरूप्यते ।आत्माभासो यतोऽहंकृदात्मशब्दैस्तथोच्यते ॥
उल्मुकादौ यथाग्न्यर्थाः परार्थत्वान् न चाञ्जसा । मुखादन्यो मुखाभासो यथादर्शानुकारतः ॥
आभासान् मुखमप्येवमादर्शानुवर्तनात् । अहंकृत्यात्मनिर्भासो मुखाभासवदिष्यते ॥
मुखवत् स्थित आत्मान्योऽविविक्तौ तौ तथैव च । संसारी च स इत्येक आभासो यस्त्वहंकृति ॥
वस्तु च्छाया स्मृतेरन्यन् माधुर्यादि च कारणम् । ज्ञैकदेशो विकारो वा तदाभासाश्रयः परे ॥
अहंकर्तैव संसारी स्वतन्त्र इति केचन । अहंकारादिसंतानः संसारी नान्वयी पृथक् ॥
इत्येवं सौगता आहुस्तत्र न्यायो विचार्यताम् । संसारिणां कथा त्वास्तां प्रकृतं त्वधुनोच्यते ॥
मुखाभासो य आदर्शे धर्मो नान्यतरस्य सः । द्वयोरेकस्य  चेद् धर्मो वियुक्तेऽन्यतरे भवेत् ॥
मुखेन व्यपदेशात् स मुखस्यैवेति चेन् मतम् । नादर्शानुविधानाच् च मुखे सत्यविभावतः ॥
द्वयोरेवेति चेत् तन् न द्वयोरेवाप्यदर्शनात् । अदृष्टस्य सतो दृष्टिः स्याद् राहोश्चन्द्रसूर्ययोः ॥
राहोः प्रागेव वस्तुत्वं सिद्धं शास्त्रप्रमाणतः । छायापक्षे त्ववस्तुत्वं तस्य स्यात् पूर्वयुक्तितः ॥
छायाक्रान्तेर्निषेधोऽयं न तु वस्तुत्वसाधकः । न ह्यर्थान्तरनिष्टं सद् वाक्यमर्थान्तरं वदेत् ॥
माधुर्यादि च यत् कार्यमुष्णद्रव्याद्यसेवनात् । छायाया न त्वदृष्टत्वादपामेव च दर्शनात् ॥
आत्माभासाश्रयाश्चैवं मुखाभासाश्रया यथा । गम्यते शास्त्रयुक्तिभ्यामाभासासत्त्वमेव च ॥
न दृशेरविकारित्वादाभासस्याप्यवस्तुतः । नाचितित्वादहंकर्तुः कस्य संसारिता भवेत् ॥
अविद्यामात्र एवातः संसारोऽस्त्वविवेकतः । कूटस्थेनात्मना नित्यमात्मवानात्मनीव सः ॥
रज्जुसर्पो यथा रज्ज्वा सात्मकः प्राग् विवेकतः । अवस्तुसन्नपि ह्येष कूटस्थेनात्मना तथा ॥
आत्माभासाश्रयश्चात्मा प्रत्ययैः स्वैर्विकारवान् । सुखी दुःखी च संसारी नित्य एवेति केचन ॥
आत्माभासापरिज्ञानाद् यथात्म्येन विमोहिताः । अहंकर्तारमात्मेति मन्यन्ते ते निरागमाः ॥
संसारो वस्तुसंस्तेषां कर्तृभोक्तृत्वलक्षणः । आत्माभासाश्रयाज्ञानात् संसरन्त्यविवेकतः ॥
चैतन्याभासता बुद्धेरात्मनस्तत्स्वरूपता । स्याच् चेत् तं ज्ञानशब्दैश्च वेदः शास्तीति युज्यते ॥
प्रकृतिप्रत्ययार्थौ यौ भिन्नावेकाश्रयौ यथा । करोति गच्छतीत्यादौ दृष्टौ लोकप्रसिद्धितः ॥
नानयोर्द्व्याश्रयत्वं तु लोके दृष्टं स्मृतौ तथा । जानात्यर्थेषु को हेतुर्द्व्याश्रयत्वे निगद्यताम् ॥
आत्माभासस्तु तिण्वाच्यो धात्वर्थश्च धियः क्रिया । उभयं चाविवेकेन जानातीत्युच्यते मृषा ॥
न बुद्धेरवबोधोऽस्ति नात्मनो विद्यते क्रिया । अतो नान्यतरस्यापि जानातीति च युज्यते ॥
नाप्यतो भावशब्देन ज्ञप्तिरित्यपि युज्यते । न ह्यात्मा विक्रियामात्रो नित्य आत्मेतिशासनात् ॥
न बुद्धेर्बुद्धिवाच्यत्वं करणं न ह्य्कर्तृकम् । नापि ज्ञायत इत्येवं कर्मशब्दैर्निरुच्यते ॥
न येषामेक एवात्मा निर्दुःखोऽविक्रियः सदा । तेषां स्याच्छब्दवाच्यत्वं ज्ञेयत्वं चात्मनः सदा ॥
यदाहंकर्तुरात्मत्वं तदा शब्दार्थमुख्यता । नाशनायादिमत्त्वात् तु श्रुतौ तस्यात्मतेष्यते ॥
हन्त तर्हि न मुख्यार्थो नापि गौणः कथंचन । जानातीत्यादिशब्दस्य गतिर्वाच्या तथापि तु ॥
शब्दानामयथार्थत्वे वेदस्याप्यप्रमाणता । सा च नेष्टा ततो ग्राह्या गतिरस्य प्रसिद्धितः ॥
प्रसिद्धिर्मूढलोकस्य यदि ग्राह्या निरात्मता । लोकायतिकसिद्धान्तः स चानिष्टः प्रसज्यते ॥
अभियुक्तप्रसिद्धिश्चेत् पूर्ववद् दुर्विवेकता । गतिशून्यं न वेदोऽयं प्रमाणं संवदत्युत ॥
आदर्शमुखसामान्यं मुखस्येष्टं हि मानवैः । मुखस्य प्रतिबिम्बो हि मुखाकारेण दृश्यते ॥
यत्र यस्यावभासस्तु तयोरेवाविवेकतः । जानातीति क्रियां सर्वो लोको वक्ति स्वभावतः ॥
बुद्धेः कर्तृत्वमध्यस्य जानातीति ज्ञ उच्यते । तथा चैतन्यमध्यस्य ज्ञत्वं बुद्धेरिहोच्यते ॥
स्वरूपं चात्मनो ज्ञानं नित्यं ज्योतिः श्रुतेर्यतः । न बुद्ध्या क्रियते तस्मान् नात्मनान्येन वा सदा ॥
देहेऽहंप्रत्ययो यद्वज् जानातीति च लौकिकाः । वदन्ति ज्ञानकर्तृत्वं तद्वद् बुद्धेस्तथात्मनः ॥
बौद्धैस्तु प्रत्ययैरेवं क्रियमाणैश्च चिन्निभैः । मोहिताः क्रिअये ज्ञानमित्याहुस्तार्किका जनाः ॥
तस्माज् ज्ञाभासबुद्धीनामविवेकात् प्रवर्तिताः । जानातीत्यादिशब्दश्च प्रत्ययो या च तत्स्मृतिः ॥
आदर्शानुविधायित्वं छायाया अस्यते मुखे । बुद्धिधर्मानुकारित्वं ज्ञाभासस्य तथेष्यते ॥
बुद्धेस्तु प्रत्ययास्तस्मादात्माभासेन दीपिताः । ग्राहका इव भासन्ते दहन्तीवोल्मुकादयः ॥
स्वयमेवावभास्यन्ते ग्राहकाः स्वयमेव च । इत्येवं ग्राहकास्तीत्वं प्रतिषेधन्ति सौगताः ॥
यद्येवं नान्यदृश्यास्ते किं तद्वारणमुच्यताम् । भावाभावौ हि तेषां यौ नान्यग्राह्यौ सदा यदि ॥
अन्वयि ग्राहकस्तेषामित्येतदपि तत्समम् । अचितित्वस्य तुल्यत्वादन्यस्मिन् ग्राहके सति ॥
अध्यक्षस्य समीपे तु सिद्धिः स्यादिति चेन् मतम् । नाध्यक्षेऽनुपकारित्वादन्यत्रापि प्रसञ्गतः ॥
अर्थी दुःखी च यः श्रोता स त्वध्यक्षोऽथवेतरः । अध्यक्षस्य च दुःखित्वमर्थित्वं च न ते मतम् ॥
कर्ताध्यक्षः सदस्मीति नैव सद्ग्रहमर्हति । सदेवासीति मिथ्योक्तिः श्रुतेरपि न युज्यते ॥
अविविच्योभयं वक्ति श्रुतिश्चेत् स्याद् ग्रहस्तथा । अस्मदस्तु विविच्यैव त्वमेवेति वदेद् यदि ॥
प्रत्ययान्वयिनिष्ठत्वमुक्तो दोषः प्रसज्यते । त्वमित्यध्यक्षनिष्ठश्चेदहमध्यक्षयोः कथम् ॥
संबन्धो वाच्य एवात्र येन त्वमिति लक्षयेत् । द्रष्टृदृश्यत्वसंबन्धो यद्यध्यक्षेऽक्रिये कथम् ॥
अक्रियत्वेऽपि तादात्म्यमध्यक्षस्य भवेद् यदि । आत्माध्यक्षो ममास्तीति संबन्धाग्रहणे न धीः ॥
संबन्धग्रहणं शास्त्रादिति चेन् मन्यसे न हि ।
पूर्वोक्ताः स्युस्त्रिधा दोषा ग्रहो वा स्यान् ममेति च ॥
अदृशिर्दृशिरूपेण भाति बुद्धिर्यदा सदा । प्रत्यया अपि तस्याः स्युस्तप्तायोविस्फुलिञ्गवत् ॥
आभासस्तदभावश्च दृशेः सीम्नो न चान्यथा । लोकस्य युक्तितः स्यातां तद्ग्रहश्च तथा सति ॥
नन्वेवं दृशिसंक्रान्तिरयःपिण्डेऽग्निवद् भवेत् । मुखाभासवदित्येतदादर्शे तन् निराकृतम् ॥
कृष्णायो रोहिताभासमित्येतद् दृष्टमुच्यते । दृष्टदार्ष्टान्तुल्यत्वं न तु सर्वात्मना क्वचित् ॥
तथैव चेतनाभासं चित्तं चैतन्यवद् भवेत् । मुखाभासो यथादर्श आभासश्चोदितो मृषा ॥
चित्तं चेतनमित्येतच्छास्त्रयुक्तिविवर्जितम् । देहस्यापि प्रसञ्गः स्याच् चक्षुरादेस्तथैव च ॥
तदप्यस्त्विति चेत् तन् न लोकायतिकसंगतेः । न च धीर्दृशिरस्मीति यद्याभासो न चेतसि ॥
सदस्मीति धियोऽभावे व्यर्थं स्यात् तत् त्वमस्यपि । युष्मदस्मद्विवेकज्ञे स्यादर्थवदिदं वचः ॥
ममेदंप्रत्ययौ ज्ञेयौ युष्मद्येव न संशयः । अहमित्यस्मदीष्टः स्यादयमस्मीति चोभयोः ॥
अन्योन्यापेक्षया तेषां प्रधानगुणतेष्यते । विशेषनविशेष्यत्वं तथा ग्राह्यं हि युक्तितः ॥
ममेदं द्वयमप्येतन् मध्यमस्य विशेषणम् । धनी गोमान् यथा तद्वद् देहोऽहंकर्तुरेव  च ॥
बुद्ध्यारूढं सदा सर्वं साहंकर्त्रा च साक्षिणः । तस्मात् सर्वावभासो ज्ञः किंचिदप्यस्पृशन् सदा ॥
प्रतिलोममिदं सर्वं यथोक्तं लोकबुद्धितः । अविवेकधियामस्ति नास्ति सर्वं विवेकिनाम् ॥
अन्वयव्यतिरेकौ हि पदार्थस्य पदस्य च । स्यादेतदहमित्यत्र युक्तिरेवावधारणे ॥
नाद्राक्षमहमिति अस्मिन् सुषुप्तेऽन्यन् मनागपि । न वारयति दृष्टिं स्वां प्रत्ययं तु निषेधति ॥
स्वयंज्योतिर्न हि द्रष्टुरित्येवं संविदोऽस्थिताम् । कौटस्थ्यं च तथा तस्याः प्रत्ययस्य च लुप्तताम् ।
स्वयमेवाब्रवीच्  छास्त्रं प्रत्ययावगती पृथक् ॥
एवं विज्ञातवाक्यार्थे श्रुतिलोकप्रसिद्धितः । श्रुतिस्तत् त्वमसीत्याह श्रोतुर्मोहापनुत्तये ॥
ब्रह्मा दाशरथेर्यद्वदुक्तैवापानुदत् तमः । तस्य विष्णुत्वसंबोधे न यत्नान्तरमूचिवान् ॥
अहंशब्दस्य या निष्ठा ज्योतिषि प्रत्यगात्मनि । सैवोक्ता सदसीत्येवं फलं तत्र विमुक्तता ॥
श्रुतमात्रे न चेत् स्यात् कार्यं तत्र भवेद् ध्रुवम् । व्यवहारात् पुरापीष्टः सद्भावः स्वयमात्मनः ॥
अशनायादिनिर्मुक्त्यै  तत्काला जायते प्रमा । तत्त्वमस्यादिवाक्यार्थे त्रिषु कालेष्वसंशयः ॥
प्रतिबन्धविहीनत्वात् स्वयं चानुभवात्मनः । जायेतैव प्रमा तत्र स्वात्मन्येव न संशयः ॥
किं सदेवाहमस्मीति किं वान्यत् प्रतिपद्यते । सदेव चेदहंशब्दः सता मुख्यार्थ इष्यताम् ॥
अन्यच् चेत् सदहंग्राहप्रतिपत्तिर्मृषैव सा । तस्मान् मुख्यग्रहे नास्ति वारणावगतेरिह ॥
प्रत्ययी प्रत्ययश्चैव यदाभासौ तदर्थता । तयोरचितिमत्त्वाच् च चैतन्ये कल्प्यते फलम् ॥
कूटस्थेऽपि फलं योग्यं राजनीव जयादिकम् । तदनात्मत्वहेतुभ्यां क्रियायाः प्रत्ययस्य च ॥
आदर्शस्तु यदाभासो मुखाकारः स एव सः । यथैवं प्रत्ययादर्शो यदाभासस्तदा ह्यहम् ॥
इत्येवं प्रतिपत्तिः स्यात् सदस्मीति च नान्यथा । तत् त्वमित्युपदेशोऽपि द्वाराभावादनर्थकः ॥
श्रोतुः स्यादुपदेशश्चेदर्थवत्त्वं तथा भवेत् । अध्यक्षस्य न चेदिष्टं श्रोतृत्वं कस्य तद् भवेत् ॥
अध्यक्षस्य समीपे स्याद् बुद्धेरेवेति चेन् मतम् । न तत्कृतोपकारोऽस्ति काष्ठाद् यद्वन् न कल्प्यते ॥
बुद्धौ चेत् तत्कृतः कश्चिन् नन्वेवं परिणामिता । आभासेऽपि च को दोषः सति श्रुत्याद्यनुग्रहे ॥
आभासे परिणामश्चेन् न रज्ज्वादिनिभत्ववत् । सर्पादेश्च तथावोचमादर्शे च मुखत्ववत् ॥
नात्माभासत्वसिद्धिश्चेदात्मनो ग्रहणात् पृथक् । मुखादेस्तु पृथक्सिद्धिरिह त्वन्योन्यसंश्रयः ॥
अध्यक्षस्य पृथक्सिद्धावाभासस्य तदीयता । आभासस्य तदीयत्वे ह्यध्यक्षव्यतिरिक्तता ॥
नैवं स्वप्ने पृथक्सिद्धेः प्रत्ययस्य दृशेस्तथा । रथादेस्तत्र शून्यत्वात् प्रत्ययस्यात्मना ग्रहः ॥
अवगत्या हि संव्याप्तः प्रत्ययो विषयाकृतिः । जायते स यदाकारः स बाह्यो विषयो मतः ॥
कर्मेप्सिततमत्वात् स तद्वान् कार्ये नियुज्यते । आकारो यत्र चार्प्येत करणं तदिहोच्यते ॥
यदाभासेन संव्याप्तः स ज्ञातेति निगद्यते । त्रयमेतद् विविच्यात्र यो जानाति स आत्मवित् ॥
सम्यक्संशयमिथ्योक्ताः प्रत्यया व्यभिचारिणः । एकैवावगतिस्तेषु भेदस्तु प्रत्ययार्पितः ॥
आधिभेदाद् यथा भेदो मणेरवगतेस्तथा । अशुद्धिः परिणामश्च सर्वं प्रत्ययसंश्रयात् ॥
प्रथनं ग्रहणं सिद्धिः प्रत्ययानामिहान्यतः । आपरोक्ष्यात् तदेवोक्तमनुमानं प्रदीपवत् ॥
किमज्ञं ग्राहयेत् कश्चित् प्रमाणेन तु केनचित् । विनैव तु प्रमाणेन निवृत्त्यान्यस्य शेषतः ॥
शब्देनैव प्रमाणेन निवृत्तिश्चेदिहोच्यते । अध्यक्षस्याप्रसिद्धत्वाच्छून्यतैव प्रसज्यते ॥
चेतनस्त्वं कथं देह इति चेन् नाप्रसिद्धितः । चेतनस्यान्यतासिद्धावेवं स्यादन्यहानतः ॥
अध्यक्षः स्वयमस्त्येव चेतनस्यापरोक्षतः । तुल्य एवं प्रबोधः स्यादज्ञस्यासत्त्ववादिना ॥
अहमज्ञासिषं चेदमिति लोकस्मृतेरिह । करणं कर्म कर्ता च सिद्धास्त्वेकक्षणे किल ॥
प्रामाण्येऽपि स्मृतेः शैघ्र्याद् यौगपद्यं विभाव्यते । क्रमेण ग्रहणं पूर्वं स्मृतेः पश्चात् तथैव च ॥
अज्ञासिषमिदं मां चेत्यपेक्षा जायते धुर्वम् । विशेषोऽपेक्ष्यते यत्र तत्र नैवैककालता ॥
आत्मनो ग्रहणे चापि त्रयाणामिह संभवात् । आत्मन्यासक्तकर्तृत्वं न स्यात् करणकर्मणः ॥
व्याप्तुमिष्टं च यत् करतुः क्रियया कर्म तत् स्मृतम् । अतो हि कर्तृतन्त्रत्वं तस्येष्टं नान्यतन्त्रता ।
शब्दाद् वानुमितेर्वापि प्रमाणाद् वा ततोऽन्यतः । सिद्दिः सर्वपदार्थानां स्यादज्ञं प्रति नान्यथा ॥
अध्यक्षस्यापि सिद्धिः स्यात् प्रमाणेन विनैव वा । विना स्वस्य प्रसिद्धिस्तु नाज्ञं प्रत्युपयुज्यते ॥
तस्यैवाज्ञत्वमिष्टं चेज् ज्ञातत्वेऽन्या मितिर्भवेत् । अन्यस्यैवाज्ञतायां च तद्विज्ञाने ध्रुवा भवेत् ॥
ज्ञातता स्वामलाभो वा सिद्धिः स्यादन्यदेव वा । ज्ञातत्वेऽनन्तरक्तौ त्वं पक्षौ संस्मर्तुमर्हसि ॥
सिद्धिः स्यात् स्वात्मलाभश्चेद् यत्नस्तत्र निरर्थकः । सर्वलोकप्रसिद्धत्वात् स्वहेतुभ्यस्तु वस्तुनः ॥
ज्ञानज्ञेयादिवादेऽतः सिद्धिर्ज्ञातत्वमुच्यते । अध्यक्षाध्यक्ष्ययोः सिद्डिर्ज्ञेयत्वं नात्मलाभता ॥
स्पष्टत्वं कर्मकर्त्रादेः सिद्धता यदि कल्प्यते । स्पष्टतास्पष्टते स्यातामन्यस्यैव न चात्मनः ॥
अद्रष्टुर्नैव चान्धस्य स्पष्टीभावो घटस्य तु । कर्त्रादेः स्पष्टतेष्टा चेद् द्रष्टृताध्यक्षकर्तृका ॥
अनुभूतेः किमन्यस्मिन् स्यात् तवापेक्षया वद । अनुभवितरीष्टा स्यात् सोऽप्यनुभूतिरेव नः ॥  
'अभिन्नोऽपि हि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते'॥
भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते । सत्त्वं नाशित्वमस्याश्चेत् सकर्तृत्वं थतेष्यताम् ।
न कश्चिच् चेष्यते धर्म इति चेत् पक्षहानता ॥  
नन्वस्तित्वादयो धर्मा नास्तित्वादिनिवृत्तयः । न भूतेस्तर्हि नाशित्वं स्वालक्षण्यं हि ते ॥
स्वलक्षणावधिर्नाशो नाशोऽनाशनिवृत्तिता । अगोरसत्त्वं गोत्वं ते न तु तद् गोः स्वलक्षणम् ॥
क्षणवाच्योऽपि योऽर्थः स्यात् सोऽप्यन्याभाव एव ते । भेदाभावेऽप्यभावस्य भेदो नामभिरिष्यते ॥
नामभेदैरनेकत्वमेकस्य स्यात् कथं तव । अपोहो यदि भिन्नानां वृत्तिस्तस्य कथं गवि ॥
नाभावा भेदकाः सर्वे विशेषा वा कदाचन । नामजात्यादयो यद्वत् संविदस्तेऽविशेषतः ॥
प्रत्यक्षमनुमानं वा व्यवहारे यदीच्छसि । द्रियादारकभेदैस्तदभ्युपेयं ध्रुवं भवेत् ॥
तस्मान् नीलं तथा पीतं घटादिर्वा विशेषणम् । संविदस्तदुपेत्यं स्याद् येन चाप्यनुभूयते ॥
रूपादीनां यथान्यः स्याद् ग्राह्यत्वाद् ग्राहकस्तथा । प्रत्ययसय थतान्यः स्याद् व्यञ्जकत्वाच् च दीपवत् ॥
अध्यक्षस्य दृशेः कीदृक् संबन्धः संभविष्यति । अध्यकृयेण तु दृश्येन मुक्त्वान्यो द्रष्टृदृश्यताम् ॥
अध्यक्षेण कृता दृष्टिर्दृश्यं व्याप्नोत्यतापि वा । नित्याध्यक्षकृतः दश्चिदुपकारो भवेद् धियाम् ॥
स चोक्तस्तन्निभत्वं प्राक् संव्याप्तिश्च घटादिषु । यथालोकादिसंव्याप्तिर्व्यञ्जकत्वाद् ध्यस्थता ॥
आलोकस्थो घटो यद्वद् बुद्ध्यारूढो भवेत् तथा । धीव्याप्तिः स्याद् घटारोहो धियो व्याप्तौ कर्मो भवेत् ॥
पूर्वं स्यात् प्रत्ययव्याप्तिस्ततोऽनुग्रह आत्मनः । कृत्स्नाध्यक्षस्य सोऽयुक्तः कालाकाशादिवत् क्रमः ॥
विषयग्रहणं यस्य कारणापेक्षया भवेत् । सत्येव ग्राह्यशेषे च परिणामी स चित्तवत् ॥
अध्यक्षोऽहमिति ज्ञानं बुद्धेरेव विनिश्चयः । नाध्यक्षस्याविशेषत्वान् न तस्यास्ति परो यतः ॥
कर्त्रा चेदहमित्येवमनुभूयेत मुक्तता । सुखदुःखविनिर्मोको नाहंकर्तरि युज्यते ॥
देहादावभिमानोत्थो दुःखीति प्रत्ययो ध्रुवम् । कुण्डलिप्रत्ययो यद्वत् प्रत्यगात्माभिमानिना ॥
बाध्यते प्रत्ययेनेह विवेकेनाविवेकवान् । विपर्ययेऽसदन्तं स्यात् प्रमाणस्याप्रमाणतः ॥
दाहच्छेदविनाशेषु दुःखित्वं नान्यथात्मनः । नैव ह्यन्यस दाहादावन्यो दुःखी भवेत् क्वचित् ॥
अस्पर्शत्वाददेहत्वान् नाहं दाह्यो यतः सदा । तस्मान् मिथ्याभिमानोत्थं मृते पुत्रे मृतिर्यथा ॥
कुण्डल्यहमिति ह्येतद् बाध्येतैव विवेकिना । दुःखीति प्रत्ययस्तद्वत् केवलाहंधिया सदा ॥
सिद्धे दुःखित्व इष्टं स्यात् तच्छकित्वं सदात्मनः । मिथ्याभिमानतो दुःखी तेनार्थापादनक्षयः ॥
अस्पर्शोऽपि यथा स्पर्शमचलश्चलनादि च । अविवेकात् तथा दुःखं मानसं चात्मनीक्षते ॥
विवेकात्मधिया दुःखं नुद्यते चल्चआदिवत् । अविवेकस्वभावेन नमो गच्छत्यनिच्छतः ॥
तदानुदृश्यते दु; खं नैश्चल्ये नैव तस्य तत् । प्रत्यगात्मनि तस्मात् तद् दु; खं नैवोपपद्यते ॥
त्वंसतोर्तुल्यनीडतआन् नीलाश्ववदिदं भवेत् । निर्दुःखवाचिना योगात् त्वंशब्दस्य तदर्थता ॥
प्रत्यगात्माभिहानेन तच्छब्दस्य युतेस्तथा । दशमस्त्वमसीत्येवं वाक्यं स्यात् प्रत्यफ़ात्मनि ॥
स्वार्थस्य ह्यप्रहाणेन विशिष्टार्थसमर्पकौ । प्रत्यगात्मावगत्यन्तौ नान्योऽर्थोऽर्थाद् विरोध्यतः ॥
नवबुद्ध्यपहाराद् धि स्वात्मानं दशपूर१अम् । असश्यञ् ज्ञातुमेवेच्छेत् स्वमात्मानं जनस्तथा ॥
अविद्याबद्धचक्षुष्ट्वात् कामापहृतधीः सदा । विविक्तं दृशिमात्मानं नेक्षते दशमं यथा ॥
दशमस्त्वमसीत्येवं तत्त्वमस्यादिवाक्यतः । स्वमात्मानं विजानाति कृत्स्नान्तःकरणेक्षणम् ॥
इदं पूर्वमिदं पश्चात् पदं वाद्ये भवेदिति । नियमो नैव वेदेऽस्ति पदसांगत्यमर्थतः ॥
वाक्ये हि श्रूयमाणानां पदानामर्थसंस्मृतिः । अन्वयव्यतिरेकाभ्यां ततो वाक्यार्थबोधनम् ॥
यदा नित्येषु वाक्येषु पदार्थस्तु विविच्यते । वाक्यार्थज्ञानसंक्रान्त्यै तदा प्रश्नो न युज्यते ॥
अन्वयव्यतिरेकोक्तिः पदार्थस्मरणाय तु । स्मृत्यभावे न वाक्यार्थो ज्ञातुं शक्यो हि केनचित् ॥
तत्त्वमस्यादिवाक्येषु त्वंपदार्थाविवेकतः । व्यज्यते नैव वाक्यार्थो नित्यमुक्तोऽहमित्यतः ॥
अन्वयव्यतिरेकोक्तिस्तद्विवेकाय नान्यथा । त्वंपदार्थविवेके हि पाणावर्पितविल्ववत् ॥
वाक्यार्थो व्यज्यते चैवं केवलोऽहंपदार्थतः । दुःखीत्येतदपोहेन प्रत्यगात्मविनिश्चयात् ॥
तत्रैवं संभवत्यर्थे श्रुतहानाश्रुतार्थधिः । नैवं कल्पयितुं युक्ता पदवाक्यार्थकोविदैः ॥
प्रत्यक्षादीनि बाधेरन् कृष्णलादिषु पाकवत् । अक्षजादिनिभैरेतैः कथं स्याद् वाक्यबाधनम् ॥
दुःख्यस्मीति सति ज्ञाने निर्दुःखीति न जायते । प्रत्यक्षादिनिभत्वेऽपि वाक्यान् न व्यभिचारतः ॥
स्वप्ने दुःख्यहमद्यासं दाहच्छेदादिहेतुतः । तत्कालभाविभिर्वाक्यैर्न बाधः क्रियते यदि ॥
समाप्तेस्तर्हि दुःखस्य प्राक् च तद्बाध इष्यताम् । न हि दुःखस्य संतानो भ्रान्तेर्वा दृश्यते क्वचित् ॥
प्रत्यगात्मन आत्मत्वं दुःख्यस्मीत्यस्य बाधया । दशमं नवमस्येव वेद चेदविरुद्धता ॥
नित्यमुक्तत्वविज्ञानं वाक्याद् भवति नान्यतः । वाक्यार्थस्यापि विज्ञानं पदार्थस्मृतिपूर्वकम् ॥
अन्वयव्यतिरेकाभ्यां पदार्थः स्मर्यते ध्रुवम् । एवं निर्दुःखमात्मानमक्रियं प्रतिपद्यते ॥
सदेवेत्यादिवाक्येभ्यः प्रमा स्फुटतरा भवेत् । दशमस्त्वमसीत्यस्माद् यथैवं प्रत्यगात्मनि ॥
प्रबोधेन यथा स्वाप्नं सर्वं दुःखं निवर्तते । प्रत्यगात्मधिया तद्वद् दुःखित्वं सर्वदात्मनः ॥
कृष्णलादौ प्रमाजन्म तदन्यार्थामृदुत्वतः । तत्त्वमस्यादिवाक्येषु न त्वेवमविरोधतः ॥
वाक्ये तत् त्वमसीत्यस्मिञ् ज्ञातार्थं तदसिद्वयम् । त्वमर्थस्मृत्यसाहाय्याद् वाक्यं नोत्पादयेत् प्रमाम् ॥
तत्त्वमोस्तुल्यनीडार्थमसीत्येतत् पदं भवेत् । तच्छब्दः प्रत्यगात्मार्थस्तच्छब्दार्थस्त्वमस्तथा ॥
दुःखित्वाप्रत्यगात्मत्वं वारयेतामुभावपि । एवं च नेतिनेत्यर्थं गमयेतां परस्परम् ॥
एवं तत् त्वमसीत्यस्य गम्यमाने फले कथम् । अप्रमाणत्वमस्योद्त्वा क्रियापेक्ष्त्वमुच्यते ॥
तस्मादाद्यन्तमध्येषु कुर्वित्येतद् विरोध्यतः । न कल्प्यमश्रुतत्वाच् च श्रुतत्यागोऽप्यनर्थकः ॥
यथानुभूयते तृप्तिर्भुजेर्वाक्यान् न गम्यते । वाद्यस्य विधृतिस्तद्वद् गोशकृत्पायसिक्रिय ॥
सत्यमेवमनात्मार्थे वाक्यात् पारोक्षबोधनम् । प्रत्यगात्मनि न त्वेवं संह्याप्राप्तिवदध्रुवम् ॥
स्वसंवेद्यत्वपर्यायः स्वप्रमाणक इष्यताम् । निवृत्तावह्मः सिद्धः स्वात्मनोऽनुभवश्च नः ॥
बुद्धीनां विषयो दुःखं ता यस्य विषया मताः । कुतोऽस्य दुःखसंबन्धो दृशेः स्यात् प्रत्यगात्मनः ॥
दृशिरेवानुभूयेत स्वेनैवानुभवात्मना । तदाभासतया जन्म धियोऽस्यान्भवः स्मृतः ॥
अशनायादिनिर्मुक्तः सिद्धो मोक्षस्त्वमेव सः । श्रोतव्यादि तवेत्येतद् विरुद्धं कथमुच्यते ॥
सेत्स्यतीत्येव चेत् तत् स्याच्छ्रवणादि तदा भवेत् । मोक्षस्यानित्यतैवं स्याद् विरोध्येवान्यथा वचः ॥
श्रोतृश्रोतव्ययोर्भेदो यदीष्तः स्याद् भवेदिदम् । इष्टार्थकोप एवं स्यान् न युक्तं सर्वथा वचः ॥
सिद्धो मोक्षोऽहमित्येवं ज्ञात्वात्मानं भवेद् यदि । चिकीषुर्यः स मूढात्मा शास्त्रं चोद्घाटयत्यपि ॥
न हि सिद्धस्य कर्तव्यं सकार्यस्य न सिद्धता । उभयालम्बनं कुर्वन्नात्मानं वञ्चयत्यसौ ॥
सिद्धो मोक्षस्त्वमित्येतद् वस्तुमात्रं प्रदर्श्यते । श्रोतुस्तथात्वविज्ञाने प्रवृत्तिः स्यात् कथं त्विति ॥
कर्ता दुःख्यहमस्मीति प्रत्यक्षेनानुभूयते । कर्ता दुःखी च मा भूवमिति यत्नो भवेत् ततः ॥
तद्विज्ञानाय युक्त्यादि कर्तव्यं श्रुतिरब्रवीत् । कर्तृत्वाद्यनुवादेन सिद्धत्वानुभयाय तु ॥
निर्दुःखो निष्क्रियोऽकामः सिद्धो मोक्षोऽहमित्यपि । गृहीत्वैवविरुद्धार्थमादध्यात् कथमेव सः ॥
सकामः सक्रियोऽसिद्ध इति मेऽनुभवः कथम् । अतो मे विपरीतस्य तद् भवान् वक्तुमर्हति ॥
इहैव घटते प्रश्नो न मुक्तत्वानुभूतये । प्रमानेन विरोधी यः सोऽत्रार्थः प्रश्नमर्हति ॥
अहं निर्मुक्त इत्येष सदसीत्यन्यमानजः । प्रत्यक्षाभासजन्यत्वाद् दुःखित्वं प्रश्नमर्हति ॥
पृष्टमाकाण्क्षितं वाच्यं दुःखाभावमभीप्सितम् । कथं हीदं निवर्तेत दुःखं सर्वात्मना मम ॥
इति प्रश्नानुरूपं यद् वाच्यं दुःखनिवर्तकम् । श्रुतेः स्वात्मनि नाशण्का प्रमाण्ये सति विद्यते ॥
तस्मादात्मविमुक्तत्वं प्रत्याययति तद्वचः । वक्तव्यं तु तह्तार्थं स्याद् विरोधेऽसति केनचित् ॥
इतोऽन्योऽनुभवः कश्चिदात्मनो नोपपद्यते । अविज्ञातं विजानतां विज्ञातारमिति श्रुतेः ॥
त्वंपदार्थविवेकाय संन्यासः सर्वकर्मणाम् ।  साधनत्वं व्रजत्येव शान्तो दान्तादिशासनात् ॥
त्वमर्थं प्रत्यगात्मानं पश्येदात्मानमात्मनि । वाक्यार्थं तत आत्मानं सर्वं पश्यति केवलम् ॥
सर्वमात्मेति वाक्यार्थे विज्ञातेऽस्य प्रमाणतः । असत्त्वे ह्यन्यमानस्य विधिस्तं योजयेत् कथम् ॥
तस्माद् वाद्यार्थविज्ञानान् नोर्ध्वं कर्मविधिर्भवेत् । न हि ब्रह्मास्मि कर्तेति विरुद्धे भवतो धियौ ॥
ब्रह्मास्मीति हि विद्येयं नैव कर्तेती बाध्यते । सकामो बद्ध इत्येवं प्रमाणाभासजातया ॥
शास्त्राद् ब्रह्मास्मि नान्योऽहमिति बुद्धिर्भवेद् दृधा । यदायुक्ता तदैवं धीर्यथा देहात्मधीरिति ॥
सभयादभयं प्राप्तस्तदर्थं यतते च यः । स पुनः सभयं गन्तुं स्वतन्त्रश्चेन् न हीच्छति ॥
यथेष्टाचरणप्राप्तिः संन्यासादिविधौ कुतः । पदार्थाज्नानबुद्धस्य वाद्यार्थानुभवार्थिनः ॥
अतः सर्वमिदं सिद्धं यत् प्रागस्माभिरीर्तम् ॥ 
यो हि यस्माद् विरक्तः स्यान् नासौ तस्मै प्रवर्तते । लोकत्रयाद् विरक्त्वान् मुम्क्षुः किमितीहते ॥ 
क्षुधया पिड्यमानोऽपि न विषं ह्यत्तुमिच्छति । मिष्टान्नध्वस्ततृड् जानन् नामूढस्तज् जिघत्सति ॥ 
वेदान्तवाक्यपुष्पेभ्यो ज्ञानामृतमधूत्तमम् । उज्जहारालिवद् यो नस्तस्मै सद्गुरवे नमः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:21.0530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

वचस्येकं मनस्येकं कर्मण्येकं दुरात्मने

  • दुष्ट मनुष्य तोंडानें एक गोष्ट बोलतो, त्याच्या मनांत दुसरीच असते व व तो तिसरीच कांहीं तरी करतो. ओठांत एक आणि पोटांत एक. मनस्यन्यद्वचस्यन्यत्कार्येचान्यद् दुरात्मनाम् । मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ॥ -सुर-५५.५० तु ०- अहो कुटिलबुद्धीनां दुर्ग्राहमसतां मनः। अन्यद्वचसि कण्ठेन्यदन्यदोष्ठपुटेस्थितम् । -सुर ५६.८७. 
RANDOM WORD

Did you know?

सत्यनारायण पूजेला धर्मशास्त्रीय आधार आहे काय? हे व्रत किती पुरातन आहे?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.