उपदेश २
प्रैषेद्धुमशक्यत्वान् नेति नेतीति शेषितम् । इदं नाहमिदं नाहमित्यद्धा प्रतिपद्यते ॥
इदंधीरिदमात्मोत्था वाचारम्भञगोचरा । निषिद्धात्मोद्भवत्वात् सा न पुनर्मानतां व्रजेत् ॥
पूर्वबुद्धिमबाधित्वा नोत्तरा जायते मतिः । दृषिरेकः स्वयंसिद्धः फलत्वात् स न बाध्यते ॥
इदंवनमतिक्रम्य शोकमोहादिदूषितम् । वनाद् गन्धारको यद्वत् स्वमात्मानं प्रपद्यते ॥
Translation - भाषांतर
N/A