TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

मठाम्नायमहानुशासनम्

भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे.


मठाम्नायमहानुशासनम्
प्रथमः पश्चिमाम्नायः शारदामठ उच्यते । कीटवारः सम्प्रदायस्तस्य तीर्थाश्रमौ पदे ॥१॥
द्वारकाख्यं हि क्षेत्रं स्याद् देवः सिद्धेश्वरः स्मृतः । भद्रकाली तु देवी स्याद् हस्तामलक देशिकः ॥२॥
गोमतीतीर्थममलं ब्रह्मचारी स्वरूपकः॥ सामवेदस्य वक्ता च तत्र धर्मं समाचरेत् ॥३॥
जीवात्मपरमात्मैक्य बोधो यत्र भविष्यति । तत्वमसि महावाक्यं गोत्रोऽविगत उच्यते ॥४॥
सिन्धु-सौवीर-सौराष्ट्र-महाराष्ट्रस्तथान्तराः । देशाः पश्चिमदिक्स्था ये शारदामठभागिनः ॥५॥
त्रिवेणीसङ्गमे तीर्थे तत्त्वमस्यादिलक्षणे । स्नायात्तत्त्वार्थभावेन तीर्थनाम्ना स उच्यते ॥६॥
आश्रमग्रहणे प्रौढ आशापाशविवर्जितः । यातायातविनिर्मुक्त एतदाश्रमलक्षणम्।॥७॥
कीटादयो विशेषेण वार्यन्ते यत्र जन्तवः  भूतानुकम्पया नित्यं कीटवारः स उच्यते ॥८॥
स्व-स्वरूपं विजानाति स्वधर्म-परिपालकः । स्वानन्दे क्रीडते नित्यं स्वरूपो बटुरुच्यते ॥९॥
पूर्वाम्नायो द्वितीयः स्याद् गोवर्धनमठः स्मृतः । भोगवारः सम्प्रदायो वनारण्ये पदे स्मृते ॥१०॥
पुरुषोत्तमं तु क्षेत्रं स्यांज्जगन्नाथोऽस्य देवता । विमलाख्याहि देवी स्यादाचार्यः पद्मपादकः ॥११॥
तीर्थं महोदधिः प्रोक्तं ब्रह्मचारी प्रकाशकः । महावाक्यं च तत्र स्यात् प्रज्ञानं ब्रह्म चोच्यते ॥१२॥
ऋग्वेदपठनं चैव काश्यपो गोत्रमुच्यते । अङ्गबङ्गकलिङ्गाश्च मगधोत्कलबर्बराः ।  गोवर्धनमठाधीना देशाः प्राचीव्यवस्थिताः ॥१३॥
सुरम्ये निर्जने स्थाने वने वासं करोति यः । आशाबन्धविनर्मुक्तो वननामा स उच्यते ॥१४॥
अरण्ये संस्थितो नित्यमानन्दे नन्दने वने । त्यक्त्वा सर्वमिदं विश्वमारण्यं परिकीर्त्यते ॥१५॥
भोगो विषय इत्युक्तो वार्यते येन जीविनाम् । सम्प्रदायो यतीनाञ्च भोगवारः स उच्यते ॥१६॥
स्वयं ज्योतिर्विजानाति योगयुक्तिविशारदः । तत्त्वज्ञानप्रकाशेन तेन प्रोक्तः प्रकाशकः ॥१७॥
तृतीयस्तूत्तराम्नायो ज्योतिर्नाम मठो भवेत् । श्रीमठश्चेति वा तस्य नामान्तरमुदीरितम् ॥१८॥
आनन्दवारो विज्ञेयः सम्प्रदायोऽस्य सिद्धिदः । पदानि तस्य ख्यातानि गिरिपर्वतसागराः ॥१९॥
बदरीकाश्रमः क्षेत्रं देवो नारायणः स्मृतः । पूर्णागिरि च देवी स्यादाचार्यस्तोटकः स्मृतः ॥२०॥
तीर्थं चालकनन्दाख्यं आनन्दो ब्रह्मचार्यभूत् । अयमात्मा ब्रह्म चेति महावाक्यमुदाहृतम् ॥२१॥
अथर्ववेदवक्ता च भृग्वाख्यं गोत्रमुच्यते । कुरुकाश्मीरकाम्बोजपांचालादिविभागतः ।  ज्योतिर्मठवशा देशा उदीचीदिगवस्थिताः ॥२२॥
वासो गिरिवने नित्यं गीताध्ययनतत्परः । गंभीराचलबुद्धिश्च गिरिनामा स उच्यते ॥२३॥
वसन् पर्वतमूलेषु प्रौढं ज्ञानं विभर्ति यः । सारासारं विजानाति पर्वतः परिकीर्त्यते ॥२४॥
तत्वसागरगम्भीर ज्ञानरत्नपरिग्रहः । मर्यादां वै न लङ्घ्येत सागरः परिकीर्त्यते ॥२५॥
आनन्दो हि विलासश्च वार्यते येन जीविनाम् । सम्प्रदायो यतीनां चानन्दवारः स उच्यते ॥२६॥
सत्यं ज्ञानमनन्तं यो नित्यं ध्यायेत तत्त्ववित् । स्वानन्दे रमते चैव आनन्दः परिकीर्त्यते ॥२७॥
चतुर्थो दक्षिणाम्नायः श्रृङ्गेरी तु मठो भवेत् । सम्प्रदायो भूरिवारो भूर्भवो गोत्रमुच्यते ॥२८॥
पदानि त्रीणि ख्यातानि सरस्वती भारती पुरी । रामेश्वराह्वयं क्षेत्रमादिवाराहदेवता ॥२९॥
कामाक्षी तस्य देवी स्यात् सर्वकामफलप्रदा । सुरेश्वराख्य आचार्यस्तुङ्गभद्रेति तीर्थकम् ॥३०॥
चैतन्याख्यो ब्रह्मचारी यजुर्वेदस्य पाठकः । अहं ब्रह्मास्मि तत्रैव महावाक्यं समीरितम् ॥३१॥
आन्ध्रद्रविडकर्णाटकेरलादिप्रभेदतः । श्रृङ्गेर्यधीना देशास्ते ह्यवाचीदिगवस्थिताः ॥३२॥
स्वरज्ञानरतो नित्यं स्वरवादी कवीश्वरः । संसारसागरासारहन्ताऽसौ हि सरस्वती ॥३३॥
विद्याभरेण सम्पूर्णः सर्वभारं परित्यजन् । दुःखभारं न जानाति भारती परिकीर्त्यते ॥३४॥
ज्ञानतत्त्वेन सम्पूर्णः पूर्णतत्त्वपदे स्थितः । परब्रह्मरतो नित्यं पुरीनामा स उच्यते ॥३५॥
भूरिशब्देन सौवर्ण्यं बार्यते येन जीविनाम् । सम्प्रदायो यतीनां च भूरिवारः स उच्यते ॥३६॥
चिन्मात्रं चैत्यरहितमनन्तमजरं शिवम् । यो जानाति स वै विद्वान् चैतन्यं तद्विधीयते ॥३७॥
मर्यादैषा सुविज्ञेया चतुर्मठविधायिनी । तामेतां समुपाश्रित्य आचार्याः स्थापिताः क्रमात् ॥३८॥
आम्नायाः कथिता ह्येते यतीनाञ्च पृथक्-पृथक् । तैः सर्वेश्चतुराचार्यैर्नियोगेन यथाक्रमम् ॥३९॥
प्रयोक्ततव्याः स्वधर्मेषु शासनीयास्ततोऽन्यथा । कुर्वन्तु एव सततमटनं धरणीतले ॥४०॥
विरुद्धाचरणप्राप्तावाचार्याणां समाज्ञया । लोकान् संशीलयन्त्वेव स्वधर्माप्रतिरोधतः ॥४१॥
स्व-स्वराष्ट्रप्रतिष्ठित्यै सञ्चारः सुविधीयताम् । मठे तु नियतो वास आचार्यस्य न युज्यते ॥४२॥
वर्णाश्रमसदाचारा अस्माभिर्ये प्रसाधिताः । रक्षणीयाः सदैवैते स्व-स्व भागे यथाविधि ॥४३॥
यतो विनष्टिर्महती धर्मस्यास्य प्रजायते । मान्द्यं सन्त्याज्यमेवात्र दाक्ष्यमेव समाश्रयेत् ॥४४॥
परस्परविभागे तु न प्रवेशः कदाचन । परस्परेण कर्तव्या ह्याचार्येण व्यवस्थितिः ॥४५॥
मर्यादाया विनाशेन लुप्येरन्नियमाः शुभाः । कलहाङ्गारसम्पत्तिरतस्तां परिवर्जयेत् ॥४६॥
परिव्राडार्यमर्यादो मामकीनां यथाविधि । चतुष्पीठाधिगां सत्तां प्रयुञ्ज्याच्च पृथक्-पृथक् ॥४७॥
शुचिर्जितेन्द्रियो वेद-वेदाङ्गादिविशारदः । योगज्ञः सर्वशास्त्राणां स मदास्थानमापुयात् ॥४८॥
उक्तलक्षणसम्पन्नः स्याच्चेन्मत्पीठभाग् भवेत् । अन्यथारूढपीठोऽपि निग्रहार्हो मनीषिणाम् ॥४९॥
नजातु मठमुच्छिन्द्यादिधिकारिण्युपस्थिते । विघ्नानामपि बाहुल्यादेष धर्मः सनातनः ॥५०॥
अस्मत्पीठसमारूढः परिव्राडुक्तलक्षणः । अहमेवेति विज्ञेयो यस्य देव इति श्रुतेः ॥५१॥
एक एवाविषेच्यः स्यादन्ते लक्षणसम्मतः । तत्तत्पीठे क्रमेणैव न बहु युज्यते क्वचित् ॥५२॥
सुधन्वनः समौत्सुक्यनिवृत्यै धर्म-हेतवे । देवराजोपचारांश्च यथावदनुपालयेत् ॥५३॥
केवलं धर्ममुद्दिश्य विभवो ब्रह्मचेतसाम् । विहितश्चोपकाराय पद्मपत्रनयं व्रजेत् ॥५४॥
सुधन्वा हिमहाराजस्तथान्ये च नरेश्वराः । धर्मपारम्परीमेतां पालयन्तु निरन्तरम् ॥५५॥
चातुर्वर्ण्यं यथायोग्यं वाङ्मनः कायकर्मभिः । गुरोः पीठं समर्चेत विभागानुक्रमेण वै ॥५६॥
धरामालम्ब्य राजानः प्रजाभ्यः करभागिनः । कृताधिकारा आचार्या धर्मतस्तद्वदेव हि ॥५७॥
धर्मो मूलं मनुष्याणां स चाचार्यावलम्बनः । तस्मादाचार्यसुमणेः शासनं सर्वतोऽधिकम् ॥५८॥
तस्मात् सर्वप्रयत्नेन शासनं सर्वसम्मतम् । आचार्यस्य विशेषेण ह्यौदार्यभरभागिनः ॥५९॥
आचार्याक्षिप्त दण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥६०॥
इत्येवं मनुरप्याह गौतमोऽपि विशेषतः । विशिष्टशिष्टाचारोऽपि मूलादेव प्रसिद्ध्यति ॥६१॥
तानाचार्योपदेशांश्च राजदण्डांश्च पालयेत् । तस्मादाचार्यराजानावनवद्यौ न निन्दयेत् ॥६२॥
धर्मस्य पद्धतिर्ह्येषा जगतः स्थितिहेत्वे । सर्ववर्णाश्रमाणां हि यथाशास्त्रं विधीयते ॥६३॥
कृते विश्वगुरुर्ब्रह्मा त्रेतायामृषीसत्तमः । द्वापरे व्यास एव स्यात् कलावत्र भवाम्यहम् ॥६४॥
मठाश्चत्वार आचार्याचत्वारश्चधुरन्धराः । सम्प्रदायाश्च चत्वार एषा धर्मव्यवस्थितिः ॥६५॥
अथोर्ध्वं शेषा आम्नायाः विज्ञानैक विग्रहाः । पञ्चमस्तूर्ध्व आम्नायः सुमेरुमठ उच्यते । सम्प्रदायोऽस्य काशी स्यात् सत्यज्ञानाभिधे पदे ॥६६॥
कैलासः क्षेत्रमित्युक्तं देवताऽस्य निरञ्जनः । देवी माया तथाचार्य ईश्वरोऽस्य प्रकीर्तितः ॥६७॥
तीर्थ तु मानसं प्रोक्तं ब्रह्मतत्त्वावगाहि तत् । तत्र संयोगमात्रेण संन्यासं समुपाश्रयेत् ॥६८॥
सूक्ष्मवेदस्य वक्ता च तत्र धर्मं समाचरेत् । षष्ठ स्वात्माख्य आम्नायः परमात्मा मठो महान् ॥६९॥
सत्त्वतोषः सम्प्रदायः पदं योगमनुस्मरेत् । नभः सरोवरं क्षेत्रं परहंसोऽस्य देवता ॥७०॥
देवी स्यान्मानसी माया आचार्यश्चेतनाह्वयः । त्रिपुटीतीर्थमुत्कृष्टं सर्वपुण्यप्रदायकम् ॥७१॥
भव-पाशविनाशाय संन्यासं तत्र चाश्रयेत् । वेदान्तवाक्यवक्ता च तत्र धर्मं समाचरेत् ॥७२॥
सप्तमो निष्कलाम्नायः सहस्त्रार्कद्युतिर्मठः । सम्प्रदायोऽस्य सच्छिष्यः श्रीगुरोः पादुके पदे ॥७३॥
तत्रानुभूतिः क्षेत्रं स्याद् विश्वरूपोऽस्य देवता । देवी चिच्छक्तिनाम्नी हि आचार्यः सद्गुरुः स्मृतः ॥७४॥
सच्छास्त्रश्रवणं तीर्थं जरामृत्युविनाशकम् । पूर्णनन्दप्रसादेन संन्यासं तत्र चाश्रयेत् ॥७५॥

॥इति श्रीमद्भगवत्पादस्वामि आद्यशङ्कराचार्यकृतः श्रीमन्मठाम्नायमहानुशासनम् सम्पूर्णम् ॥

Translation - भाषांतर
N/A

References :
Encoded and roofread by Ankur Nagal

Last Updated : 2016-11-11T11:55:22.1000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

advancer

  • पुरस्सारक 
  • न. अग्रित्र 
RANDOM WORD

Did you know?

वास्‍तुदोषावर आरसा काय करतो आरशांचा उपयोग कसा होतो
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site