अष्टादशशक्तिपीठ स्तोत्रम्

भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे.


लङ्कायां शाङ्करी देवी कामाक्षी काञ्चिकापुरे । प्रद्युम्ने शृङ्खलादेवी चामुण्डी क्रौञ्चपट्टणे ॥
अलम्पुरे जोगुलाम्बा श्रीशैले भ्रमराम्बिका । कोल्हापुरे महालक्ष्मी माहूर्ये एकवीरिका ॥
उज्जयिन्यां महाकाली पीठिक्यां पुरुहूतिका । ओढ्यायां गिरिजादेवी माणिक्या दक्षवाटके ॥
हरिक्षेत्रे कामरूपा प्रयागे माधवेश्वरी । ज्वालायां वैष्णवी देवी गया माङ्गल्यगौरिका ॥
वारणस्यां विशालाक्षी काश्मीरेषु सरस्वती । अष्टादश सुपीठानि योगिनामपि दुर्लभम् ॥
सायङ्काले पठेन्नित्यं सर्वशत्रुविनाशनम् । सर्वरोगहरं दिव्यं सर्वसम्पत्करं शुभम् ॥

इति अष्टादशशक्तिपीठस्तुतिः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP