उमाशतकम् - षष्ठं दशकम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


गौरि चण्डि कालिके गणाधिनायकाम्बिके
स्कन्दमातरिन्दुखण्डशेखरे परात्परे ।
व्रजनायिके प्रपञ्चराज्ञि हैमवत्युमे
भर्गपत्नि पालयेति गीयतां सदा सखे ॥५१॥

वासुदेवमुख्यनित्यदेवमौलिविस्फुर-
द्रत्रजालरश्मिजातरञ्जिताङ्ध्रिपङ्कजे ।
शीतभानुबालचूडचित्तबालडोलिके
शैलपालबालिके सदा वदामि नाम ते ॥५२॥

कल्पवल्लि गायतां नितम्बिनीमतल्लिके
नाम ते विपश्चितो निरन्तरं गृणन्ति ये ।
दैत्यजैत्रि लोकधात्रि रात्रिराण्णिभानने
शैलवंशवैजयन्ति जन्तवो जयन्ति ते ॥५३॥

आनने त्वदीयनाम पावनाच्च पावनं
यस्य पुण्यपूरुषस्य पूरुषार्धविग्रहे ।
सानुमन्महेन्द्रपुत्रि सम्मदाय भूयसे
बन्धनालयोऽपि तस्य नन्दनं वनं यथा ॥५४॥

नामकीर्तनेषु या षडाननस्य षड्विधात्
शब्दतोऽपि भाषितात्पृथक्पदाभिशोभितात् ।
उन्नतैकनादतो गजाननस्य बॄंहितात्
तृप्तिमेति पुत्रयोः समापि सा जयत्युमा ॥५५॥

मुग्धमित्रमानसे महान्धकारबन्धुरे
निद्रितमुमां निजे बहिर्गवेषयस्यहो ।
तत्प्रविश्य पश्य वेददीपकेन तां ततः
तारशब्दबोधितां विधाय साधयामृतम् ॥५६॥

आदिमो विभोः सुतो यदीयमूलमाश्रितः
कुञ्जराननो बिभर्ति सालतातनौ तता ।
अग्रतो दधाति किञ्चिदम्बुजं मरन्दव -
त्तत्र शक्त्तिरुत्तमा प्रबोधयन्ति तां विदः ॥५७॥

द्वादशान्तशायिनी हृदम्बुजान्तरस्थिता
मण्डलद्वयालया सिताद्रिशृगचारिणी ।
सर्वभूतजालभर्तुरासनार्धभागिनी
भूतिमुत्तमां तनोतु भुभृतः सुता तव ॥५८॥

क्षत्रमर्दन्प्रसूरसूरिलोकदुर्गमा
दुर्गमाटवीविहारलालसा मदालसा ।
नित्यशक्त्तिपौरुषा ममाङ्घ्रिमूलवासिनः ।
सत्यकीर्तिरार्तिजालहारिणी हरत्वधम् ॥५९॥

शक्त्तिधारिणः सवित्रि सर्वशक्त्तिमत्युमे
भक्तिमज्जनोग्रपापनिग्रहे धृतग्रहे ।
देवमौलिरत्नकान्तिधौतपादुकाय ते
सर्वमङ्घ्रये मदियमात्मना सहार्प्यते ॥६०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP