द्वितीय स्कन्धः - अध्यायः २

भागवत पुराणात पुढे येणार्‍या कलियुगात काय घडणार आहे, याबद्दलचे  सविस्तर वर्णन केले आहे.  


श्रीशुक उवाच
एवमेतन्निगदितं पृष्टवान्यद्भवान्मम
नृणां यन्म्रियमाणानां मनुष्येषु मनीषिणाम्
ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणः पतिम्
इन्द्रमिन्द्रियकामस्तु प्रजाकामः प्रजापतीन्
देवीं मायां तु श्रीकामस्तेजस्कामो विभावसुम्
वसुकामो वसून्रुद्रान्वीर्यकामोऽथ वीर्यवान्
अन्नाद्यकामस्त्वदितिं स्वर्गकामोऽदितेः सुतान्
विश्वान्देवान्राज्यकामः साध्यान्संसाधको विशाम्
आयुष्कामोऽश्विनौ देवौ पुष्टिकाम इलां यजेत्
प्रतिष्ठाकामः पुरुषो रोदसी लोकमातरौ
रूपाभिकामो गन्धर्वान्स्त्रीकामोऽप्सर उर्वशीम्
आधिपत्यकामः सर्वेषां यजेत परमेष्ठिनम्
यज्ञं यजेद्यशस्कामः कोशकामः प्रचेतसम्
विद्याकामस्तु गिरिशं दाम्पत्यार्थ उमां सतीम्
धर्मार्थ उत्तमश्लोकं तन्तुः तन्वन्पित्न्यजेत्
रक्षाकामः पुण्यजनानोजस्कामो मरुद्गणान्
राज्यकामो मनून्देवान्निरृतिं त्वभिचरन्यजेत्
कामकामो यजेत्सोममकामः पुरुषं परम्
अकामः सर्वकामो वा मोक्षकाम उदारधीः
तीव्रेण भक्तियोगेन यजेत पुरुषं परम्
एतावानेव यजतामिह निःश्रेयसोदयः
भगवत्यचलो भावो यद्भागवतसङ्गतः
ज्ञानं यदाप्रतिनिवृत्तगुणोर्मिचक्रम्
आत्मप्रसाद उत यत्र गुणेष्वसङ्गः
कैवल्यसम्मतपथस्त्वथ भक्तियोगः
को निर्वृतो हरिकथासु रतिं न कुर्यात्
 शौनक उवाच
इत्यभिव्याहृतं राजा निशम्य भरतर्षभः
किमन्यत्पृष्टवान्भूयो वैयासकिमृषिं कविम्
एतच्छुश्रूषतां विद्वन्सूत नोऽर्हसि भाषितुम्
कथा हरिकथोदर्काः सतां स्युः सदसि ध्रुवम्
स वै भागवतो राजा पाण्डवेयो महारथः
बालक्रीडनकैः क्रीडन्कृष्णक्रीडां य आददे
वैयासकिश्च भगवान्वासुदेवपरायणः
उरुगायगुणोदाराः सतां स्युर्हि समागमे
आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ
तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया
तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युत
न खादन्ति न मेहन्ति किं ग्रामे पशवोऽपरे
श्वविड्वराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः
न यत्कर्णपथोपेतो जातु नाम गदाग्रजः
बिले बतोरुक्रमविक्रमान्ये न शृण्वतः कर्णपुटे नरस्य
जिह्वासती दार्दुरिकेवसूत न चोपगायत्युरुगायगाथाः
भारः परं पट्टकिरीटजुष्टमप्युत्तमाङ्गं न नमेन्मुकुन्दम्
शावौ करौ नो कुरुते सपर्यां हरेर्लसत्काञ्चनकङ्कणौ वा
बर्हायिते ते नयने नराणां लिङ्गानि विष्णोर्न निरीक्षतो ये
पादौ नृणां तौ द्रुमजन्मभाजौ क्षेत्राणि नानुव्रजतो हरेर्यौ
जीवञ्छवो भागवताङ्घ्रिरेणुं न जातु मर्त्योऽभिलभेत यस्तु
श्रीविष्णुपद्या मनुजस्तुलस्याः श्वसञ्छवो यस्तु न वेद गन्धम्
तदश्मसारं हृदयं बतेदं यद्गृह्यमाणैर्हरिनामधेयैः
न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्षः
अथाभिधेह्यङ्ग मनोऽनुकूलं प्रभाषसे भागवतप्रधानः
यदाह वैयासकिरात्मविद्या विशारदो नृपतिं साधु पृष्टः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP