मराठी मुख्य सूची|स्तोत्रे|दशमहाविद्या स्तोत्र|
कल्याणायुतपूर्णचन्द्रवदना...

श्रीराजराजेश्वरी मन्त्रमातृकास्तवः - कल्याणायुतपूर्णचन्द्रवदना...

सती पार्वतीची दहा रूपे - काली,  तारा, छिन्नमस्ता, भुवनेश्वरी, बगलामुखी, धूमावती, त्रिपुर सुंदरी, मातंगी, षोड़शी आणि भैरवी.


कल्याणायुतपूर्णचन्द्रवदनां प्राणेश्वरानन्दिनीम्
पूर्णां पूर्णतरां परेशमहिषीं पूर्णामृतास्वादिनीम् ।
सम्पूर्णां परमोत्तमामृतकलां विद्यावतीं भारतीम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥१॥
एकारादिसमस्तवर्णविविधाकारैकचिद्रूपिणीम्
चैतन्यात्मकचक्रराजनिलयां चन्द्रान्तसञ्चारिणीम् ।
भावाभावविभाविनीं भवपरां सद्भक्तिचिन्तामणिम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥२॥
ईहाधिक्परयोगिवृन्दविदितां स्वानन्दभूतां पराम्
पश्यन्तीं तनुमध्यमां विलसिनीं श्रीवैखरीरूपिणीम् ।
आत्मानात्मविचारिणीं विवरगां विद्यां त्रिबीजात्मिकाम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥३॥
लक्ष्यालक्ष्यनिरीक्षणां निरुपमां रुद्राक्षमालाधराम्
त्र्यक्षार्धाकृतिदक्षवंशकलिकां दीर्घाक्षिदीर्घस्वराम् ।
भद्रां भद्रवरप्रदां भगवतीं भद्रेश्वरीं मुद्रिणीम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥४॥
ह्रींबीजागतनादबिन्दुभरितां ओङ्कारनादात्मिकाम्
ब्रह्मानन्दघनोदरीं गुणवतीं ज्ञानेश्वरीं ज्ञानदाम् ।
ज्ञानेच्छाक्रितिनीं महीं गतवतीं गन्धर्वसंसेविताम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥५॥
हर्षोन्मत्तसुवर्णपात्रभरितां पीनोन्नताघूर्णिताम्
हुङ्कारप्रियशब्दजालनिरतां सारस्वतोल्लासिनीम् ।
सारासारविचारचारुचतुरां वर्णाश्रमाकारिणीम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥६॥
सर्वेशाङ्गविहारिणीं सकरुणां सन्नादिनीं नादिनीम्
संयोगप्रियरूपिणीं प्रियवतीं प्रीतां प्रतापोन्नताम् ।
सर्वान्तर्गतशालिनीं शिवतनूसन्दीपिनीं दीपिनीम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥७॥
कर्माकर्मविवर्जितां कुलवतीं कर्मप्रदां कौलिनीम्
कारुण्याम्बुधिसर्वकामनिरतां सिन्धुप्रियोल्लासिनीम् ।
पञ्चब्रह्मसनातनासनगतां गेयां सुयोगान्विताम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥८॥
हस्त्युत्कुम्भनिभस्तनद्वितयतः पीनोन्नतादानताम्
हाराद्याभरणां सुरेन्द्रविनुतां शृङ्गारपीठालयाम् ।
योन्याकारकयोनिमुद्रितकरां नित्यां नवार्णात्मिकाम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥९॥
लक्ष्मीलक्षणपूर्णभक्तवरदां लीलाविनोदस्थिताम्
लाक्षारञ्जितपादपद्मयुगलां ब्रह्मेन्द्रसंसेविताम् ।
लोकालोकितलोककामजननीं लोकाश्रयाङ्कस्थिताम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥१०॥
ह्रीङ्काराश्रितशङ्करप्रियतनुं श्रीयोगपीठेश्वरीम्
माङ्गल्यायुतपङ्कजाभनयनां माङ्गल्यसिद्धिप्रदाम् ।
तारुण्येन विशेषिताङ्गसुमहालावण्यसंशोभिताम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥११॥
सर्वज्ञानकलावतीं सकरुणां सर्वेश्वरीं सर्वगाम्
सत्यां सर्वमयीं सहस्रदलगां सत्वार्णवोपस्थिताम् ।
सङ्गासङ्गविवर्जितां सुखकरीं बालार्ककोटिप्रभाम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥१२॥
कादिक्षान्तसुवर्णबिन्दुसुतनुं सर्वाङ्गसंशोभिताम्
नानावर्णविचित्रचित्रचरितां चातुर्यचिन्तामणिम् ।
चित्तानन्दविधायिनीं सुचपलां कूटत्रयाकारिणीम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥१३॥
लक्ष्मीशानविधीन्द्रचन्द्रमकुटाद्यष्टाङ्गपीठश्रिताम्
सूर्येन्द्वग्निमयैकपीठनिलयां त्रिस्थां त्रिकोणेश्वरीम् ।
गोप्त्रीं गर्वनिगर्वितां गगनगां गङ्गाङ्गेशप्रियाम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥१४॥
ह्रींकूटत्रयरूपिणीं समयिनीं संसारिणीं हंसिनीम्
वामाराध्यपदाम्बुजां सुकुलजां बीजावतीं मुद्रिणीम् ।
कामाक्षीं करुणार्द्रचित्तसहितां श्रीं श्रीत्रिमूर्त्यम्बिकाम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥१५॥
या विद्या शिवकेशवादिजननी या वै जगन्मोहिनी
या ब्रह्मादिपिपीलिकान्तजगदानन्दैकसन्दायिनी ।
या पञ्चप्रणवद्विरेफनलिनी या चित्कलामालिनी
सा पायात्परदेवता भगवती श्रीराजराजेश्वरी ॥१६॥
॥भगवती सर्वात्मिका श्रीराजराजेश्वरी पादारविन्दार्पणमस्तु ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP