TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
असितगिरिसमं स्यात् कज्जलं...

कपालीश्वराष्टकम् - असितगिरिसमं स्यात् कज्जलं...

देवी देवतांची अष्टके, आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


कपालीश्वराष्टकम्
असितगिरिसमं स्यात् कज्जलं सिन्धुः पात्रं सुरतरुवरशाखा लेखनी पत्रमूर्वी । लिखति यदि गृहीत्वा सारदा सर्वकालं तदपि तव गुणानामीश पारं न याति ॥
मधुस्पीता वाचः परमममृतं निर्मितवत- स्तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् । मम त्वेतां वाणीं गुणकथनपुण्येन भवतः पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवस्थिता ॥
तद्वाग्विसर्गो जनताघविप्लवो यस्मिन् प्रतिश्लोकमबद्धवत्यपि । नामान्यनन्तस्य यशोऽङ्कितानि यच्छृण्वन्ति गायन्ति गृणन्ति साधवः ॥
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥
लिङ्ग्यतेऽनेन इति लिङ्गम्।
गच्छन्ति भूतानि संहारे निखिलानि च। निर्गच्छन्ति यतश्चापि लिङ्गोक्तिस्तेन हेतुना ॥
ब्रह्मा विष्णुश्च रुद्रश्च त्रिखण्डमिति कथ्यते । ऊर्ध्वं तु शिवभागस्यात् विष्णुभागस्तु मध्यमः । ब्रह्माभागस्त्वधः प्रोक्तः शास्त्रज्ञैर्लिङ्गकुम्भयोः ॥
लिङ्गरूपी -लीनमर्थं गमयतीति लिङ्गम्। तद्रूपी लिङ्गरूपी । अविद्यातिरोहित-जडप्रपञ्चस्य गमकत्वं प्रकाशात्मकस्य चैतन्यस्य, तद्रूपी परमेश्वरः इत्यर्थः। तदुक्तं स्कान्दे - सूतः: - अथातः संप्रवक्ष्यामि शिवलिङ्गं समासतः । यस्य विज्ञानमात्रेण विमुक्तो मानवो भवेत् ॥शिव एव स्वयं लिङ्गं गमकमेव हि । शिवेन गम्यते सर्वं शिवो नान्येन गम्यते ॥
शंभुरेव तदा पूज्यो नान्ये विष्ण्वादयस्सुराः । यत्तत्र सर्वेऽपि सुरास्तिष्ठन्ति शिवसन्निधौ ॥अतस्तस्यार्चनं पूजा कथागुणगणस्तवम् । तन्मन्त्रस्य जपश्चैव कर्तव्यो मोक्षकांक्षिभिः ॥दारिद्र्यदुःखतान्धानां एतद्दिव्याञ्जनं स्मृतम् । ऋणार्णवनिमग्नानां उडुपोऽयं सुतारकः ॥
प्रदोषे पार्वतीनाथे महत्तन्वति ताण्डवम् । वाग्देवी वल्लवीन्धत्ते मृदङ्गं गरुडध्वजः । रमा गानकलां ब्रह्मा तालं वेणुं दिवस्पतिः ॥सर्वे चान्ये सुपर्वाणः सेवन्ते तं महेश्वरम् । पुण्यक्षेत्रं समासाद्य महालिङ्गं निषेव्य च ॥पञ्चकृत्वा नमस्कुर्यात् साष्टाङ्गं भक्तिपूर्वकम् । पांसूनां अङ्गलग्नानां एकैकस्य नमस्कृतौ ॥दिव्यवर्षसहस्रंतु शिवलोके महीयते।
दर्शनं वन्दनं लिङ्गप्रदक्षिणञ्च तर्पणम् । प्रदोषे ऋणमुक्तेः स्यात् भवतूलमहानिलः । भुक्तिर्मैथुनमभ्यङ्गं हरिदर्शनकीर्तने । व्यर्थालापं प्रदोषे तु वर्जयेद्वैदिको जनः ॥
ॐ ऋतं सत्यं परं ब्रह्म पुरुषं नृकेसरि विग्रहम् । कृष्णपिंगल-मूर्ध्वरेतं विरूपाक्षं शंकरं नीललोहितं उमापतिं पशुपतिं पिनाकिनं ह्यमितद्युति-मीशानः---॥
दिनमेतत् ततः पुण्यं भविष्यति महत्तरम् । शिवरात्रिरिति ख्याता तिथिरेषा मम प्रिया ॥
भोगावहं इदं लिङ्गं भुक्तिमुक्त्येक साधनम् । दर्शन-स्पर्शन-ध्यानाज्जन्तूनां जन्म मोचनम् ॥अनलाचल-संकाशं यदिदं लिङ्गमुत्थितम् । अरुणाचलमित्येव तदिदं ख्यातमेष्यति ॥
(तेजोलिङ्गम्।)।
विषया विनिवर्तन्ते निराहारस्य देहिनः।
माघकृष्णचतुर्दश्यां उपवासोऽतिदुर्लभः । तत्रापि दुर्लभं मन्ये रात्रौ जागरणं नृणाम् ॥
अतीव दुर्लभं तत्र शिवलिङ्गस्य दर्शनम् । सुदुर्लभतरं तत्र पूजनं परमेशितुः ॥
भव-कोटि-शतोपात्त-पुण्य-राशि-विपाकतः । लभ्यते वा पुनस्तत्र बिल्व-पत्रार्पणं विभोः ॥
वर्षाणामयुतं येन स्नातं गङ्गासरिज्जले । सकृद् बिल्वार्चनेनैव तत्फलं लभ्यते नरैः ॥
अत्रोपवासः केनापि कृतः क्रतुशतायते । रात्रौ जागरणं पुण्यं वर्ष-कोटि-तपोधिकम् ॥
एकेन बिल्व-पत्रेण शिव-लिङ्गार्चने कृते । त्रैलोक्ये तस्य पुण्यस्य को वा सादृश्यमृच्छति ॥
अहो बलवती माया येन शैवी महातिथिः । नोपास्यते जनै-र्मूढैः अतिमूर्खैरिव त्रयी ॥
उपवासो जागरणं सन्निधिः परमेशितुः । गोकर्णं शिवलोकस्य नृणां सोपान-पद्धतिः ॥
ऋषभारूढः।
"वृष सेचने"
वर्षणात् सर्वकामानांवृषभः, धर्मरूपतया सर्वकामप्रदत्वात्, तमारूढः; वृषभवाहनः इत्यर्थः।
रथस्थं वामनं दृष्ट्वा पुनर्जन्म न विद्यते ।
आत्मानं रथिनं विद्धि शरीरं रथमेव च । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥

अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानं भूतभव्यस्य न ततो विजुगुप्सते ॥
निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् । अनुव्रजाम्यहं नित्यं पूययेत्यङ्घ्रिरेणुभिः
कामेश-बद्ध-माङ्गल्यसूत्र-शोभित-कन्धरा।
अम्बिकानाथः
अम्बिकाया नाथः पतिः। इदं चार्थतः श्रुति-प्रसिद्धं नाम। "नमो हिरण्य-बाहवे हिरण्य-वर्णाय हिरण्य-रूपाय हिरण्य-पतयेऽम्बिका-पतय उमा-पतये पशु-पतये नमोनमः।
संसारार्णव-मग्नानां समुद्धरण हेतुः - संसारः जननमरणादिसमूहः स एवार्णवः, समुद्रः अपारत्वात्, तत्र मग्नानां सर्वदा दुःखनुभवितॄणां, दुःखनाशकरप्लवादिरहितानां, समुद्धरणे, तेषां दुःखनाशने हेतुः कारणं वेदान्तमहावाक्यजन्य- वृत्त्यारूढः सन् संसरपाशविच्छेदकरत्वात् ॥
"ज्ञात्वा देवं सर्वपाशापहानिरिति।" श्रुतिः ॥
विषयार्णवमग्नानां समुद्धरणसेतुः - विषयशब्देन विषयानुभवरूपसंसार उच्यते॥स एवार्णवः समुद्रः विषयार्णवः, तस्मिन् संसारसमुद्रे महति, अविद्याकामकर्मप्रभवदुःखोदके तीव्ररोगजरामृत्युमहाग्राहे अनादावनन्तेऽपारे निरालम्बे विषयेन्द्रियजनितसुखलवलक्षणविभ्रमे, पञ्चेन्द्रियोत्थतृण्मारुत-विक्षोभोत्थितानर्थशतमहोर्मिणि, महापातकाद्यनेकनिरयगते, (दुर्वारवारिचरगर्भे) हाहेत्यादि- कूजिताक्रोशनोद्भूतमहार्णवे मग्नानं समुद्धरणे सम्यगुद्धरणे सेतुरिव सेतुः । "त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा सन्निवेश्य । ब्रह्मोडुपेन प्रतरेव विद्वान् स्रोतांसि सर्वाणि भयावहानि॥" इति श्रुतिः ॥
संसार-सागर-निमज्जन-मुह्यमानं दीनं विलोकय विभो करुणानिधे माम् । प्रह्लाद-खेद-परिहार-परावतार- लक्ष्मीनृसिंह मम देहि करावलम्बम्॥
प्रह्लाद-खेद-परिहार-परावतार।
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । भवामि न चिरात्पार्थ मय्यावेशिअतचेतसाम् ॥
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥
कपालीति -कपालं ब्रह्मकपालं अस्यास्तीति कपाली। एतेन अनेक-ब्रह्मात्यय-दर्शित्व-लक्षणं सनातनत्वमुक्तं भवति ।
सदा मोहाटव्यां चरति युवतीनां कुच-गिरौ नटत्याशाशाखावटति ज़्हटिति स्वैरमभितः । कपालिन्! भिक्षो! मे हृदय-कपिमत्यन्त-चपलं दृढं बध्वा शिव भवदधीनं कुरु विभो! ॥
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।
शिवो मङ्गलरूपः। निर्माष्ठ-निखिल-दुःखानुषङ्ग-परमानन्द-रूप इत्यर्थः ।
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बिके गौरि नारायणि नमोऽस्तु ते ॥
यः शिवो नमरूपाभ्यां या देवी सर्वमङ्गला । तयोः संस्मरणात् पुंसां सर्वतो जय मङ्गलम् ॥
उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् । ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ॥
कल्पकाम्बा-कपालीशौ भक्तरक्षण-तत्परौ । तयोः अनुग्रहो यत्र वर्तते तत्र मङ्गलम् ॥
॥श्री कपालीश्वराष्टकम् ॥
कपालि-नामधेयकं कलापि-पुर्यधीश्वरं कलाधरार्ध-शेखरं करीन्द्र-चर्म-भूषितम् । कृपा-रसार्द्र-लोचनं कुलाचल-प्रपूजित,। म्व् कुबेर-मित्रमूर्जितं गणेश-पूजितं भजे ॥१॥
भजे भुजङ्ग-भूषणं भवाब्धि-भीति-भञ्जनं भवोद्भवं भयापहं सुखप्रदं सुरेश्वरम् । रवीन्दु-वह्नि-लोचनं रमा-धवार्चितं वरं ह्युमा-धवं सुमाधवी-सुभूषिअतं महागुरुम् ॥२॥
गुरुं गिरीन्द्र-धन्विनं गुह-प्रियं गुहाशयं गिरि-प्रियं नग-प्रिया-समन्वितं वर-प्रदम् । सुर-प्रियं रवि-प्रभं सुरेन्द्र-पूजितं प्रभुं नरेन्द्र-पीठ-दायकं नमाम्यहं महेश्वरम् ॥३॥
महेश्वरं सुरेश्वरं धनेश्वर-प्रियेश्वर। म् वनेश्वरं विशुद्ध-चित्त वासिनं परात्परम् । प्रमत्तवेष-धारिणं प्रकृष्ट-चित्स्वरूपिणं विरुद्ध-कर्म-कारिणं सुशिक्षकं स्मराम्यहम् ॥४॥
स्मराम्यहं स्मरान्तकं मुरारि-सेविताङ्घ्रिकं परारि-नाशन-क्षमं पुरारि रूपिणं शुभम् । स्पुअरत्-सहस्र-भानु-तुल्य तेजसं महौजसं सु-चण्डिकेश पूजितं मृडं समाश्रये सदा ॥५॥
सदा प्रहृष्ट-रूपिणं सतां प्रहर्ष-वर्षिणं भिदा विनाश-कारण प्रमाणगोचरं परम् । मुदा प्रवृत्त-नर्तनं जगत्पवित्र-कीर्तनं निदानमेकमद्भुतं नितान्तमाश्रयेह्यहम् ॥६॥
अहं-ममादि दूषणं महेन्द्र-रत्न-भूषणं महा-वृषेन्द्र-वाहनं ह्यहीन्द्र-भूषणान्वितम् । वृषाकपि-स्वरूपिणं मृषा-पदार्थ-धारिणं मृकण्डुसूनु संस्तुतं ह्यभीतिदं नमामि तम् ॥७॥
नमामि तं महामतिं नतेष्टदान-चक्षणं नतार्ति-भञ्जनोद्यतं नगेन्द्र-वासिनं विभुम् । अगेन्द्रजा समन्वितं मृगेन्द्र विक्रमान्वितं खगेन्द्र-वाहन-प्रियं सुखस्वरूपमव्ययम् ॥८॥ सुकल्पकाम्बिका-पति-प्रियंत्विदं मनोहरं सुगूडकाञ्चिरामकृष्ण योगिशिष्य संस्तुतम् । महाप्रदोष पुण्यकाल कीर्तनात्शुभप्रदं भजामहे सदामुदा कपालि मङ्गळाष्टकम् ॥९॥
कपालि तुष्टिदायकं महापदि प्रपालकं त्वभीष्ट-सिद्धि-दायकं विशिष्ट-मङ्गलाष्टकम् । पठेत्सुभक्तितः कपालि सन्निधौ क्रमात् अवाप्य सर्वमायुरादि मोदते सुमङ्गलम् ॥१०॥
इति गूडलूर् श्रीरामकृष्णानन्द यतीन्द्र शिष्य श्री रामचन्द्रेण विरचितं ॥
श्री कपालीश्वराष्टकं सम्पूर्णम् ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:51:03.6470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

उचाट

  • पु. 
  • कंटाळा ; उद्वेग ; नाखुषी ; तिटकारा . ( क्रि० घेणें ; खाणें ). 
  • ध्यास ; नाद ; उत्कंठा ; घाई ; अधीरेपणा ; अत्यौत्सुक्य ; एखादी गोष्ट करण्याचें कामीं भर . ( क्रि० भरणें ; खाणें ). 
  • n m  Impatience under. Sale by private auction. 
More meanings
RANDOM WORD

Did you know?

हिंदू स्त्रियांच्या मंगळसूत्रातील काळ्या मण्यांचे महत्त्व काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.