संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
सुन्दरगोपालम् उरवनमालं नय...

श्रीनन्दकुमाराष्टकम् - सुन्दरगोपालम् उरवनमालं नय...

देवी देवतांची अष्टके, आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


सुन्दरगोपालम् उरवनमालं नयनविशालं दुःखहरम् । वृन्दावनचन्द्रमानन्दकन्दं परमानन्दं धरणिधरम् ॥ वल्लभघनश्यामं पूर्णकामम् अत्यभिरामं प्रीतिकरम् । भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥१॥
सुन्दरवारिजवदनं निर्जितमदनम् आनन्दसदनं मुकुटधरम् । गुञ्जाकृतिहारं विपिनविहारं परमोदारं चीरहरम् ॥वल्लभपटपीतं कृतउपवीतं करनवनीतं विबुधवरम् ॥२॥ शोभितमुखधुलं यमुनाकूलं निपटअतूलं सुखदतरम् । मुखमण्डितरेणुं चारितधेनुं वादितवेणुं मधुरसुरम् । वल्लभमतिविमलं शुभपदकमलं नखरुचि अमलं तिमिरहरम् ॥३॥ शिरमुकुटसुदेशं कुञ्चितकेशं नटवरवेशं कामवरम् । मायाकृतमनुजं हलधरअनुजं प्रतिहतदनुजं भारहरम् । वल्लभव्रजपालं सुभगसुचालं हितमनुकालं भाववरम् ॥४॥
इन्दीवरभासं प्रकटसुरासं कुसुमविकासं वंशिधरम् । हृत्मन्मथमानं रूपनिधानं कृतकलगानं चित्तहरम् । वल्लभमृदुहासं कुञ्जनिवासं विविधविलासं केलिकरम् ॥५॥
अतिपरमप्रवीणं पालितदीनं भक्ताधीनं कर्मकरम् । मोहनमतिधीरं फणिबलवीरं हतपरवीरं तरलतरम् । वल्लभव्रजरमणं वारिजवदनं हलधरशमनं शैलधरम् ॥६॥
जलधरद्युतिअङ्गं ललितत्रिभङ्गं बहुकृतरङ्गं रसिकवरम् । गोकुलपरिवारं मदनाकारं कुञ्जविहारं गूढतरम् । वल्लभव्रजचन्द्रं सुभगसुछन्दं कृतआनन्दं भ्रान्तिहरम् ॥७॥ वन्दितयुगचरणं पावनकरणं जगदुद्धरणं विमलधरम् । कालियशिरगमनं कृतफणिनमनं घातितयमनं मृदुलतरम् । वल्लभदुःखहरणं निर्मलचरणम् अशरणशरणं मुक्तिकरम् ॥८॥
॥ इति श्रीमहाप्रभुवल्लभाचार्यविरचितं श्रीनन्दकुअमराष्टकं सम्पूर्णम्॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP