संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
नमस्तेऽस्तु गङ्गे त्वदङ्ग...

गङ्गाष्टकम् कालिदासकृतं - नमस्तेऽस्तु गङ्गे त्वदङ्ग...

देवी देवतांची अष्टके, आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


नमस्तेऽस्तु गङ्गे त्वदङ्गप्रसङ्गाद्भुजं गास्तुरङ्गाः कुरङ्गाः प्लवङ्गाः । अनङ्गारिरङ्गाः ससङ्गाः शिवाङ्गा भुजङ्गाधिपाङ्गीकृताङ्गा भवन्ति ॥१॥
नमो जह्नुकन्ये न मन्ये त्वदन्यैर्निसर्गेन्दुचिह्नादिभिर्लोकभर्तुः । अतोऽहं नतोऽहं सतो गौरतोये वसिष्ठादिभिर्गीयमानाभिधेये ॥२॥
त्वदामज्जनात्सज्जनो दुर्जनो वा विमानैः समानः समानैर्हि मानैः । समायाति तस्मिन्पुरारातिलोके पुरद्वारसंरुद्धदिक्पाललोके ॥३॥
स्वरावासदम्भोलिदम्भोपि रम्भापरीरम्भसम्भावनाधीरचेताः । समाकाङ्क्षते त्वत्तटे वृक्षवाटीकुटीरे वसन्नेतुमायुर्दिनानि ॥४॥
त्रिलोकस्य भर्तुर्जटाजूटबन्धात्स्वसीमान्तभागे मनाक्प्रस्खलन्तः । भवान्या रुषा प्रोढसापन्तभावात्करेणाहतास्तवत्तरङ्गा जयन्ति ॥५॥ जलोन्मज्जदैरावतोद्दानकुम्भस्फुरत्प्रस्खलत्सान्द्रसिन्दूररागे । क्कचित्पद्मिनीरेणुभङ्गे प्रसङ्गे मनः खेलतां जह्नुकन्यातरङ्गे ॥६॥
भवत्तीरवानीरवातोत्थधूलीलवस्पर्शतस्तत्क्षणं क्षीणपापः । जनोऽयं जगत्पावने त्वत्प्रसादात्पदे पौरुहूतेऽपि धत्तेऽवहेलाम् ॥७॥ त्रिसन्ध्यानमल्लेखकोटीरनानाविधानेकरत्नांशुबिम्बप्रभाभिः । स्फुरत्पादपीठे हठेनाष्टमूर्तेर्जटाअजूटवासे नताः स्मः पदं ते ॥८॥
इदं यः पठेदष्टकं जह्नुपुत्र्यास्रिकालं कृतं कालिदासेन रम्यम् । समायास्यतीन्द्रादिभिर्गीयमानं पदं कैशवं शैशवं नो लभेत्सः ॥९॥
॥ इति श्रीकालिदासकृतं गङ्गाष्टकस्तोत्रं सम्पूर्णम् ॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP