प्रबोधसुधाकरः - कर्तृत्वभोक्तृत्वप्रकरणम्

श्रीमच्छङ्करभगवतः कृतौ प्रबोधसुधाकरः

यद्वत्सूर्येऽभ्युदिते स्वव्यवहारं जनः कुरुते । तं न करोति विवस्वान्न कारयति तद्वदात्मापि ॥१३३॥ लोहे हुतभुग्व्याप्ते लोहान्तरताड्यमानेऽपि । तस्यान्तर्गतवह्नेः किं स्यान्निर्घातजं दुःखम् ॥१३४॥ निष्ठुरकुठारघातैः काष्ठे संछेद्यमानेऽपि । अन्तर्वर्ती वह्निः किं घातैश्छेद्यते तद्वत् ॥१३५॥ ब्रूते श्रुतिरपि भूयोऽनश्नन्नन्योऽभिचाकशीत्यादि ॥१३६॥ निशि वेश्मनि प्रदीपे दीप्यति चौरस्तु वित्तमपहरति । ईरयति वारयति वा तं दीपः किं तथात्मापि ॥१३७॥ गेहान्ते दैववशात्कस्मिंश्चित्समुदिते विपन्ने वा । दीपस्तुष्यत्यथवा खिद्यति किं तद्वदात्मापि ॥१३८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP