TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|
परमार्थसारम्

परमार्थसारम्

श्रीमदादिशेषप्रणीतम् परमार्थसारम्

परमार्थसारम्
॥श्रीः॥
॥अथ परमार्थसारम् ॥
ॐ परं परस्याः प्रकृतेरनादिमेकं निविष्टं बहुधा गुहासु । सर्वालयं सर्वचराचरस्थं त्वामिव विष्णुं शरणं प्रपद्ये ॥ ॥श्रीः ॥ श्रीमदादिशेषप्रणीतम् ॥परमार्थसारम् ॥ ॐ आत्माम्बुराशौ निखिलोऽपि लोको मग्नोऽपि नाचामति नेक्षते च । आश्चर्यमेतन्मृगतृष्णिकाभे भवाम्बुराशौ रमते मृषैव ॥[ गर्भगृहवाससम्भवजन्मजरामरणविप्रयोगाब्धौ । जगदालोक्य निमग्नं प्राह गुरुं प्राञ्जलिः शिष्यः ॥१॥ त्वं साङ्गवेदवेत्ता भेत्ता सँशयगणस्यर्तवक्ता । सँसारार्णवतरणप्रश्नं पृच्छाम्यहं भगवन् ॥२॥ दीर्घेऽस्मिन्सँसारे सँसरतः कस्य केन सम्बन्धः । कर्म शुभाशुभफलदमनुभवति नु गतागतैरिह कः ॥३॥ कर्मगुणजालबद्धो जीवः सँसरति कोशकार इव । मोहान्धकारगहनात्तस्य कथं बन्धनान्मोक्षः ॥४॥ गुणपुरुषविभागज्ञे धर्माधर्मौ न बन्धकौ भवतः । इति गदितपूर्ववाक्यैः प्रकृतिं पुरुषं च मे ब्रूहि ॥५॥ इत्याधारो भगवान्पृष्टः शिष्येण तं स होवाच । विदुषामप्यतिगहनं वक्तव्यमिदं शृणु तथापि त्वम् ॥६॥ सत्यमिव जगदसत्यं मूलप्रकृतेरिदं कृतं येन । तं प्रणिपत्योपेन्द्रं वक्ष्ये परमार्थसारमिदम् ॥७॥ अव्यक्तादण्डमभूदण्डाद्ब्रह्मा ततः प्रजासर्गः । मायामयी प्रवृत्तिः संहृयत इयं पुनः क्रमशः ॥८॥ मायामयोऽप्यचेता गुणकरणगणः करोति कर्माणि । तदधिष्ठाता देही स चेतनोऽपि न करोति किञ्चिदपि ॥९॥ यद्वच्चेतनमपि सन्निकटस्थे भ्रामके भ्रमति लोहम् । तद्वत्करणसमूहश्चेष्टति चिदधिष्ठिते देहे ॥१०॥ यद्वत्सवितर्युदिते करोति कर्माणि जीवलोकोऽयम् । न च तानि करोति रविर्न कारयति तद्वदात्मापि ॥११॥ मनसोऽहङ्कारविमूर्च्छितस्य चैतन्यबोधितस्येह । पुरुषाभिमानसुखदुःखभावना भवति मूढस्य ॥१२॥ कर्ता भोक्ता द्रष्टास्मि कर्मणामुत्तमादीनाम् । इति तत्स्वभावविमलोऽभिमन्यते सर्वगोऽप्यात्मा ॥१३॥ नानाविधवर्णानां वर्णं धत्ते यथामलः स्फटिकः । तद्वदुपाधेर्गुणभावितस्य भावं विभुर्धत्ते ॥१४॥ आदर्शे मलरहिते यद्वद्रूपं विचिन्वते लोकाः । आलोकयति तथात्मा विशुद्धबुद्धौ स्वमात्मानम् ॥१५॥  गच्छति गच्छति सलिले दिनकरबिम्बं स्थिते स्थितिं याति । अन्तःकरणे गच्छति गच्छत्यात्मापि तद्वदिह ॥१६॥ राहुरदृश्योऽपि यथा शशिबिम्बस्थः प्रकाशते जगति । अन्तःकरणे गच्छति गच्छत्यात्मापि तद्वदिह ॥१७॥ सर्वगतं निरुपममद्वैतं तच्चेतसा गम्यम् । यद्बुद्धिगतं ब्रह्मोपलभ्यते शिष्य बोध्यं तत् ॥१८॥ बुद्धिमनोऽहङ्कारास्तन्मात्रेन्द्रियगणाश्च भूतगणः । सँसारसर्गपरिरक्षणक्षमा प्राकृता हेयाः ॥१९॥ धर्माधर्मौ सुखदुःखकल्पना स्वर्गनरकवासश्च । उत्पत्तिनिधनवर्णाश्रमा न सन्तीह परमार्थे ॥२०॥ मृगतृष्णायामुदकं शुक्तौ रजतं भुजङ्गमो रज्ज्वाम् । तैमिरिकचन्द्रयुगवद्भ्रान्तं निखिलं जगद्रूपम् ॥२१॥ यद्वद्दिनकर एको विभाति सलिलाशयेषु सर्वेषु । तद्वत्सकलोपाधिष्ववस्थितो भाति परमात्मा ॥२२॥ खमिव घटादिष्वन्तर्बहिः स्थितं ब्रह्म सर्वपिण्डेषु । देहेऽहमित्यनात्मनि बुद्धिः सँसारबन्धाय ॥२३॥ सर्वविकल्पहीनः शुद्धो बुद्धोऽजरामरः शान्तः । अमलः सकृद्विभातश्चेतन आत्मा खवद्व्यापी ॥२४॥ रसफाणितशर्करिकागुलखण्डा विकृतयो यथैवेक्षोः । तद्वदवस्थाभेदाः परमात्मन्येव बहुरूपाः ॥२५॥ विज्ञानान्तर्यामिप्राणविराड्देहजातिपिण्डान्ताः । व्यवहारास्तस्यात्मन्येतेऽवस्थाविशेषाः स्युः ॥२६॥ रज्ज्वां नास्ति भुजङ्गः सर्पभयं भवति हेतुना केन । तद्वद्द्वैतविकल्पभ्रान्तिरविद्या न सत्यमिदम् ॥२७॥ एतत्तदन्धकारं यदनात्मन्यात्मता भ्रान्त्या । न विदन्ति वासुदेवं सर्वात्मानं नरा मूढाः ॥२८॥ प्राणाद्यनन्तभेदैरात्मानं संवितत्य जालमिव । सँहरति वासुदेवः स्वविभूत्या क्रीडमान इव ॥२९॥ त्रिभिरेव विश्वतैजसप्राज्ञैस्तैरादिमध्यनिधनाख्यैः । जाग्रत्स्वप्नसुषुप्तैर्भ्रमभूतैश्छादितं तुर्यम् ॥३०॥ मोहयतीवात्मानं स्वमायया द्वैतरूपया देवः । उपलभते स्वयमेवं गुहागतं पुरुषमात्मानम् ॥३१॥ ज्वलनाद्धूमोद्गतिभिर्विविधाकृतिरम्बरे यथा भाति । तद्वद्विष्णौ सृष्टिः स्वमायया द्वैतविस्तरा भाति ॥३२॥ शान्त इव मनसि शान्ते हृष्टे हृष्ट इव मूढ इव मूढे । व्यवहारस्थो न पुनः परमार्थत ईश्वरो भवति ॥३३॥ जलधरधूमोद्गतिभिर्मलिनीक्रियते यथा न गगनतलम् । तद्वत्प्रकृतिविकारैरपरामृष्टः परः पुरुषः ॥३४॥ एकस्मिन्नपि च घटे धूमादिमलावृते शेषाः । न भवति मलोपेता यद्वज्जीवोऽपि तद्वदिह ॥३५॥ देहेन्द्रियेषु नियताः कर्म गुणाः कुर्वते स्वभोगार्थम् । नाहं कर्ता न ममेति जानतः कर्म नैव बध्नाति ॥३६॥ अन्यशरीरेण कृतं कर्म भवेद्येन देह उत्पन्नः । तदवश्यं भोक्तव्यं भोगादेव क्षयोऽस्य निर्दिष्टः ॥  प्राग्ज्ञानोत्पत्ति चितं यत्कर्म ज्ञानशिखिशिखालीढम् । बीजमिव दहनदग्धं जन्मसमर्थं न तद्भवति ॥३७॥ ज्ञानोत्पत्तेरूर्ध्वं क्रियमाणं कर्म यत्तदपि नाम । न श्लिष्यति कर्तारं पुष्करपत्रं यथा वारि ॥३८॥ वाग्देहमानसैरिह कर्मचयः क्रियत इति बुधाः प्राहुः । एकोऽपि नाहमेषां कर्ता तत्कर्मणां नास्मि ॥३९॥ कर्मफलबीजनाशाज्जन्मविनाशो न चात्र सन्देहः । बुद्ध्वैवमपगततमाः सवितेवाभाति भारूपः ॥४०॥ यद्वदिषीकातूलं पवनोद्धूतं हि दश दिशो याति । ब्रह्मणि तत्त्वज्ञानात्तथैव कर्माणि तत्त्वविदः ॥४१॥ क्षीरादुद्धृतमाज्यं क्षिप्तं यद्वन्न पूर्ववत्तस्मिन् । प्रकृतिगुणेभ्यस्तद्वत्पृथक्कृतश्चेतनो नात्मा ॥४२॥ गुणमयमायागहनं निर्धूय यथा तमः सहस्राँशुः । बाह्याभ्यन्तरचारी सैन्धवघनवद्भवेत्पुरुषः ॥४३॥ यद्वद्देहोऽवयवा मृदेव तस्या विकारजातानि । तद्वत्स्थावरजङ्गममद्वैतं द्वैतवद्भाति ॥४४॥ एकस्मात्क्षेत्रज्ञाद्बहवः क्षेत्रज्ञजातयो जाताः । लोहगतादिव दहनात्समन्ततो विस्फुलिङ्गगणाः ॥४५॥ ते गुणसङ्गदोषाद्बद्धा इव धान्यजातयः स्वतुषैः । जन्म लभन्ते तावद्यावन्न ज्ञानवह्निना दग्धाः ॥४६॥ त्रिगुणा चैतन्यात्मनि सर्वगतेऽवस्थितेऽखिलाधारे । कुरुते सृष्टिमविद्या सर्वत्र स्पृश्यते तया नात्मा ॥४७॥ रज्ज्वां भुजङ्गहेतुः प्रभवविनाशौ यथा न स्तः । जगदुत्पत्तिविनाशौ न च कारणमस्ति तद्वदिह ॥४८॥ जन्मविनाशनगमनागममलसम्बन्धवर्जितो नित्यम् । आकाश इव घटादिषु सर्वात्मा सर्वदोपेतः ॥४९॥ कर्म शुभाशुभफलसुखदुःखैर्योगो भवत्युपाधीनाम् । तत्सँसर्गाद्बन्धस्तस्करसङ्गादतस्करवत् ॥५०॥ देहगुणकरणगोचरसङ्गात्पुरुषस्य यावदिह भावः । तावन्मायापाशैः सँसारे बद्ध इव भाति ॥५१॥ मातृपितृपुत्रबान्धवधनभोगविभागसम्मूढः । जन्मजरामरणमये चक्र इव भ्राम्यते जन्तुः ॥५२॥ लोकव्यवहारकृतां य इहाविद्यामुपासते मूढाः । ते जन्ममरणधर्माणोऽन्धं तम एत्य खिद्यन्ते ॥५३॥ हिमफेनबुद्बुदा इव जलस्य धूमो यथा वह्नेः । तद्वत्स्वभावभूता मायैषा कीर्तिता विष्णोः ॥५४॥ एवं द्वैतविकल्पां भ्रमस्वरूपां विमोहनीं मायाम् । उत्सृज्य सकलनिष्कलमद्वैतं भावयेद्ब्रह्म ॥५५॥ यद्वत्सलिले सलिलं क्षीरे क्षीरं समीरणे वायुः । तद्वद्ब्रह्मणि विमले भावनया तन्मयत्वमुपयाति ॥५६॥ इत्थं द्वैतसमूहे भावनया ब्रह्मभूयमुपयाते । को मोहः कः शोकः सर्वं ब्रह्मावलोकयतः ॥५७॥ विगतोपाधिः स्फटिकः स्वप्रभया भाति निर्मलो यद्वत् । चिद्दीपः स्वप्रभया तथा विभातीह निरुपाधिः ॥५८॥ गुणकरणगणशरीरप्राणैस्तन्मात्रजातिसुखदुःखैः । अपरामृष्टो व्यापी चिद्रूपोऽयं सदा विमलः ॥५९॥ द्रष्टा श्रोता घ्राता स्पर्शयिता रसयिता ग्रहीता च । देही देहेन्द्रियधीविवर्जितः स्यान्न कर्तासौ ॥६०॥ एको नैकत्रावस्थितोऽहमैश्वर्ययोगतो व्याप्तः । आकाशवदखिलमिदं न कश्चिदप्यत्र सन्देहः ॥६१॥ आत्मैवेदं सर्वं निष्कलसकलं यदैव भावयति । मोहगहनाद्विमुक्तस्तदैव परमेश्वरीभूतः ॥६२॥ यद्यत्सिद्धान्तागमतर्केषु प्रब्रुवन्ति रागान्धाः । अनुमोदामस्तत्तत्तेषां सर्वात्मवादधिया ॥६३॥ सर्वाकारो भगवानुपास्यते येन येन भावेन । तं तं भावं भूत्वा चिन्तामणिवत्समभ्येति ॥६४॥ नारयणमात्मानं ज्ञात्वा सर्गस्थितिप्रलयहेतुम् । सर्वज्ञः सर्वगतः सर्वः सर्वेश्वरो भवति ॥६५॥ आत्मज्ञस्तरति शुचं यस्माद्विद्वान्बिभेति न कुतश्चित् । मृत्योरपि मरणभयं न भवत्यन्यत्कुतस्तस्य ॥६६॥ क्षयवृद्धिवध्यघातकबन्धनमोक्षैर्विवर्जितं नित्यम् । परमार्थतत्त्वमेतद्यदतोऽन्यत्तदनृतं सर्वम् ॥६७॥ एवं प्रकृतिं पुरुषं विज्ञाय निरस्तकल्पनाजालः । आत्मारामः प्रशमं समास्थितः केवलीभवति ॥६८॥ नलकदलिवेणुवाणा नश्यन्ति यथा खपुष्पमासाद्य । तद्वत्स्वभावभूताः स्वभावतां प्राप्य नश्यन्ति ॥६९॥ भिन्नेऽज्ञानग्रन्थौ छिन्ने सँशयगणेऽशुभे क्षीणे । दग्धे च जन्मबीजे परमात्मानं हरिं याति ॥७०॥ मोक्षस्य नैव किञ्चिद्धामास्ति न चापि गमनमन्यत्र । अज्ञानमयग्रन्थेर्भेदो यस्तं विदुर्मोक्षम् ॥७१॥ बुद्ध्वैवमसत्यमिदं विष्णोर्मायात्मकं जगद्रूपम् । विगतद्वन्द्वोपाधिकभोगासङ्गो भवेच्छान्तः ॥७२॥ बुद्ध्वा विभक्तां प्रकृतिं पुरुषः सँसारमध्यगो भवति । निर्मुक्तः सर्वकर्मभिरम्बुजपत्रं यथा सलिलैः ॥७३॥ त्यक्त्वा सर्वविकल्पानात्मस्थं निश्चलं मनः कृत्वा । दग्धेन्धन इव वह्निः सर्वस्यात्मा भवेच्छान्तः ॥७४॥ अश्नन्यद्वा तद्वा संवीतो येनकेनचिच्छान्तः । यत्र क्वचन च शायी विमुच्यते सर्वभूतात्मा ॥७५॥ हयमेधसहस्राण्यप्यथ कुरुते ब्रह्मघातलक्षाणि । परमार्थविन्न पुण्यैर्न च पापैः स्पृश्यते विमलः ॥७६॥ मदकोपहर्षमत्सरविषादभयपरुषवर्ज्यवाग्बुद्धिः । निःस्तोत्रवषट्कारो जडवद्विचरेदगाधमतिः ॥७७॥ उत्पत्तिनाशवर्जितमेवं परमर्थमुपलभ्य । कृतकृत्यसफलजन्मा सर्वगतस्तिष्ठति यथेष्टम् ॥७८॥ व्यापिनमभिन्नमित्थं सर्वात्मानं विधूतनानात्वम् । निरुपमपरमानन्दं यो वेद स तन्मयो भवति ॥७९॥ तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन्देहम् । ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः ॥८०॥ पुण्याय तीर्थसेवा निरयाय श्वपचसदननिधनगतिः । पुण्यापुण्यकलङ्कस्पर्शाभावे तु किं तेन ॥८१॥ वृक्षाग्राच्च्युतपादो यद्वदनिच्छन्नरः क्षितौ पतति । तद्वद्गुणपुरुषज्ञोऽनिच्छन्नपि केवलीभवति ॥८२॥ परमार्थमार्गसाधनमारभ्याप्राप्य योगमपि नाम । सुरलोकभोगभोगी मुदितमना मोदते सुचिरम् ॥८३॥ विषयेषु सार्वभौमः सर्वजनैः पूज्यते यथा राजा । भुवनेषु सर्वदेवैर्योगभ्रष्टस्तथा पूज्यः ॥८४॥ महता कालेन महान्मानुष्यं प्राप्य योगमभ्यस्य । प्राप्नोति दिव्यममृतं यत्तत्परमं पदं विष्णोः ॥८५॥ ॐ वेदान्तशास्त्रमखिलं विलोक्यादिशेषो जगदाधारः । आर्यापञ्चाशीत्या बबन्ध परमार्थसारमिदम् ॥
इति भगवदादिशेषप्रणीतं परमार्थसारं सम्पूर्णम् ॥

Translation - भाषांतर

Last Updated : 2016-11-11T11:55:18.8200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

महाभूत

  • n  A primary element, as air, fire, &c. 
RANDOM WORD

Did you know?

गणेशोत्सवाच्या काळात सत्यनारायण पूजा करावी काय? मग कोणती पूजा करावी?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.