TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

नैष्कर्म्यसिद्धिः - अथ चतुर्थोऽध्यायः

श्रीज्ञानोत्तममिश्रविरचित नैष्कर्म्यसिद्धि ग्रंथ मनन करण्या योग्य आहे.

अथ चतुर्थोऽध्यायः
पूर्वाध्यायेषु यद्वस्तु विस्तरेणोदितं स्फुटम् । संक्षेपतोऽधुना वक्ष्ये तदेव सुखवित्तये ॥१॥
संक्षेपविस्तराभ्यां हि मन्दोत्तमधियां नृणाम् । वस्तूच्यमानमेत्यन्तःकरणं तेन भण्यते ॥२॥
आत्मानात्मा च लोकेऽस्मिन्प्रत्यक्षादिप्रमाणतः । सिद्धस्तयोरनात्मा तु सर्वत्रैवात्मपूर्वकः ॥३॥
अनात्मत्वं स्वतस्सिद्धं देहाद्भिन्नस्य वस्तुनः । ज्ञातुरप्यात्मता तद्वन्मध्ये संशयदर्शनम् ॥४॥
असाधारणांस्तयोर्धर्मान् ज्ञात्वा धूमाग्निवद्बुधः । अनात्मनोऽथ बुद्ध्यन्तान् जानीयादनुमानतः ॥५॥
इदमित्येव बाह्येऽर्थे ह्यहमित्येव बोद्धरि । द्वयं दृष्टं यतो देहे तेनायं मुह्यते जनः ॥६॥
केन पुनर्न्यायेनात्मानात्मनोरश्वमहिषयोरिव विभागः क्रियत इति । उच्यते । न्यायः पुरोदितोऽस्माभिरात्मानात्मविभागकृत् । तेनेदमर्थमुत्सार्य ह्यहमित्यत्र यो भवेत् ॥७॥ विद्यात्तत्त्वमसीत्यस्माद्भावाभावदृशं सदा । अनन्तरमबाह्यार्थं प्रत्यक्स्थं मुनिरञ्जसा ॥८॥
उच्यतां तर्हि कया तु परिपाय्या वाक्यार्थं वेत्तीति । उच्यते । अन्वयव्यतिरेकाभ्याम् । त्यक्तकृत्स्नेदमर्थत्वात्त्यक्तोऽहमिति मन्यते । नावगच्छाम्यहं यस्मान्निजात्मानमनात्मनः ॥९॥
अथ शरीरादिबुद्धिपर्यन्तः स सर्वोऽनात्मैवेति प्रमाणाद्विनिश्चित्य किमिति बुभुत्सातो नोपरमते । शृणु । अनुच्छिन्नबुभुत्सश्च प्रत्यग्घेतोरनात्मनः । दोलायमानचित्तोऽयं मुह्यते भौतवन्नरः ॥१०॥
अविलुप्तविज्ञानात्मन आत्मत्वादेव नित्यसान्निध्याद्बुभुत्सुः किमिति न प्रतिपद्यत इति. यस्मात् । यैरद्राक्षीत्पुरात्मानं यमनात्मेति वीक्षते । दृष्टेर्द्रष्टारमात्मानं तैः प्रसिद्धैः प्रमित्सति ॥११॥
कस्मात्पुनर्हेतोः पराचीनाभिः शब्दाद्यवलेहिनीभिर्बुद्धिभि- रात्मानमनात्मवन्न वीक्षत इति । उच्यते । चक्षुर्न वीक्षते शब्दमतदात्मत्वकारणात् । यथैवं भौतिकी दृष्टिर्नात्मानं परिपश्यति ॥१२॥
प्रत्यक्षादिप्रमाणस्वाभाव्यानुरोधेन तावत्तददर्शनकारणमुक्तम् । अथ प्रमेयस्वाभाव्यानुरोधेन प्रतिषेध उच्यते । धीविक्रियासहस्राणां हानोपादानधर्मिणाम् । सदा साक्षिणमात्मानं प्रत्यक्त्वान्नाहमीक्षते ॥१३॥
क्व पुनरियं विवेकबुद्धिः किमात्मन्युतानात्मनीति । किंचातः । यद्यात्मनि कूटस्थत्वव्याघातोऽनात्मदर्शित्वात् । अथानात्मनि तस्याप्यचैतन्यान्न विवेकसम्बन्ध इति । उच्यते । "दाह्यदाहकतैकत्र"इत्युक्तपरिहारात् । बुद्धावेव विवेकोऽयं यदनात्मतया भिदा । बुद्धिमेवोपमृद्नाति कदलीं तत्फलं यथा ॥१४॥
सोऽयमतत्त्वे तत्त्वदृक् । अनुमानप्रदीपेन हित्वा सर्वाननात्मनः । संसारैकावलम्बिन्या तदभावं धियेप्सति ॥१५॥
योऽयमन्वयव्यतिरेकजो विवेक आत्मानात्मविभाग लक्षणोऽनात्मस्थः स्थाणौ संशयावबोधवत्- प्रतिपत्तव्योऽन्यथावस्तुस्वाभाव्यान्मृगतृष्णिकोदक- प्रबोधववदित्यत आह । संसारबीजसंस्थोऽयं तद्धिया मुक्तिमिच्छति । शशो निमीलनेनेव मृत्युं परिजिहीर्षति ॥१६॥
अस्यार्थस्य द्रढिम्ने श्रुत्युदाहरणम् । इममर्थं पुरस्कृत्य श्रुत्या सम्यगुदाहृतम् । "यच्चक्षुषे"ति विस्रब्धं "न दृष्टे "रिति च स्फुटम् ॥१७॥
बुद्ध्यन्तमपविद्ध्यैवं को न्वहं स्यामितीइक्षितुः । श्रुतिस्तत्त्वमसीत्याह सर्वमानातिगामिनी ॥१८॥
एष संक्षेपतः पूर्वाध्यायत्रयस्यार्थ उक्तः । सोऽयं न्याय्योऽपि वेदान्तार्थः शास्त्राचार्यप्रसाद- लभ्योऽप्यनपेक्षितशास्त्राचार्यप्रसादोऽनन्यापेक्ष- सिद्धस्वभावत्वात्कैश्चिच्छ्रद्धधानैर्न प्रतीयते । तेषां संग्रहार्थमभिमतप्रामाण्योदाहरणम् । भगवत्पूज्यपादैश्च उदाहार्येवमेव तु । सुविस्पष्टोऽस्मदुक्तोऽर्थः सर्वभूतहितैषिभिः ॥१९॥
किं परमात्मन उपदेश उतापरमात्मन इति । किं चातः । यदि परमात्मनस्तस्योपदेशमन्तरेणैव मुक्तत्वान्निरर्थक उपदेशः । अथापरमात्मनस्तस्यापि स्वत एव संसार- स्वभावत्वान्निष्फल उपदेशः । एवमुभयत्रापि दोषवत्त्वादत आह । "अविविच्योभयं वक्ति श्रुतिश्चेत्स्याद्ग्रहस्तथा "। इति पक्षमुपादाय पूर्वपक्षं निशात्य च ॥२०॥ तच्चेदमविवेकात्स्वतो विविक्तात्मने तत्त्वमसीत्युपदिष्टम् । युष्मदस्मद्विभागज्ञे स्यादर्थवदिदं वचः । यतोऽनभिज्ञे वाक्यं स्याद्बधिरेष्विव गायनम् ॥२१॥
तस्य च युष्मदस्मद्विभागविज्ञानस्य का युक्तिरुपायभावं प्रतिपद्यते । शृणु । "अन्वयव्यतिरेकौ हि पदार्थस्य पदस्य च । स्यादेतदहमित्यत्र युक्तिरेवावधारणम् "॥२२॥
कथं तौ युक्तिरित्यत्राह । "नाद्राक्षमहमित्यस्मिन् सुषुप्तेऽन्यन्मनागपि । न वारयति दृष्टिं स्वां प्रत्ययं तु निषेधति "॥२३॥
"एवं विज्ञातवाच्यार्थे श्रुतिलोकप्रसिद्धितः । श्रुतिस्तत्त्वमसीत्याह श्रोतुर्मोहापनुत्तये "॥२४॥
तत्र त्वमिति पदं यत्र लक्षणया वर्तते सोऽर्थ उच्यते । "अहं शब्दस्य या निष्ठा ज्योतिषि प्रत्यगात्मनि । सैवोक्ता सदसीत्येवं फलं तत्र विमुक्तता "॥२५॥ अन्यच्चान्वयव्यतिरेकोदाहरणम् । तथा । "छित्त्वा त्यक्तेन हस्तेन स्वयं नात्मा विशेष्यते । तथा शिष्टेन सर्वेण येनयेन विशेष्यते ॥२६॥
विशेषणमिदं सर्वं साध्वलंकरणं यथा । अविद्याध्यस्तमतः सर्वं ज्ञात आत्मन्यसद्भवेत् ॥२७॥
तस्मात्त्यक्तेन हस्तेन तुल्यं सर्वं विशेषणम् । अनात्मत्वेन तस्माज्ज्ञो मुक्तः सर्वविशेषणैः ॥२८॥
ज्ञातैवात्मा सदा ग्राह्यो ज्ञेयमुत्सृज्य केवलः । अहमित्यपि यद्ग्राह्यं व्यपेताङ्गसमं हि तत् "॥२९॥
"दृश्यत्वादहमित्येष नात्मधर्मो घटादिवत् । तथान्ये प्रत्यया ज्ञेया दोषाश्चात्मामलो ह्यतः "॥३०॥
सर्वन्यायोपसंग्रहः । "नित्यमुक्तत्वविज्ञानं वाक्याद्भवति नान्यतः । वाक्यार्थस्यापि विज्ञानं पदार्थस्मृतिपूर्वकम् ॥३१॥
अन्वयव्यतिरेकाभ्यां पदार्थस्स्मर्यते ध्रुवम् । एवं निर्दुःखमात्मानमक्रियं प्रतिपद्यते ॥३२॥
सदेवेत्यादिवाक्येभ्यः प्रमा स्फुटतरा भवेत् । दशमस्त्वमसीत्यस्माद्यथैवं प्रत्यगात्मनि "॥३३॥
वीक्षापन्नस्योदाहरणम् । "नवबुद्ध्यपहाराद्धि स्वात्मानं दशपूरणम् । अपश्यन् ज्ञातुमेवेच्छेत्स्वमात्मानं जनस्तथा ॥३४॥
अविद्याबद्धचक्षुष्ट्वात्कामापहृतधीः सदा । विविक्तं दृशिमात्मानं नेक्षते दशमं यथा "॥३५॥
सोऽयमेवमविद्यापटलावगुण्ठितदृष्टिः सन् कथमुत्थाप्यत इत्याह । यथा स्वापनिमित्तेन स्वप्नदृक्प्रतिबोधितः । करणं कर्म कर्तारं स्वाप्नं नैवेक्षते स्वतः ॥३६॥
अनात्मज्ञस्तथैवायं सम्यक् श्रुत्यावबोधितः । गुरुं शास्त्रं तथा मूढं स्वात्मनोऽन्यं न पश्यति ॥३७॥
स किं सकलसंसारप्रविविक्तमात्मानं वाक्यात्प्रतिपद्यत उत नेतीति । अत्र ब्रूमः । कूटस्थावगतिशेषमात्रत्वा- त्प्रतिपत्तेरत आह । दण्डावसाननिष्ठस्स्याद्दण्डसर्पो यथा तथा । नित्यावगतिनिष्ठं स्याद्वाक्याज्जगदसंशयम् ॥३८॥
कुत एतत् । यस्मात् । पश्यन्निति यदाहोच्चैः प्रत्यक्त्वमजमव्ययम् । अपूर्वानपरानन्तं त्वमा तदुपलक्ष्यते ॥३९॥
तत्त्वमस्यादिवाक्योत्थविज्ञानैव बाध्यते । यस्मात् । अस्माद्यदपरं रूपं नास्तीत्येव निरूप्यते । अन्यथाग्रहणाभावाद्बीजं तत्स्वप्नबोधयोः ॥४०॥
अस्यार्थस्य द्रढिम्न उदाहरणम् । "कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ । प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्ये न सिध्यतः "॥४१॥
"अन्यथागृहणतः स्वप्नो निद्रा तत्त्वमजानतः । विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते "॥४२॥
तथा भगवत्पादीयमुदाहरणम् । "सुषुप्ताख्यं तमोऽज्ञानं बीजं स्वप्नप्रबोधयोः । आत्मबोधप्रदग्धं स्याद्बीजं दग्धं यथाभवम् "॥ ४३॥
एवं गौडैर्द्राविडैर्नः पूज्यैरयमर्थः प्रभाषितः । अज्ञानमात्रोपाधिस्सन्नहमादिदृगीश्वरः ॥४४॥
तत्रान्यथाग्रहणवदन्यथाग्रहणबीजमग्रहणमनात्मधर्म एवेत्याह । इदं ज्ञानमहं ज्ञाता ज्ञेयमेतदिति त्रयम् । योऽविकारो विजानाति परागेवास्य तत्तमः ॥४५॥
यत एतदेवमतस्तस्यैव बीजात्मनस्तमसश्चित्तधर्मविशिष्टस्य स्वकार्यद्वितीयाभिसम्बन्धो न त्वविकारिण आत्मन इत्याह दृष्टान्तेन । रूपप्रकाशयोर्यद्वत्संगतिर्विक्रियावतः । सुखदुःखादिसम्बन्धश्चित्तस्यैवं विकारिणः ॥४६॥
तदेतदन्वयव्यतिरेकाभ्यां दर्शयिष्यन्नाह । सम्प्रसादेऽविकारित्वादस्तं याते विकारिणि । पश्यतो नात्मनः किंचिद्द्वितीयं स्पृशतेऽण्वपि ॥४७॥
सोऽयं कूटस्थज्ञानमूर्तिरात्मा । यथा प्राज्ञे तथैवायं स्वप्नजागरितान्तयोः । पश्यन्नप्यविकारित्वाद्द्वितीयं न पश्यति ॥४८॥
एवं ज्ञानवतो नास्ति ममाहंमतिसंश्रयः । भास्वत्प्रदीपहस्तस्य ह्यन्धकार इवाग्रतः ॥४९॥
तत्र दृष्टान्तः । आ प्रबोधाद्यथासिद्धिर्द्वैतादन्यस्य वस्तुनः । बोधादेवमसिद्धत्वं बुद्ध्यादेः प्रत्यगात्मनः ॥५०॥
स एष विद्वान्हानोपादानशून्यमात्मानमात्मनि पश्यन् । सर्वमेवानुजानाति सर्वमेव निषेधति । भेदात्मलाभोऽनुज्ञा स्यान्निषेधोऽतत्स्वभावतः ॥५१॥
सर्वस्योक्तत्वादुपसंहारः । परमाथार्थनिष्ठं यत्सर्ववेदान्तनिश्चितम् । तमोपनुद्धियां ज्ञानं तदेतत्कथितं मया ॥५२॥
एतावदिहोक्तम् । नेहात्मविन्मदन्योऽस्ति न मत्तोऽज्ञोऽस्ति कश्चन । इत्यजानन्विजानाति यस्स ब्रह्मविदुत्तमः ॥५३॥
एवमात्मानं ज्ञात्वा किं प्रवर्तितव्यमुत निवर्तितव्यमाहोस्वि- न्मुक्तप्रग्रहतेति । उच्यते । ज्ञेयाभिन्नमिदं यस्माज्ज्ञेयवस्त्वनुसार्यतः । न प्रवृत्तिं निवृत्तिं वा कटाक्षेणापि वीक्षते ॥५४॥ कुत एतज्ज्ञेयाभिन्नमिति । यतः । प्रागात्मबोधाद्बोधोऽयं बाह्यवस्तूपसर्जनः । प्रध्वस्ताखिलसंसार आत्मैकालम्बनः श्रुतेः ॥५५॥
एवमवगतपरमार्थतत्त्वस्य न शेषशेषिभाव- स्तत्कारणस्योत्सारितत्वादित्याह । वास्तवेनैव वृत्तेन निरुणद्धि यतो भवम् । निवृत्तिमपि मृद्नाति सम्यग्बोधः प्रवृत्तिवत् ॥५६॥ सकृदात्मप्रसूत्यैव निरुणद्ध्यखिलं भवम् । ध्वान्तमात्रनिरासेन न ततोऽन्यान्यथामतिः ॥५७॥
देशकालाद्यसम्बद्धाद्देशादेर्मोहकार्यतः । नानुत्पन्नमदग्धं वा ज्ञानमज्ञानमस्त्यतः ॥५८॥
सम्यग्ज्ञानशिखिप्लुष्टमोहतत्कार्यरूपिणः । सकृन्निवृत्तेर्बाध्यस्य किं कार्यमवशिष्यते ॥५९॥
वास्तवेनैव वृत्तेनाविद्यायाः प्रध्वस्तत्वान्न किंचिदवशिष्यत इत्युक्तः परिहारः । अथापरस्साम्प्रदायिकः परिहारः । निवृत्तसर्पस्सर्पोत्थं यथा कम्पं न मुञ्चति । विध्वस्ताखिलमोहोऽपि मोहकार्यं तथात्मवित् ॥६०॥
यतः प्रवृत्तिबीजमुच्छिन्नं तस्मात् । तरोरुत्खातमूलस्य शोषेणैव यथा क्षयः । तथा बुद्धात्मतत्त्वस्य निवृत्त्यैव तनुक्षयः ॥६१॥
अथालेपकपक्षनिरासार्थमाह । बुद्धद्वैतसत्त्वस्य यथेष्टाचरणं यदि । शुनां तत्त्वदृशां चैव को भेदोऽशुचिभक्षणे ॥६२॥
कस्मान्न भवति । यस्मात् । अधर्माज्जायतेऽज्ञानं यथेष्टाचरणं ततः । धर्मकार्ये कथं तत्स्याद्यत्र धर्मोऽपि नेष्यते ॥६३॥
प्रत्याचक्षाण आहातो यथेष्टाचरणं हरिः । "यस्य सर्वे समारम्भाः ""प्रकाशं चे "ति सर्वदृक् ॥६४॥
तिष्ठतु तावत्सर्वप्रवृत्तिबीजघस्मरं ज्ञानं मुमुक्ष्ववस्थायामपि न सम्भवति यथेष्टाचरणम् । तदाह । "यो हि यत्र विरक्तः स्यान्नासौ तस्मै प्रवर्तते । लोकत्रयविरक्तत्वान्मुमुक्षुः किमितीहते "॥६५॥
तत्र दृष्टान्तः । "क्षुधया पीड्यमानोऽपि न विषं ह्यत्तुमिच्छति । मिष्टान्नध्वस्ततृड् जानन्नामूढस्तज्जिघत्सति "॥६६॥
यतोऽवगतपरमार्थतत्त्वस्य यथेष्टाचरणं न मनागपि घटते मुमुक्षुत्वेऽपि च तस्मात् । रागो लिङ्गमबोधस्य चित्तव्यायामभूमिषु । कुतः शाड्वलता तस्य यस्याग्निः कोटरे तरोः ॥६७॥
सकलपुरुषार्थसमाप्तिकारिणोऽस्यात्मावबोधस्य कुतः प्रसूतिरिति । उच्यते । अमानित्वादिनिष्ठो यो यश्चाद्वेष्ट्रादिसाधनः । ज्ञानमुत्पद्यते तस्य न बहिर्मुखचेतसः ॥६८॥
उत्पन्न आत्मविज्ञाने किमविद्याकार्यत्वात्प्रवृत्तिवन्निवृत्त्या- त्मकामानित्वदयो निवर्तन्त उत नेति । नेति ब्रूमः । किं कारणम् । निवृत्तिशास्त्राविरुद्धस्वाभाव्यात्परमात्मनो न तु नियोगवशात् । कथं तर्हि । शृणु । उत्पन्नात्मप्रबोधस्य त्वद्वेष्टृत्वादयो गुणाः । अयत्नतो भवन्त्यस्य न तु साधनरूपिणः ॥६९॥
यत एतदेवमतः । इमां ग्रन्थमुपादित्सुरमानित्वादिसाधनः । यत्नतः स्यान्न दुर्वृत्तः प्रत्यग्धर्मानुगो ह्ययम् ॥७०॥
न दातव्यश्चायं ग्रन्थः । नाविरक्ताय संसारान्नानिरस्तैषणाय च । न चायमवते देयं वेदान्तार्थप्रवेशनम् ॥७१॥
ज्ञात्वा यथोदितं सम्यग्ज्ञातव्यं नावशिष्यते । न चानिरस्तकर्मेदं जानीयादञ्जसा ततः ॥७२॥
निरस्तसर्वकर्माणः प्रत्यक्प्रवणबुद्धयः । निष्कामा यतयः शान्ता जानन्तीदं यथोदितम् ॥७३॥
श्रीमच्छङ्करपादपद्मयुगलं संसेव्य लब्ध्वोचिवान् ज्ञानं पारमहंस्यमेतदमलं स्वान्तान्धकारापनुत् । मा भूदत्र विरोधिनी मतिरतः सद्भिः परीक्ष्यं बुधैः सर्वत्रैव विशुद्धये मतमिदं सन्तः परं कारणम् ॥ ७४॥
सुभाषितं चार्वपि नामहात्मनां दिवाकरो नक्तदृशामिवामलः । प्रभाति भात्येव विशुद्धचेतसां निधिर्यथापास्ततृषां महाधनः ॥७५॥
विष्णोः पादानुगां यां निखिलभवनुदं शंकरोऽवाप योगात् सर्वज्ञं ब्रह्मसंस्थं मुनिगणसहितं सम्यगभ्यर्च्य भक्तया । विद्यां गङ्गामिवाहं प्रवरगुणनिधेः प्राप्य वेदान्तदीप्तां कारुण्यात्तामवोचं जनिमृतिनिवहध्वस्तये दुःखितेभ्यः ॥७६॥
वेदान्तोदरवर्ति भास्वदमलं ध्वान्तच्छिदस्मद्धियो दिव्यं ज्ञानमतीद्रियेऽपिविषये व्याहन्यते न क्वचित् । यो नो न्यायशलाकयैव निखिलं संसारबीजं तमः प्रोत्सार्याविरकार्षीद्गुरुगुरुः पूज्याय तस्मै नमः ॥७७॥
सम्बन्धोक्तिरियं साध्वी प्रतिश्लोकमुदाहृता । नैष्कर्म्यसिद्धेर्ज्ञात्वेमां व्याख्यातासौ भवेद्ध्रुवम् ॥७८॥
इति चतुर्थोऽध्यायः ॥४॥ इति ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:45.1170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

संगम

  • पु. १ ऐक्य ; संयोग ; भेट ; संमेलन ; मिलाफ ; एकत्र येणें ; एका ठिकाणीं मिळणें ; एकत्र होणें . उदा० नद्यांचा संगम , रस्त्यांचा संगम . पैं जीव परमात्मा संगमा । - ज्ञा ६ . ४८० . २ ( ज्यो . ) ग्रहांची युति , एकत्र येणें . ३ ( जरतार ) हलक्या जरताराचा एक प्रकार . 
  • m  Meeting, junction; the confluence of rivers; the junction of roads; the consociation of persons, the concert of schemes. (In astronomy) Planetary conjunction. 
  • ना. एकत्र होणे , ऐक्य , भेट , मिलाफ , मिळणे , मीलन , संयोग . 
RANDOM WORD

Did you know?

सूतक कोणाचे नसते?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.