TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

नैष्कर्म्यसिद्धिः - अथ तृतीयोऽध्यायः

श्रीज्ञानोत्तममिश्रविरचित नैष्कर्म्यसिद्धि ग्रंथ मनन करण्या योग्य आहे.

अथ तृतीयोऽध्यायः
सर्वोऽयं प्रमितिप्रमाणप्रमेयप्रमातृलक्षण आब्रह्मस्तम्बपर्यन्तो मिथ्याध्यास एवेति बहुश उपपत्तिभिरतिष्ठिपम् । आत्मा च जन्मादिषड्भावविकारवर्जितः कूटस्थबोध एवेति स्फुटीकृतम् । तयोश्च मिथ्याध्यासकूटस्थात्मनोर्नान्तरेणाज्ञानं सम्बन्धोऽन्यत्र चोदनापरिप्रापितात् यथा "इयमेवर्गग्निः साम"इति । तच्चाज्ञानं स्वात्ममात्र निमित्तं न सम्भवतीति कस्यचित्कस्मिंश्चिद्विषये भवतीत्यभ्युपगन्तव्यम् । इह च पदार्थद्वयं निर्द्धारितमात्मानात्मा च । तत्रानात्मनस्तावन्नाज्ञानेनाभिसम्बन्धः । तस्य हि स्वरूपमेवाज्ञानं न हि स्वतोऽज्ञानस्याज्ञानं घटते । सम्भवदप्यज्ञानस्वभावेऽज्ञानं कमतिशयं जनयेत् । न च तत्र ज्ञानप्राप्तिरस्ति येन तत्प्रतिषेधात्मकमज्ञानं स्यात् । अनात्मनश्चाज्ञानप्रसूतत्त्वात् । न हि पूर्वसिद्धं सत्ततोलब्धात्मलाभस्य सेत्स्यत आश्रयस्याश्रयि सम्भवति । तदनपेक्षस्य च तस्य निस्स्वभावत्वात् । एतेभ्य एव हेतुभ्यो नानात्मविषयमज्ञानं सम्भवतीति ग्राह्यम् । एवं तावन्नानात्मनोऽज्ञानित्वं नापि तद्विषयमज्ञानम् । पारिशेष्यादात्मन एवास्त्वज्ञानं तस्याज्ञोऽस्मीत्यनुभवदर्शनात् । "सोऽहं भगवो मन्त्रविदेवास्मि नात्मवित् "इति श्रुतेः । न चात्मनोऽज्ञानस्वरूपता तस्य चैतन्यमात्रस्वाभाव्या- दतिशयश्च सम्भवति ज्ञानविपरिलोपो ज्ञानप्राप्तेश्च सम्भवस्तस्य ज्ञानकारित्वात् । न च अज्ञानकार्यत्वं कूटस्थात्मस्वाभाव्यादज्ञानानपेक्षस्य चात्मनः स्वत एव स्वरूपसिद्धेर्युक्तमात्मन एवाज्ञत्वम् । किंविषयं पुनस्तदात्मनोऽज्ञानम् । आत्मविषयमिति ब्रूमः । नन्वात्मनोऽपि ज्ञानस्वरूपत्वादनन्यत्वाच्च ज्ञानप्रकृतित्वादिभ्यश्च हेतुभ्यो नैवाज्ञानं घटते । घटत एव । कथम् । अज्ञानमात्रनिमित्तत्वात्तद्विभागस्य सर्पात्मतेव रज्ज्वाः । तस्मात्तदपनुत्तौ द्वैतानर्थाभावः । तदपनोदश्च वाक्यादेव तत्पदपदार्थाभिज्ञस्य । अतो वाक्यव्याख्यानायाध्याय आरभ्यते । तत्र यथोक्तेन प्रकारेण तत्त्वमस्यादिवाक्योपनिविष्टपदपदार्थयोः कृतान्वयव्यतिरेकः । यदा ना तत्त्वमस्यादेर्ब्रह्मास्मीत्यवगच्छति । प्रध्वस्ताहंममो नैति तदा गीर्मनसोः सृतिम् ॥१॥
यदैव तदर्थं त्वमर्थेऽवैति तदैवावाक्यार्थतां प्रतिपद्यते गीर्मनसोः सृतिं न प्रतिपद्यत इति । कुत एतद्ध्यवसीयते । यस्मात् । तत्पदं प्रकृतार्थं स्यात्त्वम्पदं प्रत्यगात्मनि । नीलोत्पलवदेताभ्यां दुःख्यनात्मत्ववारणे ॥२॥
एवं कृतान्वयव्यतिरेको वाक्यादेवावाक्यार्थं प्रतिपद्यत इत्युक्तमतस्तद्व्याख्यानाय सूत्रोपन्यासः । सामानाधिकरण्यं च विशेषणविशेष्यता । लक्ष्यलक्षणसम्बन्धः पदार्थप्रत्यगात्मनाम् ॥३॥
अस्मिन् सूत्र उपन्यस्ते कश्चिच्चोदयति योऽयं वाक्यार्थप्रतिपत्तौ पूर्वाध्यायेनान्वयव्यतिरेकलक्षणो न्यायः सर्वकर्मसंन्यासपूर्वकोऽभिहितः किमयं विधिपरिप्रापितः किं वा स्वरसत एवात्र पुमान्प्रवर्तत इति । किंचातः । शृणु । यद्यात्मवस्तुसाक्षात्करणाय विधिपरिप्रापितोऽयं न्यायस्तदावश्यमात्मवस्तुसाक्षात्करणाय व्यावृत्तशुभाशुभकर्मराशिरेकाग्रमना अन्वयव्यतिरेकाभ्यां यथोक्ताभ्यामात्मदर्शनं करोति । अपरिसमाप्यात्मदर्शनं ततः प्रच्यवमान आरूढपतितो भवति । यदि पुनर्यदृच्छातः प्रवर्तते तदा न कश्चिद्दोष इति । विधिपरिप्रापित इति ब्रूमो यत आह । शमादिसाधनः पश्येदात्मन्यात्मानमञ्जसा । अन्वयव्यतिरेकाभ्यां त्यक्त्वा युष्मदशेषतः ॥४॥
युष्मदर्थे परित्यक्ते पूर्वोक्तैर्हेतुभिः श्रुतिः । वीक्षापन्नस्य कोऽस्मीति तत्त्वमित्याह सौहृदात् ॥५॥
अत्रापि चोदयन्ति सांख्याः । शरीरेन्द्रियमनोबुद्धि- ष्वनात्मस्वात्मेति निस्सन्धिबन्धनं मिथ्याज्ञानमज्ञानं तन्निबन्धनो ह्यात्मनोऽनेकानर्थसम्बन्धस्तस्य चान्वयव्यतिरेकाभ्यामेव निरस्तत्त्वान्निर्विषयं तत्त्वमस्यादिवाक्यं प्राप्तम् । तस्माद्वाक्यस्य चैष महिमा योऽयमात्मानात्मनोर्विभाग इति । तन्निराकरणायेदमुच्यते । भेदसंविदिदं ज्ञानं भेदाभावश्च साक्षिणि । कार्यमेतदविद्याया ज्ञात्मना त्याजयेद्वचः ॥६॥
ज्ञात्मना त्याजयेद्वच इत्युपश्रुत्याह कश्चित् । मिथ्याज्ञानव्यतिरेकेणात्मानवबोधस्याभावात्किं वाक्येन निवर्तते । अज्ञानं हि नाम ज्ञानाभावस्तस्य चावस्तुस्वाभाव्यात्कुतः संसारकारणत्वं न ह्यसतः सज्जन्मेष्यते "कुतस्तु खलु सोम्यैवं स्यात् "इति "कथमसतः सज्जायेत "इति श्रुतेरिति । अत्रोच्यते । अज्ञात एव सर्वोऽर्थः प्राग्यतो बुद्धिजन्मनः । एकेनैव सता संश्च सन्नज्ञातो भवेत्ततः ॥७॥
सन्नज्ञातो भवेत्तत इत्युक्तमधस्ततेन श्लोकेन । कोऽसौ सन्नज्ञात इत्यपेक्षायां तत्स्वरूपप्रतिपादनायाह । प्रमित्सायां य आभाति स्वयं मातृप्रमाणयोः । स्वमहिम्ना च यस्सिद्धः सोऽज्ञातार्थोऽवसीयताम् ॥८॥
अत्र केचिदाहुः । यत्किंचिदिह वाक्यं लौकिकं वैदिकं वा तत्सर्वं संसर्गात्मकमेव वाक्यार्थं गमयति । अतस्तत्त्वमस्यादिवाक्येभ्यः संसर्गात्मकमहं ब्रह्मेति विज्ञाय तावन्निदिध्यासीत यावदवाक्यार्थात्मकः प्रत्यगात्मविषयोऽवबोधोऽहं ब्रह्मेति समभिजायते । तस्मादेव विज्ञानात्कैवल्यमाप्नोतीति तन्निराकरणायेदमुच्यते । सामानाधिकरण्यादेर्घटेतरखयोरिव । व्यावृत्तेः स्यादवाक्यार्थः साक्षान्नस्तत्त्वमर्थयोः ॥९॥
कुतोऽवाक्यार्थोऽवसीयत इति चेत्तत्प्रतिपत्त्यर्थं विशेषणविशेष्ययोः सामर्थ्योक्तिः । निर्दुःखित्वं त्वमर्थस्य तदर्थेन विशेषणात् । प्रत्यक्ता च तदर्थस्य त्वम्पदेनास्य संनिधेः ॥१०॥
उक्तं सामानाधिकरण्यं विशेषणविशेष्यभावश्च संक्षेपतोऽथ लक्ष्यलक्षणव्याख्यानायाह । कूटस्थबोधप्रत्यक्त्वमनिमित्तं सदात्मनः । बोद्धृताहन्तयोर्हेतुस्ताभ्यां तेनोपलक्ष्यते ॥११॥
बुद्धेः कूटस्थबोधप्रत्यक्त्वनिमित्ते बोद्धृताप्रत्यक्त्वे ये त्वसाधारणे तयोर्विशेषवचनम् । बोद्धृता कर्तृता बुद्धेः कर्मता स्यादहन्तया । तयोरैक्यं यथा बुद्धौ पूर्वयोरेवमात्मनि ॥१२॥
यथा बुद्धौ पूर्वयोरेवमात्मनीत्यतिदेशेन बुद्धिसाधर्म्य- विधानान्नानात्वप्रसक्तौ तदपवादार्थमाह । धर्मधर्मित्वभेदोऽस्याः सोऽपि नैवात्मनो यतः । प्रत्यग्ज्योतिरतोऽभिन्नं भेदहेतोरसम्भवात् ॥१३॥
भेदहेतसम्भवं दर्शयन्नाह । न कस्यांचिदवस्थायां बोधप्रत्यक्त्वयोर्भिदा । व्यभिचारोऽथवा दृष्टो यथाहन्तद्विदोस्सदा ॥१४॥
यस्मादज्ञानोपादानाया एव बुद्धेर्भेदो नात्मनस्तस्मादेतत्सिद्धम् । कूटस्थबोधतोऽद्वैतं साक्षात्त्वं प्रत्यगात्मनः । कूटस्थबोधाद्बोद्ध्री धीः स्वतो हीयं विनश्वरी ॥१५॥
अथाधुना प्रकृतस्यैव परिणामिनः कूटस्थस्य च लक्षणमुच्यते । विशेषं कंचिदाश्रित्य यत्स्वरूपं प्रतीयते । प्रत्यभिज्ञाप्रमाणेन परिणामी स देहवत् ॥१६॥
सामान्याच्च विशेषाच्च स्वमहिम्नैव यो भवेत् । व्युथ्यायाप्यविकारी स्यात्कुम्भाकाशादिवत्तु सः ॥१७॥
आत्मनो बुद्धेश्च बोधप्रत्यगात्मत्वमभिहितं तयोरसाधारणलक्षणाभिधानार्थमाह । बुद्धेर्यत्प्रत्यगात्मत्वं तत्स्याद्देहाद्युपाश्रयात् । आत्मनस्तु स्वरूपं तन्नभसः सुषिता यथा ॥१८॥
बोद्धृत्वं तद्वदेवास्याः प्रत्ययोत्पत्तिहेतुतः । आत्मनस्तु स्वरूपं तत्तिष्ठन्तीव महीभृतः ॥१९॥
तयोः कूटस्थपरिणामिनोरात्मानवबोध एव सम्बन्धहेतुर्न पुनर्वास्तवः कश्चिदपि सम्बन्ध उपपद्यत इत्याह । सम्यक्संशयमिथ्यात्वैर्धीरेवेयं विभज्यते । हानोपादानतामीषां मोहादध्यस्यते दृशौ ॥२०॥
कुतः कूटस्थात्मसिद्धिरिति चेद्यतः । न हानं हानमात्रेण नोदयोऽपीयता यतः । तत्सिद्धिः स्यात्तु तद्धीने हानादानविधर्मके ॥२१॥
एवम् । आगमापायिहेतुभ्यां धूत्वा सर्वाननात्मनः । ततस्तत्त्वमसीत्येतद्धन्त्यस्मदि निजं तमः ॥२२॥
इत्यादि पुनःपुनरुच्यते ग्रन्थलाघवाद्बुद्धिलाघवं प्रयोजकमिति । तत्र यद्यपि तत्त्वमस्यादिवाक्यादुपादि- त्सिताद्वितीयात्मार्थवत्पारोक्ष्यसद्वितीयार्थः प्रतीयते । तथापि तु नैवासावर्थः श्रुत्या तात्पर्येण प्रतिपिपादयिषितः प्रागपेतस्य प्रतीतत्वादितीममर्थमाह । तदित्येतत्पदं लोके बह्वर्थप्रतिपादकम् । अपरित्यज्य पारोक्ष्यमभिधानोत्थमेव तत् ॥२३॥
त्वमित्यपि पदं तद्वत्साक्षान्मात्रार्थवाचि तु । संसारितामसंत्यज्य सापि स्यादभिधानजा ॥२४॥
विरुद्धोद्देशनत्वाच्च पारोक्ष्यदुःखित्वयोरविवक्षितत्वमित्याह । उद्दिश्यमानं वाक्यस्थं नोद्देशनगुणात्वितम् । आकाङ्क्षितपदार्थेन संसर्गं प्रतिपद्यते ॥२५॥
यत एतदेवमतोऽनुपादित्सितयोरपि तत्त्वमर्थयोर्विशेषणविशेष्यभावो भेदसंसर्गरहितवाक्यार्थलक्षणायैवेत्युपसंहारः । तदो विशेषणार्थत्वं विशेष्यत्वं त्वमस्तथा । लक्ष्यलक्षणसम्बन्धस्तयोः स्यात्प्रत्यगात्मना ॥२६॥
कथं पुनरविवक्षितविरुद्धनिरस्यमानस्य लक्षणार्थत्वम् । लक्षणं सर्पवद्रज्ज्वाः प्रतीचः स्यादहं तथा । तद्बाधेनैव वाक्यार्थं वेत्ति सोऽपि तदाश्रयात् ॥२७॥
इयं चावाक्यार्थप्रतिपत्तिरन्वयव्यतिरेकाभिज्ञस्यैव । यस्मात् । यावद्यावन्निरस्यायं देहादीन्प्रत्यगञ्चति । तावत्तावत्तदर्थोऽपि त्वमर्थं प्रविविक्षति ॥२८॥
कस्मात्पुनः कारणाद्देहाद्यनात्मत्वप्रतिपत्तावेवात्मा तदर्थमात्मत्वेनाभिलिङ्गते न विपर्यय इति । उच्यते । प्रत्यगात्मानवबोधस्यनात्मस्वाभाव्यात्तदभिनिर्वृत्तश्चायं बुद्ध्यादिदेहान्तस्तस्मिन्नात्मत्वमविद्याकृतमेवात्मत्वमिवाना- त्मत्वमपि साविद्यस्यैव । यतो निरविद्यो विद्वानवाक्यार्थरूप एव केवलोऽवशिष्यते तस्मादुच्यते । देहादिव्यवधानत्वात्तदर्थं स्वयमप्यतः । पारोक्ष्येणैव जानाति साक्षात्त्वं तदनात्मनः ॥२९॥
यथोक्तार्थप्रतिपत्तिसौकर्याय दृष्टान्तोपादानाम् । प्रत्यगुद्भुतपित्तस्य यथा बाह्यार्थपीतता । चैतन्यं प्रत्यगात्मीयं बहिर्वद्दृश्यते तथा ॥३०॥
यस्मादेवमतो विशुद्धमवसीयताम् । पदान्युद्धृत्य वाक्येभ्यो ह्यन्वयव्यतिरेकतः । पदार्थाँल्लोकतो बुद्ध्वा वेत्ति वाक्यार्थमञ्जसा ॥३१॥
कुतः पुनः सामान्यमात्रवृत्तेः पदस्य वाक्यार्थप्रतिपत्तिहेतुत्वमिति । बाढम् । सामान्यं हि पदं ब्रूते विशेषो वाक्यकर्तृकः । श्रुत्यादिप्रतिबद्धं सद्विशेषार्थं भवेत्पदम् ॥३२॥ अन्वयव्यतिरेकपुरस्सरं वाक्यमेव सामानाधिकरण्यादिनाविद्या- पटलप्रध्वंसद्वारेण मुमुक्षुं स्वाराज्येऽभिषेचयति न त्वन्वयव्यतिरेकमात्रसाध्योऽयमर्थ इत्याह । बुद्ध्यादीनामनात्मत्वं लिङ्गादपि च सिध्यति । निवृत्तिस्तावता नेतीत्यतो वाक्यं समाश्रयेत् ॥३३॥
न केवलमनुमानमात्रशरणोऽभिलषितमर्थं न प्राप्नोतीत्यनर्थं चाप्नोतीत्याह । अनादृत्य श्रुतिं मोहादतो बौद्धास्तमस्विनः । आपेदिरे निरात्मत्वमनुमानैकचक्षुषः ॥३४॥
न चानादरे कारणमस्ति । यस्मात्सर्वत्रैवानादरनिमित्तं प्रमाणस्य प्रमाणान्तरप्रतिपन्नप्रतिपादनं वा विपरीतप्रतिपादनं वा संशयितप्रतिपादनं वा न वा प्रतिपादनमिति--न चैतेषामन्यतमदपि कारणमस्ति । यत आह । मानान्तरानवष्टब्धं निर्दुःख्यात्मानमञ्जसा । बोधयन्ती श्रुतिः केन न प्रमाणमितीर्यते ॥३५॥
न च संशयितव्यमवगमयति । यतः । सर्वसंशयहेतौ हि निरस्ते कथमात्मनि । जायेत संशयो वाक्यादनुमानेन युष्मदि ॥३६॥
अपि च । यत्र स्यात्संशयो नासौ ज्ञेय आत्मेति पण्डितैः । न यतः संशयप्राप्तिरात्मनोऽवगतित्वतः ॥३७॥
अनवबोधकत्वं तु दूरोत्सारितमेव । यत आह । बोधेऽप्यनुभवो यस्य न कथंचन जायते । तं कथं बोधयेच्छास्त्रं लोष्टं नरसमाकृतिम् ॥३८॥
अन्वयव्यतिरेकपुरस्सरं वाक्यमेवावाक्यार्थरूपमात्मानं प्रतिपादयतीत्यस्य पक्षस्य द्रढिम्न श्रुत्युदाहरणमुपन्यस्यति । जिघ्राणीममहं गन्धमिति यो वेत्त्यविक्रियः । स आत्मा तत्परं ज्योतिः शिरसीदं वचः श्रुतेः ॥३९॥
यथा "तत्सत्यं स आत्मा तत्त्वमसि "इत्यस्य शेषत्वेनान्वयव्यतिरेकश्रुतिर्यथा "य एषोऽक्षिणि पुरुषो दृश्यते "इत्याद्या "अथ यो वेदेदं जिघ्राणि " इत्यन्ता तथा "अहं ब्रह्मास्मि "इत्यस्य शेषः । अहमः प्रत्यगात्मार्थो निरस्ताशेषयुष्मदः । बम्भणीति श्रुतिर्न्याय्या योऽयमित्यादिनाऽसकृत् ॥४०॥
कथं पुनरयमर्थोऽवसीयते अहंव्याजेनात्रात्मार्थो बुबोधयिषित इति । यतः । एष आत्मा स्वयंज्योती रविसोमाग्निवाक्षु सः । इतेष्वस्तं दृगेवास्ते भासयंचित्तचेष्टितम् ॥४१॥
निर्णेनेक्ति च पृष्टो मुनिः । आत्मनैवेत्युपश्रुत्य कोऽयमात्मेत्युदीरिते । बुद्धेः परं स्वतोमुक्तमात्मानं मुनिरभ्यधात् ॥४२॥
यस्माच्चात्मात्राहंव्याजेन प्रत्यङ्मात्रो जिग्राहयिषितस्तस्मादहंवृत्तिः स्वरूपस्य विलयेनैव वाक्यार्थावगमाय कारणत्वं प्रतिपद्यत इतीममर्थमाह । अहंवृत्त्यैव तद्ब्रह्म यस्मादेषोऽवगच्छति । तत्स्वरूपलयेनातः कारणं स्यादहंकृतिः ॥४३॥
अत एव च यः प्रतिज्ञातोऽर्थो "नाहंग्राह्ये न तद्धीने "इत्यादिः स युक्तिभिरुपपादित इति कृत्वोपसंह्रियते । गृहीताहम्पदार्थश्चेत्कस्माज्ज्ञो न प्रपद्यते । प्रत्यक्षादिविरोधाच्चेत्प्रतीच्युक्तिर्न युष्मदि ॥४४॥
पूर्वस्यैव श्लोकार्थस्य विस्पष्टार्थमाह । पराञ्च्येव तु सर्वाणि प्रत्यक्षादीनि नात्मनि । प्रतीच्येव प्रवृत्तं तत्सदसीति वचोऽञ्जसा ॥४५॥
तस्मात्प्रमातृप्रमाणप्रमेयेभ्यो हीयमानोपादीयमानेभ्योऽन्वयव्यतिरेकाभ्यां मुञ्जेषीकावदशेषबुद्धिविक्रियासाक्षितयात्मानं निष्कृष्य तत्त्वमस्यादिवाक्येभ्योऽपूर्वादिलक्षणमात्मानं विजानीयात् । तदेतदाह । अहं दुःखी सुखी चेति येनायं प्रत्ययोऽध्रुवः । अवगत्यन्त आभाति स म आत्मेति वाक्यधीः ॥४६॥
प्रमाणान्तरानवष्टब्धं निरस्ताशेषकार्य- कारणात्मकद्वैतप्रपञ्चं सत्यज्ञानानन्द- लक्षणमात्मानं तत्त्वमस्यहम्ब्रह्मास्मीत्यादिवाक्यं संशयितमिथ्याज्ञानाज्ञानप्रध्वंसमुखेन साक्षादपरोक्षात्करतलन्यस्तामलकवत्प्रतिपादयत्येवे- त्यसकृदभिहितम् । तत्र केचिदाहुः--तत्त्वमस्यादिवाक्यै- र्यथावस्थितवस्तुयाथात्म्यान्वाख्याननिष्ठैर्न यथोक्तोऽर्थः प्रतिपत्तुं शक्यतेऽभिधाश्रुतित्वात्तेषाम् । न हि लोकेऽभिधाश्रुतेः प्रमाणान्तरनिरपेक्षाया नद्यास्तीरे फलानि सन्तीत्यादिकायाः प्रामाण्यमभ्युपगतम् । अतो नियोगमुखेनैवाभिधाश्रुतेः प्रामाण्यं युक्तं प्रमाणान्तरनिरपेक्षत्वान्नियोगस्य । अस्य परिहारार्थ- मशेषप्रत्यक्षादिप्रमेयत्वनिराकरणद्वारेणातीन्द्रियार्थ- विषयत्वादभिधाश्रुतेः प्रामाण्यं सुप्तपुरुषप्रबोधक- वाक्यस्येव वक्तव्यमित्ययमारम्भः । नित्यावगतिरूपत्वादन्यमानानपेक्षणात् । शब्दादिगुणहीनत्वात्संशयानवतारतः ॥४७॥
तृष्णानिष्ठीवनैर्नात्मा प्रत्यक्षाद्यः प्रमीयते । प्रत्यगात्मत्वहेतोश्च स्वार्थत्वादप्रमेयतः ॥४८॥
श्रुतिरपीममर्थं निर्वदति । दिद्दक्षितपरिछिन्नपराग्रूपादिसंश्रयात् । विपरीतमतो दृष्ट्या स्वतोबुद्धं न पश्यति ॥४९॥
न्यायसिद्धमतो वक्ति दृष्टेर्द्रष्टारमात्मनः । न पश्येत्प्रत्यगात्मानं प्रमाणं श्रुतिरादरात् ॥५०॥
अनुमानाविषयत्वेऽन्यदपि कारणमुच्यते । प्रत्यक्षस्य पराक्त्वान्न सम्बन्धग्रहणं यतः । आत्मनोऽतोऽनुमित्यास्यानुभवो न कथंचन ॥५१॥
एवमयं प्रमातृप्रमाणप्रमेयव्यवहारः सर्व एव पराचीनविषय एव न प्रतीचिनमात्मानमवगाहयितुमलम् । एवं च सत्यनेनैव यथोक्तोऽर्थोऽवसातुं शक्यत इत्याह । प्रमाणव्यवहारोऽयं सर्व एव पराग्यतः । सुविचार्याप्यतोऽनेन युष्मद्येव दिदृक्षते ॥५२॥
यस्माल्लौकिकप्रत्यक्षादिप्रमाणानधिगम्योऽहम्ब्रह्मास्मीति वाक्यार्थस्तस्मात् । अन्वयव्यतिरेकाभ्यां निरस्याप्राणतो यतेः । वीक्षापन्नस्य कोऽस्मीति तदसीति श्रुतिर्जगौ ॥५३॥ सोऽयमन्वयव्यतिरेकन्याय एतावानेव यदवसानो वाक्यार्थस्त- दभिज्ञस्याहम्ब्रह्मास्मीत्याविर्भवति । द्रष्टृदृश्यविभागेनागमापायि- साक्षिविभागेन च श्रुत्यभ्युपगमतः संक्षिप्योच्यते । दृश्यत्वाद्घटवद्देहो देहवच्चेन्द्रियाण्यपि । मनश्चेन्द्रियवज्ज्ञेयं मनोवन्निश्चयादिमत् ॥५४॥
तथा सकलकार्यकारणागमापायि विभागसाक्षित्वेनापि । प्रागसद्याति पश्चात्सत्सच्च यायादसत्तथा । अनात्माभिजनं तत्स्याद्विपरीतः स्वयं दृशिः ॥५५॥
तत्र घटादीनां दृश्यानामनात्मत्वं द्रष्ट्रात्मपूर्वकं प्रत्यक्षेणैव प्रमाणेनोपलभ्यानात्मनश्चासाधारणान्- धर्मानवधार्य तैर्दृश्यत्वागमापायादिभिर्धर्मैः शरीरेन्द्रियमनोनिश्चयादिवृत्तीरनात्मतया व्युदस्याहंवृत्तिमतोऽपि दृश्यत्वाविशेषाद्द्रष्टृ- पूर्वकत्वमवसीयते । तदेतदाह । घटादयो यथा लिङ्गं स्युः परम्परयाहमः । दृश्यत्वादहमप्येवं लिङ्गं स्याद्द्रष्टुरात्मनः ॥५६॥
ननु द्रष्टृदर्शनदृश्यानां जाग्रत्स्वप्नसुषुप्ते- ष्वागमापायदर्शनाद्यसाक्षिकौ तेषामागमापायौ स आगमापायविभागरहित आत्मा यथा यन्निबन्धनौ जगतः प्रकाशाप्रकाशौ स प्रकाशाप्रकाशविभागरहितः सूर्य इति । यदा चैवं तदा वाक्यावगम्यस्यार्थस्यानुदितानस्तमित- विज्ञानमात्रस्वभावस्यानुमानेनैव प्रतिपन्नत्वात्पुनरपि वाक्यस्य निर्विषयत्वप्रसङ्गः । नैष दोषः । लिङ्गव्यवधानेन तत्प्रतिपत्तेः । ननु साक्षादपरोक्षा- दात्मस्वभावेनानात्मनो हानोपादानयोः सम्बन्धग्रहणात्कमतिशयं वाक्यं कुर्यात् । मैवं वोचः । लिङ्गाधीनत्वात्तत्प्रतिपत्तेः । न हि लिङ्गव्यवधानेनात्मप्रतिपत्तिः साक्षात्प्रतिपत्तिर्भवति "यमेवैष वृणुते तेन लभ्यः "इति श्रुतेः । अत आह । लिङ्गमस्तित्वनिष्ठत्वान्न स्याद्वाक्यार्थबोधकम् । सदसद्व्युत्थितात्माऽयमतो वाक्यात्प्रतीयते ॥५७॥
ननु यदि व्यावृत्तसदसद्विकल्पजालं वस्त्वभीष्टं वाक्याद्भवतस्तथापि तूत्सार्यते वाक्यविषया तृष्णा--यस्मादन्तरेणापि वाक्यश्रवणं निरस्ताशेषविकल्पमागोपालाविपालपण्डितं सुषुप्ते वस्तु सिद्धमतो नार्थो वाक्यश्रवणेन । नैतदेवम् । किं कारणम् । सर्वानर्थबीजस्यात्मानवबोधस्य सुषुप्ते सम्भवात् । यदि हि सुषुप्तेऽज्ञानं नाभविष्यदन्तरेणापि वेदान्तवाक्यश्रवणमनन- निदिध्यासनान्यहं ब्रह्मास्मीत्यध्यवसायात्सर्वप्राण- भूतामपि स्वरसत एव सुषुप्तप्रतिपत्तेः सकलसंसारो- च्छित्तिप्रसङ्गः । न च कैवल्यात्पुनरुत्थानं न्याय्य- मनिर्मोक्षप्रसङ्गात् । न चान्य एव सुषुप्तोऽन्य एवोत्थित इति शक्यं वक्तुं नाद्राक्षमहं सुषुप्तेऽन्यत्- किंचिदपीत्युत्तितस्य प्रत्यभिज्ञादर्शनात् । तस्मादवश्यं सुषुप्तेऽज्ञानमभ्युपगन्तव्यम् । ननु यदि तत्राज्ञान- मभविष्यद्रागद्वेषघटाज्ञानादिवत्प्रत्यक्षमभविष्य- द्यथेह लोके घटं न जानामीत्यज्ञानमव्यवहितं प्रत्यक्षम् । अत्रोच्यते । न । अभिव्यञ्जकाभावात् । कथमभिव्यञ्जकाभाव इति चेच्छृणु । बाह्यां वृत्तिमनुत्पाद्य व्यक्तिः स्यान्नाहमो यथा । नर्तेऽन्तःकरणं तद्वद्ध्वान्तस्य व्यक्तिराञ्जसी ॥५८॥
कश्चिदतिक्रान्तं प्रतिस्मृत्य "दृश्यत्वादहमप्येवं लिङ्गं स्याद्द्रष्टुरात्मनः "इति निर्युक्तिकमभिहितमित्याह । किं कारणम् । अहंतज्ज्ञात्रोर्विवेकाप्रसिद्धेः । यथेह घटदेवदत्तयोर्ग्राह्यग्राहकत्वेन स्फुटतरो विभागः प्रसिद्धो लोके न तथेहाहंकारतज्ज्ञात्रोर्विभागोऽस्तीति तस्मादसाध्वेतदभिहितमिति । अत्रोच्यते । दाह्यदाहकतैकत्र यथा स्याद्वह्निदारुणोः । ज्ञेयज्ञातृकतैवं स्यादहंज्ञात्रोः परस्परम् ॥५९॥
एवं तावदविद्योत्थस्यान्तःकरणस्य बाह्यविषयनिमित्त- रूपावच्छेदायाहंवृत्तिर्व्याप्रियते । तयावच्छिन्नं सत्कूटस्थप्रत्यगात्मोपादानावबोधरूपस्याव्यवधानतया विषयभावं प्रतिपद्यत इति । तत्र तयोर्ज्ञात्रहंतारूपयो- रवभासकावभास्यसम्बन्धव्यतिरेकेण नान्यत्सम्बन्धान्तर- मुपपद्यते । अहंतारूपं त्वात्मसात्कृत्वाऽहंकञ्चुकं परिधायोपकार्यत्वोपकारकत्वक्षमः सन् बाह्यविषये- णोपकारिणापकारिणा वात्मात्मीयं सम्बन्धं प्रतिपद्यते । तदभिधीयते । इदं ज्ञानं भवेज्ज्ञातुर्ममज्ञानं तथाहमः । अज्ञानोपाधिनेदं स्याद्विक्रियातोऽहमो मम ॥६०॥
एकस्यैव ज्ञातुरन्तर्बाह्यनिमित्तभेदाद्विभिन्नेऽपि विषय इदं ममेति ज्ञानं द्वैरूप्यं जायत इत्युक्तम् । अत्रोपक्रियमाणापक्रियमाणस्यैव ज्ञातुर्विषये ममप्रत्ययो भवति विपर्यये चेदम्प्रत्यय इति कथमवगम्यते । अवगम्यतामन्वयव्यतिरेकाभ्याम् । तत्कथमित्याह । अनुपक्रियमाणत्वान्न ज्ञातुः स्यादहं मम । घटादिवदिदं तु स्यान्मोहमात्रव्यपाश्रयात् ॥६१॥ मोहतत्कार्याश्रयत्वाज्ज्ञातृत्वविक्रिययोः पूर्वत्रेदंममज्ञान्वयः प्रदर्शितः । अथाधुना तद्व्यतिरेकेण व्यतिरेकप्रदर्शनार्थाह । विक्रियाज्ञानशून्यत्वान्नेदं न च ममात्मनः । उत्थितस्य सतोऽज्ञानं नाहमज्ञासिषं यतः ॥६२॥
आत्मानात्मविवेकस्येयत्ताप्रदर्शनार्थमाह । वाक्यप्रत्यक्षमानाभ्यामियानर्थः प्रतीयते । अनर्थकृत्तमोहानिर्वाक्यादेव सदात्मनः ॥६३॥
द्वितीयाध्यायादौ श्रोतृचतुष्टयमुपन्यस्तम् । तत्र कृत्स्नानात्मनिवृत्तौ सत्यां यः प्रत्यगात्म- न्यवाक्यार्थतां प्रतिपद्यते स क्षपिताशेषान्तरायहेतुरिति न तं प्रति वक्तव्यं किंचिदप्यवशिष्यते । योऽपि वाक्यश्रवणमात्रादेव प्रतिपद्यते तस्याप्यतीन्द्रिय- शक्तिमत्त्वान्न किंचिदप्यपेक्षितव्यमस्ति । यश्च श्राविततत्त्वमस्यादिवाक्यः स्वयमेवान्वयव्यतिरेको कृत्वा तदवसान एव वाक्यार्थं प्रतिपद्यतेऽसावपि यथार्थं प्रतिपन्न इति पूर्ववदेवोपेक्षितव्यः । यः पुनरन्वयव्यतिरेकौ कारयित्वापि पुनःपुनर्वाक्यं श्राव्यते यथाभूतार्थप्रतिपत्तये तस्य कृतान्वयव्यतिरेकस्य सतः कथं वाक्यं श्राव्यत इति । उच्यते । नवसंख्याहृतज्ञानो दशमो विभ्रमाद्यथा । न वेत्ति दशमोऽस्मीति वीक्षमाणोऽपि तान्नव ॥६४॥
अथ दृष्टान्तगतमर्थं दार्ष्टान्तिकार्थे समर्पयिष्यन्नाह । अपविद्धद्वयोऽप्येवं तत्त्वमस्यादिना विना । वेत्ति नैकलमात्मानं नान्वेष्यं चात्र कारणम् ॥६५॥
नान्वेष्यं चात्र कारणमित्युक्तं तत्कस्मादिति चोदिते प्रत्याहान्वेषणासहिष्णुत्वात् । तत्कथमित्याह । सेयं भ्रान्तिर्निरालम्बा सर्वन्यायविरोधिनी । सहते न विचारं सा तमो यद्वद्दिवाकरम् ॥६६॥
तस्याः खल्वस्या अविद्याया भ्रान्तेः सम्यग्ज्ञानोत्पत्तिद्वारेण निवृत्तिः । बुभुत्सोच्छेदिनी चास्य सदसीत्यादिना दृढम् । प्रतीचि प्रतिपत्तिः स्यान्नासौ मानान्तराद्भवेत् ॥६७॥
कथं पुनर्वाक्यं प्रतिपादयत्येवेति चेद् दृष्टान्तोक्तिः । जिज्ञासोर्दशमं यद्वन्नवातिक्रम्य ताम्यतः । त्वमेव दशमोऽसीति कुर्यादेवं प्रमां वचः ॥६८॥
सा च तत्त्वमस्यादिवाक्यश्रवणजा प्रमोत्पन्नवादेव । न च नैवमिति प्रत्ययान्तर जायते । तदेतद्दृष्टान्तेन प्रतिपादयति । दशमोऽसीति वाक्योत्था न धीरस्य विहन्यते । आदिमध्यावसानेषु न नवस्वस्य संशयः ॥६९॥
एवं तत्त्वमसीत्यस्माद्द्वैतनुत्प्रत्यगात्मनि । सम्यग्ज्ञातत्वमर्थस्य जायेतैव प्रमा दृढा ॥७०॥
प्रत्यगात्मनि प्रमोपजायत इत्युक्तं तत्र चोद्यते । किं यथा घटादिप्रमेयविषया प्रमा कर्त्रादि- कारकभेदानपह्नवेन जायते तथैवोताशेषकारक- ग्रामोपमर्देन कर्तुः प्रत्यगात्मनीति । उच्यते । प्रत्यक्तास्य स्वतोरूपं निष्क्रियाकारकाफलम् । अद्वितीयं तदिद्धा धीः प्रत्यगात्मेव लक्ष्यते ॥७१॥
यस्मादेवम् । विपश्चितोऽप्यतस्तस्यामात्मभावं वितन्वते । दवीयस्स्विन्द्रियार्थेषु क्षीयते ह्युत्तरोत्तरम् ॥७२॥
आह । यदि वाक्यमेव यथाभूतार्थवबोधकमथ कस्य हेतोरविद्योत्थापितस्य कर्तृत्वादेरुपदेश इत्युक्ते प्रतिविधीयते । भ्रान्तिप्रसिद्ध्यानूद्यार्थं तत्तत्वं भ्रान्तिबाधया । अयं नेत्युपदिश्येत तथैवं तत्त्वमित्यपि ॥७३॥
इममर्थं दृष्टान्तेन बुद्धावारोहयति । स्थाणुः स्थाणुरितीवोक्तिर्न नृबुद्धिं निरस्यति । व्यनुवादात्तथैवोक्तिर्भ्रान्तिं पुंसो न बाधते ॥७४॥
यस्माच्छ्रोतृप्रसिद्धानुवाद्येव त्वमितिपदं तस्मादुद्दिश्यमानस्थत्वाद्दुःखित्वादेरविवक्षितत्वमेव । विधीयमानत्वे हि सति विरोधप्रसङ्गो न तु विधीयमाना- नूद्यमानयोरिति । स्वप्रधानयोर्हि पदयोर्विरोधाशङ्का सामान्यलिङ्गतत्वात्तयोर्न विपर्यये । अनालिङ्गितसामान्यौ न जिहासितवादिनौ । व्युत्थितौ तत्त्वमौ तस्मादन्योन्याभिसमीक्षणौ ॥७५॥ अपास्तसामान्यार्थत्वादनुवादस्थत्वाद्विधीयमानेन च सह विरोधाद्दुःखित्वादेरस्तु कामं जिहासितार्थयो- रसंसर्गो यथोपन्यस्तदोषविरहात्तत्त्वमर्थयोः संसर्गोऽस्तु नीलोत्पलवदिति चेन्नैवमप्युपपद्यते । तस्मात् । तदर्थयोस्तु निष्ठात्मा द्वयपारोक्ष्यवर्जितः । नाद्वितीयं विनात्मानं नात्मा नित्यदृशा विना ॥७६॥
अत्राह । किमिह जिहासितं किं वोपादित्सितमिति । उच्यते । प्रत्यगात्मार्थाभिधायिनस्त्वम्पदादुभयं प्रतीयतेऽहं दुःखी प्रत्यगात्मा च । तत्र च प्रत्यगात्मनोऽहं दुःखीत्यनेनाभिसम्बन्ध आत्मयाथात्म्यानवबोधहेतुक एव । अतोऽहमर्थोऽपसृष्टत्वादज्ञानोत्थत्वाच्च हेय इति प्रत्यक्षतोवसीयते । तदर्थे किं हेयं किं वोपादेयमिति नावध्रियते । तत इदमभिधीयते । पारोक्ष्यं यत्तदर्थे स्यात्तद्धेयमहमर्थवत् । प्रतीचेवाहमोऽभेदः पारोक्ष्येणात्मनोऽपि मे ॥७७॥
कथं पुनस्तदर्थोऽद्वितीयलक्षणः प्रत्यगात्मोपाश्रयं सद्वितीयत्वं दुःखित्वं निरन्वयमपनुदतीति । उच्यते । न चैतयोर्निवर्तकनिवर्त्यभावं वयं ब्रूमः । कथं तर्हि । त्वमर्थे प्रत्यगात्मनि प्रागनवबुद्धाद्वितीयता सानेनावबोध्यते । अतोऽनवबोधनिरासेन तदुत्थस्य सद्वितीयत्वस्य त्वमर्थत्वस्य परोक्षत्वस्य च तदर्थस्थस्य निरसनान्न वैयधिकरण्यादि- चोद्यस्यावसरोऽस्तीति । तदिदमभिधीयते । तत्त्वमर्थेन सम्पृक्तो नानात्वं विनिवर्तयेत् । नापरित्यक्तपारोक्ष्यं त्वं तदर्थं सिसृप्सति ॥७८॥
कस्मात्पुनः कारणात्तदर्थोऽद्वितीयलक्षणस्त्वमर्थेन प्रत्यगात्मना पृथगर्थः सन्नविद्योत्थं सद्वितीयत्वं निहन्तीति । उच्यते । विरोधात् । तदुच्यते । संसारिताद्वितीयेन पारोक्ष्यं चात्मना सह । प्रासङ्गिकं विरुद्धत्वात्तत्त्वम्भ्यां बाधनं तयोः ॥७९॥
तत्त्वमर्थयोस्तु बाधकत्वेऽन्यदपि कारणमुच्यते । अज्ञातपुरुषार्थत्वाच्छ्रौतत्वात्तत्त्वमर्थयोः । स्वमर्थमपरित्यज्य बाधकौ स्तां विरुद्धयोः ॥८०॥
एवं तावद्यथोपक्रान्तेन प्रक्रियावर्त्मना न प्रत्यक्षादिप्रमाणान्तरैर्विरोधगन्धोऽपि सम्भाव्यते । यदा पुनः सर्वप्रकारेणापि यतमाना नैवेमं वाक्यार्थं सम्भावयामः प्रत्यक्षादिप्रमाणान्तरविरोधत एव तस्मिन्नपि पक्ष उच्यते । प्रत्यक्षादिविरुद्धं चेद्वाक्यमर्थं वदेत्क्वचित् । स्यात्तु तद्दृष्टिविध्यर्थं योषाग्निवदसंशयम् ॥८१॥
यदा तु तत्त्वमस्यादिवाक्यं सर्वप्रकारेणापि विचार्यमाणं न क्रियां कटाक्षेणापि वीक्षते तदा प्रसंख्यानादिव्यापारो दुस्सम्भाव्य इति । तदुच्यते । वस्त्वेकनिष्ठं वाक्यं चेन्न तस्य स्यात्क्रियार्थता । वस्तुनो ह्येकरूपत्वाद्विकल्पस्याप्यसम्भवः ॥८२॥
भिन्नविषयत्वाच्च न प्रमाणान्तरविरोधः । कथम् । उच्यते । अपूर्वाधिगमं कुर्वत्प्रमाणं स्यान्न चेन्न तत् । न विरोधस्ततो युक्तो विभिन्नार्थावबोधिनोः ॥८३॥
य एवमपि भिन्नविषयाणां विरोधं वक्ति सोऽत्रापि विरोधं ब्रूयात् । नायं शब्दः कुतो यस्माद्रूपं पश्यामि चक्षुषा । इति यद्वत्तथैवायं विरोधोऽक्षजवाक्ययोः ॥८४॥
प्रमाणानां सतां न विरोधः श्रोत्रादीनामिव भिन्नविषयत्वात् । ययोश्चाभिन्नविषयत्वं तयोराखुनकुलयोरिव प्रतिनियत एव बाध्यबाधकभावः स्यात् । अतस्तदुच्यते । प्रत्यक्षं चेन्न शाब्दं स्याच्छाब्दं चेदक्षजं कथम् । प्रत्यक्षाभासः प्रत्यक्षे ह्यागमाभास आगमे ॥८५॥
न च प्रतिज्ञाहेतुदृष्टान्तन्याय इह सम्भवति शब्दादीनां प्रत्येकं प्रमाणत्वादत आह । स्वमहिम्ना प्रमाणानि कुर्वन्त्यर्थावबोधनम् । इतरेतरसाचिव्ये प्रामाण्यं नेष्यते स्वतः ॥८६॥
न च सुखदुःखादिसम्बन्धोऽवगत्यात्मनः प्रत्यक्षादिप्रमाणैर्गृह्यते येन विरोधः प्रत्यक्षादिप्रमाणैरुद्धाट्यते । दुःखितावगतिश्चेत्स्यान्न प्रमीयेत सात्मवत् । कर्मण्येव प्रमा न्याय्या न तु कर्तर्यपि क्वचित् ॥८७॥
अभ्युपगमेऽपि च प्रसंख्यानशतेनापि नैव त्वं सम्भावितदोषान्मुच्यते । अत आह । प्रमाणबद्धमूलत्वाद्दुःखित्वं केन वार्यते । अग्न्युष्णवन्निवृत्तिश्चेन्नैरात्म्यं ह्येति सौगतम् ॥८८॥ अथ मतम् । निराकुर्यात्प्रसंख्यानं दुःखित्वं चेत्स्वनुष्ठितम् । प्रत्यक्षादिविरुद्धत्वात्कथमुत्पादयेत्प्रमाम् ॥८९॥
ननु प्रसंख्यानं नाम तत्त्वमस्यादिशब्दार्थान्वय- व्यतिरेकयुक्तिविषयबुद्ध्याम्रेडनमभिधीयते तच्चानुष्ठीयमानं प्रमितिवर्धनया परिपूर्णां प्रमितिं जनयति न पुनरैकाग्र्यवर्धनयेति । यथाशेषाशुचिनीडे स्त्रीकृणपे कामिनीति निर्वस्तुकः पुरुषायासमात्रजनितः प्रत्यय इति । तन्न । यतः । अभ्यासोपचयाद्बुद्धेर्यत्स्यादैकाग्र्यमेव तत् । न हि प्रमाणान्यभ्यासात्कुर्वन्त्यर्थावबोधनम् ॥९०॥
अभ्यासोपचिता कृत्स्नं भावना चेन्निवर्तयेत् । नैकान्तिकी निवृत्तिरस्स्याद्भावनाजं हि तत्फलम् ॥९१॥
अपि चाह । दुःखस्मीत्यपि चेद्ध्वस्ता कल्पकोट्युपबृंहिता । स्वल्पीयोऽभ्यासजास्थास्न्वी भावनेत्यत्र का प्रमा ॥९२॥
ननु शास्त्रात्स्थास्नुत्वं भविष्यति । नैवम् । यथावस्थितवस्तुयाथात्म्यावबोधमात्रकारित्वाच्छास्त्रस्य । न हि पदार्थशक्त्याधानकृच्छास्त्रम् । प्रसिद्धं च लोके । भावनाजं फलं यत्स्याद्यच्च स्यात्कर्मणः फलम् । न तत्स्थास्न्विति मन्तव्यं द्रविडेष्विव सङ्गतम् ॥९३॥
यद्यपि प्रत्यक्षादिप्रमाणोपातमात्मनो दुःखित्वम् । तथापि तत्त्वमस्यादिवाक्योत्थप्रत्यय एव बलीयानिति निश्चयोऽव्यभिचारिप्रामाण्यवाक्योपत्तत्वात्प्रमेयस्य च स्वत एव निर्दुःखित्वसिद्धेः । प्रत्यक्षादेस्तु व्यभिचारित्वा- त्सम्भावनायाश्च पुरुषपरिकल्पनामात्राव- ष्टम्भत्वाच्चेति । निर्दुःखित्वं स्वतस्सिद्धं प्रत्यक्षादेश्च दुःखिता । को ह्यात्मानमनादृत्य विश्वसेद्बाह्यमानतः ॥९४॥
सम्बन्धार्थ एव । अपि प्रत्यक्षबाधेन प्रवृत्तिः प्रत्यगात्मनि । "पराञ्चि खानि"त्येतस्माद्वचसो गम्यते श्रुतेः ॥९५॥
अभ्युपगम्यैवमुच्यते न तु प्रमाणं सत्प्रमाणान्तरेण विरुध्यत इत्यसकृदवोचाम । यत्रापि वाक्यप्रत्यक्षयोर्विरोधाशङ्का तत्रापि पुरुषमोहवशादेव सा जायते न तु परमार्थत इति । अत आह । प्रमां चेज्जनयेद्वाक्यं प्रत्यक्षादिविरोधिनीम् । गौणीं प्रत्यक्षतां ब्रूयान्मुख्यार्थासम्भवाद्बुधः ॥९६॥
तस्यार्थस्य सुखप्रतिपत्त्यर्थमुदाहरणम् । अग्निस्सम्यगधीतेऽसौ जहासोच्चैश्च मञ्चकः । यथा तद्वदहंवृत्त्या लक्ष्यतेऽनर्हयापि सः ॥९७॥
कस्मात्पुनः कारणात्साक्षादेवात्मा नाभिधीयते किमनया कल्पनयेति तत्राह । त्वमित्यतद्विहायान्यन्न वर्तात्मावबोधते । समस्तीह त्वमर्थोऽपि गुणलेशेन वर्तते ॥९८॥ कस्मात्पुनर्हेतोर्ह्यहमित्येतदपि गुणलेशेन वर्तते न पुनः साक्षादेवेति । विधूतसर्वकल्पनाकारणस्वाभाव्यादात्मनः अत आह । व्योम्नि धूमतुषाराभ्रमलिनानीव दुर्धियः । कल्पयेयुस्तथा मूढाः संसारं प्रत्यगात्मनि ॥९९॥
ननु सर्वकल्पनानामप्यात्मन्यत्यन्तासम्भवे समानेऽहंवृत्तौ कः पक्षपाते हेतुर्येन वृत्त्यन्तराणि विधूयाहंवृत्त्यैवात्मोपलक्ष्यत इति । उच्यते । चिन्निभेयमहंवृत्तिः प्रतीचीवात्मनोऽन्यतः । पूर्वोक्तेभ्यश्च हेतुभ्यस्तस्मादाअत्मानयोच्यते ॥१००॥
वृत्तिभिर्युष्मदर्थाभिर्लक्ष्यते चेद्दृशिः परः । अनात्मत्वं भवेत्तस्य वितथं च वचः श्रुतेः ॥१०१॥
यथोक्तेन । अनेन गुणलेशेन ह्यत्यहंकर्तृकर्मया । लक्ष्यतेऽसावहंवृत्त्या नाञ्जसात्राभिधीयते ॥१०२॥
नाञ्जसात्राभिधीयत इति को हेतुरिति चेत् । षष्ठीगुणक्रियाजातिरूढयः शब्दहेतवः । नात्मन्यन्यतमोऽमीषां तेनात्मा नाभिधीयते ॥१०३॥
यदि शब्दोऽभिधानाभिधेयत्वसम्बन्धाङ्गीकारेण नात्मनि वर्तते कथं शब्दादहं ब्रह्मास्मीति सम्यग्बोधोत्पत्तिः । उच्यते । असत्ये वर्त्मनि स्थित्वा निरुपायमुपेयते । आत्मत्वकारणाद्विद्मो गुणवृत्त्या विबोधिताः ॥१०४॥
कथं पुनरभिधानमभिधेयेनानभिसम्बद्धं सदनभिधेयेऽर्थे प्रमां जनयतीति । शृणु यथानभिसम्बद्धमप्यनभिधे- येऽर्थेऽविद्यानिराकरणमुखेन बोधयतीत्याह । शयानाः प्रायशो लोके बोध्यमानाः स्वनामभिः । सहसैव प्रबुध्यन्ते यथैवं प्रत्यगात्मनि ॥१०५॥
न हि नाम्नास्ति सम्बन्धो व्युत्थितस्य शरीरतः । तथापि बुध्यते तेन यथैवं तत्त्वमित्यतः ॥१०६॥
यथा च । बोधाबोधौ नभोऽस्पृष्ट्वा कृष्णधीनीडगौ यथा । बाध्येतरात्मकौ स्यातां तथेहात्मनि गम्यताम् ॥१०७॥
"असत्ये वर्त्मनि स्थित्वा"इत्युपश्रुत्यातिविस्मितो महता सम्भ्रमेण कश्चिच्चोदयति । नासन्नुपायो लोकेऽस्ति परमार्थविनिश्चये । नासल्लिङ्गाद्धि बाष्पदेः कश्चिदग्निं प्रपद्यते ॥१०८॥
इत्येवं चोदयेद्योऽपि जोषयेत्तं घटादिना । सदसद्भ्यां विभक्तोऽसौ पर्यायश्च न चानयोः ॥१०९॥
एवं कुचोद्यमुन्मूल्याथेदानीं प्रकृतमभिधीयते । प्रकृतं चानभिधेये कथमभिधाश्रुतिरविद्याध्वंस्यात्मनि ज्ञानं जनयतीति । तत्रैव कारणान्तरमुच्यते । अतिदुस्स्थोऽप्रबोधोऽत्र ह्यात्मैवास्य प्रबुद्धता । निमित्तमात्राव्द्येत्येषा नासाग्रे बदरं यथा ॥११०॥
अनुदितानस्तमितकूटस्थबोधमात्रस्वाभाव्यादात्मनो दुस्सम्भाव्योऽविद्यासद्भाव इति चेन्न । अविद्याप्रसिद्ध्यैव तत्सद्भावसिद्धेरुलूकनिशावदित्यत इदमुच्यते । अहो धार्ष्ट्यमविद्याया न कश्चिदतिवर्तते । प्रमाणं वस्त्वनादृत्य परमात्मेव तिष्ठति ॥१११॥
यस्मादविद्याप्रसिद्ध्यैवाविद्यासद्भावसिद्धिरत आत्मवस्तुवृत्तानुरोधेन न कथंचनापि तत्सम्भावनाप्यस्ति यत आह । ज्ञानं यस्य निजं रूपं क्रियाकारकवर्जितम् । सम्भावनाप्यविद्यायास्तत्र स्यात्केन हेतुना ॥११२॥
सोऽयमेवमनुदितानस्तमितावगतिमात्रशरीर आत्मापि सन्नविचारितप्रसिद्धाविद्यामात्रव्यवहित एवातथैवेक्ष्यते यतोऽतः । अनुमानादयं भावाव्द्यावृत्तोऽभावमाश्रितः । ततोऽप्यस्य निवृत्तिः स्याद्वाक्यादेव बुभुत्सतः ॥११३॥
न व्यावृत्तिर्यथा भावाद्भावेनैवाविशेषतः । अभावादप्यभावत्वाद्व्यावृत्तिर्न तथेष्यते ॥११४॥
भाववदभावादपि निवृत्तिरनुमानादेव किमिति न भवतीति चेच्छृणु । यतो नानुमानेन व्याविद्धाशेषक्रियाकारकफलात्मनि स्वाराज्येऽभिषेक्तुं शक्यते तस्मात् । अविद्यानिद्रया सोऽयं प्रसुप्तो दुर्विवेकया । भावाभावव्युदासिन्या श्रुत्यैव प्रतिबोध्यते ॥११५॥
अत्राहानुदितानस्तमितविज्ञानात्ममात्रस्वरूपत्वाद्दुस्सम्भाव्या अविद्येति । नैतदेवम् । कुतः । यत आह । कुतो अविद्येति चोद्यं स्यान्नैव प्राग्घेत्वसम्भवात् । कालत्रयापरिच्छित्तेर्न चोर्ध्वं चोद्यसम्भवः ॥११६॥
यस्मात्तत्त्वमस्यादिवाक्यमेवात्मनोऽशेषामविद्यां निरन्वयामपनुदति तस्मात् । अद्धातममनादृत्य प्रमाणं सदसीति ये । बुभुत्सन्तेऽन्यतः कुर्युस्तेऽक्ष्णापि रसवेदनम् ॥११७॥ एवमप्रतिहतामहं ब्रह्मेति प्रमां तत्त्वमस्यादिवाक्यं कुर्वदपि न प्रतिपादयतीति चेदभिमतं न कुतश्चनापि प्रतिपत्तिः स्यादत आह । इदं चेदनृतं ब्रूयात्सत्यामवगतावपि । न चान्यत्रापि विश्वासो ह्यवगत्यविशेषतः ॥११८॥
न चोपादित्सिताद्वाक्यार्थाद्वाक्यार्थान्तरं कल्पयितुं युक्तम् । यस्मात् । न चेदनुभवोऽतः स्यात्पदार्थावगतावपि । कल्प्यं विध्यन्तरं तत्र न ह्यन्योऽर्थोऽवगम्यते ॥११९॥
न च यथाभिमतोऽर्थो यथोक्तेन न्यायेन नावसीयते । कोऽसौ न्याय इत्याह । नामादिभ्यो निराकृत्य त्वमर्थं निष्परिग्रहः । निस्स्पृहो युष्मदर्थेभ्यः शमादिविधिचोदितः ॥१२०॥ भङ्क्त्वा चान्नमयादींस्तान्पञ्चानात्मतयार्गलान् । अहं ब्रह्मेति वाक्यार्थं वेत्ति चेन्नार्थ ईहया ॥१२१॥
न चेदेवमुपगम्यते वाक्यस्य प्रमाणस्य सतोऽप्रामाण्यं प्राप्नोति । तदाह । यदर्थं च प्रवृत्तं यद्वाक्यं तत्र न चेच्छ्रुतम् । प्रमामुत्पादयेत्तस्य प्रामाण्यं केन हेतुना ॥१२२॥
अथ मन्यसे । जानीयाच्चेत्प्रसंख्यानाच्छब्दस्सत्यवचाः कथम् । पारोक्ष्यं शब्दो नः प्राह प्रसंख्यानात्त्वसंशयम् ॥ १२३॥
न च युक्तिशब्दावृत्तिलक्षणात्प्रसंख्यानाद्यथाव- त्प्रतिपत्तिर्भविष्यतीति सम्भावयामः । यस्मात् । युक्तिशब्दौ पुराप्यस्य न चेदकुरुतां प्रमाम् । साक्षादावर्तनात्ताभ्यां किमपूर्वं फलिष्यति ॥१२४॥
अथैवमपि प्रसंख्यानमन्तरेण प्राणान्धारयितुं न शक्नोषीति चेच्छ्रवणादावेव सम्पादयिष्यामः । कथम् । प्रसंख्याने श्रुतावस्य न्यायोऽस्त्वाम्रेडनात्मकः । ईषच्छ्रुतं सामिश्रुतं सम्यक्ष्रुत्वावगच्छति ॥१२५॥
ननु प्रसंख्यानविधिमनभ्युपगच्छतः पारमहंसी चर्या बौद्धादिचर्यावदशास्त्रपूर्विका प्राप्नोति ततश्चारूढपतितत्वं न स्यादशेषकर्मणां च निवृत्तिर्न प्राप्नोतीति । उच्यते । त्वमर्थस्यावबोधाय विधिरप्याश्रितो यतः । तमन्तरेण ये दोषास्तेऽपि नायान्त्यहेतवः ॥१२६॥
इति तृतीयोऽध्यायः ॥३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:45.0530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

थळी

  • स्त्री. थळ पहा . 
  • न. पात्र ; अलंकार ; वडी . 
RANDOM WORD

Did you know?

हिंदू धर्मात स्त्रियांना उपनयनाचा धर्मसंमत अधिकार का नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.