TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

नैष्कर्म्यसिद्धिः - अथ द्वितीयोऽध्यायः

श्रीज्ञानोत्तममिश्रविरचित नैष्कर्म्यसिद्धि ग्रंथ मनन करण्या योग्य आहे.

अथ द्वितीयोऽध्यायः
प्रत्यक्षादीनामनेवंविषयत्वात्तेषां स्वारम्भक- विषयोपनिपातित्वादात्मनश्चाशेषप्रमेयवैलक्षण्या- त्सर्वानर्थैकहेत्वज्ञानापनोदिज्ञानदिवाकरोदयहेतुत्वं वस्तुमात्रयाथात्म्यप्रकाशनपटीयसस्तत्त्वमस्यादेर्वचस एवेति बह्वीभिरुपपत्तिभिः प्रदर्शितम् । अतस्तदर्थारतिपत्तौ यत्कारणं तदपनयनाय द्वितीयोऽध्याय आरभ्यते । श्रावितो वेत्ति वाक्यार्थं नचेत्तत्त्वमसीत्यतः । त्वम्पदार्थानभिज्ञत्वादतस्तत्प्रक्रियोच्यते ॥१॥
योऽयमहम्ब्रह्मेति वाक्यार्थस्तत्प्रतिपत्तिर्वाक्यादेवेति प्रत्यक्षादीनामनेवंविषयत्वादित्यवादिषं तस्य विशुद्ध्यर्थमनैकात्त्रिकत्वं पूर्वपक्षत्वेनोपस्थाप्यते । कृत्स्नानात्मनिवृत्तौ च कश्चिदाप्नोति निर्वृतिम् । श्रुतवाक्यस्मृतेश्चान्यः स्मार्यते च वचोऽपरः ॥२॥
एतत्प्रसङ्गेन श्रोत्रन्तरोपन्यासमुभयत्रापि सम्भावनायाह । वाक्यश्रवणमात्राच्च पिशाचकवदाप्नुयात् । त्रिषु यादृच्छिकी सिद्धिः स्मार्यमाणे तु निश्चिता ॥३॥
नायमनैकान्तिको हेतुः । यतः । सर्वोऽयं महिमा ज्ञेयो वाक्यस्यैव यथोदितः । वाक्यार्थं न ह्यृते वाक्यात्कश्चिज्जानाति तत्त्वतः ॥४॥
वाक्यं च प्रतिपादनाय प्रवृत्तं सत्प्रतिपादयत्येव सर्वप्रमाणानामप्येवंवृत्तत्वात् । नाहंग्राह्ये न तद्धीने न प्रत्यङ्नापि दुःखिनि । विरोधः सदसीत्यस्माद्वाक्याभिज्ञस्य जायते ॥५॥ नाविरक्तस्य संसारान्निविवृत्सा ततो भवेत् । न चानिवृत्ततृष्णस्य पुरुषस्य मुमुक्षुता ॥६॥
 न चामुमुक्षोरस्तीह गुरुपादोपसर्पणम् । न विना गुरुसम्बन्धं वाक्यस्य श्रवणं भवेत् ॥७॥
तथा पदपदाथौ च न स्तो वाक्यमृते क्वचित् । अन्वयव्यतिरेकौ च तावृते स्तां कैमाश्रयौ ॥८॥
अन्वयव्यतिरेकाभ्यां विना वाक्यार्थबोधनम् । न स्यात्तेन विनाज्ञानप्रहाणं नोपपद्यते ॥९॥
विनाज्ञानप्रहाणेन पुरुषार्थः सुदुर्लभः । तस्माद्यथोक्तसिद्ध्यर्थं परो ग्रन्थोऽवतार्यते ॥१०॥
वर्चस्कं त्वन्नकार्यत्वाद्यथा नात्मेति गम्यते । तद्भागः सेन्द्रियो देहस्तद्वत्किमिति नेक्ष्यते ॥११॥
आद्यन्तयोरनात्मत्वे प्रसिद्धे मध्येऽपि कः प्रतिबन्धः । प्रागनात्मैव जग्धं सदात्मतामेत्यविद्यया । स्रगालेपनवद्देहं तस्मात्पश्येद्विविक्तधीः ॥१२॥
अथैवमपि मद्वचनं नाद्रियसे स्वयमेवैतस्माच्छरीराद्- अशुचिराशेर्निराशो भविष्यसि । मन्यसे तावदस्मीति यावदस्मान्न नीयसे । श्वभिः क्रोडीकृते देहे नैवं त्वमभिमंस्यसे ॥१३॥ शिर आक्रम्य पादेन भर्त्सयत्यपरान् शुनः । दृष्ट्वा साधारणं देहं कस्मात्सक्तोऽसि तत्र भोः ॥१४॥
श्रुतिपरिप्रापितोऽयमर्थोऽनात्मा बुद्ध्यादिदेहान्त इतीदमाह । बुसव्रीहिपलालांशैर्बीजमेकं त्रिधा यथा । बुद्धिमांसपुरीषांशैरन्नं तद्वदवस्थितम् ॥१५॥
यथोक्तार्थप्रतिपत्तौ सत्यां न रागद्वेषाभ्यां विक्रियते विपश्चिदित्यस्यार्थस्य प्रतिपत्तये दृष्टान्तः । वर्चस्के सम्परित्यक्ते दोषतश्चावधारिते । यदि दोषं वदेत्तस्मै किं तत्रोच्चरितुर्भवेत् ॥१६॥
तद्वत्सूक्ष्मे तथा स्थूले देहे त्यक्ते विवेकतः । यदि दोषं वदेत्ताभ्यां किं तत्र विदुषो भवेत् ॥१७॥
एतावदेव ह्यहं ब्रह्मास्मीति वाक्यार्थाप्रतिपत्तौ कारणं यदुत बुद्ध्यादौ देहान्ते ह्यहंममेति निस्सन्धिबन्धनो ग्रहः । तद्व्यतिरेके हि न कुतश्चिद्विभज्यत एकल एव प्रत्यगात्म- न्यवतिष्ठत इत्याह । रिपौ बन्धौ स्वदेहे च समैकात्म्यं प्रपश्यतः । विवेकिनः कुतः कोपः स्वदेहावयवेश्विव ॥१८॥
इतश्चानात्मा देहादिः । घटादिवच्च दृश्यत्वात्तैरेव करणैर्दृशेः । स्वप्ने चानन्वयाज्ज्ञयो देहोऽनात्मेति सूरिभिः ॥१९॥
देहादिकार्यकरणसंघातव्यतिरेकाव्यतिरेकदर्शिनः प्रत्यक्षत एव विरुद्धं कार्यमुपलभ्यते । चतुर्भिरुह्यते यत्तत्सर्वशक्त्या शरीरकम् । तूलायते तदेवाहंधियाघ्रातमचेतसाम् ॥२०॥ प्रसिद्धत्वाप्रकरणार्थोपसंहारायाह । स्थूलं युक्त्या निरस्यैवं नभसो नीलतामिव । देहं सूक्ष्मं निराकुर्यादतो युक्तिभिरात्मनः ॥२१॥
कथं देहं सूक्ष्मं निराकृर्यादिति । उच्यते । अहंममत्वयत्नेच्छा नात्मधर्माः कृशत्ववत् । कर्मत्वेनोपलभ्यत्वादपायित्वाच्च वस्त्रवत् ॥२२॥
वैधर्म्ये दृष्टान्तः । नोष्णिमानं दहत्यग्निः स्वरूपत्वाद्यथा ज्वलन् । तथैवात्मात्मनो विद्यादहं नैवाविशेषतः ॥२३॥
एकस्यात्मनः कर्मकर्तृभावः सर्वथा नोपपद्यत इति श्रुत्वा मीमांसकः प्रत्यवतिष्ठते । अहम्प्रत्ययग्राह्यत्वाद्ग्राहक आत्मेति तन्निवृत्त्यर्थमाह । यत्कर्मको हि यो भावो नासौ तत्कर्तृको यतः । घटप्रत्ययवत्तस्मान्नाहं स्याद्द्रष्टृकर्मकः ॥२४॥
अत्राह प्रत्यक्षेणात्मनः कर्मकर्तृत्वाभ्युपगमे तत्पादोपजीविनानुमानेन प्रत्यक्षोत्सारणमयुक्तमिति चोद्यं तन्निराकरणाय प्रत्यक्षोपन्यासः । यत्र यो दृश्यते द्रष्ट्रा तस्यैवासौ गुणो न तु । द्रष्टृस्थं दृश्यतां यस्मान्नैवेयाद्द्रष्टृबोधवत् ॥२५॥
प्रत्यक्षेणैव भवदभिमतस्य प्रत्यक्षस्याभासीकृतत्वात्- सुस्थमेवानुमानम् । अतस्तदेव प्रक्रियते तत्र च विकल्पदूषणाभिधानम् । नात्मना न तदंशेन गुणः स्वस्थोऽवगम्यते । अभिन्नत्वात्समत्वाच्च निरंशत्वादकर्मतः ॥२६॥
न युगपन्नपि क्रमेणोभयथा चैकस्य धर्मिणो ग्राह्यग्राहकत्वमुपपद्यत इति प्रतिपादनायाह । द्रष्टृत्वेनोपयुक्तत्वात्तदैव स्यान्न दृश्यता । कालान्तरे चेद्दृश्यत्वं न ह्यद्रष्टृकमिष्यते ॥२७॥ सन्तु काममनात्मधर्मा ममत्वादयो यथोक्तन्यायबलादनात्मतयैव च तेषु व्यवहारादहंरूपस्य तु प्रत्यगात्मसम्बन्धितयैव प्रसिद्धेरहम्ब्रह्मास्मीति श्रुतेश्चानात्मधर्मत्वमयुक्तमिति चेत्तन्न । अहन्धर्मस्त्वभिन्नश्चेदहम्ब्रह्मेति वाक्यतः । गौरोऽहमित्यनैकान्तो वाक्यं तद्व्यपनेतृ तत् ॥२८॥
कथं वाक्यं तद्व्यपनेतृ तदिति । उच्यते । योऽयं स्थाणुः पुमानेष पुन्धिया स्थाणुधीरिव । ब्रह्मास्मीतिधियाशेषा ह्यहम्बुद्धिर्निवर्त्यते ॥२९॥
अहम्परिच्छेदव्यावृत्तौ न किंचिदव्यावृत्तं द्वैतजातमवशिष्यते द्वितीयसम्बन्धस्य तन्मूलत्वात् । अत आह । निवृत्तायामहम्बुद्धौ ममधीः प्रविलीयते । अहम्बीजा हि सा सिद्ध्येत्तमोऽभावे कुतः फणी ॥३०॥
विवक्षितदृष्टान्तांशज्ञापनाय दृष्टान्तव्याख्या । तमोऽभिभूतचित्तो हि रज्ज्वां पश्यति रोषणम् । भ्रान्त्या भ्रान्त्या विना तस्मान्नोरगं स्रजि वीक्षते ॥३१॥
अनन्वयाच्च नात्मधर्मोऽहङ्कारः । आत्मनश्चेदहन्धर्मो यायान्मुक्तिसुषुप्तयोः । यतो नान्वेति तेनायमन्यदीयो भवेदहम् ॥३२॥
आत्मधर्मत्वाभ्युपगमेऽपरिहार्यदोषप्रसक्तिश्च । यद्यात्मधर्मोऽहङ्कारो नित्यत्वं तस्य बोधवत् । नित्यत्वे मोक्षशास्त्राणां वैयर्थं प्राप्नुयाद्ध्रुवम् ॥ ३३॥
स्यात्परिहारः स्वाभाविकधर्मत्वाभ्युपगमेऽप्याम्रादिफलवदिति चेत्तन्न । आम्रादेः परिणामित्वाद्गुणहानिर्गुणान्तरैः । अविकारि तु तद्ब्रह्म "न हि द्रष्टुरि"तिश्रुतेः ॥३४॥
अहङ्कारस्य चागमापायित्वात्तद्धर्मिणश्चानित्यत्वं प्राप्नोति । आगमापायिनिष्ठत्वादनित्यत्वमियाद्दृशिः । उपयन्नपयन्धर्मो विकरोति हि धर्मिणम् ॥३५॥
अस्त्वनित्यत्वं कमुपालभेमहि प्रमाणोपपन्नत्वादिति चेत्तन्न । सदाविलुप्तसाक्षित्वं स्वतस्सिद्धं न पार्यते । अपह्नोतुं घटस्येव कुशाग्रीयधियात्मनः ॥३६॥
एतस्माच्च हेतोरहंकारस्यानात्मधर्मत्वमवसीयताम् । प्रमाणैश्चावगम्यत्वाद्घटादिवदहंदृशेः । यतो राधिः प्रमाणानां स कथं तैः प्रसिध्यति ॥३७॥ धर्मधर्मिणोश्चेतरेतरविरुद्धात्मकत्वादसङ्गतिः । धर्मिणश्च विरुद्धत्वान्न दृश्यगुणसङ्गतिः । मारुतान्दोलितज्वालं शैत्यं नाग्निं सिसृप्सति ॥३८॥
तस्माद्विस्रब्धमुपगम्यताम् । द्रष्टृत्वं दृश्यता चैव नैकस्मिन्नेकदा क्वचित् । दृश्यदृश्यो न च द्रष्टा द्रष्टुर्दर्शी दृशिर्न च ॥ ३९॥
सर्वसंव्यवहारलोपश्च प्राप्नोति । यस्मात् । द्रष्टापि यदि दृश्याया आत्मेयात्कर्मतां धियः । यौगपद्यमदृश्यत्वं वैयर्थ्यं चाप्नुयाच्छृतिः ॥४०॥
कुतः । यस्मात् । नालुप्तदृष्टेर्दृश्यत्वं दृश्यत्वे द्रष्टृता कुतः । स्याच्चेद्दृगेकं निर्दृश्यं जगद्वा स्यादसाक्षिकम् ॥४१॥
उक्तयुक्तिं दृढीकर्तुमागमोदाहरणोपन्यासः । आर्तमन्यद्दृशेः सर्वं "नेति नेती"ति चासकृत् । वदन्ती निर्गुणं ब्रह्म कथं श्रुतिरुपेक्ष्यते ॥४२॥
"महाभूतान्यहंकार"इत्येतत्क्षेत्रमुच्यते । न दृशेर्द्वैतयोगोऽस्ति विश्वेश्वरमतादपि ॥४३॥
अधुना प्रकृतार्थोऽपसंहारः । एवमेतद्धिरुग्ज्ञेयं मिथ्यासिद्धमनात्मकम् । मोहमूलं सुदुर्बोधं द्वैतं युक्तिभिरात्मनः ॥४४॥
कुतो मिथ्यासिद्धत्वं द्वैतस्येति चेत् । न पृथङ्नात्मना सिद्धिरात्मनोऽन्यस्य वस्तुनः । आत्मवत्कल्पितस्तस्मादहंकारादिरात्मनि ॥४५॥
तस्मादज्ञानविजृम्भितमेतत् । दृश्याः शब्दादयः क्लृप्ता द्रष्टृ च ब्रह्म निर्गुणम् । अहं तदुभयं बिभ्रद्भ्रान्तिमात्मनि यच्छति ॥४६॥
तत एवेयमभिन्नस्यात्मनो भेदबुद्धिः । दृगेका सर्वभूतेषु भाति दृश्यैरनेकवत् । जलभाजनभेदेन मयूखस्रग्विभेदवत् ॥४७॥
यथोक्तार्थस्य प्रतिपत्तये दृष्टान्तः । मित्रोदासीनशत्रुत्वं यथैकस्यान्यकल्पनात् । अभिन्नस्य चित्तेस्तद्वद्भेदोऽन्तःकरणाश्रयः ॥४८॥
अपहारो यथा भानोः सर्वतो जलपात्रकैः । तत्क्रियाकृतिदेशाप्तिस्तथा बुद्धिभिरात्मनः ॥४९॥
न च विरुद्धधर्मणामेकत्रानुपपत्तिः । कल्पितानामवस्तुत्वात्स्यादेकत्रापि सम्भवः । कमनीयाशुचिः स्वाद्वीत्येकस्यामिव योषिति ॥५०॥
न चायं क्रियाकारकफलात्मक आभास ईषदपि परमार्थवस्तु स्पृशति तस्य मोहमात्रोपादानत्वात् । अभूताभिनिवेशेन स्वात्मानं वञ्चयत्ययम् । असत्यपि द्वितीयेऽर्थे सोमशर्मपिता यथा ॥५१॥
वस्तुयाथात्म्यानवबोधपटलावनद्धाक्षः सन् । सुभ्रूः सुनासा सुमुखी सुनेत्रा चारुहासिनी । कल्पनामात्रसंमोहाद्रामेत्यालिङ्गतेऽशुचिम् ॥५२॥
सर्वस्यानर्थजातस्य जिहासितस्य मूलमहंकार एव तस्यात्मनात्मोपरागात् । न तु परमार्थत आत्मनोऽविद्यया तत्कार्येण वा सम्बधोऽभूदस्ति भविष्यति वा तस्यापरिलिप्तदृष्टिस्वाभाव्यात् । दृश्यानुरक्तं तद्द्रष्टृ दृश्यं द्रष्ट्रनुरञ्जितम् । अहंवृत्त्योहयं रक्तं तन्नाशेऽद्वैततात्मनः ॥५३॥
इह केचिच्चोदयन्ति योऽयमन्वयव्यतिरेकाभ्यामनात्मत- योत्सारितोऽहंकारो वाक्यार्थप्रतिपत्तये सोऽयं विपरीतार्थः संवृत्तो यस्मादहं ब्रह्मास्मीति ब्रह्माहम्पदार्थयोः सामानाधिकरण्यश्रवणादनात्मार्थेन सामानाधिकरण्यं प्राप्नोति । वक्तव्या च प्रत्यगात्मनि तस्य वृत्तिरिति सोच्यते प्रसिद्धलक्षणागुणवृत्तिभिः । नाज्ञासिषमिति प्राह सुषुप्तादुत्थितोऽपि हि । अयोदाहादिवत्तेन लक्षणं परमात्मनः ॥५४॥
प्रत्यक्त्वादतिसूक्ष्मत्वादात्मदृष्ट्यनुशीलनात् । अतो वृत्तीर्विहायान्या ह्यहंवृत्त्योपलक्षते ॥५५॥
आत्मना चाविनाभावमथवा विलयं व्रजेत् । न तु पक्षान्तरं यायादतश्चाहंधियोच्यते ॥५६॥
कीदृक्पुनर्वस्तु लक्ष्यम् । नामादिभ्यः परो भूमा निष्कलोऽकारकोऽक्रियः । स एवात्मवतामात्मा स्वतस्सिद्धः स एव नः ॥५७॥
अज्ञानोत्थबुद्ध्यादिकर्तृत्वोपाधिमात्मानं परिगृह्यैवान्वयव्यतिरेकाभ्यामहं सुखी दुःखी चेत्यहंकारादेरनात्मधर्मत्वमुक्तं केवलात्माभ्युपगमेऽशक्यत्वात्फलाभावाच्च । अथेदानीमविद्यापरिकल्पितं साक्षित्वमाश्रित्य कर्तृत्वाद्यशेषपरिणामप्रतिषेधायाह । एष सर्वधियां नृत्तमविलुप्तैकदर्शनः । वीक्षतेऽवीक्षमाणोऽपि निमिषत्तद्ध्रुवोऽध्रुवम् ॥५८॥
ननु सर्वसिद्धान्तानामपि स्वस्वदृष्ट्यपेक्षयोपपन्नत्वा- दितरेतरदृष्ट्यपेक्षया दुस्स्थितसिद्धिकत्वान्नैकत्रापि विश्वासं पश्यामो न च सर्वतार्किकैरदूषितं समर्थितं सर्वतार्किकोपद्रवापसर्पणाय वर्त्म सम्भावयामः । उच्यते । विस्रब्धैः सम्भाव्यतामनुभवमात्रशरणत्वात्- सर्वतार्किकप्रस्थानानाम् । तदभिधीयते । इमं प्राशिकमुद्दिश्य तर्कज्वरभृशातुराः । त्वाच्छिरस्कवचोजालैर्मोहयन्तीतरेतरम् ॥५९॥
अत्रापि चोदयन्ति । अनुभवात्मनोऽपि विक्रियाभ्युपगमेऽन- भ्युपगमेऽपि दोष एव । यस्मादाह । "वर्षातपाभ्यां किं व्योम्नश्चर्मण्येव तयोः फलम् । चर्मोपमश्चेत्सोऽनित्यः खतुल्यश्चेदसत्समः "॥६०॥
बुद्धिजन्मनि पुंसश्च विकृतिर्यद्यनित्यता । अथाविकृतिरेवायं प्रमातेति न युज्यते ॥६१॥
अस्य परिहारः । ऊर्ध्वं गच्छति धूमे खं भिद्यते स्विन्न भिद्यते । न भिद्यते चेत्स्थास्नुत्वं भिद्यते चेद्भिदास्य का ॥६२॥
इत्येतत्प्रतिपत्त्यर्थमाह । अविक्रियस्य भोक्तृत्वं स्यादहम्बुद्धिविभ्रमात् । नौयानविभ्रमाद्यद्वन्नगेषु गतिकल्पनम् ॥६३॥
यथोक्तार्थाविष्करणाय दृष्टान्तान्तरोपादानम् । यथा जात्यमणेः शुभ्रा ज्वलन्ती निश्चला शिखा । संनिध्यसंनिधानेषु घटादीनामविक्रिया ॥६४॥
अयमत्रांशो विवक्षित इति ज्ञापनायाह । यदवस्था व्यनक्तीति तदवस्थैव सा पुनः । भण्यते न व्यनक्तीति घटादीनामसंनिधौ ॥६५॥
तत्र च । सर्वधीव्यञ्जकस्तद्वत्परमात्मा प्रदीपकः । संनिध्यसंनिधानेषु धीवृत्तिनामविक्रियः ॥६६॥
न प्रकाशक्रिया काचिदस्य स्वात्मनि विद्यते । उपचारात्क्रिया सास्य यः प्रकाशस्य संनिधिः ॥६७॥
मैवं शङ्किष्ठाः सांख्यराध्यान्तोऽयमिति । यतः । यथा विशुद्ध आकाशे सहसैवाभ्रमण्डलम् । भूत्वा विलीयते तद्वदात्मनीहाखिलं जगत् ॥६८॥
तस्मादेष कूटस्थो न द्वैतं मनागपि स्पृशति । यतः । शब्दाद्याकारनिर्भासाः क्षणप्रध्वंसिनीर्दृशा । नित्योऽक्रमदृगात्मैको व्याप्नोतीव धियोऽनिशम् ॥६९॥
एवं च सति बुद्धेः परिणामित्वं युक्तम् । अतीतानागतेहत्यान्युगपत्सर्वगोचरान् । वेत्त्यात्मवन्न धीर्यस्मात्तेनेयं परिणामिनी ॥७०॥
ततश्चैतत्सिद्धम् । अपश्यन्पश्यतीं बुद्धिमशृण्वन् शृण्वतीं तथा । निर्यत्नोऽविक्रियोऽनिच्छन्निच्छन्तीं चाप्यलुप्तदृक् ॥७१॥
द्विषन्तीमद्विषन्नात्मा कुप्यन्तीं चाप्यकोपनः । निर्दुःखो दुःखिनीं चैव निस्सुखः सुखिनीमपि ॥७२॥
अमुह्यमानो मुह्यन्तीं कल्पयन्तीमकल्पयन् । स्मरन्तीमस्मरंश्चैव शयानामस्वपन्मुहुः ॥७३॥
सर्वाकारां निराकारः स्वार्थोऽस्वार्थां निरिङ्गनः । निस्त्रिकालस्त्रिकालस्थां कूटस्थः क्षणभङ्गुराम् ॥७४॥
निरपेक्षश्च सापेक्षां पराचीं प्रत्यगद्वयः । सावधिं निर्गतेयत्तः सर्वदेहेषु पश्यति ॥७५॥
एतस्माच्च कारणादयमर्थो व्यवसीयताम् । दुःखी यदि भवेदात्मा कस्साक्षी दुःखिनो भवेत् । दुःखिनः साक्षितायुक्ता साक्षिणो दुःखिता तथा ॥७६॥
पूर्वस्यैव व्याख्यानार्थमाह । नर्ते स्याद्विक्रियां दुःखी साक्षिता का विकारिणः । धीविक्रियासहस्राणां साक्ष्यतोऽहमविक्रियः ॥७७॥
एवं सर्वस्मिन् व्यभिचारिण्यात्मवस्त्वेवाव्यभिचारीत्यनुभवतो व्यवस्थापनायाह । प्रमाणतन्निभेष्वस्या नोच्छित्तिर्मम संविदः । मत्तोऽन्यद्रूपमाभाति यत्तत्स्यात्क्षणभङ्गि हि ॥७८॥ उत्पत्तिस्थितिभङ्गेषु कुम्भस्य वियतो यथा । नोत्पत्तिस्थितिनाशास्स्युर्बुद्धेरेवं ममापि च ॥७९॥
सुखदुःखसम्बन्धानां च प्रत्यक्षत्वान्न श्रद्धामात्रग्राह्यमेतत् । सुखदुःखादिसम्बन्धां यथा दण्डेन दण्डिनम् । राधको वीक्षते बुद्धिं साक्षी तद्वदसंहतः ॥८०॥
एतस्माच्च हेतोर्धियः परिणामित्वं युक्तम् । येनैवास्या भवेद्योगः सुखकुम्भादिना धियः । तं विदन्ती तदैवान्यं वेत्ति नातो विकारिणी ॥८१॥
अस्याश्च क्षणभङ्गरत्वे स्वयमेवात्मा साक्षी । न हि कूटस्थावबोधमन्तरेण बुद्धेरेवाविर्भावतिरोभावादि- सिद्धिरस्ति । परिणामिधियां वृत्तं नित्याक्रमदृगात्मना । षड्भावविक्रियामेति व्याप्तं खेनाङ्करो यथा ॥८२॥
सत आत्मनश्चाविकारित्वे युक्तिः । स्मृतिस्वप्नप्रबोधेषु न कश्चित्प्रत्ययो धियः । दृशाव्याप्तोऽस्त्यतो नित्यमविकारी स्वयंदृशिः ॥८३॥
एवं तावत्पराभ्युपगतप्रक्रियाप्रस्थानेन निरस्ताशेषविकारैकात्म्यं प्रतिपादितमुपपत्तिभिः । अथाधुना श्रौतीं प्रक्रियामवलम्ब्योच्यते । अस्तु वा परिणामोऽस्य दृशेः कूटस्थरूपतः । कल्पितोऽपि मृषैवासौ दण्डस्येवाप्सु वक्रता ॥८४॥
षट्सु भावविकारेषु निषिद्धेश्वेवमात्मनि । दोषः कश्चिदिहासक्तुं न शक्यस्तार्किकश्वभिः ॥८५॥
प्रकृतमेवोपादाय बुद्धेः परिणामित्वमात्मनश्च कूटस्थत्वं युक्तिभिरुच्यते । प्रत्यर्थं तु विभिद्यन्ते बुद्धयो विषयोन्मुखाः । न भिदावगतेस्तद्वत्सर्वास्ताश्चिन्निभा यतः ॥८६॥
स्वसम्बद्धार्थ एव । सावशेषपरिच्छेदिन्यत एव न कृत्स्नवित् । नो चेत्परिणमेद्बुद्धिः सर्वज्ञा स्वात्मवद्भवेत् ॥८७॥
अतोऽवगतेरेकत्वात् । चण्डालबुद्धेर्यर्दृर्ष्टृ तदेव ब्रह्मबुद्धिदृक् । एकं तदुभयोर्ज्योतिर्भास्यभेदादनेकवत् ॥८८॥
कस्मात् । अवस्थादेशकालादिभेदो नास्त्यनयोर्यतः । तस्माज्जगद्धियां वृत्तं ज्योतिरेकं सदेक्षते ॥८९॥
सर्वदेहेष्वात्मैकत्वे प्रतिबुद्धपरमार्थतत्त्वस्या- प्यप्रतिबुद्धदेहसम्बद्धादशेषदुःखसम्बन्ध इति चेत्तन्न । बोधात्प्रागपि दुःखित्वं नान्यदेहोत्थमस्ति नः । बोधादूर्ध्वं कुतस्तत्स्याद्यत्र स्वगतमप्यसत् ॥९०॥
न चेयं स्वमनीषिकेति ग्राह्यम् । कुतः । श्रुत्यवष्टम्भात् । शब्दाद्याकारनिर्भासा हानोपादानधर्मिणी । भास्येत्याह श्रुतिर्दृष्टिरात्मनोऽपरिणामिनः ॥९१॥
का त्वसौ श्रुतिः । दृष्टेर्द्रष्टारमात्मानं न पश्येर्दृश्यमानया । विज्ञातारमरे केन विजानीयाद्धियां पतिम् ॥९२॥
यस्मात्सर्वप्रमाणोपपन्नोऽयमर्थस्तस्मादतोऽन्यथावादिनो जात्यन्धा इवानुकम्पनीया इत्याह । तदेतदद्वयं ब्रह्म निर्विकारं कुबुद्धिभिः । जात्यन्धगजदृष्ट्येव कोटिशः परिकल्प्यते ॥९३॥
प्रमाणोपपनस्यार्थस्यासम्भावनात्तदनुकम्पनीयत्वसिद्धिः । तदेतदाह । यद्यद्विशेषणं दृष्टं नात्मनस्तदनन्वयात् । खस्य कुम्भादिवत्तस्मादात्मा स्यान्निर्विशेषणः ॥९४॥
अतश्चात्मनो भेदासंस्पर्शो भेदस्य मिथ्यास्वाभाव्यादत आह । अवगत्यात्मनो यस्मादागमापायि कुम्भवत् । साहंकारमिदं विश्वं तस्मात्तत्स्यात्कचादिवत् ॥९५॥ सर्वस्यैवानुमानव्यापारस्य फलमियदेव यद्विवेकग्रहणम् । तदुच्यते । बुद्धेरनात्मधर्मत्वमनुमानात्प्रसिद्ध्यति । आत्मनोऽप्यद्वितीयत्वमात्मत्वादेव सिद्ध्यति ॥९६॥
यद्यप्ययं ग्रहीतृग्रहणग्राह्यगृहीतितत्फलात्मक आब्रह्मस्तम्बपर्यन्तः संसारोऽन्वयव्यतिरेकाभ्यामनात्मतया निर्माल्यवदपविद्धः । तथापि तु नैवासौ स्वतस्सिद्धात्म- व्यतिरिक्तानात्मप्रकृतिपदार्थव्यपाश्रयः सांख्यानामिव । किं तर्हि । स्वतस्सिद्धानुदितानस्तमितकूटस्थात्मप्रज्ञानमात्र- शरीरप्रतिबिम्बिताविचारितसिद्धात्मानवबोधाश्रय एव तदुपादानत्वात्तस्येतीममर्थं निर्वक्तुकाम आह । ऋते ज्ञानं न सन्त्यर्था अस्ति ज्ञानमृतेऽपि तान् । एवं धियो हिरुग्ज्योतिर्विविच्यादनुमानतः ॥९७॥
यस्मात्प्रमाणप्रमेयव्यवहार आत्मानवबोधाश्रय एव तस्मात्सिद्धमात्मनोऽप्रमेयत्वम् । नैव हि कार्यं स्वकारणमतिलङ्घ्यान्यत्राकारक आस्पदमुपनिबध्नाति । अत आह । व्यवधीयन्त एवामी बुद्धिदेहघटादयः । आत्मत्वादात्मनः केन व्यवधानं मनागपि ॥९८॥
स्वयमनवगमात्मकत्वादनवगमात्कत्वं च मोहमात्रोपादानत्वात् । प्रमाणमन्तरेणैषां बुद्ध्यादीनामसिद्धता । अनुभूतिफलार्थित्वादात्मा ज्ञः किमपेक्षते ॥९९॥ वक्ष्यमाणेतरेतराध्याससिद्ध्यर्थमुक्तव्यतिरेकानुवादः । घटबुद्धेर्घटाच्चर्थाद्द्रष्टुर्यद्वद्विभिन्नता । अहम्बुद्धेरहङ्गम्याद्दुःखिनश्च तथा दृशेः ॥१००॥
एवमेतयोरात्मानात्मनोः स्वतः परतः सिद्धयोर्लौकिकरज्जु- सर्पाध्यारोपवदविद्योपाश्रय एवेतरेतराध्यारोप इत्येतदाह । अभ्रयानं यथा मोहाच्छशभृत्यध्यवस्यति । सुखित्वादीन्धियो धर्मांस्तद्वदात्मनि मन्यते ॥१०१ ॥
दग्धृत्वं च यथा वह्नेरयसो मन्यते कुधीः । चैतन्यं तद्वदात्मीयं मोहात्कर्तरि मन्यते ॥१०२॥
सर्व एवायमात्मानात्मविभागः प्रत्यक्षादिप्रमाणवर्त्म- न्युनपतितोऽविद्योत्सङ्गवर्त्येव न परमात्मव्यपाश्रयः । अस्याश्चाविद्यायाः सर्वानर्थहेतोः कुतो निवृत्तिरिति चेत्तदाह । दुःखराशेर्विचित्रस्य सेयं भ्रान्तिश्चिरन्तनी । मूलं संसारवृक्षस्य तद्बाधस्तत्त्वदर्शनात् ॥१०३॥
तद्बाधस्तत्त्वदर्शनादिति कुतः सम्भाव्यत इति चेदत आहागोपालाविपालपण्डितमियमेव प्रसिद्धिः । अप्रमोत्थं प्रमोत्थेन ज्ञानं ज्ञानेन बाध्यते । अहिरज्ज्वादिवद्बाधो देहाद्यात्ममतेस्तथा ॥१०४॥
लौकिकप्रमेयवैलक्षण्यादात्मनो नेहानधिगताधिगमः प्रमाणफलम् । अविद्यानाशमात्रं तु फलमित्युपचर्यते । नाज्ञातज्ञापनं न्याय्यमवगत्येकरूपतः ॥१०५॥ यस्मादात्मानवबोधमात्रोपादानाः प्रमात्रादयस्तस्मात् । न विदन्त्यात्मनः सत्तां द्रष्टृदर्शनगोचराः । न चान्योन्यमतोऽमीषां ज्ञेयत्वं भिन्नसाधनम् ॥१०६॥
द्रष्ट्रादेरसाधारणरूपज्ञापनायाह । बाह्य आकारवान् ग्राह्यो ग्रहणं निश्चयादिमत् । अन्वय्यहमिति ज्ञेयः साक्षी त्वात्मा ध्रुवः सदा ॥१०७॥
सर्वकारकक्रियाफलविभागात्त्मकसंसारशून्य आत्मेति कारकक्रियाफलविभागसाक्षित्वादात्मनस्तदाह । ग्राहकग्रहणग्राह्यविभागे योऽविभागवान् । हानोपादानयोस्साक्षी हानोपादानवर्जितः ॥१०८॥
ग्राहकादिनिष्ठैव ग्राहकादिभावाभावविभागसिद्धिः कस्मान्नेति चेत्तदाह । स्वसाधन स्वयं नष्टो न नाशं वेत्त्यभावतः । अत एव न चान्येषामतोऽसौ भिन्नसाक्षिकः ॥१०९॥ ग्राहकादेरन्यसाक्षिपूर्वकत्वसिद्धेः स्वसाक्षिणोऽप्यन्यसाक्षिपूर्वकत्वा- दनवस्थेति चेत्तन्न साक्षिणो व्यतिरिक्तहेत्वनपेक्षत्वादत आह । धीवन्नापेक्षते सिद्धिमात्मान्यस्मादविक्रियः । निरपेक्षमपेक्ष्यैव सिद्धन्त्यन्ये न तु स्वयम् ॥११०॥
यतो ग्राहकादिष्वात्मभावोऽविद्यानिबन्धन एव तस्मादन्वयव्यतिरेकाभ्यां विभज्यानात्मनः स्वयम् । उत्पत्तिस्थितिनाशेषु योऽवगत्यैव वर्तते । जगतोऽविकारयावेहि तमस्मीति न नश्वरम् ॥१११॥
स्वतस्सिद्धात्मचैतन्यप्रतिबिम्बिताविचारितसिद्धिकात्मानव- बोधोत्थेतरेतरस्वभावापेक्षसिद्धत्वात्स्वतश्चासिद्धे- रनात्मनो द्वैतेन्द्रजालस्य । न स्वयं स्वस्य नानात्वं नावगत्यात्मना यतः । नोभाभ्यामप्यतस्सिद्धमद्वैतं द्वैतबाधया ॥११२॥
यथोक्तार्थप्रतिपत्तिद्रढिम्ने श्रुत्युदाहरणोपन्यासः । नित्यावगतिरूपत्वात्कारकादिर्न चात्मनः । अस्थूलं नेतिनेतीति न जायत इति श्रुतिः ॥११३॥
सर्वस्यास्य ग्राहकादेर्द्वैतप्रपञ्चस्यात्मानवबोध- मात्रोपादानस्य स्वयं सेद्धुमशक्यत्वादात्मसिद्धेश्चा- नुपादेयत्वात् । आत्मनश्चेन्निवार्यन्ते बुद्धिदेहघटादयः । षष्ठगोचरकल्पास्ते विज्ञेयाः परमार्थतः ॥११४॥
कुतो न्यायबलादेवं निश्चितं प्रतीयते । यस्मात् । नित्यां संविदमाश्रित्य स्वतस्सिद्धामविक्रियाम् । सिद्धायन्ते धियो बोधास्तांश्चाश्रित्य घटादयः ॥११५॥
यस्मान्न कयाचिदपि युक्त्यात्मनः कारकत्वं क्रियात्वं फलत्वं चोपपद्यते तस्मादात्मवस्तुयाथात्म्यानवबोध- मात्रोपादानत्वान्नभसीव रजोधूमतुषार नीहारनील- त्वाद्यध्यासो यथोक्तात्मनि सर्वोऽयं क्रियाकारकफलात्मक- संसारोऽहंममत्वयत्नेच्छादिमिथ्याध्यास एवेति सिद्धमिममर्थमाह । अहंमिथ्याभिशापेन दुःख्यात्मा तद्बुभुत्सया । इतः श्रुतिं तया नेतीत्युक्तः कैवल्यमास्थितः ॥११६॥
तस्यास्य मुमुक्षोः श्रौताद्वचसः स्वप्ननिमित्तोत्सारितनिद्रस्येवेयं निश्चितार्था प्रमा जायते । नाहं न च ममात्मत्वात्सर्वदानात्मवर्जितः । भानाविव तमोध्यासोऽपह्नवश्च तथा मयि ॥११७॥
सोऽयमेवम्प्रतिपान्नस्वभावमात्मानं प्रतिपन्नोऽनुक्रोशति । यत्र त्वस्येति साटोपं कृत्स्नद्वैतनिषेधिनीम् । प्रोत्सारयन्तीं संसारमप्यश्रौषं न किं श्रुतिम् ॥११८॥ इत्योमित्यवबुद्धात्मा निष्कलोऽकारकोऽक्रियः । विरक्त इव बुद्ध्यादेरेकाकित्वमुपेयिवान् ॥११९॥
इति द्वितीयोऽध्यायः ॥२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:45.0070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मोग

  • m  A germ, sprout. 
  • पु. ( कों . ) मोड ; अंकुर ; कोंब ; मोख पहा . 
  • पु. ( गो . ) लोभ ; मोह . 
RANDOM WORD

Did you know?

नाग आणि नागपंचमी यांचा परस्परसंबंध काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.