TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

नैष्कर्म्यसिद्धिः - अथ प्रथमोऽध्यायः

श्रीज्ञानोत्तममिश्रविरचित नैष्कर्म्यसिद्धि ग्रंथ मनन करण्या योग्य आहे.


अथ प्रथमोऽध्यायः
आब्रह्मस्तम्बपर्यन्तैः सर्वप्राणिभिः सर्वप्रकारस्यापि दुःखस्य स्वरसत एव जिहासितत्वात्तन्निवृत्त्यर्था प्रवृत्तिरस्ति स्वरसत एव । दुःखस्य च देहोपादानैकहेतुत्वाद्देहस्य च पूर्वोपचितधर्माधर्ममूलत्वादनुच्छित्तिः । तयोश्चविहितप्रतिषिद्धकर्ममूलत्वादनिवृत्तिः । कर्मणश्च रागद्वेषास्पदत्वाद्रागद्वेषयोश्च शोभनाशोभनाध्यासनिबन्धनत्वादध्यासस्य चाविचारितसिद्धद्वैतवस्तुनिमित्तत्वाद्द्वैतस्य च शुक्तिकारजतादिवत्सर्वस्यापि स्वतस्सिद्धाद्वितीयात्मानवबोधमात्रोपादानत्वादव्यावृत्तिः । अतः सर्वानर्थहेतुरात्मानवबोध एव । सुखस्य चानागमापायिनोऽपरतन्त्रस्यात्मस्वभावत्वात्तस्यानवबोधः पिधानम् । अतस्तस्यात्यन्तोच्छित्तावशेषपुरुषार्थपरि- समाप्तिः । अज्ञाननिवृत्तेश्च सम्यग्ज्ञानस्वरूपलाभ- मात्रहेतुत्वात्तदुपादानम् । अशेषानर्थहेत्वात्मानवबोध- विषयस्य चानागमिकप्रत्यक्षादिलौकिकप्रमाणाविषयत्वा- द्वेदान्तागमवाक्यादेव सम्यग्ज्ञानम् । अतोऽशेषवेदान्तसारसंग्रहप्रकरणमिदमारभ्यते । तत्राभिलषितार्थप्रचयाय प्रकरणार्थसंसूत्रणाय चायमाद्यः श्लोकः । खानिलाग्न्यब्धरित्र्यन्तं स्रक्फणीवोद्गतं यतः । ध्वान्तच्छिदे नमस्तस्मै हरये बुद्धिसाक्षिणे ॥१॥
स्वसम्प्रदायस्य चोदितप्रमाणपूर्वकत्वज्ञापनाय विशिष्टगुणसम्बन्धसंकीर्तनपूर्विका गुरोर्नमस्कारक्रिया । अलब्ध्वातिशयं यस्माद्व्यावृत्तास्तमबादयः । गरीयसे नमस्तस्मा अविद्याग्रन्थिभेदिने ॥२॥
नमस्कारनिमित्तस्वाशयाविष्करणार्थः । वेदान्तोदरसंगूढं संसारोत्सारि वस्तुगम् । ज्ञानं व्याकृतमप्यन्यैर्वक्ष्ये गुर्वनुशिक्षया ॥३॥
किंविशयं प्रकरणमिति चेत्तदुपन्यासः । यत्सिद्धाविदमः सिद्धिर्यदसिद्धौ न किंचन । प्रत्यग्धर्मैकनिष्ठस्य याथात्म्यं वक्ष्यते स्फुटम् ॥४॥ विवक्षितप्रकरणार्थप्ररोचनायानुक्तदुरुक्ताप्रामाण्यकारण- शङ्काव्युदासेनस्वगुरोः प्रामाण्योपवर्णनम् । गुरूक्तो वेदराद्धान्तस्तत्र नो वच्म्यशक्तितः । सहस्रकिरणव्याप्ते खद्योतः किं प्रकाशयेत् ॥५॥
गुरुणैव वेदार्थस्य परिसमापितत्वात्प्रकरणोक्तौ ख्यात्याद्यप्रामाण्य- कारणाशङ्केति चेत्तद्व्युदासार्थमाह । न ख्यातिलाभपूजार्थं ग्रन्थोऽस्माभिरुदीर्यते । स्वबोधपरिशुद्ध्यर्थं ब्रह्मविन्निकषाश्मसु ॥६॥
अनर्थानर्थहेतुपुरुषार्थतद्धेतुप्रकरणार्थसंग्रहज्ञाप - नायोपन्यासः । ऐकात्म्याप्रतिपत्तिर्या स्वात्मानिभवसंश्रया । साऽविद्या संसृतेर्बीजं तन्नाशो मुक्तिरात्मनः ॥७॥ पुरुषार्थहेतोरवशिष्टत्वात्तदभिव्याहारः । वेदावसानवाक्योत्थसम्यग्ज्ञानाशुशुक्षणिः । दन्दहीत्यात्मनो मोहं न कर्माप्रतिकूलतः ॥८॥
प्रतिज्ञातार्थसंशुद्ध्यर्थं पूर्वपक्षोक्तिः । तत्र ज्ञानमभ्युपगम्य तावदुपन्यासः । मुक्तेः क्रियाभिः सिद्धत्वाज्ज्ञानं तत्र करोति किम् । कथं चेच्छृणु तत्सर्वं प्रणिधाय मनो यथा ॥९॥ अकुर्वतः क्रियाः काम्या निषिद्धास्त्यजतस्तथा । नित्यनैमित्तिकं कर्म विधिवच्चानुतिष्ठतः ॥१०॥
किमतो भवति । काम्यकर्मफलं तस्माद्देवादीमं न ढौकते । निषिद्धस्य निरस्तत्वान्नारकीं नैत्यधोजनिम् ॥११॥
देहारम्भकयोश्च धर्माधर्मयोर्ज्ञानिना सह कर्मिणः समानौ चोद्यपरिहारौ । वर्तमानमिदं याभ्यां शरीरं सुखदुःखदम् । आरब्धं पुण्यपापाभ्यां भोगादेव तयोः क्षयः ॥१२॥ काम्यप्रतिषिद्धकर्मफलत्वात्संसारस्य तन्निरासेनैवाशेषानर्थनिरासस्य सिद्धत्वात्किं नित्यानुष्ठानेनेति चेत्तन्न । तदकरणादप्यनर्थप्रसक्तेः । नित्यानुष्ठानतश्चैनं प्रत्यवायो न संस्पृशेत् । अनादृत्यात्मविज्ञानमतः कर्माणि संश्रयेत् ॥१३॥
अभ्युपेत्यैवमुच्यते न तु यथावस्थितात्मवस्तुविषयं ज्ञानमस्ति । तत्प्रतिपादकप्रमाणाभावात् । यावन्त्यश्चेह विद्यन्ते श्रुतयस्स्मृतिभिस्सह । विदधत्युरुयत्नेन कर्मातो भूरिसाधनम् ॥१४॥
स्यात्प्रमाणसम्भवो भवदपराधादिति चेत्तन्न । यतः । यत्नतो वीक्षमाणोऽपि विधिं ज्ञानस्य न क्वचित् । श्रुतौ स्मृतौ वा पश्यामि विश्वासो नान्यतोऽस्ति नः ॥१५॥ स्यात्प्रवृत्तिरन्तरेणापि विधिं लोकवदिति चेत्तन्न । यतः । अन्तरेण विधिं मोहाद्यः कुर्यात्साम्परायिकम् । न तत्स्यादुपकाराय भस्मनीव हुतं हविः ॥१६॥ अभ्युपगतप्रामाण्यवेदार्थविज्जैमिन्यनुशासनाच्च । "आम्नायस्य क्रियार्थत्वादानर्थक्यम् "इतोऽन्यथा । इति साटोपमाहोच्चैर्वेदविज्जैमिनिः स्वयम् ॥१७॥
मन्त्रवर्णाच्च । "कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः "। इति मन्त्रोऽपि निश्शेषं कर्मण्यायुरवासृजत् ॥१८॥
ज्ञानिनश्च वस्तुनि वाक्यप्रामाण्याभ्युपगमाद्वाक्यस्य च क्रियापदप्रधानत्वात्ततश्चाभिप्रेतज्ञानाभावः । विरहय्य क्रियां नैव संहन्यन्ते पदान्यपि । न समस्त्यपदं वाक्यं यत्स्याज्ज्ञानविधायकम् ॥१९॥
ज्ञानाभ्युपगमेऽपि न दोषः । यतः । कर्मणोऽङ्गाङ्गिभावेन स्वप्रधानतयाऽथवा । सम्बन्धस्येह संसिद्धेर्ज्ञाने सत्यप्यदोषतः ॥२०॥
यस्माज्ज्ञानाभ्युपगमानभ्युपगमेऽपि न ज्ञानान्मुक्तिः । अतः सर्वाश्रमाणां हि वाङ्मनःकायकर्मभिः । स्वनुष्ठितैर्यथाशक्ति मुक्तिः स्यान्नान्यसाधनात् ॥२१॥
असदर्थप्रलापोऽयमिति दूषणसम्भावनायाह । इति हृष्टधियां वाचः स्वप्रज्ञाऽऽध्मातचेतसाम् । घुष्यन्ते यज्ञशालासु धूमानद्धधियां किल ॥२२॥
दूषणोपक्रमावधिज्ञापनायाह । अत्राभिदध्महे दोषान् क्रमशो न्यायबृंहितैः । वचोभिः पूर्वपक्षोक्तिघातिभिर्नातिसम्भ्रमात् ॥२३॥
चतुर्विधस्यापि कर्मकार्यस्य मुक्तावसम्भवान्न मुक्तेः कर्मकार्यत्वम् । अज्ञानहानमात्रत्वान्मुक्तेः कर्म न साधनम् । कर्मापमार्ष्टि नाज्ञानं तमसीवोत्थितं तमः ॥२४॥ कर्मकार्यत्वाभ्युपगमेऽपि दोष एव । एकेन वा भवेन्मुक्तिर्यदि वा सर्वकर्मभिः । प्रत्येकं चेद्वृथान्यानि सर्वेभ्योऽप्येककर्मता ॥२५॥
सर्वप्रकारस्यापि कर्मण उत्पत्तित एव विशिष्टसाध्याभि- सम्बन्धान्न परिशेष्यन्यायसिद्धिः । दुरितक्षपणार्थत्वान्न नित्यं स्याद्विमुक्तये । स्वर्गादिफलसम्बन्धात्काम्यं कर्म तथैव न ॥२६॥
प्रमाणासम्भवाच्च । साध्यसाधनभावोऽयं वचनात्पारलौकिकः । नाश्रौषं मोक्षदं कर्म श्रुतेर्वक्त्रात्कथंचन ॥२७॥
अभ्युपगताभ्युपगमाच्च श्वश्रूनिर्गच्छोक्तिवद्भवतो निष्प्रयोजनः प्रलापः । निषिद्धकाम्ययोस्त्यागस्त्वयापीष्टो यथा मया । नित्यस्याफलवत्त्वाच्च न मोक्षः कर्मसाधनः ॥२८॥
एवं तावत् "मुक्तेः क्रियाभिः सिद्धत्वात् "इति निरस्तोऽयं पक्षः । अथाधुना सर्वकर्मप्रवृत्तिहेतुनिरूपणेन यथावस्थितात्मवस्तुविषयकेवलज्ञानमात्रादेव सकलसंसारानर्थनिवृत्तिरितीमं पक्षं द्रढयितुकाम आह । इह चेदं परीक्ष्यते । किं यथा प्रतिषिद्धेषु यादृच्छिकेषु च कर्मसु स्वाभाविकस्वाशयोत्थनिमित्तवशादेवेदं हितमिदमहितमिति विशेषान् परिकल्प्य मृगतृष्णिकोदकपिपासुरिव लौकिकप्रमाणप्रसिद्धान्येव साधनान्युपादाय हितप्राप्तयेऽहितनिरासाय च स्वयमेव प्रवर्तते निवर्तते च तथैवादृष्टार्थेषु काम्येषु नित्येषु च कर्मसु किं वान्यदेव तत्र प्रवृत्तिनिवृत्तिनिमित्तमिति । किंचातः । यद्येवं श्रुणु । यदि तावद्यथावस्थितवस्तुसम्यग्ज्ञानं प्रमाणभूतं लौकिकमागमिकं वा प्रवृत्तिनिमित्तमिति निश्चीयते निवृत्तिशास्त्रं च नाभ्युपगम्यते तदा हताः कर्मत्यागिनो भ्रान्तिविज्ञानमात्रावष्टम्भादलौकिक- प्रमाणोपात्तकर्मानुष्ठानत्यागित्वाच्च । अथ मृगतृष्णिकोदकपिपासुप्रवृत्तिनिमित्तवदयथावस्तुभ्रान्ति- विज्ञानमेव सर्वप्रवृत्तिनिमित्तं तदा वर्द्धामहे वयं हताः स्थ यूयमिति । हितं सम्प्रेप्सतां मोहादहितं च जिहासताम् । उपायान्प्राप्तिहनार्थान् शास्त्रं भासयतेऽर्कवत् ॥२९॥
एवं तावत्प्रत्यक्षानुमानागमप्रमाणावष्टम्भादात्मनो निरतिशयसुखहिताव्यतिरेकसिद्धेरहितस्य च षष्ठगोचरवत्स्वत एवानभिसम्बन्धादेवंस्वाभाव्या- त्मानवबोधमात्रादेव हितं मे स्यादहितं मे मा भूदिति मिथ्याज्ञानं तूषरशुक्तिकानवबोधोत्थमिथ्याज्ञानवत्- प्रवृत्तिनिमित्तमिति निर्धारितम् । शास्त्रं च न पदार्थशक्त्याधानकृदिति । अथैतस्यैवोत्तरत्र प्रपञ्च आरभ्यते । न परीप्सां जिहासां वा पुंसः शास्त्रं करोति हि । निजे एव तु ते यस्मात्पश्वादावपि दर्शनात् ॥३०॥
उक्तं तावदनवबुद्धवस्तुयाथात्म्य एव विधिप्रतिषेशशास्त्रेष्वधिक्रियत इति । लिप्सतेऽज्ञानतोऽलब्धं कण्ठे चामीकरं यथा । वर्जितं च स्वतो भ्रान्त्या छायायामात्मनो यथा ॥३१॥ भयान्मोहावनद्धात्मा रक्षः परिजिहीर्षति । पच्चापरिहृतं वस्तु तथालब्धं च लिप्सते ॥३२॥
तत्रैतेषु चतुर्षु विषयेषु प्राप्तये परीहाराय च विभज्य न्यायः प्रदर्श्यते । प्राप्तव्यपरिहार्येषु ज्ञात्वोपायाञ्छृतेः पृथक् । कृत्वाथ प्राप्नुयात्प्राप्यं तथानिष्टं जहात्यपि ॥३३॥
अथावशिष्टयोः स्वभावत एव । परिहृतावाप्तयोर्बोधाद्धानप्राप्ती न कर्मणा । मोहमात्रान्तरायत्वात्क्रियया ते न सिध्यतः ॥३४॥
कस्मात्पुनरात्मवस्तुयाथात्म्यावबोधमात्रादेवाभिलषित- निरतिशयसुखावाप्तिनिश्शेषदुःखनिवृत्ती भवतो न तु कर्मणेति । उच्यते । कर्माज्ञानसमुत्थत्वान्नालं मोहापनुत्तये । सम्यग्ज्ञानं विरोध्यस्य तामिस्रस्यांशुमानिव ॥३५॥
नन्वात्मज्ञानमप्यविद्योपादानम् । न हि शास्त्रशिष्याचार्याद्यनुपादायात्मज्ञानमात्मानं लभतः इति । नैष दोषः । यत आत्मज्ञानं हि स्वतस्सिद्धपरमार्थात्मवस्तुस्वरूपमात्राशयादेवाविद्यातदुत् पन्न कारकग्रामप्रध्वंसि स्वात्मोपतावेव शास्त्रादपेक्ष्यते नोत्पन्नमविद्यानिवृत्तौ । कर्म पुनः स्वात्मोत्पत्तावुत्पन्नं च । न हिक्रिया कारकनिस्स्पृहा कल्पकोटिव्यवहितफलदानाय स्वात्मानं बिभर्ति साध्यमानमात्ररूपत्वात्तस्याः । न च क्रियात्मज्ञानवत्स्वात्मप्रतिलम्भकाल एव स्वर्गादिफलेन कर्तारं सम्बध्नाति । आत्मज्ञानं पुनः पुरुषार्थसिद्धौ नोत्पद्यमानस्वरूपव्यतिरेकेणान्यद्रूपान्तरं साधनान्तरं वापेक्षते । कुत एतत् । यतः । बलवद्धि प्रमाणोत्थं सम्यग्ज्ञानं न बाध्यते । आकाङ्क्षते न चाप्यान्यद्बाधनं प्रति साधनम् ॥३६॥
स्वपक्षस्य हेत्ववष्टम्भेन समर्थितत्वानिराशङ्क- मुपसंह्रियते । तस्माद्दुःखोदधेर्हेतोरज्ञानस्यापनुत्तये । सम्यग्ज्ञानं सुपर्याप्तं क्रिया चेन्नोक्तहेतुतः ॥३७॥
ननु बलवदपि सम्यग्ज्ञानं सदप्रमाणोत्थेन बाध्यमानमुपलभामहे यत उत्पन्नपरमार्थबोधस्यापि कर्तृत्वभोक्तृत्वरागद्वेषाद्यनवबोधोत्थप्रत्यया आविर्भवन्ति । न ह्यबाधिते सम्यग्ज्ञाने तद्विरुद्धानां प्रत्ययानां सम्भवोऽस्ति । नैतदेवम् । कुतः । बाधितत्वादविद्याया विद्यां सा नैव बाधते । तद्वासना निमित्तत्वं यान्ति विद्यास्मृतेर्ध्रुवन् ॥३८॥
"कर्माज्ञानसमुत्थत्वात् "इत्युक्तो हेतुस्तस्य च समर्थनं पूर्वमेवाभिहितं "हितं सम्प्रेप्सताम् " इत्यादिना । तदभ्युच्चयार्थमविद्यान्वयेन च संसारान्वयित्वं प्रदर्शयिष्यामीत्यत आह । ब्राह्मण्याद्यात्मके देहे लात्वा नात्मेति भावनाम् । श्रुतेः किङ्करतामेति वाङ्मनःकायकर्मसु ॥३९॥
यस्मात्कर्माज्ञानसमुत्थमेव तस्मात्तद्व्यावृत्तौ निवर्तत इत्युच्यते । दग्धाखिलाधिकारश्चेद्ब्रह्मज्ञानाग्निना मुनिः । वर्तमानः श्रुतेर्मूर्ध्नि नैव स्याद्वेदकिङ्करः ॥४०॥
अथेतरो घनतराविद्या पटलसंवीतान्तःकरणोऽङ्गीकृत- कर्तृत्वाद्यशेषकर्माधिकारकारणो विधिप्रतिषेधचोदनासंदंशोपदष्टः कर्मसु प्रवर्तमानः । शुभैः प्राप्नोति देवत्वं निषिद्धैर्नारकीं गतिम् । उभाभ्यां पुण्यपापाभ्यां मानुष्यं लभतेऽवशः ॥४१॥
आब्रह्मस्तम्बपर्यन्ते घोरे दुःखोदधौ घटीयन्त्रवदारोहावरोहन्यायेनाधममध्यमोत्तमसुखदुःख- मोहविद्युच्चपलसम्पातदायिनीर्विचित्रयोनीश्चण्डोत्पिञ्जल- कश्वसनवेगाभिहताम्भोधिमध्यवर्तिशुष्कालाबुवच्छुभा- शुभव्यामिश्रकर्मवायुसमीरितः । एवं चङ्क्रम्यमाणोऽयमविद्याकामकर्मभिः । पाशितो जायते कामी म्रियते चासुखावृतः ॥४२॥ यथोक्तेऽर्थ आदरविधानाय प्रमाणोपन्यासः । श्रुतिश्चेमं जगादार्थं कामस्य विनिवृत्तये । तन्मूला संसृतिर्यस्मात्तन्नाशोऽज्ञानहानतः ॥४३॥
का त्वसौ श्रुतिरिति चेत् । "यदा सर्वे प्रमुच्यन्त ""इति नु "इति च वाजिनः । कामबन्धनमेवेदं व्यासोऽप्याह पदेपदे ॥४४॥
एष संसारपन्था व्याख्यातः । अथेदानीं तद्व्यावृत्तये कर्माण्यारादुपकारकत्वेन यथा मोक्षहेतुतां प्रतिपद्यन्ते तथाभिधीयते । तस्यैवं दुःखतप्तस्य कथंचित्पुण्यशीलनात् । नित्येहाक्षालितधियो वैराग्यं जायते हृदि ॥४५॥
कीदृग्वैराग्यमुत्पद्यत इति । उच्यते । नरकाद्भीर्यथास्याभूत्तथा काम्यफलादपि । यथार्थदर्शनात्तस्मान्नित्यं कर्म चिकीर्षति ॥४६॥
एवं नित्यनैमित्तिककर्मानुष्ठानेन । शुध्यमानं तु तच्चित्तमीश्वरार्पितकर्मभिः । वैराग्यं ब्रह्मलोकादौ व्यनक्त्यथ सुनिर्मलम् ॥४७॥
यस्माद्रजस्तमोमलोपसंसृष्टमेव चित्तं कामबडिशेनाकृष्य विषयदुरन्तसूनास्थानेष निक्षिप्यते तस्मान्नित्यनैमित्तिककर्मानुष्ठानपरिमार्जनेनापविद्ध- रजस्तमोमलं प्रसन्नमनाकृलं संमार्जितस्फटिकशिलाकल्पं बाह्यविषयहेतुकेन च रागद्वेषात्मकेनातिग्रहबडिशेना- नाकृष्यमाणं विधूताशेषकल्मषं प्रत्यङ्मात्रप्रवणं चित्तदर्पणमवतिष्टते । अत इदमभिधीयते । व्युत्थिताशेषकामेभ्यो यदा धीरवतिष्ठते । तदैव प्रत्यगात्मानं स्वयमेवाविविक्षति ॥४८॥
अतःपरमवसिताधिकाराणि कर्माणि प्रत्यक्प्रवणवत्वसूनौ कृतसम्प्रत्तिकानि चरितार्थानि सन्ति । प्रत्यक्प्रवणतां बुद्धेः कर्माण्युत्पाद्य शुद्धितः । कृतार्थान्यस्तमायान्ति प्रावृडन्ते घना इव ॥४९॥
यतो नित्यकर्मानुष्ठानस्यैष महिमा । तस्मान्मुमुक्षुभिः कार्यमात्मज्ञानाभिलाषिभिः । नित्यं नैमित्तिकं कर्म सदैवात्मविशुद्धये ॥५०॥
यथोक्तेऽर्थे सर्वज्ञवचनं प्रमाणम् । "आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शम"एवेति च स्मृतिः ॥५१॥
नित्यकर्मानुष्ठानाद्धर्मोत्पत्तिर्धर्मोत्पत्तेः पापहानिस्ततश्चित्तशुद्धिस्ततः संसारयाथात्म्यावबोधस्ततो वैराग्यं ततो मुमुक्षुत्वं ततस्तदुपायपर्येषणं ततः सर्वकर्मतत्साधनसंन्यासस्ततो योगाभ्यासस्ततश्चित्तस्य प्रत्यक्प्रवणता ततस्तत्त्वमस्यादिवाक्यार्थपरिज्ञानं ततोऽविद्योच्छेदस्ततश्च स्वात्मन्ये- वावस्थानं "ब्रह्मैव सन् ब्रह्माप्येति " "विमुक्तश्च विमुच्यते "इति । पारम्पर्येण कर्मैवं स्यादविद्यानिवृत्तये । ज्ञानवन्नाविरोधित्वात्कर्माविद्यां निरस्यति ॥५२॥
न च कर्मणः कार्यमण्वपि मुक्तौ सम्भाव्यते नापि मुक्तौ यत्सम्भवति तत्कर्मापेक्षते । तदुच्यते । उत्पाद्यमाप्यं संस्कार्यं विकार्यं च क्रियाफलम् । नैवं मुक्तिर्यतस्तस्मात्कर्म तस्या न साधनम् ॥५३॥
एवं तावत्केवलं कर्म साक्षादविद्यापनुत्तये न पर्याप्तमिति प्रपञ्चितम् । मुक्तौ च मुमुक्षुज्ञानत- द्विषयस्वाभाव्यानुरोधेन सर्वप्रकारस्यापि कर्मणोऽसम्भव उक्तो "हितं सम्प्रेप्सताम् "इत्यादिना । यादृशश्चारादुपकारकत्वेन ज्ञानोत्पत्तौ कर्मणां समुच्चयः सम्भवति तथा प्रतिपादितम् । अविद्योच्छित्तौ तु लब्धात्मस्वभावस्यात्मज्ञानस्यैवासाधारणं साधकतमत्वं नान्यस्य प्रधानभूतस्य गुणभूतस्य चेत्येतदधुनोच्यते । तत्र ज्ञानं गुणभूतं तावदहेतुरित्येतदाह । संनिपत्य न च ज्ञानं कर्माज्ञानं निरस्यति । साध्यसाधनभावत्वादेककालानवस्थितेः ॥५४॥
समप्रधानयोरप्यसम्भव एव । बाध्यबाधकभावाच्च पञ्चास्योरणयोरिव । एकदेशानवस्थानान्न समुच्चयता तयोः ॥५५॥
कुतो बाध्यबाधकभावः । यस्मात् । अयथावस्त्वविद्या स्याद्विद्या तस्या विरोधिनी । समुच्चयस्तयोरेवं रविशार्वरयोरिव ॥५६॥
तस्मादकारकब्रह्मात्मनि परिसमाप्तावबोधस्याशेषकर्म- चोदनानामचोद्यस्वाभाव्यात्कुण्ठता । कथं तत् । अभिधीयते । बृहस्पतिसवे यद्वत्क्षत्रियो न प्रवर्तते । ब्राह्मणत्वाद्यहंमानी विप्री वा क्षत्रकर्मणि ॥५७॥
यथायं दृष्टान्त एवं दार्ष्टान्तिकोऽपीत्येतदाह । विदेहो वीतसन्देहो नेतिनेत्यवशेषितः । देहाद्यनात्मदृक्तद्वत्क्रियां वीक्षतेऽपि न ॥५८॥
तस्यार्थस्याविष्करणार्थमुदाहरणम् । मृत्स्नेभके यथेभत्वं शिशुरध्यस्य वल्गति । अध्यस्यात्मानि देहादीन्मूढस्तद्वत्विचेष्टते ॥५९॥
न च वयं ज्ञानकर्मणोः सर्वत्रैव प्रत्याचक्ष्महे । यत्र प्रयोज्यप्रयोजकभावो ज्ञानकर्मणोस्तत्र नास्मत्पित्रापि शक्यते निवारयितुम् । तत्र विभागप्रदर्शनायोदाहरणं प्रदर्श्यते । स्थाणुं चोरधियालाय भीतो यद्वत्पलायते । बुद्ध्यादिभिस्तथात्मानं भ्रान्तोऽध्यारीप्य चेष्टते ॥६०॥
एवं यत्रयत्र ज्ञानकर्मणोः प्रयोज्यप्रयोजकभावस्तत्र सर्वत्रायं न्यायः । यत्र तु न समकालं नापि क्रमेणोपपद्यते समुच्चयः सविषय उच्यते । स्थाणोः सतत्त्वविज्ञानं यथा नाङ्गं पलायते । आत्मनस्तत्त्वविज्ञानं तद्वन्नाङ्गं क्रियाविधौ ॥६१॥
यस्माद्गुणस्यैतत्स्वाभाव्यम् । यद्धि यस्यानुरोधेन स्वभावमनुवर्तते । तत्तस्य गुणभूतं स्यान्न प्रधानाद्गुणो यतः ॥६२॥
यस्मात् । कर्मप्रकरणाकाङ्क्षिज्ञानं कर्मगुणो भवेत् । यद्धि प्रकरणे यस्य तत्तदङ्गं प्रचक्षते ॥६३॥
स्वरूपलाभमात्रेण यत्त्वविद्यां निहन्ति नः । न तदङ्गं प्रधानं वा ज्ञानं स्यात्कर्मणः क्वचित् ॥६४॥
समुच्चयपक्षवादिनाप्यवश्यमेतदभ्युपगन्तव्यम् । यस्मात् । अज्ञानमनिराकुर्वज्ज्ञानमेव न सिध्यति । विपन्नकारकग्रामं ज्ञानं कर्म न ढौकते ॥६५॥
इदं चापरं कारणं ज्ञानकर्मणोः समुच्चयनिबर्हि । हेतुस्वरूपकार्याणि प्रकाशतमसोरिव । विरोधीनि ततो नास्ति साङ्गत्यं ज्ञानकर्मणोः ॥६६॥
एवमुपसंहृते केचित्स्वसम्प्रदायबलावष्टम्भादाहुर्यदे- तद्वेदान्तवाक्यादहं ब्रह्मेति विज्ञानं समुत्पद्यते तन्नैव स्वोत्पत्तिमात्रेणाज्ञानं निरस्यति । किं तर्हि । अहन्यहनि द्राघीयसा कालेनोपासीनस्य सतो भावनोपचयान्निश्शेषम् अज्ञानमपगच्छति "देवो भूत्वा देवानप्येति "इति श्रुतेः । अपरे तु ब्रुवते वेदान्तवाक्यजनितमहं ब्रह्मेति विज्ञानं संसर्गात्मकत्वादात्मवस्तुयाथात्म्यावगाह्येव न भवति । किं तर्हि । एतदेव गङ्गास्रोतोवत्सततमभ्यस्यतोऽन्यदेवावाक्यार्थात्मकं विज्ञानान्तरमुत्पद्यते । अस्य पक्षद्वयस्य निवृत्तय इदमभिधीयते । सकृत्प्रवृत्त्या मृद्नाति क्रियाकारकरूपभृत् । अज्ञानमागमज्ञानं साङ्गत्यं नास्त्यतोऽनयोः ॥६७॥
एवं तावदनानात्वे ब्रह्मणि ज्ञानकर्मणोः समुच्चयो निराकृतः । अथाधुना पक्षान्तराभ्युपगमेनापि प्रत्यवस्थाने पूर्ववदनाश्वासो यथा तथाभिधीयते । अनुत्सारितनानात्वं ब्रह्म यस्यापि वादिनः । तन्मतेनापि दुस्साध्यो ज्ञानकर्मसमुच्चयः ॥६८॥
तस्य विभागोक्तिर्दूषणविभागप्रज्ञप्तये । ब्रह्मात्मा वा भवेत्तस्य यदि वानात्मरूपकम् । आत्मानाप्तिर्भवेन्मोहादितरस्याप्यनात्मनः ॥६९॥
तत्र यदि तावद्वास्तवेनैव वृत्तेन ब्रह्म प्राप्तमात्मस्वाभाव्यात्केवलमासुरमोहापिधानमात्र- मेवानाप्तिनिमित्तं तस्मिन्पक्षे । मोहापिधानभङ्गाय नैव कर्माणि कारणम् । ज्ञानेनैव फलावाप्तेस्तत्र कर्म निरर्थकम् ॥७०॥
अनात्मरूपके तु ब्रह्मणि न कर्म साधनभावं प्रतिपद्यते नापि ज्ञानं कर्मसमुच्चितमसमुच्चितं वा यस्मादन्यस्य स्वत एव साधकस्य ब्रह्मणोऽप्यन्यत्वं स्वत एव सिद्धम् । तत्रैवम् । अन्यस्यान्यात्मताप्राप्तौ न क्वचिद्धेतुसम्भवः । तस्मिन् सत्यपि नो नष्टः परात्मानं प्रपद्यते ॥७१॥
अपरस्मिंस्तु पक्षे विधिः । परमात्मानुकूलेन ज्ञानाभ्यासेन दुःखिनः । द्वैतिनोऽपि प्रमुच्येरन्न परात्मविरोधिना ॥७२॥
इतरस्मिंस्तु पक्षे विधेरेवानवकाशत्वम् । कथम् । समस्तव्यस्तभूतस्य ब्रह्मण्येवावतिष्ठतः । ब्रूत कर्मणि को हेतुः सर्वानन्यत्वदर्शिनः ॥७३॥
सर्वकर्मनिमित्तसम्भवासम्भवाभ्यां सर्वकर्मसङ्करश्च प्राप्नोति । यस्मात् । सर्वजात्यादिमत्त्वेऽस्य नितरां हेतसम्भवः । विशेषं ह्यनुपादाय कर्म नैव प्रवर्तते ॥७४॥ स्याद्विधिरध्यात्मभिमानादिति चेन्नैवम् । यस्मात् । न चाध्यात्माभिमानोऽपि विदुषोऽस्त्यासुरत्वतः । विदुषोऽप्यासुरश्चेत्स्यान्निष्फलं ब्रह्मदर्शनम् ॥७५॥
अज्ञानकार्यत्वान्न समकालं नापि क्रमेण ज्ञानकर्मणोर्वस्त्ववस्तु- तन्त्रत्वात्सङ्गतिरस्तीत्येवं निराकृतोऽपि काशं कुशं वावलम्ब्याह ॥ अथाध्यात्मं पुनर्यायादाश्रितो मूढतां भवेत् । स करोत्येव कर्माणि को ह्यज्ञं विनिवारयेत् ॥७६॥
सिद्धत्वाच्च न साध्यम् । यतः । सामान्येतररूपाभ्यां कर्मात्मैवास्य योगिनः । निश्श्वासोच्छ्वासवत्तस्मान्न नियोगमपेक्षते । ॥७७॥
अस्तु तर्हि भिन्नाभिन्नात्मकं ब्रह्म । तथा च सति ज्ञानकर्मणो सम्भवतो भेदाभेदविषयत्वात्तयोः । तत्र तावदयं पक्ष एव न सम्भवति । किं कारणम् । न हि भिन्नोऽयमित्यभेदबुद्धिमनिराकृत्य भेदबुद्धिः पदार्थमालिङ्गते । एवं ह्यनभ्युपगमे भिन्नाभिन्न- पदार्थयोरलौकिकत्वं प्रसज्येत । अथ निष्प्रमाणकम- प्याश्रीयते तदप्युभयपक्षाभ्युपगमादभेदपक्षे दुःखि ब्रह्म स्यादत आह । भिन्नाभिन्नं विशेषैश्चेद्दुःखि स्याद्ब्रह्म ते ध्रुवम् । अशेषदुःखिता च स्यादहो प्रज्ञात्मवादिनाम् ॥७८॥ तस्मात्सम्यगेवाभिहितं न ज्ञानकर्मणोः समुच्चय इत्युपसंह्रियते । तमोऽङ्गत्वं यथा भानोरग्नेश्शीताङ्गता यथा । वारिणश्चोष्णता यद्वज्ज्ञानस्यैवं क्रियाङ्गता ॥७९॥ यथोक्तोपपत्तिबलेनैव पूर्वपक्षस्योत्सारितत्वाद्वक्तव्यं नावशेषितमित्यतः प्रतिपत्तिकर्मवत्पूर्वपक्षपरिहाराय यत्किञ्चिद्वक्तव्यमित्यत इदमभिधीयते । "मुक्तेः क्रियाभिः सिद्धत्वात् "इत्याद्यनुचितं बहु । यदभाणि तदन्याय्यं यथा तदधुनोच्यते ॥८०॥
योऽयं काम्यानां प्रतिषिद्धानां च त्यागः प्रतिज्ञायते सा प्रतिज्ञा तावन्न शक्यतेऽनुष्ठातुम् । किं कारणम् । कर्मणो हि निर्वृत्तात्मनो द्वाभ्यां प्रकाराभ्यां निवृत्तिः सम्भवत्यारब्धफलस्योपभोगेनानारब्धफलस्याशुभस्य प्रायश्चित्तैरिति । तृतीयोऽपि त्यागप्रकारोऽकर्त्रा- त्मावबोधात् स त्वात्मज्ञानानभ्युपगमाद्भवता नाभ्युपगम्यते । तत्र यान्यनुपभुक्तफलान्यनारब्धफलानि तानीश्वरेणापि केनचिदपि न शक्यन्ते परित्यक्तुम् । अथारब्धफलानि त्यज्यन्ते तान्यपि न शक्यन्ते त्यक्तुम् । किं कारणम् । अनिवृत्तेः । अनिर्वृत्तं हि चिकीर्षितं कर्म शक्यते त्यक्तुं प्रवृत्तिनिवृत्ती प्रति कर्तुः स्वातन्त्र्यात् । निर्वृत्ते तु कर्मणि तदसम्भवाद्दुरनुष्ठेयः प्रतिज्ञानार्थः । अशक्यप्रतिज्ञानाच्च । न च शक्यते प्रतिज्ञातुं यावज्जीवं काम्यानि प्रतिषिद्धानि च कर्माणि न करिष्यामीति सुनिपुणानामपि सूक्ष्मापराधदर्शनात् । प्रमाणाभावाच्च । न च प्रमाणमस्ति मोक्षकामो नित्यनैमित्तिके कर्मणी कुर्यात्काम्यप्रतिषिद्धे च वर्जयेदारब्धफले चोपभोगेन क्षपयेदिति । आनन्त्याच्च । न चोपचितानां कर्मणामियत्तास्ति संसारस्यानादित्वात् । न च काम्यैः प्रतिषिधैर्वा तेषां निवृत्तिरस्ति शुद्ध्यशुद्धिसाम्ये सत्यविरोधादित्याह । न कृत्स्नकाम्यसंत्यागोऽनन्तत्वात्कर्तुमिष्यते । निषिद्धकर्मणश्चेत्तु व्यतीतानन्तजन्मसु ॥८१॥
स्यान्मतं व्यतीताननन्तजन्मोपात्तानां कर्मणाम् । क्षयो नित्येन तेषां चेत्प्रायश्चित्तैर्यथैनसः । निष्फलत्वान्न नित्येन काम्यादेर्विनिवारणाम् ॥८२॥
प्रमाणाभावाच्च । कथम् । पापापनुत्तये वाक्यात्प्रायश्चित्तं यथा तथा । गभ्यते काम्यहानार्थं नित्यं कर्म न वाक्यतः ॥८३॥
अथापि स्यात्काम्यैरेव काम्यानां पूर्वजन्मोपचितानां क्षयो भविष्यतीति । तन्न । यतः । पाप्मनां पाप्मभिर्नास्ति यथैवेह निराक्रिया । काम्यैरपि तथैवास्तु काम्यानामविरोधतः ॥८४॥
एवं तावत् "मुक्तेः क्रियाभिः सिद्धत्वात् "इति निराकृतम् ॥ अथात्मज्ञानस्य सद्भावे प्रमाणासम्भव उक्तस्तत्परिहारायाह । श्रुतयस्स्मृतिभिस्सामानन्त्यात्कामिनामिह । विदधत्युरुयत्नेन कर्मातो बहुकामदम् ॥८५॥
न च बाहुल्यं प्रामाण्ये कारणभावं प्रतिपद्यते । अत आह । प्रामाण्याय न बाहुल्यं न ह्येकत्र प्रमाणताम् । वस्तुन्यटन्ति मानानि त्वेकत्रैकस्य मानता ॥८६॥
यत्तूक्तं "यत्नतो वीक्षमाणोऽपि "इति --तत्रापि भवत एवापराधः । कस्मात् । यतः । "परीक्ष्य लोकान् "इत्याद्या आत्मज्ञानविधायिनीः । नैष्कर्म्यप्रवणास्साध्वीः श्रुतीः किं न शृणोषि ताः ॥ ८७॥
ननु "आत्मेत्येवोपासीत ""आत्मा वा अरे द्रष्टव्यः"इत्यपूर्वविधिश्रुतेः पुरुषस्यात्मदर्शनक्रियायां नियोगोऽवसीयत इति । नैवम् । अपुरुषतन्त्रत्वाद्वस्तुयाथात्म्यज्ञानस्य सकलानर्थबीजात्मानवबोधोत्सारिणो मुक्तिहेतोरिति । विध्यभ्युपगमेऽपि नापूर्वविधिरयम् । अत आह । नियमः परिसंख्या वा विध्यर्थोऽपि भवेद्यतः । अनात्मादर्शनेनैव परात्मानमुपास्महे ॥८८॥
यच्चोक्तं "विश्वासो नान्यतोऽस्ति नः"इति --तदपि निद्रातुरचेतसा त्वया स्वप्नायमानेन प्रलपितम् । किं कारणम् । न हि वयं प्रमाणबलेनैकात्म्यं प्रतिपद्यामह ऐकात्म्यस्य स्वत एवानुभवमात्रात्मकत्वात् । अत एव सर्वप्रमाणावतारासम्भवं वक्ष्यति । प्रमाणव्यवस्थायाश्चनुभवमात्राश्रयत्वात् । अत आह । वाक्यैकगम्यं यद्वस्तु नान्यस्मात्तत्र विश्वसेत् । नाऽप्रमेये स्वतस्सिद्धेऽविश्वासः कथमात्मनि ॥८९॥
यदप्युक्तं "अन्तरेण विधिम् "इति-- तदप्यबुद्धिपूर्वकमिव नः प्रतिभाति । यस्मात्कालान्तरफलदायिषु कर्मस्वेतद्घटते । आत्मलाभकाल एव फलदायिनि त्वात्मज्ञाने नैतत्समञ्जसमित्याह । ज्ञानात्फले ह्यवाप्तेऽस्मिन्प्रत्यक्षे भवघातिनि । उपकाराय तन्नेति न न्याय्यं भाति नो वचः ॥९०॥
यदपि जैमिनीयं वचनमुद्घाटयसि --तदपि तद्विवक्षापरिज्ञानादेवोद्भाव्यते । किं कारणम् । यतो न जैमिनेरयमभिप्राय आम्नायः । सर्व एव क्रियार्थ इति । यदि ह्ययमभिप्रायोऽभविष्यत् "अथातो ब्रह्मजिज्ञासा । जन्माद्यस्य यतः " इत्येवमादिब्रह्मवस्तुस्वरूपमात्रयाथात्म्यप्रकाशनपरं गम्भीरन्यायसंदृब्धं सर्ववेदान्तार्थमीमांसनं श्रीमच्छारीरकं नासूत्रयिष्यत् । असूत्रयच्च । तस्माज्जैमिनेरेवायमभिप्रायो यथैव विधिवाक्यानां स्वार्थमात्रे प्रामाण्यमेवमैकात्म्यवाक्यानामप्यनधिगत- वस्तुपरिच्छेदसाम्यादिति । अत इदमभिधीयते । अधिचोदनं य आम्नायस्तस्यैव स्यात्क्रियार्थता । तत्त्वमस्यादिवाक्यानां ब्रूत कर्मार्थता कथम् ॥९१॥
अपि च । ऐकात्म्यपक्ष इवादृष्टार्थकर्मसु भवत्पक्षेऽपि प्रवृत्तिर्दुर्लक्ष्या । यतः । स्वर्गं यियासुर्जुहुयादग्निहोत्रं यथाविधि । देहाद्व्युत्थापितस्यैवं कर्तृत्वं जैमिनेः कथम् ॥९२॥
न च प्रत्याख्याताशेषशरीरादिकर्मसाधनस्वभाव- स्यात्ममात्रस्य कर्मस्वधिकारः । यस्मात् । सर्वप्रमाणासम्भाव्यो ह्यहंवृत्त्यैकसाधनः । युष्मदर्थमनादित्सुर्जैमिनिः प्रेर्यते कथम् ॥९३॥ प्रवृत्तिकारणाभावाच्च । यस्मात् । सुखदुःखादिभिर्योग आत्मनो नाहमेक्ष्यते । पराक्त्वात्प्रत्यगात्मत्वाज्जैमिनिः प्रेर्यते कथम् ॥९४॥
किंच । न तावद्योग एवास्ति शरीरेणात्मनः सदा । विषयैर्दूरतो नास्ति स्वर्गादौ स्यात्कथं सुखम् ॥९५॥
 यस्मादन्यथा नोपपद्यते । नराभिमानिनं तस्मात्कारकाद्यात्मदर्शिनम् । मन्त्र आहोररीकृत्य "कुर्वन्"इति न निर्द्वयम् ॥९६॥
यच्चोक्तं "विरहय्य "इति तदपि न सम्यगेव । तथापि तु न या काचित्क्रिया यत्र क्व चाध्याहरणीया किं तु या यत्राभिप्रेतसम्बन्धं घटयितुं शक्नोत्याकाङ्क्षां च वाक्यस्य पूरयति सैवाध्याहरणीया । एवंविशिष्टा च क्रियास्माभिरभ्युपगतैव । सा तूपादित्सितवाक्यार्था- विरोधिन्येव नाभूतार्थप्रादुर्भावफलेति । षड्भावविकाररहितात्मवस्तुनो निर्धूताशेष- द्वैतानर्थस्यापराधीनप्रकाशस्य विजिज्ञापयिषितत्वादस्यस्मीत्यादिक्रियापदं स्वमहिमसिद्धार्थप्रतिपादनसमर्थमभ्युपगन्तव्यं न विपरीतार्थप्रतिपादनपरमिति । धावेदिति न दानार्थे पदं यद्वत्प्रयुज्यते । एधीत्यादि तथा नेच्छेत्स्वतः सिद्धार्थवाचिनि ॥९७॥
न च यथोक्तवस्तुवृत्तप्रतिपादनव्यतिरेकेण तत्त्वमस्यादिवाक्यं वाक्यार्थान्तरं वक्तीति शक्यमध्यवसातुमित्याह । तत्त्वमस्यादिवाक्यानां स्वतस्सिद्धार्थबोधनात् । अर्थान्तरं न संद्रष्टुं शक्यते त्रिदशैरपि ॥९८॥
यस्मादेवम् । अतः सर्वाश्रमाणां तु वाङ्मनःकायकर्मभिः । स्वनुष्ठितैर्न मुक्तिः स्याज्ज्ञानादेव हि सा यतः ॥९९॥
तस्माच्च कारणादेतदप्युपपन्नम् । स्वमनोरथसंक्लृप्तप्रज्ञाध्मातधियामतः । श्रोत्रियेष्वेव वाचस्ताः शोभन्ते नात्मवेदिषु ॥१००॥
इति प्रथमोऽध्यायः ॥१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:44.9600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

maxillary appendage

  • Zool. ऊर्ध्वहनु उपांग 
RANDOM WORD

Did you know?

How do I contact you?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site