TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|
श्रीपादसप्ततिः

श्रीपादसप्ततिः

श्रीनारायणभट्टपादविरचिता श्रीपादसप्ततिः

श्रीपादसप्ततिः
दक्षाधःकरपल्लवे लसदसिं दक्षोर्ध्वगे शूलिनीं वामोर्ध्वे फलकोज्ज्वलां कटितटन्यस्तान्यहस्तांबुजां । शूलाग्राहतकासरासुरशिरोनिष्ठां प्रहृष्टां सुरैर्- जुष्टामिष्टफलप्रदां भगवतीं मुक्तिस्थलस्थां भजे ॥१॥
यत् संवाहनलोभिनः शशिकलाचूडस्य हस्तांबुज- स्पर्शेनापि च लोहितायति मुहुस्त्वत्पादपङ्केरुहं । तेनैवोद्धतकासरासुरशिरश्शृंगाग्रसञ्चूर्ण्णन- प्राचण्ड्यं तदनुष्ठितं किल कथं मुक्तिस्थलस्थे! शिवे! ॥२॥
त्वत्पादं निजमस्तके घटयितुं के के नु लोके जनाः किं किं नारचयन्ति दुश्चरतपश्चर्यासपर्यादिकं । मन्ये धन्यतमं तु देवि! महिषं वैरस्थयैव त्वया यन्मूर्द्धनि स्वयमेव पातकहरं पादांबुजं पातितं ॥३॥
त्वत्पादांबुजमर्प्पितं क्व नु शिवे! किंनु त्रयीमस्तके? नित्यं तत्त्वविचारदत्तमनसां चित्तंबुजाग्रेषु वा? । किं वा त्वत्प्रणयप्रकोपविनमन्मारारिमौलिस्थले? किं प्रोत्खण्डितघोरसैरिभमहा दैत्येन्द्रमूर्द्धान्तरे? ॥४॥
त्वत्पादाञ्चलरूपकल्पलतिकाबालप्रवालद्वयं ये तावत् कलयन्ति जातु शिरसा नम्रेण कम्रोज्ज्वलं । तेषामेव हि देवि! नन्दनवनक्रीडासु लभ्यं पुनः स्वर्वल्लीतरुणप्रवालभरणं सेवानुरूपं फलं ॥५॥
धावल्यं परिलाल्यते पुररिपो रंगेण तुंगश्रीया किञ्च श्यामलिमापि कोमलतरे भात्येव गात्रे हरेः । तत्तादृक्पदवीं ममापि जनये तस्तोकसेवारसा- दारुण्यं तव लीयते चरणयोः कारुण्यमूर्ते! शिवे! ॥६॥
आरुण्यं यदिदं त्वदीयपदयोराभाति, तत् केचन प्राहुस्तुंगनितंबभारभरण क्लान्त्या किलोपागतं । अन्ये माहिषमूर्द्धपेषमिलितं रक्तद्रवं मन्वते मन्येहं तु नतेषु सान्द्रमनुरागोद्गारमेवानयोः ॥७॥
प्राहुः पत्मसमाश्रयं शतधृतिं त्वत्पादपत्माश्रया- दन्तस्त्वत्पदपत्मवीक्षणवशाल् कृष्णोपि पत्मेक्षणः । यत् पत्मार्च्चनमामन्ति सुधियो दारिद्र्यविद्रावणं मुक्तिक्षेत्रगते! भवानि! तदपि त्वत्पादपत्मार्च्चनं ॥८॥
पादं ते सरसीरुहद्रुहमिमं यत् सेवते पत्मभूर्- नूनं तत् स्वनिवासपङ्कजवरश्रीलंघनाशङ्कया । गोविन्दोपि च वारिराशिदुहितुर्वासाब्जबाधाभिया स्वस्यैवाग्रकरोद्गृहीतकमलत्राणाभिलाक्षेण वा ॥९॥
सेवन्ते कुलसम्पदे नखमयाः शीतांशवस्त्वत्पदं तत्पाको ननु वीक्ष्यते हि नितरामन्येषु शीतांशुषु । एको बालक एव मौलिमयि! ते यातो, ललाटात्मता- मन्यो, निर्म्मलमण्डलदशामन्यौ तु धन्यौ गतौ ॥१०॥
घोरं पादसहस्रकं प्रकटयन्नाशासु भासां पतिर्- ध्वान्तं नो पुनरान्तरं शमयितुं शक्नोति शैलात्मजे! । त्वत्पादद्वितयेन कोमलतरेणानेन चेतःस्पृ शा जन्तूनां बहिरन्तरन्धतमसं कृन्तत्यनन्तं शिवे! ॥११॥
सुर्येन्द्वग्निसमीरणादिसकलस्वर्वासिनामुन्मदः सर्वाण्येव पदानि यो मथितवान् दुर्वारशौर्योष्मणा । तं घोरं महिषासुरं निजपदेनैकेन सम्मृद्नती यत्त्वं प्रत्यकृथा, स्ततः किमपरं त्वद्वैभवं ब्रूमहे ॥१२॥
एकं वामतयैव, दक्षिणतयैवान्यत्, पदं देहिनां ख्यातं मुक्तिपुराधिवासिनि! शिवे! , चित्रं त्वयि त्वीदृशं । आनम्रेषु जनेष्वभीष्टकरणे पादावुभौ दक्षिणा- वानम्रे तु कृतागसि स्मरहरे वामाक्षि! वामावुभौ ॥१३॥
आनम्रस्य पुरद्रुहः शिरसि ते पादाब्जपातः शिवे! जीयाद्येन बभूव पङ्कजवती मौलिस्रवन्ती क्षणं । किञ्चोदञ्चितबालपल्लववती जाता जटावल्लरी लाक्षापातवशेन सान्ध्यसुषमासान्द्रा च चान्द्री कला ॥१४॥
दृष्ट्वा रात्रिषु चन्द्रपादजनितां पाथेरुहाणां व्यथां देवि! त्वं करुणाकुलेव कुरुषे तद्वैरनिर्यातनं । मानानम्रमहेशमौलिवलभीवासस्य शीतत्विषो नित्यं पङ्कजपादघातजनिता बाधा यदाधीयते ॥१५॥
संभ्रान्तिस्तव देवि! सा विजयते मानावनम्रे शिवे त्वत्पादांबुरुहप्रहारमुदिते मन्दं समुत्थायिनि । लाक्षारागरसारुणं निपतितं गंगापयश्शीकरं दृष्ट्वा शोणितशङ्कया तरलिता कान्तं यदालंबथाः ॥१६॥
सा पादद्वितयाहतिर्जयति ते, यस्यां गिरीन्द्रात्मजे! प्राचीनेन्दुयुते नखेन्दुदशके मौलिस्थलीसंगते । स्वस्यैकादशमूर्तितासमुचितानेकादशैवोडुपा- नाबिभ्राण इवाबभौ स भगवानेकोपि रुद्रः स्वयं ॥१७॥
किं वैरिञ्चकरोटिकोटिनिहतं किं वा फणिग्रामणी- निश्वासानिलखेदितं न्विदमिति प्रेमार्द्रसल्लापिना । मानस्योपशमे करेण शनकैरामृद्नता शंभुना भूयश्चुंबितमंबुजद्युति पदं ध्यायामि माये! तव ॥१८॥
पूर्वं जह्नुसुता सकृन्मुररिपोः श्रीपादसंक्षालना- पुण्यादीदृशवैभवा समभवत् गोविन्दवन्द्ये! शिवे! । सेयं सम्प्रति शंभुमौलिनिलया मानप्रसंगानतौ नित्यं त्वच्चरणावसेचनभुवा पुण्येन कीदृग्भवेत् ॥१९॥
पूर्वं व्याकरणप्रपञ्चनविधौ लब्ध्वाप्यनेकं पदं किं नो तृप्तिमगादगाधिपसुते! शेषः फणिग्रामणीः । आलीनः शशिमौलिमूर्द्धनि चिरं प्रेमप्रकोपानतौ लब्धुं ते पदमेकमेव कुतुकी नित्यं यतो वर्तते ॥२०॥
तिष्ठन्त्यां प्रणयप्रकोपवशतो बाष्पाकुलाक्ष्यां त्वयि श्रीकण्ठे नखदर्प्पणप्रतिफलद्रूपे पुरोवर्त्ति नि । पादाग्रे पतितोयमित्यभिहिते सख्या, तवालोकनं लोलं पादतले विभाति सहसा साकोपमालीमुखे ॥२१॥
कान्तालोकनलज्जया विनमिते कान्ते मुखांभोरुहे यासौ भूतलपातुका नयनयोः शोभा तवाभासते । सा तावत्तरुणारुणांबुजयुगभ्रान्त्या त्वदंघ्रिद्वय- प्रान्ते भाति मरन्दपानकतुकभ्रान्तेव भृंगावली ॥२२॥
किं ब्रूमः कुटिलात्मकोपि कबरीभारस्त्वदीयः शिवे! केलीविश्लथितस्तनोति यदयं त्वत्पादसंस्पर्शनं । तत्भूयः सुमनोगणादृतगुणस्त्वन्मौलिसंलाल्यतां धत्ते; चित्रमसौ, त्वदंघ्रिभजनात् किं केन नो लभ्यते? ॥२३॥
रागद्वेषमुखा हि विभ्रमभरा नश्यन्ति विश्वेश्वरि! त्वत्संगादिति मुक्तिदेशनिलये! मित्थ्या जनैः कत्थ्यते । उद्यद्द्वेइषमुदारविभ्रमभरं गात्रं दधत्या त्वया रागोपि ध्रियतेऽधिकं चरणयोः शोणांबुजच्छाययोः ॥२४॥
देवि! त्वत्पदसत्परागमनिशं मौलौ समाबिभ्रतां साधूनामपरागतैव भवतीत्याश्चर्यमास्तामिदं । पादस्ते नखरप्रभाबलसितो जागर्ति सोयं पुन- श्चित्रं नाम खरप्रभावलसितो दुष्टासुरं पिष्टवान् ॥२५॥
द्वित्वेन स्थितियोस्त्वदीयपदयोर्द्वैतं निरस्य स्फुटं कैवल्यप्रतिपादने कुशलता जातेति कोयं क्रमः । किं वा युक्तिभिरत्र, मुक्तिकरता व्यक्तैव ते पादयोर्- मुक्ता एव हि विस्फुरन्ति विमलास्तत्संगिनोमी नखाः ॥२६॥
पादाग्रं तव कामदं सुरलताशाखाग्रमाचक्ष्महे जाता यत्र हि बालपल्लवरुचिः स्वैरेव रागोदयैः । उत्सर्प्पन्नखमण्डलीसुषमया पुष्पालिरुत्पादिता सञ्जातालिरुतिश्च मञ्जुलतरैर्मञ्जीरशिञ्जारवैः ॥२७॥
देवीयं तव सन्नतेशमकुटस्वर्लोककल्लोलिनी- कल्लोलाहतिभिर्विशेषविमला जीयान्नखश्रेणिका । यद्धावल्यमवाप्तुमात्तकुतुकास्तोये तपस्यन्त्यमी दीनाः फेनकणश्च मौक्तिकगणाः शंखाश्च शङ्कामहे ॥२८॥
माने शंभुशिरःप्रहारचरितं नैव त्वदिच्छाकृतं जाने देवि! पदाब्जयोस्तु पुरजिन्मूर्द्ध्ना विरोधादिदं । एते पादनखांशुबद्धकलहाः शीतांशुमन्दाकिनी- भोगीन्द्राः किल शङ्करस्य शिरसा शङ्कां विना रक्षिताः ॥२९॥
देवि! त्वच्चरणोच्चलन्नखघृणिश्रेणीषु लीनो नम- न्नाभाति स्थटिकाचलस्फुटतटीशायीव सायन्नटः । हंसालीन इव स्वयं कमलभूः क्षीराब्धिशायीव च श्रीभर्ता मघवापि नाकसरिति स्नायन्निवालोक्यते ॥३०॥
डोलाकेलिविधौ हिमाचलशिलादेशे समभ्याहतात्- पादाग्रात्तव यानि यावकरसप्रस्यन्दनान्यंबिके! । तान्यभ्यागतसुंभसंगरभवद्रक्तांबुविस्तारणा- बिन्दुक्षेपनिभानि नन्ददमरीवन्द्यानि वन्दामहे ॥३१॥
डोलाकेलिषु यं हिमाचलशिलालग्नं वनेवासिनो भक्त्या योगिवरास्त्रिपुण्ड्रकलिते लिम्पन्ति फालान्तरे । यं सिद्धप्रमदाः समेत्य तिलकं कुर्वन्ति नत्वा मुहु- स्तं दाक्षायणि! ते कदा नु पदयोरीक्षेय लाक्षारसं? ॥३२॥
देवि! त्वं मुरवैरिणः प्रणमने यत्किञ्चिदाकुञ्चय श्रीपादांबूजमन्यथास्य शिरसि त्वत्पादलाक्षाञ्चिते । श्रीभूम्योरितरप्रणामकृतमित्यन्योन्यमाशङ्कया रोषव्याकुलयोश्चिरं स भगवान् जायेत पर्याकुलः ॥३३॥
प्रागुद्वाहविधौ हिमाचलसदस्यश्माधिरोपाय य- न्न स्प्रक्ष्यामि वियद्धुनीमिति पुनः सत्यं विधातुं च यत् । दैत्योत्पेषणसाहसे विरचिते संवाहनार्त्थं च यत्- तत् पादग्रहणत्रयं विजयते शर्वेणि शर्वाणि! ते ॥३४॥
सुंभस्ते किल देवि! रागकलहे पादप्रहारोत्सवं लब्धं कांक्षितवानुपायमिह खल्वज्ञो न विज्ञातवान् । यद्यायोत्स्यत घोरमाहिषवपुर्धारी स वैरी ततः प्राघानिष्यत मूर्द्ध्नि कोमलरुचा पादारनिन्देन ते ॥३५॥
आनम्रे गिरिशे पदप्रहरणे दत्ते भवत्या रुषा "नाथे! किं महिषोहा"मित्यभिहिते देवेन तस्मिन् क्षणे । आलिष्वाकलितस्मितासु, पुनरप्युद्दामपुष्यद्रुष- स्तन्मौलौ जयति द्वितीयमपि ते पादाब्जसन्ताडनं ॥३६॥
पादाग्रं तव संगरश्रमवशादाक्षारिलाक्षारसं विन्यस्तं मृगनायकोपरि चिराज्जीयादगेन्द्रात्मजे! । यत्कान्त्यैव च लोहितो मृगपतिर्दैत्यप्रहारोद्गल- द्रक्तांभः कणिका वहन्नपि तथा नामानि वैमानिकैः ॥३७॥
नैवालिम्प निलिम्पमूर्द्धसु, न वा सिंहोपरि त्यज्यतां मा चेदं महिषस्य मूर्द्ध्नि रभसादालिप्य लोलुप्यतां । पत्युर्मौलिनदीजले परमिदं संक्षालनीयं त्वये- त्यालीकेलिगिरो जयन्ति गिरिजे! त्वत्पादलाक्षार्प्पणे ॥३८॥
नत्वैव प्रथमं त्वदंघ्रिकमलं तौ पुष्पवन्तावुभौ त्रैलोक्यं महसाभिभूय चरतो व्योमान्तरप्रान्तरे । नाथे! तौ कथमन्यथा परिगलद्द्राक्षारसक्षालितौ वीक्ष्येते भृशशोणिबिंबमुदयारंभे प्रियंभावुकौ ॥३९॥
त्रैलोक्यं वशयन्ति, पापपटलीमुच्चाटयन्त्युच्चकैर्- विद्वेषं जनयन्त्यधर्म्मविषये प्रस्तंभयन्त्यापदः । आकर्षयन्त्यभिवाञ्छितानि महिषस्वर्वैरिणो मारणा- श्चित्रं! त्वत्पदसिद्धचूर्णनिवहाः षट्कर्म्मणां साधकाः ॥४०॥
किं कल्पद्रुमपञ्चकं प्रणमतोमाकांक्षितापादेन किं पञ्चायुधबाणपञ्चकमिदं मारारिसंमोहने । सूक्ष्मं किञ्चन पञ्चभूतवपुषो विश्वस्य किं कारणं त्वत्पादांगुलिपञ्चकात्मकमिदं किं भाति शंभोः प्रिये! ॥४१॥
डोलाकेलिषु दूरदूरगमने प्रेंखोलनाविभ्रमे मेदिन्यामनिपातितं जयति ते नाथे! पदांभोरुहं । भक्त्या सन्नमतां त्वदाननगलद्गानामृतामूर्च्छया भूपृष्टे चिरशायिनां दिविषदामाघट्टनासाध्वसात् ॥४२॥
मञ्जीरप्रसरन्मसारसुषमारूपा कलिन्दात्मजा स्वच्छच्छायनखांशुसञ्चयमयी गंगा च संगामुका । शोणः पादरुचां चयश्च मिलितो येन त्वदग्रे, ततो मज्जन्तीव नमन्ति तत्र मुनयः सर्वेपि शर्वानने ॥४३॥
मञ्जीरार्प्पितशक्रनीलशकलश्रीचञ्चलीकाञ्चितं राजद्रेणुविभूषितं परमहंसालीभिरासेवितं । त्वत्पादाग्रसरोजमंगुलिदलच्छायभिराभासुरं विष्वग्रोचिनखांशुजालपयसि स्वच्छे समुच्छोभते ॥४४॥
मञ्जीरस्वनमञ्जुविष्किररवे तत्संगिनीलोपल- च्छायारूपतमोलवे नखमिषादक्षीणतारागणे । सन्ध्यारागनिभस्वकान्तिपटले त्वत्पादमूलात्मक- प्रत्यूषोपगमे हि देवि! लभते लोकः प्रबोधोदयं ॥४५॥
विद्यान्मुक्तिरमावधूषु नितरां कामातुरा मानवा- स्तप्तास्त्वन्नखकान्तिचन्दनरसैरालिप्य गात्रं निजं । त्वत्पादाब्जरुचिप्रवालनिचिते भूमीतले शेरते नित्यं देवि! भवत्कृपाप्रियसखीविश्वासतः केवलं ॥४६॥
मञ्जीरक्वणितैः क्षिपन्निव मुहुः श्रीमन्नखांशूद्गमैर्- दैत्येन्द्रं प्रहसन्निवारुणरुचा रुष्यन्निवास्मै भृशं । धीरायां त्वयि निर्विकारमनसि त्वत्पाद एव स्फुटं पुष्णन् वैरिविकारमेष महिषध्वंसी परित्रायतां ॥४७॥
क्षिप्रं देवि! शिरस्पन्दने महिषं पिष्ट्वा ततोधः पदं दित्सन्त्यां त्वयि कण्ठभञ्जनभिया कण्ठीरवे विद्रुते । मेदिन्यामपि भीतिकम्पिततनौ प्रेमत्वराशालिना शर्वेणैव निजाङ्कसीम्नि निहितं पादद्वयं ते जयेत् ॥४८॥
"पूर्वं देवि! पदांबुजेन महिषप्रध्वंसनाभ्यासतः पश्चात् कुत्सितसुंभदैत्यविजयो प्येवं कृतः किं त्वया? । नो चेत् भाति कथं कुसुंभविजयी पादाब्जदेशोयऽऽमि- त्यालापे गिरिशस्य तद्विजयते मन्दस्मितं देवि! ते ॥४९॥
"बिभ्राणेन मनोज्ञयावकरसं मञ्जुध्वनन्नूपुर- श्लेषालङ्कृतिशालिना नखमणीजातप्रसादश्रिया । एकेनैव पदेन देवि! महिषध्वंसे महीयस्तरः श्लोकोयं रचितस्त्वयेऽऽति विबुधाः संश्लाघनं कुर्वते ॥५०॥
"त्वं शंभोर्महिषी भवस्यगसुते! तेनोपहासाय ते दैत्योयां महिषीभवन्नुपगतः, सोयं कथं क्षम्यतेऽऽ । इत्थं नूपुरनिस्वनैरिव वदन् पादस्त्वदीयो रुषा शस्त्रप्रग्रहणात् पुरैव महिषं पिष्णन् परित्रायतां ॥५१॥
"देव्या पङ्कशयोद्य कोपि महिषच्छत्मा महान् कण्टकः पादेनाहतऽऽ इत्युदूढहसितं सख्या समावेदिते । सद्यः कण्टकशालिना करतलेनासाद्य पादांबुजं गृह्णन्नार्तिविनोदनाय गिरिशो जीयाल् प्रियस्ते शिवे! ॥५२॥
त्वत्पादांगुलिपल्लवैरागसुते देवि! स्वयं पञ्चभिः पञ्चत्वं गमितो महासुर इति स्वात्मानुरूपं कृतं । एतैरेव नतो जनस्त्रिदशतां नीतो, महेशः पुनर्- लक्षत्वं गमितः प्रसूनधनुषो विस्मापनं तत् द्वयं ॥५३॥
ब्राह्मं माघवनं च वाहनमहो मन्दैर्गतैर्निन्दितं धावल्येन नखत्विषां विहसितो वाहोपि माहेश्वर: । इत्थं वाहनवैरितां भजति ते पादस्ततोमन्महे कात्यायन्यमुना न्यघानि महिषः कार्त्तान्तवाहभ्रमाल् ॥५४॥
सीमन्तप्रकरे सुरेन्द्रसुदृशां सिन्दूररेखात्मना माणीक्यद्युतिसंज्ञयैव मकुटीकोटीषु दैत्यद्रुहां । शंभोर्म्मूर्द्ध्नि जटाघटारुणरुचिव्याजेन पादप्रभै- वैका ते परिणाममेति करुणा मूर्ते! गिरीन्द्रात्मजे! ॥५५॥
नो केशः परमाश्रयः सुमनसां, पादाब्जरेणुश्च ते नो मन्दारसिता परं स्मितरुचिर्मञ्जीरयोश्च द्वयी । नो बाहुः कलहं समेत्य जयति, त्वद्यानलीलाप्यसौ नो शुंभत्तरलाक्षमाननमिदं, पादांबुजं चांबिके! ॥५६॥
नाथे! तावकवाहसिंहचकितास्त्वत् पादमूले नता नूनं बभ्रमुरभ्रमुप्रियमुखा दिक्कुंभिवीराश्चिरं । नोचेदेष कथं तदुन्नतशिरस्सिन्दूरसन्दोहजो रागस्ते चरणांबुजे परिणमन्नद्यापि विद्योतते ॥५७॥
त्वत् पादोयमजाश्रितश्च रुचिरस्पर्शान्वितो योगिना- मन्तःस्थाकृतिरूष्मभाक् च महिषप्रध्वंसनप्रक्रमे । एवं खल्वखिलाक्षरात्मकममुं शैलेन्द्रकन्ये! कथं भाषन्ते नतवर्ग्गबन्धुमपवर्ग्गालंबनं वा जनाः? ॥५८॥
उन्मीलन्नखमण्डलीहिमकणः, शोणप्रभागैरिकं बिभ्राणः, परिशोभमानकटको, भूयोवनैकाश्रयः । गायत्सिद्धवधूनिषेविततलः पादस्त्वदीयः शिवे! राजत्येष हिमाद्रिपादवदिदं युक्तं हिमाद्रेः सुते! ॥५९॥
दिक्पालैर्दशभिः पृथक्पृथगयं त्वत्पादयोरर्प्पितो द्रिश्यो भक्त्यनुराग एव दशधा शोणांगुलिश्रीमिषाल् । पादाभ्यामपि तान् प्रति प्रकटिता नूनं प्रसादाङ्कुरा दृश्यन्ते नखकान्तिपंक्तिदशकव्याजेन शैलात्मजे! ॥६०॥
मेघानां कुलिशस्य चप्रतिहता धाराः क्रमन्तां चिरं नो नश्येन्मददानवारिविभवो नाकस्य नागस्य च । पुत्रोयं मम सैनिकाश्च दधतां नित्यं जयन्तः सुखं त्वत्पादांबुजपातिनाः सुरपतेरित्थं जयन्त्यर्त्थनः ॥६१॥
आज्यासक्तकरैर्द्विजन्मभिरहं हूयेय, नो दानवैः स्वाहारोचितमस्तु पार्श्वमनिशं, तादृक् च हव्यं लभै । रक्षावानिति भूतिमानिति च मे शब्दप्रसिद्ध्या शिवे! नोपेक्ष्योहमिति त्वदंघ्रिनमने जीयासुरग्नेर्गिरः ॥६१॥
"त्वत्भक्ताघमबुद्धिपूर्वलिखितं स्याच्चेत् क्षमेथाः शिवे! कान्तस्ते मयि रोषवान्, कुरु पुनस्तस्यार्द्रभावं शनै: । देवि त्वं महिषाभिहन्त्रि! चकितं त्रायस्व मे वाहनं", कालस्येति जयन्ति ते पदनतौ लोलस्य संप्रार्थनाः ॥६३॥
"धर्म्माचारपरोहमित्यवमतो रक्षोभिरेकान्वयैर्- मह्यं! देवि विनिन्दिता दिशमदुर्जातिद्विषश्चामराः । दैवादित्युभयच्युतो विशरणो रक्षोह"मित्यादय- स्त्वत्पादप्रणतौ जयन्ति निरृतेरत्याकुलाः प्रार्थनाः ॥६४॥
"मत् पुत्र्या मम वा मुकुन्द गृहताभाग्यं न संक्षीयतां माहं पायिषि कुंभजेन मुनिना कल्पान्तसूर्येण वा । द्वेधा मे सुरवाहिनीदयितता साधु त्वया रक्ष्यतां" त्वत्पादांबुजपातिनो जलपतेरित्थं जयन्त्यर्त्थनाः ॥६५॥
आविश्वप्राणमयी त्वमेव, मम तु प्राहुर्जगत्प्राणतां सर्वस्यापि सदा गतिर्हि भवती, मामेवमाहुर्जनाः । लज्जापादकमीदृशं जननि! नः, किं कुर्म्महे, पाहि माऽऽ- मित्येवं पवनस्य ते पदनतौ वाचो जयन्त्याकुलाः ॥६६॥
"शंखोल्लासिगलोज्ज्वले! समकरे! पत्मेन, कुन्दस्मिते! पादाग्रादृतकच्छपे! मुखमहापत्मे! मुकुन्दाश्रिते! । इत्यस्मन्निधिगात्रि! नीलनयने! चर्च्चात्मिके! पाहिमाऽऽ- मित्थं पादनतिः शिवे! विजयते सख्युः कुबेरस्य ते ॥६७॥
आसन्नामेषु भवत् पदांबुजनखच्छायां जटासंगिनीं गंगत्यालिजना वदन्ति वितथं मा भूर्मुधा कोपिनी । दृष्टिर्मय्ययि! नीयतां, परुषमप्येकं वचो दीयताऽऽ- मीशानस्य भवानि! ते पदनतावित्थं जयन्त्यर्त्थनाः ॥६८॥
आनाभीतोभवमादितस्तव बलात् पश्चादभीतोस्म्यहं त्र्यक्षेण त्रिमुखीकृतोपि चतुरास्येऽहं तवैव स्तवैः । त्वं विश्वात्मतयोपजन्य न पुनः स्रष्टारमाख्याहि मा"- मित्थं देवि! जयन्ति ते पदनतौ वाणीपतेर्वाणयः ॥६९॥
"आशीरस्ति मुखे, विडंबयति मां भूयोपि चाशीःस्पृहा भोगाः सन्ति सहस्रधा, पुनरहं भोगान् कथं प्रार्थये? । शेषोहं स्पृहयाम्यशेषसुखमित्येतच्च हासास्पदं, नाथे! चिन्तय सर्व"मित्यहिपतेस्त्वत्पादपातो जयेत् ॥७०॥
पार्वत्याः पदमत्र दृश्यमिति वा पादे भवत्वेन वा साधुत्वात्तदुपास्तये हिततया पद्यान्यमूनि स्फुटं । सैषा मुक्तिपुरीगिरीन्द्रतनया भक्तेन नारायणे- नाबद्धा खलु सप्ततिर्दिशतु वः कल्याणहल्लोहलम् ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-16T20:46:07.2300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

चडचडीचा

  • वि. तेजीचा ; भरभराटीचा ( व्यापार , धंदा इ० ). [ चडचड ] 
RANDOM WORD

Did you know?

निर्जीव गाड्यांची पूजा करतात, यामागील शास्त्र काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.