TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

वेदान्त परिभाषा - आगमः

धर्मराज अध्वरीन्द्र विरचित वेदान्त परिभाषा ग्रंथ वेद जाणून घेण्यासाठी उत्तम आहे.


आगमः
अथागमो निरूप्यते । यस्य वाक्यस्य तात्पर्य विषयीभूतसंसर्गो मानान्तरेण न बाध्यते तद्वाक्यं प्रमाणम् । वाक्यजन्यज्ञाने च आकांक्षायोग्यताऽऽसत्तयस्तात्पर्यज्ञानं च इति चत्वारि कारणानि । तत्र पदार्थानां परस्परजिज्ञासाविषयत्वयोग्यत्वमाकांक्षा । क्रियाश्रवणे कारकस्य कारकश्रवणे क्रियायाः करणश्रवणे इतिकर्तव्यतायाश्च जिज्ञासाविषयत्वात् ।अजिज्ञासोरपि वाक्यार्थबोधात् 'योग्यत्व "मुपात्तम् । तदवच्छेदकं च क्रियात्वकारकत्वा- दिकमितिनातिव्याप्तिः गौरश्व इत्यादौ । अभेदान्वये च समानविभक्तिकपद- प्रतिपाद्यत्वं तदवच्छेदकमिति "तत्त्वमस्या "दिवाक्येषु नाव्याप्तिः । एतादृशाकांक्षाभिप्रायेणैव बलाबलाधिकरणे "सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम् "इत्यत्र वैश्वदेव - यागस्यामिक्षान्वितत्वेन न वाजिनाकांक्षा इत्यादिव्यवहारः । ननु तत्रापि वाजिनस्य जिज्ञासाऽविषयत्वेऽपि तद्योग्यत्वमस्त्येव प्रदेयद्रव्यत्वस्य यागनिरूपितजिज्ञासाविषयतावच्छेदकत्वादिति चेत् न स्वसमानजातीयपदार्थावयबोधविरहसहकृतप्रदेय - द्रव्यत्यस्यैव तदवच्छेदकत्वेन वाजिनद्रव्यस्य स्वसमान - जातीयामिक्षाद्रव्यान्वयबोधसहकृतत्वेन तादृशावच्छेदकत्वाभावात् । आमिक्षायान्तु नैवम् वाजिनान्वयस्य तदानुपस्थित्वात् । उदाहरणान्तरेष्वपि दुर्बलत्वप्रयोजक आकांक्षाविरह एव द्रष्टव्यः । योग्यता तात्पर्यविषयसंसर्गाबाधः । "वह्निना सिञ्चति " इत्यादौ तादृशसंसर्गबाधान्न योग्यता । "स प्रजापतिरात्मनो वपामुदखिदत् "इत्यादावपि तात्पर्यविषयीभूतपशुप्राशस्त्याबाधात् योग्यता । "तत्त्वमस्या "-दिवाक्येष्वपि वाच्याभेदबाधेऽपि लक्ष्यस्वरूपाभेदे बाधाभावात् योग्यता । आसत्तिश्चाव्यवधानेन पदजन्यपदार्थोपस्थितिः । मानान्तरोपस्थापितपदार्थस्यान्वयबोधाभावात् 'पदजन्या 'इति । अत एवाश्रुतस्थले तत्तत्पदाध्याहारः । 'द्वारम् 'इत्यादौ 'पिधेहि 'इति । अत एव 'इषे त्वा ' इत्यादिमन्त्रे 'छिनद्मि 'इति पदाध्याहारः । अत एव विकृतिषु "सूर्याय जुष्टं निर्वपामि "इति पदप्रयोगः । पदार्थश्च द्विविधः -शक्यो लक्ष्यश्चेति । तत्र शक्तिर्नाम पदानामर्थेषु मुख्या वृत्तिः । यथा 'घट '-पदस्य पृथुबुध्नोदराद्याकृतिविशिष्टे वस्तुविशेषे वृत्तिः । सा च शक्तिः पदार्थान्तरम् सिद्धान्ते कारणेषु कार्यानुकूलशक्तिमात्रस्य पदार्थान्तरत्वात् । सा च तत्तत्पदजन्यपदार्थज्ञानरूपकार्यानुमेया । तादृशशक्तिविषयत्वं शक्यत्वम् । तच्च जातेरेव न व्यक्तेः व्यक्तीनामानन्त्येन गुरुत्वात् । कथं तर्हि गवादिपदाद्व्यक्तिमानमिति चेत् जातेर्व्यक्ति - समानसंवित्संवेद्यत्वादिति ब्रूमः । यद्वा गवादिपदानां व्यक्तौ शक्तिः स्वरूपसती न तु ज्ञाता हेतुः जातौ तु सा ज्ञाता हेतुः । न च व्यक्त्यंशे शक्तिज्ञानमपि कारणम् गुअरवात् । जातिशक्तिमत्त्वज्ञाने सति व्यक्तिशक्तिमत्त्वज्ञानं विना व्यक्तिधीविलम्बाभावाच्च । अत एव न्यायमतेऽप्यन्वये शक्तिः स्वरूपसतीति सिद्धान्तः । ज्ञायमानशक्तिविषयत्वमेव वाच्यत्वमिति जातिरेव वाच्या । अथवा व्यक्तर्लक्षणयाऽवगमः । यथा "नीलो घटः "इत्यत्र 'नील '-शब्दस्य नीलगुणविशिष्टे लक्षणा तथा जातिवाचकस्य तद्विशिष्टे लक्षणा । तदुक्तम् "अनन्यलभ्यः शब्दार्थः "इति । एवं शक्यो निरूपितः । अथ 'लक्ष्य '-पदार्थो निरूप्यते । तत्र लक्षणाविषयो लक्ष्यः । लक्षणा च द्विविधा -केवललक्षणा लक्षितलक्षणा चेति । तत्र शक्यसाक्षात्सम्बन्धः केवलक्षणा । यथा "गङ्गायां घोषः "इत्यत्र प्रवाहसाक्षात्सम्बन्धिनि तीरे 'गङ्गा '-पदस्य केवललक्षणा । यत्र शक्यपरम्परा - सम्बन्धेनार्थान्तरप्रतीतिस्तत्र लक्षितलक्षणा यथा 'द्विरेफ '-पदस्य रेफद्वये शक्तस्य 'भ्रमर '- पदघटित -परम्परासम्बन्धेन मधुकरे वृत्तिः । गौण्यपि लक्षितलक्षणैव । यथा "सिंहो मानवकः "इत्यत्र 'सिंह '-शब्दवाच्य सम्बन्दिक्रौर्यादिसम्बन्धेन मानवकस्य प्रतीतिः । प्रकारान्तरेण लक्षणा त्रिविधा -जहल्लक्षणा अजहल्लक्षणा जहदजहल्लक्षणा । तत्र शक्यमनन्तर्भाव्य यत्रार्थान्तर - प्रतीतिस्तत्र जहल्लक्षणा । यथा "विषं भुंक्ष्व "इत्यत्र स्वार्थं विहाय शत्रुगृहे भोजननिवृत्तिर्लक्ष्यते । यत्र शक्यार्थ - मन्तर्भाव्यैवार्थान्तरप्रतीतिः तत्राजहल्ल्क्षणा यथा "शुक्लो घटः "इति । अत्र हि 'शुक्ल '-शब्दः स्वार्थं शुक्लगुणमन्तर्भाव्यैव तद्वति द्रव्ये लक्षणया वर्तते । यत्र हि विशिष्टवाचकः शब्द एकदेशं विहाय एकदेशे वर्तते तत्र जहदजहल्लक्षणा यया "सोऽय.म् देवदत्तः "इति । अत्र हि पदद्वयवाच्ययोर्विशिष्टयोरैक्या - नुपपत्या पदद्वयस्य विशेष्यमात्रपरत्वम् । यथा वा "तत्त्वमसि "इत्यादौ 'तत् '-पद्वाच्यस्य सर्वज्ञत्वादिविशिष्टस्य 'त्वं '-पदवाच्येनान्तःकरण - विशिष्टेनैक्यायोगात् ऐक्यसिद्ध्यर्थं स्वरूपे लक्षणेति साम्प्रदायिकाः । वयन्तु ब्रूमः -"सोऽयं देवदत्तः ,'"तत्त्वमसि "इत्यादौ विशिष्टवाचकपदानामेकदेशपरत्वेऽपि न लक्षणा शक्त्युपस्थितविशिष्टयोः अभेदान्वयानुपपत्तौ विशेष्ययोः शक्त्युपस्थितयोरेव अभेदान्वयाविरोधात् । यथा "घटोऽनित्यः "इत्यत्र 'घट '-पदवाच्यैकदेशघटत्वस्य - अयोग्यत्वेऽपि योग्यघटव्यक्त्या सहानित्यत्वान्वयः । यत्र पदार्थैकदेशस्य विशेषणतयोपस्थितिः तत्रैव स्वातन्त्र्येणौपस्थितये लक्षणभ्युपगमः । यथा "नित्यो घटः "इत्यत्र 'घट "-पदात् घटत्वस्य शक्त्या स्वातन्त्र्येणानुपस्थित्या तादृशोपस्थित्यर्थं 'घट-पदस्य घटत्वे लक्षणा । एवमेव "तत्त्वमसि " इत्यादिवाक्येऽपि न लक्षणा शक्त्या स्वातन्त्र्येणोपस्थितयोः 'तत्त्वं '-पदार्थयोरभेदान्वये बाधकाभावात् । अन्यथा "गेहे घटः ""घटे रूपम् ""घटमानय " इत्यादौ घटत्वगेहत्वादेरभिमतान्वयबोधायोग्यतया तत्रापि 'घटा '-दिपदानां विशेष्यमात्रपरत्वं लक्षणयैव स्यात् । तस्मात् "तत्त्वमसि "इत्यादिवाक्येषु आचार्याणां लक्षणोक्तिरभ्युपगमवादेन बोध्या । जहदजहल्लक्षणोदाहरणन्तु "काकेभ्यो दधि रक्ष्यताम् " इत्याद्येव तत्र शक्यकाकत्वपरित्यागेन अशक्यदध्युपधातकत्व- पुरस्कारेणाकाकेऽपि 'काक '-शब्दप्रवृत्तेः । लक्षणाबीजन्तु तात्पर्यानुपपत्तिरेव न तु अन्वयानुपपत्तिः "काकेभ्यो दधि रक्ष्यताम् "इत्यत्र अन्वयानुपपत्त्यभावात् "गङ्गायां घोषः "इत्यादौ तात्पर्यानुपपत्तेरपि सम्भवात् । लक्षणा च न पदमात्रवृत्तिः किन्तु वाक्यवृत्तिरपि । यथा "गम्भीरायां नद्यां घोषः "इत्यत्र "गम्भीरायां नद्याम् " इति पदद्वयसमुदायस्य तीरे लक्षणा । ननु वाक्यस्याशक्ततया कथं शक्यसम्बन्धरूपा लक्षणा उच्यते । शक्त्या यत् पदसम्बन्धेन ज्ञाप्यते तत्सम्बन्धो लक्षणा । शक्तिज्ञाप्यश्च यथा पदार्थस्तथा वाक्यार्थोऽपीति न काचिदनुपपत्तिः । एवमर्थवादवाक्यानां प्रशंसारूपाणां प्राशस्त्ये लक्षणा "सोऽरोदीत् "इत्यादिनिन्दार्थवादवाक्यानां निन्दितत्वे लक्षणा । अर्थवादगतपदानां प्राशत्यादिलक्षणाभ्युपगमे एकेन पदेन लक्षणया तदुपस्थितिसम्भवे पदान्तरवैयथ्य स्यात् । एवं च विध्यपेक्षितप्राशस्त्यरूपपदार्थप्रत्यायकतया अर्थवादपदसमुदायस्य पदस्थानीयतया विधिवाक्येनैकवाक्यत्वं भवति इत्यर्थवादवाक्यानां पदैकवाक्यता । क्व तर्हि वाक्यैकवाक्यता । यत्र प्रत्येकं भिन्नभिन्नसंसर्गप्रतिपादकयोर्वाक्ययोराकांक्षावशेन महावाक्यार्थबोधकत्वम् । यथा "दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत "इत्यादिवाक्यानां "समिधो यजति " इत्यादिवाक्यानां च परस्परोपेक्षिताङ्गाङ्गिभावबोधकतया एकवाक्यता । तदुक्तं भट्टपादैः - "स्वार्थबोधे समाप्तानामङ्गाङ्गित्वाद्यपेक्षया । वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते ॥"इति । एवं द्विविधोऽपि पदार्थो निरूपितः । तदुपस्थितिश्चासत्तिः । सा च शाब्दबोधे हेतुः तथैवान्वयव्यतिरेकदर्शनात् । एवं महावाक्यार्थबोधेऽवान्तरवाक्यार्थबोधो हेतुः तथैवान्वया - द्यवधारणात् । क्रमप्राप्तं तात्पर्यं निरूप्यते । तत्र तत्प्रतीतीच्छयोच्चरितत्वं न तात्पर्यम् अर्थज्ञानशून्येन पुरूषेणोच्चरिताद्वेदादर्थप्रत्याया- भावप्रसङ्गात् "अयमध्यापकोऽव्युत्पन्नः "इति विशेषदर्शनेन तात्पर्यभ्रमस्याप्यभावात् । न चेश्वरीयतात्पर्यज्ञानात् तत्र शाब्दबोध इति वाच्यम् ईश्वरानङ्गीकर्तृरपि तद्वाक्यार्थ- प्रतिपत्तिदर्शनात् उच्यते । तत्प्रतीतिजननयोग्यत्वं तात्पर्यम् । "गेहे घटः "इति वाक्यं गेहे घटसंसर्गप्रतीतिजननयोग्यम् न तु पटसंसर्गप्रतीतिजननयोग्यमिति तद्वाक्यं घटसंसर्गपरम् न तु पटसंसर्गपरमित्युच्यते । ननु "सैन्धवमानय "इत्यादिवाक्यं यदा लवणानयन - प्रतीतीच्छया प्रयुक्तं तदापि अश्वसंसर्गप्रतीतिजनने स्वरूपयोग्यतासत्त्वात् लवणपरत्वज्ञानदशायामश्वादि - संसर्गज्ञानापत्तिरिति चेत् न तदितरपरतीतीच्छया - नुच्चरितत्वस्यापितात्पर्यं प्रति विशेषणत्वात् । तथा च यद्वाक्यं यत्प्रतीतिजननस्वरूपयोग्यत्वे सति यदन्यप्रतीतीच्छया नोच्चरितम् तद्वाक्यं तत्संसर्ग - परमित्युच्यते । शुकादिवाक्ये अव्युत्पन्नोच्चरितवेदवाक्यादो च प्रतीतीच्छाया एवाभावेन तदन्यप्रतीतीच्छयो - च्चरितत्वाभावेन लक्षणसत्त्वान्नाव्याप्तिः । न चोभयप्रतीतीच्छयोच्चरितेऽव्याप्तिः तदन्यमात्र - प्रतीतीच्छयाऽनुच्चरितत्वस्य विवक्षितत्वात् । उक्तप्रतीतिमात्रजननयोग्यतायाश्चावच्छेदिका शक्तिः । अस्माकं मते सर्वत्र कारणतायाः शक्तेरेवावच्छेदकत्वान्न कोऽपि दोषः । एवं तात्पर्यस्य तत्प्रत्तितिजनकत्वरूपस्य शाब्दज्ञानजनकत्वे सिद्धे चतुर्थवर्णके तात्पर्यस्य शाब्दज्ञानहेतुत्वेनिराकरणवाक्यं तत्प्रतीतीच्छयोच्चरितत्वरूपतातात्पर्यनिराकरणपरम् अन्यथा तात्पर्यनिश्चयफलकवेदान्तविचारवैयर्थ्यप्रसङ्गात् । केचित्तु - शाब्दज्ञात्वावच्छेदेन न तात्पर्यज्ञानं हेतुरित्येवम्परम् चतुर्थवर्णकवाक्यम् तात्पर्यसंशयविपर्ययोत्तरशाब्दज्ञानविशेषे च तात्पर्यज्ञानं हेतुरेव इदं वाक्यमेतत्परमुतान्यपरमिति संशये तद्विपर्यये च तदुत्तरवाक्यार्थविशेषनिश्चयस्य तात्पर्यनिश्चयं विनाऽनुपपत्तेरित्याहुः । तच्च तात्पर्यं वेदे मीमांसापरिशोधितन्यायादेवावधर्यते लोके तु प्रकरणादिना । तत्र लौकिकवाक्यानां मानान्तरा - वगतार्थतयाऽनुवादकत्वम् वेदे तु वाक्यार्थस्यापूर्वतया नानुवादकत्वम् । तत्र लोके वेदे च कार्यपराणामिव सिद्धर्थानामपि प्रामाण्यम् "पुत्रस्ते जातः "इत्यादिषुअ सिद्धार्थेऽपि पदानां सामर्थ्यावधारणात् । अत एव वेदान्तवाक्यानां ब्रह्मणि प्रामाण्यम् । यथ चैतत् तथा विषयपरिच्छेदे वक्ष्यते । तत्र वेदानां नित्यसर्वज्ञपरमेश्वरप्रणीतत्वेन प्रामाण्यमिति - नैयायिकाः । वेदानां नित्यत्वेन निरस्तसमस्तपुंदूषणतया प्रामाण्यमिथ्यध्वरमीमांसकाः । अस्माकं तु मते वेदो न नित्यः उत्पत्तिमत्त्वात् । उत्पत्तिमत्त्वं च "अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः "इत्यादिश्रुतेः । नापि वेदानां त्रिक्षणवस्थायित्वम् "य एव वेदो देवदत्तेनाधीतः सः एव मयामि "इत्यादिप्रत्यभिज्ञाविरोधात् । अत एव गकारादिवर्णानामपि न क्षणिकत्वम् "सोऽयं गकारः " इत्यादिप्रत्यभिज्ञाविरोधात् । तथा च वर्णपदवाक्यसमुदायस्य वेदस्य वियदादिवत् सृष्टिकालीनोत्पत्तिकत्वं प्रलयकालीन - ध्वंसप्रतियोगित्वं च न तु मध्ये वर्णानामुत्पत्तिविनाशौ अनन्तगकारादिकल्पनायां गौरवात् । अनुच्चारणदशायां वर्णानामनभिव्यक्तिस्तदुच्चारणरूपव्यञ्जकाभावात् न विरुध्यते अन्धकारस्थघटानुपलम्भवत् । "उत्पन्नो गकारः "इत्यादिप्रत्ययस्तु "सोऽयं गकारः " इत्यादिप्रत्यभिज्ञाविरोधादप्रमाणम् । वर्णाभिव्यञ्जक - ध्वनिगतोत्पत्तिनिरूपितपरम्परासम्बन्धविषयत्वेन प्रमाणं वा । तस्मान्न वेदानां क्षणिकत्वम् । ननु क्षणिकत्वाभावेऽपि वियदादिप्रपञ्चवदुत्पत्तिमत्वेन परमेश्वरकर्तृकतया पौरुषेयत्वादपौरुषेयत्वं वेदानामिति तव सिद्धान्तो भज्येत इति चेत् न । न हि तावत् पुरुषेण उच्चार्यमाणत्वं पौरुषेयत्वम् गुरुमतेऽप्यध्यापकपरम्परया पौरुषेयत्वापत्तेः । नापि पुरुषाधीनोत्पत्तिकत्वं पौरुषेयत्वम् नैयायिकाभिमतपौरुषेयत्वानुमानेऽस्मदादिना सिद्धसाधनापत्तेः । किन्तु सजातीयोच्चारणानपेक्षोच्चारणविषयत्वम् । तथा च सर्गाद्यकाले परमेश्वरः पूर्वसर्गसिद्धवेदानुपूर्वीसमानानुपूर्वीकं वेदं विरचितवान् न तु तद्विजातीयं वेदमिति न सजातीयोच्चारण - अनपेक्षोच्चारणविषयत्वं पौरुषेयत्वं वेदस्य । भारतादीनान्तु सजातीयोच्चारणमनपेक्ष्यैवोच्चारणमिति तेषां पौरुषेयत्वम् । एवं पौरुषेयापौरुषेयभेदेन द्विविध आगमो निरूपितः । इति वेदान्तपरिभाषायामागमपरिच्छेदः । ५ अर्थापत्तिः । इदानीमर्थापत्तिर्निरूप्यते । तत्रोपपाद्यज्ञानेनोपपादककल्पन - मर्थर्थाप्त्तिः । तत्रोपपाद्यज्ञानं करणम् उपपादकज्ञानं फलम् । येन विना यदनुपपन्नं तत् तत्रोपपाद्यम् । यस्याभावे यस्यानुपपत्तिः तत् तत्रोपपादकम् । यथा रात्रिभोजनेन विना दिवाऽभुञ्जानस्य पीनत्वमनुपपन्नम् इति तादृशं पीनत्वमुपपाद्यम् यथा वा रात्रिभोजनस्याभावे तादृश - पीनत्वस्यानुपपत्तिः इति रात्रिभोजनमुपपादकम् । सा चार्थापत्तिर्द्विविधा -दृष्टार्थापत्तिः श्रुतार्थापत्तिश्चेति । तत्र दृष्टार्थापत्तिर्यथा "इदं रजतम् "इति पुरोवर्तिनि प्रतिपन्नस्य रजतस्य "नेदं रजतम् "इति तत्रैव निषिध्यमानत्वं सत्यत्वऽनुपपन्नम् इति रजतस्य सद्भिन्नत्वं सत्यत्वात्यन्ताभाववत्त्वं वा मिथ्यात्वं कल्पयति । श्रुतार्थापत्तिर्यथा यत्र श्रूयमाणवाक्यस्य स्वार्थानुपपत्तिमुखेन अर्थान्तरकल्पनम् । यथा "तरति शोकमात्मवित् "इत्यत्र श्रुतस्य शोकशब्दवाच्यबन्धजातस्य ज्ञाननिवर्त्यत्वस्यान्यथा - नुपपत्या बन्धस्य मिथ्यात्वं कल्पते । यथा वा "जीवी देवदत्तो "गृहे न "इति वाक्यश्रवणानन्तरं जीविनो गृहासत्त्वं बहिःसत्त्वं कल्पयति । श्रुतार्थापत्तिश्च द्विविधा -अभिधानानुपपत्तिः अभिहितानुपपत्तिश्च । तत्र यत्र वाक्यैकदेशश्रवणेऽन्वयाभिधानानुपपत्त्या अन्वयाभिधानोपयोगि पदान्तरं कल्प्यते तत्राभिधानानुपपत्तिः । यथा 'द्वारम् 'इत्यत्र 'पिधेहि 'इति पदाध्याहारः यथा वा "विश्वजिता विजेत " इत्यत्र 'स्वर्गकाम '-पदाध्याहारः । ननु 'द्वारम् 'इत्यादावन्वयाभिधानात् पूर्वम् इदमन्वयाभिधानं पिधानापस्थापकपदं विनाऽनुपापन्नमिति कथं ज्ञानमिति चेत् न 'अभिधान '-पदेन करणव्युत्पत्या तात्पर्यस्य विवक्षितत्वात् । तथा च द्वारकर्मकपिधानक्रियासंसर्गपरत्वं पिधानोपस्थापकपदं विनाऽनुपपन्नमिति ज्ञानं तत्रापि सम्भाव्यते । अभिहितानुपपत्तिस्तु यत्र वाक्यावगतोऽर्थोऽनुपपन्नत्वेन ज्ञातः सन्नर्थान्तरं कल्पयति तत्र द्रष्टव्या । तथा "स्वर्गकामो ज्योतिष्टोमेन यजेत "इत्यत्र स्वर्गसाधनत्वस्य क्षणिकयागगततयाऽवगतस्या - नुपपत्त्या मध्यवर्त्यपूर्वं कल्प्यते । न चेयमर्थापत्तिरनुमानेऽन्तर्भवितुमर्हति अन्वयव्यप्त्य - ज्ञानेनान्वयिन्यनन्तर्भावात् । व्यतिरेकिणश्चानुमानत्वं प्रागेव निरस्तम् । अत एवार्थापत्तिस्थले 'अनुमिनोमि 'इति नानुव्यवसायः किन्तु "अनेन इदं कल्पयामि "इति । ननु अर्थापत्तिस्थले "इदमनेन विनाऽनुपपन्नमिति ज्ञानकरणम् " इत्युक्तम् तत्र किमिदं "तेन विनाऽनुपपन्नत्वम् "। तदभावव्यपकाभावप्रतियोगित्वमिति ब्रूमः । एवमर्थापत्तेर्मानान्तरत्वसिद्धौ व्यतिरेकि नानुमानान्तरम् "पृथिवीतरेभ्यो भिद्यते "इअत्यादौ गन्धवत्त्वमितरभेदं विनाऽनुपपन्नमित्यादिज्ञानस्य करणत्वात् । अत एवानुव्यवसायः "पृथिव्यामितरभेदं कल्पयामि "इति । इति वेदान्तपरिभाषायामर्थापत्तिपरिच्छेदः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:09.4730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

dark ground microscopy

  • कृष्णक्षेत्रीय सूक्ष्मदर्शिकीअन्वीक्षण, काळ्या पार्श्वभूमीवरील सूक्ष्मदर्शिकी अंधारदीप्त अन्वीक्षण 
RANDOM WORD

Did you know?

aatmyathyatmya meaning
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site