TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

त्रिपाद्विभूतिमहानारायणोपनिषत् - अष्टमोऽध्यायः

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


नामाष्टमोऽध्यायः
ततः पितामहः परिपृच्छति भगवन्तं महाविष्णुं भगवञ्छुद्धाद्वैतपरमानन्दलक्षणपरब्रह्मणस्तव कथं विरुद्धवैकुण्ठप्रासादप्राकारविमानाद्यनन्तवस्तुभेदः । सत्यमेवोक्तमिति भगवान्महाविष्णुः परिहरति । यथा शुद्धसुवर्णस्य कटकमुकुटाङ्गदादिभेदः । यथा समुद्रसलिलस्य स्थूलसूक्ष्मतरङ्गफेनबुद्बुअदकरलवण- पाषाणाद्यनन्तवस्तुभेदः । यथा भूमेः पर्वतवृक्ष- तृणगुल्मलताद्यनन्तवस्तुभेदः । तथैवाद्वैतपरमानन्द- लक्षणपरब्रह्मणो मम सर्वाद्वैतमुपपन्नं भवत्येव । मत्स्वरूपमेव सर्वं मद्व्यतिरिक्तमणुमात्रं न विद्यते । पुनः पितामहः परिपृच्छति । भगवन् परमवैकुण्ठ एव परममोक्षः । परममोक्षस्त्वेक एव श्रूयते सर्वत्र । कथमनन्तवैकुण्ठाश्चानन्तानन्दसमुद्रादयश्चानन्त- मूर्तयः सन्तीति । तथेति होवाच भगवान्महाविष्णुः । एकस्मिन्नविद्यापादेऽनन्तकोटिब्रह्माण्डानि सावरणानि श्रूयन्ते । तस्मिन्नेकस्मिन्नण्डे बहवो लोकाश्च बहवो वैकुण्ठाश्चानन्त- विभूतयश्च सन्त्येव । सर्वाण्डेष्वानन्तलोकाश्चानन्त- वैकुण्ठाः सन्तीति सर्वेषां खल्वभिमतम् । पादत्रयेऽपि किं वक्तव्यं निरतिशयानन्दाविर्भावो मोक्ष इति मोक्षलक्षणं पादत्रये वर्तते । तस्मात्पादत्रयं परममोक्षः । पादत्रयं परमवैकुण्ठः । पादत्रयं परमकैवल्यमिति । ततः शुद्धचिदानन्दब्रह्मविलासानन्दाश्चानन्तपरमानन्द- विभूतयश्चानन्तवैकुण्ठाश्चानन्तपरमानन्दसमुद्रादयः सन्त्येव । उपासकस्ततोऽभ्येत्यैवंविधं नारायणं ध्यात्वा प्रदक्षिणनमस्कारान्विधाय विविधोपचारैरभ्यर्च्य निरतिशयाद्वैतपरमानन्दलक्षणो भूत्वा तदग्रे सावधानेनो- पविश्याद्वैतयोगमास्थाय सर्वाद्वैतपरमानन्दलक्षणा- खण्डामिततेजोराश्याकारं विभाव्योपासकः स्वयं शुद्ध- बोधानन्दमयामृतनिरतिशयानन्दतेजोराश्याकारो भूत्वा महावाक्यार्थमनुस्मरन् ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि योऽहमस्मि ब्रह्माहमस्मि अहमेवाहं मां जुहोमि स्वाहा । अहं ब्रह्मेति भावनया यथा परमतेजोमहानदी- प्रवाहपरमतेजःपारावाए प्रविशति । यथा परमतेजःपारावार- तरङ्गाः परमतेजःपारावारे प्रविशन्ति । तथैव सच्चिदान- न्दात्मोपासकः सर्वपरिपूर्णाद्वैतपरमानन्दलक्षणे परब्रह्मणि नारायणे मयि सच्चिदात्मकोऽहमजोऽहं परिपूर्णोऽहमस्मीति प्रविवेश । तत उपासको निस्तरङ्गाद्वैतापारनिरतिशयसच्चिदानन्द समुद्रो बभूव । यस्त्वनेन मार्गेण सम्यगाचरति स नारायणो भवत्यसंशयमेव । अनेन मार्गेण सर्वे मुनयः सिद्धिं गताः । असंख्याताः परमयोगिनश्च सिद्धिं गताः । ततः शिष्यो गुरुं परिपृच्छति । भगवन्त्सालम्ब- निरालम्बयोगौ कथमिति ब्रूहीति । सालम्बस्तु समस्तकर्माति- दूरतया करचरणादिमूर्तिविशिष्टं मण्डलाद्यालम्बनं सालम्बयोगः । निरालम्बस्तु समस्तनामरूपकर्मातिदूरतया सर्वकामाद्यन्तःकरणवृत्तिसाक्षितया तदालम्बनशून्यतया च भावनं निरालम्बयोगः । अथ च निरालम्बयोगाधिकारी कीदृशो भवति । अमानित्वादिलक्षणोपलक्षितो वः पुरुषः स एव निरालम्बयोगाधिकारी कार्यः कश्चिदस्ति । तस्मात्सर्वेषा- मधिकारिणामनधिकारिणां भक्तियोग एव प्रशस्यते । भक्तियोगो निरुपद्रवः । भक्तियोगान्मुक्तिः । बुद्धिमतामनायासेनाचिरादेव तत्त्वज्ञानं भवति । तत्कथमिति । भक्तवत्सलः स्वयमेव सर्वेभ्यो मोक्षविघ्नेभ्यो भक्तिनिष्ठान्सर्वान्परिपालयति । सर्वाभीष्टा- न्प्रयच्छति । मोक्षं दापयति । चतुर्मुखादीनां सर्वेषामपि विना विष्णुभक्त्या कल्पकोटिभिर्मोक्षो न विद्यते । कारणेन विना कार्यं नोदेति । भक्त्या विना ब्रह्मज्ञानं कदापि न जायते । तस्मात्त्वमपि सर्वोपायान्परित्यज्य भक्तिमाश्रय । भक्तिनिष्ठो भव । भक्तिनिष्ठो भव । भक्त्या सर्वसिद्धयः सिध्यन्ति । भक्त्याऽसाध्यं न किंचिदस्ति । एवंविधं गुरूपदेशमाकर्ण्य सर्वं परमतत्त्वरहस्यमवबुध्य सर्वसंशयान्विधूय क्षिप्रमेव मोक्षं साधयामीति निश्चित्य ततः शिष्यः समुत्थाय प्रदक्षिणनमस्कारं कृत्वा गुरुभ्यो गुरुपूजां विधाय गुर्वनुज्ञया क्रमेण भक्तिनिष्ठो भूत्वा भक्त्यतिशयेन पक्वं विज्ञानं प्राप्य तस्मादनायासेन शिष्यः क्षिप्रमेव साक्षान्नारायणो बभूवेत्युपनिषत् ॥ ततः प्रोवाचत् भगवान् महाविष्णुश्चतुर्मुखमवलोक्य ब्रह्मन् परमतत्त्वरहस्यं ते सर्वं कथितम् । तत्स्मरण- मात्रेण मोक्षो भवति । तदनुष्ठानेन सर्वमविदितं विदितं भवति । यत्स्वरूपज्ञानिनः सर्वमविदितं विदितं भवति । तत्सर्वं परमरहस्यं कथितम् । गुरुः क इति । गुरुः साक्षादादिनारायणः पुरुषः । स आदिनारायणोऽहमेव । तस्मान्मामेकं शरणं व्रज । मद्भक्तिनिष्ठो भव । मदीयोपासनां कुरु । मामेव प्राप्स्यसि । मद्व्यतिरिक्तं सर्वं बाधितम् । मद्व्यतिरिक्तमबाधितं न किंचिदस्ति । निरतिशयानन्दाद्वितीयोऽहमेव । सर्वपरिपूर्णोऽहमेव । सर्वाश्रयोऽहमेव । वाचामगोचरनिराकारपरब्रह्मस्वरूपोऽहमेव । मद्व्यतिरिक्तमणुमात्रं न विद्यते । इत्येवं महाविष्णोः परमिममुपदेशं लब्ध्वा पितामहः परमानन्दं प्राप । विष्णोः कराभिमर्शनेन दिव्यज्ञानं प्राप्य पितामहस्ततः समुत्थाय प्रदक्षिणनमस्कारा- न्विधाय विविधोपचारैर्महाविष्णुं प्रपूज्य प्राञ्जलिर्भूत्वा विनयेनोपसंगम्य भगवन् भक्तिनिष्ठां मे प्रयच्छ । त्वदभिन्नं मां परिपालय कृपालय । तथैव साधुसाध्विति साधुप्रशंसापूर्वकं महाविष्णुः प्रोवाच । मदुपासकः सर्वोत्कृष्टः स भवति । मदुपासनया सर्वमङ्गलानि भवन्ति । मदुपासनया सर्वं जयति । मदुपासकः सर्ववन्द्यो भवति । मदीयोपासकस्यासाध्यं न किंचिदस्ति । सर्वे बन्धाः प्रविनश्यन्ति । सद्वृत्तमिव सर्वे देवास्तं सेवन्ते । महाश्रेयांसि च सेवन्ते । मदुपासकस्तस्मान्निरतिशया- द्वैतपरमानन्दलक्षणपरब्रह्म भवति । यस्तु परमतत्त्व- रहस्याथर्वणमहानारायणोपनिषदमधीते सर्वेभ्यः पापेभ्यो मुक्तो भवति । ज्ञानाज्ञानकृतेभ्यः पातकेभ्यो मुक्तो भवति । महापातकेभ्यः पूतो भवति । रहस्यकृत- प्रकाशकृतचिरकालात्यन्तकृतेभ्यस्तेभ्यः सर्वेभ्यः पापेभ्यो मुक्तो भवति । स सकललोकाञ्जयति । स सकलमन्त्र- जपनिष्ठो भवति । स सकलवेदान्तरहस्याधिगतपरमार्थज्ञो भवति । स सकलभोगभुग्भवति । स सकलयोगविद्भवति । स सकल- जगत्परिपालको भवति । सोऽद्वैतपरमानन्दलक्षणं परब्रह्म भवति । इदं परमतत्त्वरहस्यं न वाच्यं गुरुभक्तिविहीनाय । न चाशुश्रूषवे वाच्यम् । न तपोविहीनाय नास्तिकाय । न दाम्भिकाय मद्भक्तिविहीनाय । मात्सर्याङ्किततनवे न वाच्यम् । न वाच्यं मदसूयापराय कृतघ्नाय । इदं परमरहस्यं यो मद्भक्तेष्वभिधास्यति । मद्भक्तिनिष्ठो भूत्वा मामेव प्राप्स्यति । आवयोर्य इमं संवादमध्येष्यति । स नरो ब्रह्मनिष्ठो भवति । श्रद्धावाननसूयुः श्रुणुया- त्पठति वा य इमं संवादमावयोः स पुरुषो मत्सायुज्यमेति । ततो महाविष्णुस्तिरोदधे । ततो ब्रह्मा स्वस्थानं जगामेत्युपनिषत् ॥
इत्याथर्वणमहानारायणोपनिषदि परमसायुज्यमुक्ति- स्वरूपनिरूपणं
नामाष्टमोऽध्यायः ॥ ८॥
इति त्रिपाद्विभूतिमहानारायणोपनिषत्समाप्ता ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:47:06.9370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

संघृष्टन

  • न. १ निकट संबंध ; सलगीचे वर्तन . तुका म्हणे जिणें । भलें संत संघटणें । आमचे त्यांचे संघष्टण विशेष असेल नाही ? - भाबे ४ . २ भेट ; मीलन ; एकत्र येणें ; संयोग ; जुळणी ; स्पर्श . तुका म्हणे जरी अग्नि झाला साधु । तरी पडे बाधु संघष्टणें । - तुगा ६५२ . ३ घटट मिठी ( मल्लांची कुस्तीमध्ये , प्रियजनांची अलिंगनांत ); भीड ; विळखा ; बिलगणें . ४ संघर्षण ; घांसाघास . [ सं . सम् ‍ + घट् ‍ ] संघटणें - अक्रि . भिडणें ; भेटणें ; एकत्र येणे ; बिलगणें . हृदयीं हाणितल्या चरणें । बळें संघटे पादसंधी । - मुआदि ९ . ५१ . जैसी परिव्राजकावरी । राजदासी संघटे । - मुरंशु २३५ . रथाजवळी रामरूप संघटले । - रावि ३२ . १२० . २ मावणे ; सामावणें . हे देखोनि दुर्योधना । परमानंद न संघटे । - मुआदि ३१ . ११६ . संघटना - स्त्री . जमाव ; जुळणी ; एकत्रीकरण ; संयोग . संघटट - पु . घर्षण . मंदरभ्रमणी तरुसंघट्टे । वन्हि पेटला धडधडाटें । - मुआदि ४ . १०८ . 
RANDOM WORD

Did you know?

ऐश्वर्याचे प्रकार किती व कोणते?
Category : Dictionary
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.