TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

तेजोबिन्दूपनिषत् - षष्ठोध्यायः

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


षष्ठोध्यायः
ऋभुः ॥सर्वं सच्चिन्मयं विद्धि सर्वं सच्चिन्मयं ततम् । सच्चिदानन्दमद्वैतं सच्चिदानन्दमद्वयम् ॥१॥ सच्चिदानन्दमात्रं हि सच्चिदानन्दमन्यकम् । सच्चिदानन्दरूपोऽहं सच्चिदानन्दमेव खम् ॥२॥ सच्चिदानन्दमेव त्वं सच्चिदानन्दकोऽस्म्यहम् । मनोबुद्धिरहङ्कारचित्तसङ्घातका अमी ॥३॥ न त्वं नाहं न चान्यद्वा सर्वं ब्रह्मैव केवलम् । न वाक्यं न पदं वेदं नाक्षरं न जडं क्वचित् ॥४॥ न मध्यं नादि नान्तं वा न सत्यं न निबन्धजम् । न दुःखं न सुखं भावं न माया प्रकृतिस्तथा ॥५॥ न देहं न मुखं घ्राणं न जिह्वा न च तालुनी । न दन्तोष्ठौ ललाटं च निश्वासोच्छ्वास एव च ॥६॥ न स्वेदमस्थि मांसं च न रक्तं न च मूत्रकम् । न दूरं नान्तिकं नाङ्गं नोदरं न किरीटकम् ॥७॥ न हस्तपादचलनं न शास्त्रं न च शासनम् । न वेत्ता वेदनं वेद्यं न जाग्रत्स्वप्नसुप्तयः ॥८॥ तुर्यातीतं न मे किञ्चित्सर्वं सच्चिन्मयं ततम् । नाध्यात्मिकं नाधिभूतं नाधिदैवं न मायिकम् ॥९॥ न विश्वतैजसः प्राज्ञो विराट्सूत्रात्मकेश्वरः । न गमागमचेष्टा च न नष्टं न प्रयोजनम् ॥१०॥ त्याज्यं ग्राह्यं न दूष्यं वा ह्यमेध्यामेध्यकं तथा । न पीनं न कृशं क्लेदं न कालं देशभाषणम् ॥११॥ न सर्वं न भयं द्वैतं न वृक्षतृणपर्वताः । न ध्यानं योगसंसिद्धिर्न ब्रह्मवैश्यक्षत्रकम् ॥१२॥ न पक्षी न मृगो नाङ्गी न लोभो मोह एव च । न मदो न च मात्सर्यं कामक्रोधादयस्तथा ॥१३॥ न स्त्रीशूद्रबिडालादि भक्ष्यभोज्यादिकं च यत् । न प्रौढहीनो नास्तिक्यं न वार्तावसरोऽति हि ॥१४॥ न लौकिको न लोको वा न व्यापारो न मूढता । न भोक्ता भोजनं भोज्यं न पात्रं पानपेयकम् ॥१५॥ न शत्रुमित्रपुत्रादिर्न माता न पिता स्वसा । न जन्म न मृतिर्वृद्धिर्न देहोऽहमिति भ्रमः ॥१६॥ न शून्यं नापि चाशून्यं नान्तःकरणसंसृतिः । न रात्रिर्न दिवा नक्तं न ब्रह्मा न हरिः शिवः ॥१७॥ न वारपक्षमासादि वत्सरं न च चञ्चलम् । न ब्रह्मलोको वैकुण्ठो न कैलासो न चान्यकः ॥१८॥ न स्वर्गो न च देवेन्द्रो नाग्निलोको न चाग्निकः । न यमो यमलोको वा न लोका लोकपालकाः ॥१९॥ न भूर्भुवःस्वस्त्रैलोक्यं न पातालं न भूतलम् । नाविद्या न च विद्या च न माया प्रकृतिर्जडा ॥२०॥ न स्थिरं क्षणिकं नाशं न गतिर्न च धावनम् । न ध्यातव्यं न मे ध्यानं न मन्त्रो न जपः क्वचित् ॥२१॥ न पदार्था न पूजार्हं नाभिषेको न चार्चनम् । न पुष्पं न फलं पत्रं गन्धपुष्पादिधूपकम् ॥२२॥ न स्तोत्रं न नमस्कारो न प्रदक्षिणमण्वपि । न प्रार्थना पृथग्भावो न हविर्नाग्निवन्दनम् ॥२३॥ न होमो न च कर्माणि न दुर्वाक्यं सुभाषणम् । न गायत्री न वा सन्धिर्न मनस्यं न दुःस्थितिः ॥२४॥ न दुराशा न दुष्टात्मा न चाण्डालो न पौल्कसः । न दुःसहं दुरालापं न किरातो न कैतवम् ॥२५॥ न पक्षपातं न पक्षं वा न विभूषणतस्करौ । न च दम्भो दाम्भिको वा न हीनो नाधिको नरः ॥२६॥ नैकं द्वयं त्रयं तुर्यं न महत्वं न चाल्पता । न पूर्णं न परिच्छिन्नं न काशी न व्रतं तपः ॥२७॥ न गोत्रं न कुलं सूत्रं न विभुत्वं न शून्यता । न स्त्री न योषिन्नो वृद्धा न कन्या न वितन्तुता ॥२८॥ न सूतकं न जातं वा नान्तर्मुखसुविभ्रमः । न महावाक्यमैक्यं वा नाणिमादिविभूतयः ॥२९॥ सर्वचैतन्यमात्रत्वात्सर्वदोषः सदा न हि । सर्वं सन्मात्ररूपत्वात्सच्चिदानन्दमात्रकम् ॥३०॥ ब्रह्मैव सर्वं नान्योऽस्ति तदहं तदहं तथा । तदेवाहं तदेवाहं ब्रह्मैवाहं सनातनम् ॥३१॥ ब्रह्मैवाहं न संसारी ब्रह्मैवाहं न मे मनः । ब्रह्मैवाहं न मे बुद्धिर्ब्रह्मैवाहं न चेन्द्रियः ॥३२॥ ब्रह्मैवाहं न देहोऽहं ब्रह्मैवाहं न गोचरः । ब्रह्मैवाहं न जीवोऽहं ब्रह्मैवाहं न भेदभूः ॥३३॥ ब्रह्मैवाहं जडो नाहमहं ब्रह्म न मे मृतिः । ब्रह्मैवाहं न च प्राणो ब्रह्मैवाहं परात्परः ॥३४॥ इदं ब्रह्म परं ब्रह्म सत्यं ब्रह्म प्रभुर्हि सः । कालो ब्रह्म कला ब्रह्म सुखं ब्रह्म स्वयंप्रभम् ॥३५॥ एकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म शमादिकम् । दोषो ब्रह्म गुणो ब्रह्म दमः शान्तं विभुः प्रभुः ॥३६॥ लोको ब्रह्म गुरुर्ब्रह्म शिष्यो ब्रह्म सदाशिवः । पूर्वं ब्रह्म परं ब्रह्म शुद्धं ब्रह्म शुभाशुभम् ॥३७॥ जीव एव सदा ब्रह्म सच्चिदानन्दमस्म्यहम् । सर्वं ब्रह्ममयं प्रोक्तं सर्वं ब्रह्ममयं जगत् ॥३८॥ स्वयं ब्रह्म न सन्देहः स्वस्मादन्यन्न किञ्चन । सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमद्वयम् ॥३९॥ नित्यनिर्मलरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन । अणुमात्रलसद्रूपमणुमात्रमिदं जगत् ॥४०॥ अणुमाअत्रं शरीरं वा ह्यणुमात्रमसत्यकम् । अणुमात्रमचिन्त्यं वा चिन्त्यं वा ह्यणुमात्रकम् ॥४१॥ ब्रह्मैव सर्वं चिन्मात्रं ब्रह्ममात्रं जगत्त्रयम् । आनन्दं परमानन्दमन्यत्किञ्चिन्न किञ्चन ॥४२॥ चैतन्यमात्रमोङ्कारं ब्रह्मैव सकलं स्वयम् । अहमेव जगत्सर्वमहमेव परं पदम् ॥४३॥ अहमेव गुणातीत अहमेव परात्परः । अहमेव परं ब्रह्म अहमेव गुरोर्गुरुः ॥४४॥ अहमेवाखिलाधार अहमेव सुखात्सुखम् । आत्मनोऽन्यज्जगन्नास्ति आत्मनोऽन्यत्सुखं न च ॥४५॥ आत्मनोऽन्या गतिर्नास्ति सर्वमात्ममयं जगत् । आत्मनोऽन्यन्नहि क्वापि आत्मनोऽन्यत्तृणं नहि ॥४६॥ आत्मनोऽन्यत्तुषं नास्ति सर्वमात्ममयं जगत् । ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि ॥४७॥ ब्रह्ममात्रं श्रुतं सर्वं स्वयं ब्रह्मैव केवलम् । ब्रह्ममात्रं वृतं सर्वं ब्रह्ममात्रं रसं सुखम् ॥४८॥ ब्रह्ममात्रं चिदाकाशं सच्चिदानन्दमव्ययम् । ब्रह्मणोऽन्यतरन्नास्ति ब्रह्मणोऽन्यज्जगन्न च ॥४९॥ ब्रह्मणोऽन्यदह नास्ति ब्रह्मणोऽन्यत्फलं नहि । ब्रह्मणोऽन्यत्तृणं नास्ति ब्रह्मणोऽन्यत्पदं नहि ॥५०॥ ब्रह्मणोऽन्यद्गुरुर्नास्ति ब्रह्मणोऽन्यमसद्वपुः । ब्रह्मणोऽन्यन्न चाहन्ता त्वत्तेदन्ते नहि क्वचित् ॥५१॥ स्वयं ब्रह्मात्मकं विद्धि स्वस्मादन्यन्न किञ्चन । यत्किञ्चिद्दृश्यते लोके यत्किञ्चिद्भाष्यते जनैः ॥५२॥ यत्किञ्चिद्भुज्यते क्वापि तत्सर्वमसदेव हि । कर्तृभेदं क्रियाभेदं गुणभेदं रसादिकम् ॥५३॥ लिङ्गभेदमिदं सर्वमसदेव सदा सुखम् । कालभेदं देशभेदं वस्तुभेदं जयाजयम् ॥५४॥ यद्यद्भेदं च तत्सर्वमसदेव हि केवलम् । असदन्तःकरणकमसदेवेन्द्रियादिकम् ॥५५॥ असत्प्राणादिकं सर्वं सङ्घातमसदात्मकम् । असत्यं पञ्चकोशाख्यमसत्यं पञ्च देवताः ॥५६॥ असत्यं षड्विकारादि असत्यमरिवर्गकम् । असत्यं षडृतुश्चैव असत्यं षड्रसस्तथा ॥५७॥ सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् । आत्मैवाहं परं सत्यं नान्याः संसारदृष्टयः ॥५८॥ सत्यमानन्दरूपोऽहं चिद्घनानन्दविग्रहः । अहमेव परानन्द अहमेव परात्परः ॥५९॥ ज्ञानाकारमिदं सर्वं ज्ञानानन्दोऽहमद्वयः । सर्वप्रकाशरूपोऽहं सर्वाभावस्वरूपकम् ॥६०॥ अहमेव सदा भामीत्येवं रूपं कुतोऽप्यसत् । त्वमित्येवं परं ब्रह्म चिन्मयानन्दरूपवान् ॥६१॥ चिदाकारं चिदाकाशं चिदेव परमं सुखम् । आत्मैवाहमसन्नाहं कूटस्थोऽहं गुरुः परः ॥६२॥ सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् । कालो नास्ति जगन्नास्ति मायाप्रकृतिरेव न ॥६३॥ अहमेव हरिः साक्षादहमेव सदाशिवः । शुद्धचैतन्यभावोऽहं शुद्धसत्त्वानुभावनः ॥६४॥ अद्वयानन्दमात्रोऽहं चिद्घनैकरसोऽस्म्यहम् । सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव केवलम् ॥६५॥ सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव चेतनम् । सर्वान्तर्यामिरूपोऽहं सर्वसाक्षित्वलक्षणः ॥६६॥ परमात्मा परं ज्योतिः परं धाम परा गतिः । सर्ववेदान्तसारोऽहं सर्वशास्त्रसुनिश्चितः ॥६७॥ योगानन्दस्वरूपोऽहं मुख्यानन्दमहोदयः । सर्वज्ञानप्रकाशोऽस्मि मुख्यविज्ञानविग्रहः ॥६८॥ तुर्यातुर्यप्रकाशोऽस्मि तुर्यातुर्यादिवर्जितः । चिदक्ष्रोऽन् सत्योऽहं वासुदवोऽजररोऽमरः ॥६९॥ अहं ब्रह्म चिदाकाशं नित्यं ब्रह्म निरञ्जनम् । शुद्धं बुद्धं सदामुक्तमनामकमरूपकम् ॥७०॥ सच्चिदानन्दरूपोऽहमनुन्त्पन्नमिदं जगत् । सत्यासत्यं जगन्नास्ति सङ्कल्पकलनादिकम् ॥७१॥ नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् । अनन्तमव्ययं शान्तमेकरूपमनामयम् ॥७२॥ मत्तोऽन्यदस्ति चेन्मिथ्या यथा मरुमरीचिका । वन्ध्याकुमारवचने भीतिश्चेदस्ति किञ्चन ॥७३॥ शशशृङ्गेण नागेन्द्रो मृतश्चेज्जगदस्ति तत् । मृगतृष्णाजलं पीत्वा तृप्तश्चेदस्त्विदं जगत् ॥७४॥ नरशृङ्गेण नष्टश्चेत्कश्चिदस्त्विदमेव हि । गन्धर्वनगरे सत्ये जगद्भवति सर्वदा ॥७५॥ गगने नीलिमासत्ये जगत्सत्यं भविष्यति । शुक्तिकारजतं सत्यं भूषणं चेज्जगद्भवेत् ॥७६॥ रज्जुसर्पेण दष्टश्चेन्नरो भवतु संसृतिः । जातरूपेण बाणेन ज्वालाग्नौ नाशिते जगत् ॥७७॥ विन्ध्याटव्यां पायसान्नमस्ति चेज्जगदुद्भवः । रम्भास्तम्भेन काष्ठेन पाकसिद्धौ जगद्भवेत् ॥७८॥ सद्यः कुमारिकरूपैः पाके सिद्धे जगद्भवेत् । चित्रस्थदीपैस्तमसो नाशश्चेदस्त्विदं जगत् ॥७९॥ मासात्पूर्वं मृतो मर्त्यो ह्यागतश्चेज्जगद्भवेत् । तक्रं क्षीरस्वरूपं चेत्क्वचिन्नित्यं जगद्भवेत् ॥८०॥ गोस्तनादुद्भवं क्षीरं पुनरारोपणे जगत् । भूरजोऽब्धौ समुत्पन्ने जगद्भवतु सर्वदा ॥८१॥ कूर्मरोम्णा गजे बद्धे जगदस्तु मदोत्कटे । नालस्थतन्तुना मेरुश्चालितश्चेज्जगद्भवेत् ॥८२॥ तरङ्गमालया सिन्धुर्बद्धश्चेदस्त्विदं जगत् । अग्नेरधश्चेज्ज्वलनं जगद्भवतु सर्वदा ॥८३॥ ज्वालावह्निः शीतलश्चेदस्तिरूपमिदं जगत् । ज्वालाग्निमण्डले पद्मवृद्धिश्चेज्जगदस्त्विदम् ॥८४॥ महच्छैलेन्द्रनीलं वा सम्भवच्चेदिदं जगत् । मेरुरागत्य पद्माक्षे स्थितश्चेदस्त्विदं जगत् ॥८५॥ निगिरेच्चेद्भृङ्गसूनुर्मेरुं चलवदस्त्विदम् । मशकेन हते सिंहे जगत्सत्यं तदास्तु ते ॥८६॥ अणुकोटरविस्तीर्णे त्रैलोक्यं चेज्जगद्भवेत् । तृणानलश्च नित्यश्चेत्क्षणिकं तज्जगद्भवेत् ॥८७॥ स्वप्नदृष्टं च यद्वस्तु जागरे चेज्जगद्भवः । नदीवेगो निश्चलश्चेत्केनापीदं भवेज्जगत् ॥८८॥ क्षुधितस्याग्निर्भोज्यश्चेन्निमिषं कल्पितं भवेत् । जात्यन्धै रत्नविषयः सुज्ञातश्चेज्जगत्सदा ॥८९॥ नपुंसककुमारस्य स्त्रीसुखं चेद्भवज्जगत् । निर्मितः शशशृङ्गेण रथश्चेज्जगदस्ति तत् ॥९०॥ सद्योजाता तु या कन्या भोगयोग्या भवेज्जगत् । वन्ध्या गर्भाप्ततत्सौख्यं ज्ञाता चेदस्त्विदं जगत् ॥९१॥ काको वा हंसवद्गच्छेज्जगद्भवतु निश्चलम् । महाखरो वा सिंहेन युध्यते चेज्जगत्स्थितिः ॥९२॥ महाखरो गजगतिं गतश्चेज्जगदस्तु तत् । सम्पूर्णचन्द्रसूर्यश्चेज्जगद्भातु स्वयं जडम् ॥९३॥ चन्द्रसूर्यादिकौ त्यक्त्वा राहुश्चेद्दृश्यते जगत् । भृष्टबीजसमुत्पन्नवृद्धिश्चेज्जगदस्तु सत् ॥९४॥ दरिद्रो धनिकानां च सुखं भुङ्क्ते तदा जगत् । शुना वीर्येण सिंहस्तु जितो यदि जगत्तदा ॥९५॥ ज्ञानिनो हृदयं मूढैर्ज्ञातं चेत्कल्पनं तदा । श्वानेन सागरे पीते निःशेषेण मनो भवेत् ॥९६॥ शुद्धाकाशो मनुष्येषु पतितश्चेत्तदा जगत् । भूमौ वा पतितं व्योम व्योमपुष्पं सुगन्धकम् ॥९७॥ शुद्धाकाशे वने जाते चलिते तु तदा जगत् । केवले दर्पणे नास्ति प्रतिबिम्बं तदा जगत् ॥९८॥ अजकुक्षौ जगन्नास्ति ह्यात्मकुक्षौ जगन्नहि । सर्वथा भेदकलनं द्वैताद्वैतं न विद्यते ॥९९॥ मायाकार्यमिदं भेदमस्ति चेद्ब्रह्मभावनम् । देहोऽहमिति दुःखं चेद्ब्रह्माहमिति निश्चयः ॥१००॥ हृदयग्रन्थिरस्तित्वे छिद्यते ब्रह्मचक्रकम् । संशये समनुप्राप्ते ब्रह्मनिश्चयमाश्रयेत् ॥१०१॥ अनात्मरूपचोरश्चेदात्मरत्नस्य रक्षणम् । नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥१०२॥ एवमादिसुदृष्टान्तैः साधितं ब्रह्ममात्रकम् । ब्रह्मैव सर्वभवनं भुवनं नाम सन्त्यज ॥१०३॥ अहं ब्रह्मेति निश्चित्य अहंभावं परित्यज । सर्वमेव लयं याति सुप्तहस्तस्थपुष्पवत् ॥१०४॥ न देहो न च कर्माणि सर्वं ब्रह्मैव केवलम् । न भूतं न च कार्यं च न चावस्थाचतुष्टयम् ॥१०५॥ लक्षणात्रयविज्ञानं सर्वं ब्रह्मैव केवलम् । सर्वव्यापारमुत्सृज्य ह्यहं ब्रह्मेति भावय ॥१०६॥ अहं ब्रह्म न सन्देहो ह्यहं ब्रह्म चिदात्मकम् । सच्चिदानन्दमात्रोऽहमिति निश्चित्य तत्त्यज ॥१०७॥ शाङ्करीयं महाशास्त्रं न देयं यस्य कस्यचित् । नास्तिकाय कृतघ्नाय दुर्वृत्ताय दुरात्मने ॥१०८॥ गुरुभक्तिविशुद्धान्तःकरणाय महात्मने । सम्यक्परीक्ष्य दातव्यं मासं षाण्मासवत्सरम् ॥१०९॥ सर्वोपनिषदभ्यासं दूरतस्त्यज्य सादरम् । तेजोबिन्दूपनिषदमभ्यसेत्सर्वदा मुदा ॥११०॥ सकृदभ्यासमात्रेण ब्रह्मैव भवति स्वयम् । ब्रह्मैव भवति स्वयमित्युपनिषत् ॥ॐ सह नाववतु ॥सह नौ भुनक्तु ॥सह वीर्यं करवावहै ॥तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
इति तेजोबिन्दूपनिषत्समाप्ता ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:47:06.3730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

खोप

  • स्त्री. १ झोंपडी ; खोपटी ; माळ्यावाचुन बांधलेलें घर . ' नातरी आकाशाचें खोंपे । ' - ज्ञा . ९ . १०३ . २ पक्ष्यांचें घरटें ३ ( ल .) पोट ; उदर . ' असो यावरी सोमवंशी जगदरुपें । वसुदेव देवकीया खोंपे । विश्वदुरितदहनार्थ कृष्णरुपें । आदिनारायणें । ' - स्वानु ९ . १ . १७ . ४ ( ल .) दरी ; गुहा . ' सिंहखोपें केवि गजप्रवेश । ' - कथा ४ . १६ . १८६ . ५ पोकळी ; ढोली . ( प्रा . दे ; खुंपा - गवती झोपडी ; का . कोप्प - लहान गांग ; तामिळ , तुळू ; कोप्प = झोंपडी ; तें . कोप्प ; तुल० बोअर लोकांत झोपडीला कोपी म्हणतात ) 
  • स्त्री. १ वीण ; वेत . २ बिजवट ; खाण ; थळा ; ( सामा .) ३ एखाद्या सांथीचा भर , व्याप्ति वादा . ' देवीची - तापाची - गोंवराची - खोंवल्याची खोप .' ( क्रि० येणे ; चालणें ; चालु होणें ). ४ ( व .) पिढी . ५ ( व .) पशुंचा विण्याचा ( जननाचा ) मोसम (?) 
  • स्त्री. केसांचा झुपका ; वेणीचा खोंपा . ' खोप वळुनिया कुरळी ' - कथा १ . १ . २९ . ( खोपा ) 
  • f  A brood, litter. The run of an epidemic. 
More meanings
RANDOM WORD

Did you know?

आत्मा जेव्हा शरीर सोडतो तेव्हा त्याचा पुढचा प्रवास कसा असतो?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site