तेजोबिन्दूपनिषत् - चतुर्थोऽध्यायः

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


कुमारः परमेश्वरं पप्रच्छ जीवन्मुक्तविदेहमुक्तयोः स्थितिमनुब्रूहीति । स होवाच परः शिवः । चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः । आत्ममात्रेण यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥१॥ देहत्रयातिरिक्तोऽहं शुद्धचैतन्यमस्म्यहम् । ब्रह्माहमिति यस्यान्तः स जीवनमुक्त उच्यते ॥२॥ आनन्दघनरूपोऽस्मि परानन्दघनोऽस्म्यहम् । यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः । परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते ॥३॥ यस्य किञ्चिदहं नास्ति चिन्मात्रेणावतिष्ठते । चैतन्यमात्रो यस्यान्तश्चिन्मात्रैकस्वरूपवान् ॥४॥ सर्वत्र पूर्णरूपात्मा सर्वत्रात्मावशेषकः । आनन्दरतिरव्यक्तः परिपूर्णश्चिदात्मकः ॥५॥ शुद्धचैतन्यरूपात्मा सर्वसङ्गविवर्जितः । नित्यानन्दः प्रसन्नात्मा ह्यन्यचिन्ताविवर्जितः ॥६ किञ्चिदस्तित्वहीनो यः स जीवन्मुक्त उच्यते । न मे चित्तं न मे बुद्धिर्नाहङ्कारो न चेन्द्रियम् ॥७॥ न मे देहः कदाचिद्वा न मे प्राणादयः क्वचित् । न मे माया न मे कामो न मे क्रोधः परोऽस्म्यहम् ॥८॥ न मे किञ्चिदिदं वापि न मे किञ्चित्क्वचिज्जगत् । न मे दोषो न मे लिङ्गं न मे चक्षुर्न मे मनः ॥९॥ न मे श्रोत्रं न मे नासा न मे जिह्वा न मे करः । न मे जाग्रन्न मे स्वप्नं न मे कारणमण्वपि ॥१०॥ न मे तुरीयमिति यः स जीवन्मुक्त उच्यते । इदं सर्वं न मे किञ्चिदयं सर्वं न मे क्वचित् ॥११॥ न मे कालो न मे देशो न मे वस्तु न मे मतिः । न मे स्नानं न मे सन्ध्या न मे दैवं न मे स्थलम् ॥१२॥ न मे तीर्थं न मे सेवा न मे ज्ञानं न मे पदम् । न मे बन्धो न मे जन्म न मे वाक्यं न मे रविः ॥१३॥ न मे पुण्यं न मे पापं न मे कार्यं न मे शुभम् । ने मे जीव इति स्वात्मा न मे किञ्चिज्जगत्रयम् ॥१४॥ न मे मोक्षो न मे द्वैतं न मे वेदो न मे विधिः । न मेऽन्तिकं न मे दूरं न मे बोधो न मे रहः ॥१५॥ न मे गुरुर्न मे शिष्यो न मे हीनो न चाधिकः । न मे ब्रह्म न मे विष्णुर्न मे रुद्रो न चन्द्रमाः ॥१६॥ न मे पृथ्वी न मे तोयं न मे वायुर्न मे वियत् । न मे वह्निर्न मे गोत्रं न मे लक्ष्यं न मे भवः ॥१७॥ न मे ध्याता न मे ध्येयं न मे ध्यानं न मे मनुः । न मे शीतं न मे चोष्णं न मे तृष्णा न मे क्षुधा ॥१८॥ न मे मित्रं न मे शत्रुर्न मे मोहो न मे जयः । न मे पूर्वं न मे पश्चान्न मे चोर्ध्वं न मे दिशः ॥१९॥ न मे वक्तव्यमल्पं वा न मे श्रोतव्यमण्वपि । न मे गन्तव्यमीषद्वा न मे ध्यातव्यमण्वपि ॥२०॥ न मे भोक्तव्यमीषद्वा न मे स्मर्तव्यमण्वपि । न मे भोगो न मे रागो न मे यागो न मे लयः ॥२१॥ न मे मौर्ख्यं न मे शान्तं न मे बन्धो न मे प्रियम् । न मे मोदः प्रमोदो वा न मे स्थूलं न मे कृशम् ॥२२॥ न मे दीर्घं न मे ह्रस्वं न मे वृद्धिर्न मे क्षयः । अध्यारोपोऽपवादो वा न मे चैकं न मे बहु ॥२३॥ न मे आन्ध्यं न मे मान्द्यं न मे पट्विदमण्वपि । न मे मांसं न मे रक्तं न मे मेदो न मे ह्यसृक् ॥२४॥ न मे मज्जा न मेऽस्थिर्वा न मे त्वग्धातु सप्तकम् । न मे शुक्लं न मे रक्तं न मे नीलं नमे पृथक् ॥२५॥ न मे तापो न मे लाभो मुख्यं गौणं न मे क्वचित् । न मे भ्रान्तिर्न मे स्थैर्यं न मे गुह्यं न मे कुलम् ॥२६॥ न मे त्याज्यं न मे ग्राह्यं न मे हास्यं न मे नयः । न मे वृत्तं न मे ग्लानिर्न मे शोष्यं न मे सुखम् ॥२७॥ न मे ज्ञाता न मे ज्ञानं न मे ज्ञेयं न मे स्वयम् । न मे तुभ्यं नमे मह्यं न मे त्वं च न मे त्वहम् ॥२८॥ न मे जरा न मे बाल्यं न मे यौवनमण्वपि । अहं ब्रह्मास्म्यहं ब्रह्मास्म्यहं ब्रह्मेति निश्चयः ॥२९॥ चिदहं चिदहं चेति स जीवन्मुक्त उच्यते । ब्रह्मैवाहं चिदेवाहं परो वाहं न संशयः ॥३०॥ स्वयमेव स्वयं हंसः स्वयमेव स्वयं स्थितः । स्वयमेव स्वयं पश्येत्स्वात्मराज्ये सुखं वसेत् ॥३१॥ स्वात्मानन्दं स्वयं भोक्ष्येत्स जीवन्मुक्त उच्यते । स्वयमेवैकवीरोऽग्रे स्वयमेव प्रभुः स्मृतः ॥३२॥ ब्रह्मभूतः प्रशान्तात्मा ब्रह्मानन्दमयः सुखी । स्वच्छरूपो महामौनी वैदेही मुक्त एव सः ॥३३॥ सर्वात्मा समरूपात्मा शुद्धात्मा त्वहमुत्थितः । एकवर्जित एकात्मा सर्वात्मा स्वात्ममात्रकः ॥३४॥ अजात्मा चामृतात्माहं स्वयमात्माहमव्ययः । लक्ष्यात्मा ललितात्माहं तूष्णीमात्मस्वभाववान् ॥३५॥ आनन्दात्मा प्रियो ह्यात्मा मोक्षात्मा बन्धवर्जितः । ब्रह्मैवाहं चिदेवाहमेवं वापि न चिन्त्यते ॥३६॥ चिन्मात्रेणैव यस्तिष्ठेद्वैदेही मुक्त एव सः ॥३७॥ निश्चयं च परित्यज्य अहं ब्रह्मेति निश्चयम् । आनन्दभरितस्वान्तो वैदेही मुक्त एव सः ॥३८॥ सर्वमस्तीति नास्तीति निश्चयं त्यज्य तिष्ठति । अहं ब्रह्मास्मि नास्मीति सच्चिदानन्दमात्रकः ॥३९॥ किञ्चित्क्वचित्कदाचिच्च आत्मानं न स्पृशत्यसौ । तूष्णीमेव स्थितस्तूष्णीं तूष्णीं सत्यं न किञ्चन ॥४०॥ परमात्मा गुणातीतः सर्वात्मा भूतभावनः । कालभेदं वस्तुभेदं देशभेदं स्वभेदकम् ॥४१॥ किञ्चिद्भेदं न तस्यास्ति किञ्चिद्वापि न विद्यते । अहं त्वं तदिदं सोऽयं कालात्मा कालहीनकः ॥४२॥ शून्यात्मा सूक्ष्मरूपात्मा विश्वात्मा विश्वहीनकः । देवात्मादेवहीनात्मा मेयात्मा मेयवर्जितः ॥४३॥ सर्वत्र जडहीनात्मा सर्वेषामन्तरात्मकः । सर्वसङ्कल्पहीनात्मा चिन्मात्रोऽस्मीति सर्वदा ॥४४॥ केवलः परमात्माहं केवलो ज्ञानविग्रहः । सत्तामात्रस्वरूपात्मा नान्यत्किञ्चिज्जगद्भयम् ॥४५॥ जीवेश्वरेति वाक्क्वेति वेदशास्त्राद्यहं त्विति । इदं चैतन्यमेवेति अहं चैतन्यमित्यपि ॥४६॥ इति निश्चयशून्यो यो वैदेही मुक्त एव सः । चैतन्यमात्रसंसिद्धः स्वात्मारामः सुखासनः ॥४७॥ अपरिच्छिन्नरूपात्मा अणुस्थूलादिवर्जितः । तुर्यतुर्या परानन्दो वैदेही मुक्त एव सः ॥४८॥ नामरूपविहीनात्मा परसंवित्सुखात्मकः । तुरीयातीतरूपात्मा शुभाशुभविवर्जितः ॥४९॥ योगात्मा योगयुक्तात्मा बन्धमोक्षविवर्जितः । गुणागुणविहीनात्मा देशकालादिवर्जितः ॥५०॥ साक्ष्यसाक्षित्वहीनात्मा किञ्चित्किञ्चिन्न किञ्चन । यस्य प्रपञ्चमानं न ब्रह्माकारमपीह न ॥५१॥ स्वस्वरूपे स्वयंज्योतिः स्वस्वरूपे स्वयंरतिः । वाचामगोचरानन्दो वाङ्मनोगोचरः स्वयम् ॥५२॥ अतीतातीतभावो यो वैदेही मुक्त एव सः । चित्तवृत्तेरतीतो यश्चित्तवृत्त्यवभासकः ॥५३॥ सर्ववृत्तिविहीनात्मा वैदेही मुक्त एव सः । तस्मिन्काले विदेहीति देहस्मरणवर्जितः ॥५४॥ ईषन्मात्रं स्मृतं चेद्यस्तदा सर्वसमन्वितः । परैरदृष्टबाह्यात्मा परमानन्दचिद्धनः ॥५५॥ परैरदृष्टबाह्यात्मा सर्ववेदान्तगोचरः । ब्रह्मामृतरसास्वादो ब्रह्मामृतरसायनः ॥५६॥ ब्रह्मामृतरसासक्तो ब्रह्मामृतरसः स्वयम् । ब्रह्मामृतरसे मग्नो ब्रह्मानन्दशिवार्चनः ॥५७॥ ब्रह्मामृतरसे तृप्तो ब्रह्मानन्दानुभावकः । ब्रह्मानन्दशिवानन्दो ब्रह्मानन्दरसप्रभः ॥५८॥ ब्रह्मानन्दपरं ज्योतिर्ब्रह्मानन्दनिरन्तरः । ब्रह्मानन्दरसान्नादो ब्रह्मानन्दकुटुम्बकः ॥५९॥ ब्रह्मानन्दरसारूढो ब्रह्मानन्दैकचिद्धनः । ब्रह्मानन्दरसोद्बाहो ब्रह्मानन्दरसम्भरः ॥६०॥ ब्रह्मानन्दजनैर्युक्तो ब्रह्मानन्दात्मनि स्थितः । आत्मरूपमिद।म् सर्वमात्मनोऽन्यन्न कञ्चन ॥६१॥ सर्वमात्माहमात्मास्मि परमात्मा परात्मकः । नित्यानन्द स्वरूपात्मा वैदेही मुक्त एव सः ॥६२॥ पूर्णरूपो महानात्मा प्रीतात्मा शाश्वतात्मकः । सर्वान्तर्यामिरूपात्मा निर्मलात्मा निरात्मकः ॥६३॥ निर्विकारस्वरूपात्मा शुद्धात्मा शान्तरूपकः । शान्ताशान्तस्वरूपात्मा नैकात्मत्वविवर्जितः ॥६४॥ जीवात्मपरमात्मेति चिन्तासर्वस्ववर्जितः । मुक्तामुक्तस्वरूपात्मा मुक्तामुक्तविवर्जितः ॥६५॥ बन्धमोक्षस्वरूपात्मा बन्धमोक्षविवर्जितः । द्वैताद्वैतस्वरूपात्मा द्वैताद्वैतविवर्जितः ॥६६॥ सर्वासर्वस्वरूपात्मा सर्वासर्वविवर्जितः । मोदप्रमोदरूपात्मा मोदादिविनिवर्जितः ॥६७॥ सर्वसङ्कल्पहीनात्मा वैदेही मुक्त एव सः । निष्कलात्मा निर्मलात्मा बुद्धात्मापुरुषात्मकः ॥६८॥ आनन्दादिविहीनात्मा अमृतात्मामृतात्मकः । कालत्रयस्वरूपात्मा कालत्रयविवर्जितः ॥६९॥ अखिलात्मा ह्यमेयात्मा मानात्मा मानवर्जितः । नित्यप्रत्यक्षरूपात्मा नित्यप्रत्यक्षनिर्णयः ॥७०॥ अन्यहीनस्वभावात्मा अन्यहीनस्वयंप्रभः । विद्याविद्यादिमेयात्मा विद्याविद्यादिवर्जितः ॥७१॥ नित्यानित्यविहीनात्मा इहामुत्रविवर्जितः । शमादिषट्कशून्यात्मा मुमुक्षुत्वादिवर्जितः ॥७२॥ स्थूलदेहविहीनात्मा सूक्ष्मदेहविवर्जितः । कारणादिविहीनात्मा तुरीयादिविवर्जितः ॥७३॥ अन्नकोशविहीनात्मा प्राणकोशविवर्जितः । मनःकोशविहीनात्मा विज्ञानादिविवर्जितः ॥७४॥ आनन्दकोशहीनात्मा पञ्चकोशविवर्जितः । निर्विकल्पस्वरूपात्मा सविकल्पविवर्जितः ॥७५॥ दृश्यानुविद्धहीनात्मा शब्दविद्धविवर्जितः । सदा समाधिशून्यात्मा आदिमध्यान्तवर्जितः ॥७६॥ प्रज्ञानवाक्यहीनात्मा अहंब्रह्मास्मिवर्जितः । तत्त्वमस्यादिहीनात्मा अयमात्मेत्यभावकः ॥७७॥ ओङ्कारवाच्यहीनात्मा सर्ववाच्यविवर्जितः । अवस्थात्रयहीनात्मा अक्षरात्मा चिदात्मकः ॥७८॥ आत्मज्ञेयादिहीनात्मा यत्किञ्चिदिदमात्मकः । भानाभानविहीनात्मा वैदेही मुक्त एव सः ॥७९॥ आत्मानमेव वीक्षस्व आत्मानं बोधय स्वकम् । स्वमात्मानं स्वयं भुङ्क्ष्व स्वस्थो भव षडानन ॥८०॥ स्वमात्मनि स्वयं तृप्तः स्वमात्मानं स्वयं चर । आत्मानमेव मोदस्व वैदेही मुक्तिको भवेत्युपनिषत् ॥
इति चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP