TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

तेजोबिन्दूपनिषत् - तृतीयोध्यायः

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


तृतीयोध्यायः
कुमारः पितरमात्मानुभवमनुब्रूहीति पप्रच्छ । स होवाच परः शिवः । परब्रह्मस्वरूपोऽहं परमानन्दमस्म्यहम् । केवलं ज्ञानरूपोऽहं केवलं परमोऽस्म्यहम् ॥१॥ केवलं शान्तरूपोऽहं केवलं चिन्मयोऽस्म्यहम् । केवलं नित्यरूपोऽहं केवलं शाश्वतोऽस्म्यहम् ॥२॥ केवलं सत्त्वरूपोऽहमहं त्यक्त्वाहमस्म्यहम् । सर्वहीनस्वरूपोऽहं चिदाकाशमयोऽस्म्यहम् ॥३॥ केवलं तुर्यरूपोऽस्मि तुर्यातीतोऽस्मि केवलः । सदा चैतन्यरूपोऽस्मि चिदानन्दमयोऽस्म्यहम् ॥४॥ केवलाकाररूपोऽस्मि शुद्धरूपोऽस्म्यहं सदा । केवलं ज्ञानरूपोऽस्मि केवलं प्रियमस्म्यहम् ॥५॥ निर्विकल्पस्वरूपोऽस्मि निरीहोऽस्मि निरामयः । सदाऽसङ्गस्वरूपोऽस्मि निर्विकारोऽहमव्ययः ॥६॥ सदैकरसरूपोऽस्मि सदा चिन्मात्रविग्रहः । अपरिच्छिन्नरूपोऽस्मि ह्यखण्डानन्दरूपवान् ॥७॥ सत्परानन्दरूपोऽस्मि चित्परानन्दमस्म्यहम् । अन्तरान्तररूपोऽहमवाङ्मनसगोचरः ॥८॥ आत्मानन्दस्वरूपोऽहं सत्यानन्दोऽस्म्यहं सदा । आत्मारामस्वरूपोऽस्मि ह्ययमात्मा सदाशिवः ॥९॥ आत्मप्रकाशरूपोऽस्मि ह्यात्मज्योतिरसोऽस्म्यहम् । आदिमध्यान्तहीनोऽस्मि ह्याकाशसदृशोऽस्म्यहम् ॥१०॥ नित्यशुद्धचिदानन्दसत्तामात्रोऽहमव्ययः । नित्यबुद्धविशुद्धैकसच्चिदानन्दमस्म्यहम् ॥१॥ नित्यशेषस्वरूपोऽस्मि सर्वातीतोऽस्म्यहं सदा । रूपातीतस्वरूपोऽस्मि परमाकाशविग्रहः ॥१२॥ भूमानन्दस्वरूपोऽस्मि भाषाहीनोऽस्म्यहं सदा । सर्वाधिष्ठानरूपोऽस्मि सर्वदा चिद्घनोऽस्म्यहम् ॥१३॥ देहभावविहीनोऽस्मि चिन्ताहीनोऽस्मि सर्वदा । चित्तवृत्तिविहीनोऽहं चिदात्मैकरसोऽस्म्यहम् ॥१४॥ सर्वदृश्यविहीनोऽहं दृग्रूपोऽस्म्यहमेव हि । सर्वदा पूर्णरूपोऽस्मि नित्यतृप्तोऽस्म्यहं सदा ॥१५॥ अहं ब्रह्मैव सर्वं स्यादहं चैतन्यमेव हि । अहमेवाहमेवास्मि भूमाकाशस्वरूपवान् ॥१६॥ अहमेव महानात्मा ह्यहमेव परात्परः । अहमन्यवदाभामि ह्यहमेव शरीरवत् ॥१७॥ अहं शिष्यवदाभामि ह्ययं लोकत्रयाश्रयः । अहं कालत्रयातीत अहं वेदैरुपासितः ॥१८॥ अहं शास्त्रेण निर्णीत अहं चित्ते व्यवस्थितः । मत्त्यक्तं नास्ति किञ्चिद्वा मत्त्यक्तं पृथिवी च वा ॥१९॥ मयातिरिक्तं यद्यद्वा तत्तन्नास्तीति निश्चिनु । अहं ब्रह्मास्मि सिद्धोऽस्मि नित्यशुद्धोऽस्म्यहं सदा ॥२०॥ निर्गुणः केवलात्मास्मि निराकारोऽस्म्यहं सदा । केवलं ब्रह्ममात्रोऽस्मि ह्यजरोऽस्म्यमरोऽस्म्यहम् ॥२१॥ स्वयमेव स्वयं भामि स्वयमेव सदात्मकः । स्वयमेवात्मनि स्वस्थः स्वयमेव परा गतिः ॥२२॥ स्वयमेव स्वयं भञ्जे स्वयमेव स्वयं रमे । स्वयमेव स्वयं ज्योतिः स्वयमेव स्वयं महः ॥२३॥ स्वस्यात्मनि स्वयं रंस्ये स्वात्मन्येव विलोकये । स्वात्मन्येव सुखासीनः स्वात्ममात्रावशेषकः ॥२४॥ स्वचैतन्ये स्वयं स्थास्ये स्वात्मराज्ये सुखे रमे । स्वात्मसिंहासने स्थित्वा स्वात्मनोऽन्यन्न चिन्तये ॥२५॥ चिद्रूपमात्रं ब्रह्मैव सच्चिदानन्दमद्वयम् । आनन्दघन एवाहमहं ब्रह्मास्मि केवलम् ॥२६॥ सर्वदा सर्वशून्योऽहं सर्वात्मानन्दवानहम् । नित्यानन्दस्वरूपोऽहमात्माकाशोऽस्मि नित्यदा ॥२७॥ अहमेव हृदाकाशश्चिदादित्यस्वरूपवान् । आत्मनात्मनि तृप्तोऽस्मि ह्यरूपोऽस्म्यहमव्ययः ॥२८॥ एकसंख्याविहीनोऽस्मि नित्यमुक्तस्वरूपवान् । आकाशादपि सूक्ष्मोऽहमाद्यन्ताभाववानहम् ॥२९॥ सर्वप्रकाशरूपोऽहं परावरसुखोऽस्म्यहम् । सत्तामात्रस्वरूपोऽहं शुद्धमोक्षस्वरूपवान् ॥३०॥ सत्यानन्दस्वरूपोऽहं ज्ञानानन्दघनोऽस्म्यहम् । विज्ञानमात्ररूपोऽहं सच्चिदानन्दलक्षणः ॥३१॥ ब्रह्ममात्रमिदं सर्वं ब्रह्मणोऽन्यन्न किञ्चन । तदेवाहं सदानन्दं ब्रह्मैवाहं सनातनम् ॥३२॥ त्वमित्येतत्तदित्येतन्मत्तोऽन्यन्नास्ति किञ्चन । चिच्चैतन्यस्वरूपोऽहमहमेव शिवः परः ॥३३॥ अतिभावस्वरूपोऽहमहमेव सुखात्मकः । साक्षिवस्तुविहीनत्वात्साक्षित्वं नास्ति मे सदा ॥३४॥ केवलं ब्रह्ममात्रत्वादहमात्मा सनातनः । अहमेवादिशेषोऽहमहं शेषोऽहमेव हि ॥३५॥ नामरूपविमुक्तोऽहमहमानन्दविग्रहः । इन्द्रियाभावरूपोऽहं सर्वभावस्वरूपकः ॥३६॥ बन्धमुक्तिविहीनोऽहं शाश्वतानन्दविग्रहः । आदिचैतन्यमात्रोऽहमखण्डैकरसोऽस्म्यहम् ॥३७॥ वाङ्मनोऽगोचरश्चाहं सर्वत्र सुखवानहम् । सर्वत्र पूर्णरूपोऽहं भूमानन्दमयोऽस्म्यहम् ॥३८॥ सर्वत्र तृप्तिरूपोऽहं परामृतरसोऽस्म्यहम् । एकमेवाद्वितीयं सद्ब्रह्मैवाहं न संशयः ॥३९॥ सर्वशून्यस्वरूपोऽहं सकलागमगोचरः । मुक्तोऽहं मोक्षरूपोऽहं निर्वाणसुखरूपवान् ॥४०॥ सत्यविज्ञानमात्रोऽहं सन्मात्रानन्दवानहम् । तुरीयातीतरूपोऽहं निर्विकल्पस्वरूपवान् ॥४१॥ सर्वदा ह्यजरूपोऽहं नीरागोऽस्मि निरञ्जनः । अहं शुद्धोऽस्मि बुद्धोऽस्मि नित्योऽस्मि प्रभुरस्म्यहम् ॥४२॥ ओङ्कारार्थस्वरूपोऽस्मि निष्कलङ्कमयोऽस्म्यहम् । चिदाकारस्वरूपोऽस्मि नाहमस्मि न सोऽस्म्यहम् ॥४३॥ न हि किञ्चित्स्वरूपोऽस्मि निर्व्यापारस्वरूपवान् । निरंशोऽस्मि निराभासो न मनो नेन्द्रियोऽस्म्यहम् ॥४४॥ न बुद्धिर्न विकल्पोऽहं न देहादित्रयोऽस्म्यहम् । न जाग्रत्स्वप्नरूपोऽहं न सुषुप्तिस्वरूपवान् ॥४५॥ न तापत्रयरूपोऽहं नेषणात्रयवानहम् । श्रवणं नास्ति मे सिद्धेर्मननं च चिदात्मनि ॥४६॥ सजातीयं न मे किञ्चिद्विजातीयं न मे क्वचित् । स्वगतं च न मे किञ्चिन्न मे भेदत्रयं क्वचित् ॥४७॥ असत्यं हि मनोरूपमसत्यं बुद्धिरूपकम् । अहङ्कारमसिद्धीति नित्योऽहं शाश्वतो ह्यजः ॥४८॥ देहत्रयमसद्विद्धि कालत्रयमसत्सदा । गुणत्रयमसत्विद्धि ह्ययं सत्यात्मकः शुचिः ॥४९॥ श्रुतं सर्वमसत्द्विद्धि वेदं सर्वमसत्सदा । शास्त्रं सर्वमसत्द्विद्धि ह्यहं सत्यचिदात्मकः ॥५०॥ मूर्तित्रयमसद्विद्धि सर्वभूतमसत्सदा । सर्वतत्त्वमसद्विद्धि ह्ययं भूमा सदाशिवः ॥५१॥ गुरुशिष्यमसद्विद्धि गुरोर्मन्त्रमसत्ततः । यद्दृश्यं तदसद्विद्धि न मां विद्धि तथाविधम् ॥५२॥ यच्चिन्त्यं तदसद्विद्धि यन्न्यायं तदसत्सदा । यद्धितं तदसद्विद्धि न मां विद्धि तथाविधम् ॥५३॥ सर्वान्प्राणानसद्विद्धि सर्वान्भोगानसत्त्विति । दृष्टं श्रुतमसद्विद्धि ओतं प्रोतमसन्मयम् ॥५४॥ कार्याकार्यमसद्विद्धि नष्टं प्राप्तमसन्मयम् । दुःखादुःखमसद्विद्धि सर्वासर्वमन्मयम् ॥५५॥ पूर्णापूर्णमसद्विद्धि धर्माधर्ममसन्मयम् । लाभालाभावसद्विद्धि जयाजयमसन्मयम् ॥५६॥ शब्दं सर्वमसद्विद्धि स्पर्शं सर्वमसत्सदा । रूपं सर्वमसद्विद्धि रसं सर्वमसन्मयम् ॥५७॥ गन्धं सर्वमसद्विद्धि सर्वाज्ञानमसन्मयम् । असदेव सदा सर्वमसदेव भवोद्भवम् ॥५८॥ असदेव गुणं सर्वं सन्मात्रमहमेव हि । स्वात्ममन्त्रं सदा पश्येत्स्वात्ममन्त्रं सदाभ्यसेत् ॥५९॥ अहं ब्रह्मास्मि मन्त्रोऽयं दृश्यपापं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयमन्यमन्त्रं विनाशयेत् ॥६०॥ अहं ब्रह्मास्मि मन्त्रोऽयं देहदोषं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं जन्मपापं विनाशयेत् ॥६१॥ अहं ब्रह्मास्मि मन्त्रोऽयं मृत्युपाशं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं द्वैतदुःखं विनाशयेत् ॥६२॥ अहं ब्रह्मास्मि मन्त्रोऽयं भेदबुद्धिं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं चिन्तादुःखं विनाशयेत् ॥६३॥ अहं ब्रह्मास्मि मन्त्रोऽयं बुद्धिव्याधिं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं चित्तबन्धं विनाशयेत् ॥६४॥ अहं ब्रह्मास्मि मन्त्रोऽयं सर्वव्याधीन्विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं सर्वशोकं विनाशयेत् ॥६५॥ अहं ब्रह्मास्मि मन्त्रोऽयं कामादीन्नाशयेत्क्षणात् । अहं ब्रह्मास्मि मन्त्रोऽयं क्रोधशक्तिं विनाशयेत् ॥६६॥ अहं ब्रह्मास्मि मन्त्रोऽयं चित्तवृत्तिं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं सङ्कल्पादीन्विनाशयेत् ॥६७॥ अहं ब्रह्मास्मि मन्त्रोऽयं कोटिदोषं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं सर्वतन्त्रं विनाशयेत् ॥६८॥ अहं ब्रह्मास्मि मन्त्रोऽयमात्माज्ञानं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयमात्मलोकजयप्रदः ॥६९॥ अहं ब्रह्मास्मि मन्त्रोऽयमप्रतर्क्यसुखप्रदः । अहं ब्रह्मास्मि मन्त्रोऽयमजडत्वं प्रयच्छति ॥७०॥ अहं ब्रह्मास्मि मन्त्रोऽयमनात्मासुरमर्दनः । अहं ब्रह्मास्मि वज्रोऽयमनात्माख्यगिरीन्हरेत् ॥७१॥ अहं ब्रह्मास्मि मन्त्रोऽयमनात्माख्यासुरान्हरेत् । अहं ब्रह्मास्मि मन्त्रोऽयं सर्वांस्तान्मोक्षयिष्यति ॥७२॥ अहं ब्रह्मास्मि मन्त्रोऽयं ज्ञानानन्दं प्रयच्छति । सप्तकोटिमहामन्त्रं जन्मकोटिशतप्रदम् ॥७३॥ सर्वमन्त्रान्समुत्सृज्य एतं मन्त्रं समभ्यसेत् । सद्यो मोक्षमवाप्नोति नात्र सन्देहमण्वपि ॥७४॥
इति तृतीयोध्यायः ॥३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:47:06.2330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

KAMBAR(कम्बर्)

  • A celebrated Tamil poet. He was born in a poor family. At the orders of the King many poets wrote the story of Rāmāyaṇa in Tamil. But Kambar's work was accepted as the best. This is the renowned Kamba Rāmāyaṇa. Kambar has written many other poems of which the important ones are Sarasvatī Antādi and Kāñcī Purāṇa. It is said that unintelligent children of Tamil nādu are even now given sand from the burial ground of Kambar to induce intelligence into them. The (--r) suffix in Kambar is plural denoting respect. (See under ‘Bhadrakālī’). 
RANDOM WORD

Did you know?

हिंदू धर्मियांत मुलांचे किंवा मुलींचे कान कां टोचतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site