TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

तेजोबिन्दूपनिषत् - द्वितीयोऽध्यायः

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


द्वितीयोऽध्यायः
अथ ह कुमारः शिवं पप्रच्छाऽखण्डैकरस- चिन्मात्रस्वरूपमनुब्रूहीति । स होवाच परमः शिवः । अखण्डैकरसं दृश्यमखण्डैकरसं जगत् । अखण्डैकरसं भावमखण्डैकरसं स्वयम् ॥१॥ अखण्डैकरसो मन्त्र अखण्डैकरसा क्रिया । अखण्डैकरसं ज्ञानमखण्डैकरसं जलम् ॥२॥ अखण्डैकरसा भूमिरखण्डैकरसं वियत् । अखण्डैकरसं शास्त्रमखण्डैकरसा त्रयी ॥३॥ अखण्डैकरसं ब्रह्म चाखण्डैकरसं व्रतम् । अखण्डैकरसो जीव अखण्डैकरसो ह्यजः ॥४॥ अखण्डैकरसो ब्रह्मा अखण्डैकरसो हरिः । अखण्डैकरसो रुद्र अखण्डैकरसोऽस्म्यहम् ॥५॥ अखण्डैकरसो ह्यात्मा ह्यखण्डैकरसो गुरुः । अखण्डैकरसं लक्ष्यमखण्डैकरसं महः ॥६॥ अखण्डैकरसो देह अखण्डैकरसं मनः । अखण्डैकरसं चित्तमखण्डैकरसं सुखम् ॥७॥ अखण्डैकरसा विद्या अखण्डैकरसोऽव्ययः । अखण्डैकरसं नित्यमखण्डैकरसं परम् ॥८॥ अखण्डैकरसं किञ्चिदखण्डैकरसं परम् । अखण्डैकरसादन्यन्नास्ति नास्ति षडानन ॥९॥ अखण्डैकरसान्नास्ति अखण्डैकरसान्न हि । अखण्डैकरसात्किञ्चिदखण्डैकरसादहम् ॥१०॥ अखण्डैकरसं स्थूलं सूक्ष्मं चाखण्डरूपकम् । अखण्डैकरसं वेद्यमखण्डैकरसो भवान् ॥११॥ अखण्डैकरसं गुह्यमखण्डैकरसादिकम् । अखण्डैकरसो ज्ञाता ह्यखण्डैकरसा स्थितिः ॥१२॥ अखण्डैकरसा माता अखण्डैकररसः पिता । अखण्डैकरसो भ्राता अखण्डैकरसः पतिः ॥१३॥ अखण्डैकरसं सूत्रमखण्डैकरसो विराट् । अखण्डैकरसं गात्रमखण्डैकरसं शिरः ॥१४॥ अखण्डैकरसं चान्तरखण्डैकरसं बहिः । अखण्डैकरसं पूर्णमखण्डैकरसामृतम् ॥१५॥ अखैण्डैकरसं गोत्रमखण्डैकरसं गृहम् । अखण्डैकरसं गोप्यमखण्डैकरसशशशी ॥१६॥ अखण्डैकरसास्तारा अखण्डैकरसो रविः । अखण्डैकरसं क्षेत्रमखण्डैकरसा क्षमा ॥१७॥ अखण्डैकरस शान्त अखण्डैकरसोऽगुणः । अखण्डैकरसः साक्षी अखण्डैकरसः सुहृत् ॥१८॥ अखण्डैकरसो बन्धुरखण्डैकरसः सखा । अखण्डैकरसो राजा अखण्डैकरसं पुरम् ॥१९॥ अखण्डैकरसं राज्यमखण्डैकरसाः प्रजाः । अखण्डैकरसं तारमखण्डैकरसो जपः ॥२०॥ अखण्डैकरसं ध्यानमखण्डैकरसं पदम् । अखण्डैकरसं ग्राह्यमखण्डैकरसं महत् ॥२१॥ अखण्डैकरसं ज्योतिरखण्डैकरसं धनम् । अखण्डैकरसं भोज्यमखण्डैकरसं हविः ॥२२॥ अखण्डैकरसो होम अखण्डैकरसो जपः । अखण्डैकरसं स्वर्गमखण्डैकरसः स्वयम् ॥२३॥ अखण्डैकरसं सर्वं चिन्मात्रमिति भावयेत् । चिन्मात्रमेव चिन्मात्रमखण्डैकरसं परम् ॥२४॥ भववर्जितचिन्मात्रं सर्वं चिन्मात्रमेव हि । इदं च सर्वं चिन्मात्रमयं चिन्मयमेव हि ॥२५॥ आत्मभावं च चिन्मात्रमखण्डैकरसं विदुः । सर्वलोकं च चिन्मात्रं वत्ता मत्ता च चिन्मयम् ॥२६॥ आकाशो भूर्जलं वायुरग्निर्ब्रह्मा हरिः शिवः । यत्किञ्चिद्यन्न किञ्चिच्च सर्वं चिन्मात्रमेव हि ॥२७॥ अखण्डैकरसं सर्वं यद्यच्चिन्मात्रमेव हि । भूतं भव्यं भविष्यच्च सर्वं चिन्मात्रमेव हि ॥२८॥ द्रव्यं कालं च चिन्मात्रं ज्ञानं ज्ञेयं चिदेव हि । ज्ञाता चिन्मात्ररूपश्च सर्वं चिन्मयमेव हि ॥२९॥ संभाषणं च चिन्मात्रं यद्यच्चिन्मात्रमेव हि । असच्च सच्च चिन्मात्रमाद्यन्तं चिन्मयं सदा ॥३०॥ आदिरन्तश्च चिन्मात्रं गुरुशिष्यादि चिन्मयम् । दृग्दृश्यं यदि चिन्मात्रमस्ति चेच्चिन्मयं सदा ॥३१॥ सर्वाश्चर्यं हि चिन्मात्रं देहं चिन्मात्रमेव हि । लिङ्गं च कारणं चैव चिन्मात्रान्न हि विद्यते ॥३२॥ अहं त्वं चैव चिन्मात्रं मूर्तामूर्तादिचिन्मयम् । पुण्यं पापं च चिन्मात्रं जीवश्चिन्मात्रविग्रहः ॥३३॥ चिन्मात्रान्नास्ति सङ्कल्पश्चिन्मात्रान्नास्ति वेदनम् । चिन्मात्रान्नास्ति मन्त्रादि चिन्मात्रान्नास्ति देवता ॥३४॥ चिन्मात्रान्नास्ति दिक्पालाश्चिन्मात्राद्व्यावहारिकम् । चिन्मात्रात्परमं ब्रह्म चिन्मात्रान्नास्ति कोऽपि हि ॥३५॥ चिन्मात्रान्नास्ति माया च चिन्मात्रान्नास्ति पूजनम् । चिन्मात्रान्नास्ति मन्तव्यं चिन्मात्रान्नास्ति सत्यकम् ॥३६॥ चिन्मात्रान्नास्ति कोशादि चिन्मात्रान्नास्ति वै वसु । चिन्मात्रान्नास्ति मौनं च चिन्मात्रान्नस्त्यमौनकम् ॥३७॥ चिन्मात्रान्नास्ति वैराग्यं सर्वं चिन्मात्रमेव हि । यच्च यावच्च चिन्मात्रं यच्च यावच्च दृश्यते ॥३८॥ यच्च यावच्च दूरस्थं सर्वं चिन्मात्रमेव हि । यच्च यावच्च भूतादि यच्च यावच्च लक्ष्यते ॥३९॥ यच्च यावच्च वेदान्ताः सर्वं चिन्मात्रमेव हि । चिन्मात्रान्नास्ति गमनं चिन्मात्रान्नास्ति मोक्षकम् ॥४०॥ चिन्मात्रान्नास्ति लक्ष्यं च सर्वं चिन्मात्रमेव हि । अखण्डैकरसं ब्रह्म चिन्मात्रान्न हि विद्यते ॥४१॥ शास्त्रे मयि त्वयीशे च ह्यखण्डैकरसो भवान् । इत्येकरूपतया यो वा जानात्यहं त्विति ॥४२॥ सकृज्ज्ञानेन मुक्तिः स्यात्सम्यग्ज्ञाने स्वयं गुरुः ॥४३॥

इति द्वितीयोऽध्यायः ॥२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:47:06.1700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

SVASTIKA I(स्वस्तिक)

RANDOM WORD

Did you know?

जानवे म्हणजे नेमके काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.