TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

तेजोबिन्दूपनिषत् - प्रथमोऽध्यायः

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


प्रथमोऽध्यायः
यत्र चिन्मात्रकलना यात्यपह्नवमञ्जसा । तच्चिन्मात्रमखण्डैकरसं ब्रह्म भवाम्यहम् ॥ॐ सह नाववतु ॥सह नौ भुनक्तु ॥सह वीर्यं करवावहै ॥तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ॐ शान्तिः शान्तिः शान्तिः ॥ॐ तेजोबिन्दुः परं ध्यानं विश्वात्महृदिसंस्थितम् । आणवं शाम्भवं शान्तं स्थूलं सूक्ष्मं परं च यत् ॥१॥ दुःखाढ्यं च दुराराध्यं दुष्प्रेक्ष्यं मुक्तमव्ययम् । दुर्लभं तत्स्वयं ध्यानं मुनीनां च मनीषिणाम् ॥२॥ यताहारो जितक्रोधो जितसङ्गो जितेन्द्रियः । निर्द्वन्द्वो निरहङ्कारो निराशीरपरिग्रहः ॥३॥ अगम्यागमकर्ता यो गम्याऽगमयमानसः । मुखे त्रीणि च विन्दन्ति त्रिधामा हंस उच्यते ॥४॥ परं गुह्यतमं विद्धि ह्यस्ततन्द्रो निराश्रयः । सोमरूपकला सूक्ष्मा विष्णोस्तत्परमं पदम् ॥५॥ त्रिवक्त्रं त्रिगुणं स्थानं त्रिधातुं रूपवर्जितम् । निश्चलं निर्विकल्पं च निराकारं निराश्रयम् ॥६॥ उपाधिरहितं स्थानं वाङ्मनोऽतीतगोचरम् । स्वभावं भावसंग्राह्यमसङ्घातं पदाच्च्युतम् ॥७॥ अनानानन्दनातीतं दुष्प्रेक्ष्यं मुक्तिमव्ययम् । चिन्त्यमेवं विनिर्मुक्तं शाश्वतं ध्रुवमच्युतम् ॥८॥ तद्ब्रह्मणस्तदध्यात्मं तद्विष्णोस्तत्परायणम् । अचिन्त्यं चिन्मयात्मानं यद्व्योम परमं स्थितम् ॥९॥ अशून्यं शून्यभावं तु शून्यातीतं हृदि स्थितम् । न ध्यानं च न च ध्याता न ध्येयो ध्येय एव च ॥१०॥ सर्वं च न परं शून्यं न परं नापरात्परम् । अचिन्त्यमप्रबुद्धं च न सत्यं न परं विदुः ॥११॥ मुनीनां संप्रयुक्तं च न देवा न परं विदुः । लोभं मोहं भयं दर्पं कामं क्रोधं च किल्बिषम् ॥१२॥ शीतोष्णे क्षुत्पिपासे च सङ्कल्पकविकल्पकम् । न ब्रह्मकुलदर्पं च न मुक्तिग्रन्थिसञ्चयम् ॥१३॥ न भयं न सुखं दुःखं तथा मानावमानयोः । एतद्भावविनिर्मुक्तं तद्ग्राह्यं ब्रह्म तत्परम् ॥१४॥ यमो हि नियमस्त्यागो मौनं देशश्च कालतः । आसनं मूलबन्धश्च देहसाम्यं च दृक्स्थितिः ॥१५॥ प्राणसंयमनं चैव प्रत्याहारश्च धारणा । आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गानि वै क्रमात् ॥१६॥ सर्वं ब्रह्मेति वै ज्ञानादिन्द्रियग्रामसंयमः । यमोऽऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ॥१७॥ सजातीयप्रवाहश्च विजातीयतिरस्कृतिः । नियमो हि परानन्दो नियमात्क्रियते बुधैः ॥१८॥ त्यागो हि महता पूज्यः सद्यो मोक्षप्रदायकः ॥१९॥ यस्माद्वाचो निवर्तन्ते अप्राप्य मनसा सह । यन्मौनं योगिभिर्गम्यं तद्भजेत्सर्वदा बुधः ॥२०॥ वाचो यस्मान्निवर्तन्ते तद्वक्तुं केन शक्यते । प्रपञ्चो यदि वक्तव्यः सोऽपि शब्दविवर्जितः ॥२१॥ इति वा तद्भवेन्मौनं सर्वं सहजसंज्ञितम् । गिरां मौनं तु बालानामयुक्तं ब्रह्मवादिनाम् ॥२२॥ आदावन्ते च मध्ये च जनो यस्मिन्न विद्यते । येनेदं सततं व्याप्तं स देशो विजनः स्मृतः ॥२३॥ कल्पना सर्वभूतानां ब्रह्मादीनां निमेषतः । कालशब्देन निर्दिष्टं ह्यखण्डानन्दमद्वयम् ॥२४॥ सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् । आसनं तद्विजानीयादन्यत्सुखविनाशनम् ॥२५॥ सिद्धये सर्वभूतादि विश्वाधिष्ठानमद्वयम् । यस्मिन्सिद्धिं गताः सिद्धास्तत्सिद्धासनमुच्यते ॥२६॥ यन्मूलं सर्वलोकानां यन्मूलं चित्तबन्धनम् । मूलबन्धः सदा सेव्यो योग्योऽसौ ब्रह्मवादिनाम् ॥२७॥ अङ्गानां समतां विद्यात्समे ब्रह्मणि लीयते । नो चेन्नैव समानत्वमृजुत्वं शुष्कवृक्षवत् ॥२८॥ दृष्टीं ज्ञानमयीं कृत्वा पश्येद्ब्रह्ममयं जगत् । सा दृष्टिः परमोदारा न नासाग्रावलोकिनी ॥२९॥ द्रष्टृदर्शनदृश्यानां विरामो यत्र वा भवेत् । दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलोकिनी ॥३०॥ चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् । निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते ॥३१॥ निषेधनं प्रपञ्चस्य रेचकाख्यः समीरितः । ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरुच्यते ॥३२॥ ततस्तद्वृत्तिनैश्चल्यं कुम्भकः प्राणसंयमः । अयं चापि प्रबुद्धानामज्ञानां घ्राणपीडनम् ॥३३॥ विषयेष्वात्मतां दृष्ट्वा मनसश्चित्तरञ्जकम् । प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुहुर्मुहुः ॥३४॥ यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् । मनसा धारणं चैव धारणा सा परा मता ॥३५॥ ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः । ध्यानशब्देन विख्यातः परमानन्ददायकः ॥३६॥ निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः । वृत्तिविस्मरणं सम्यक्समाधिरभिधीयते ॥३७॥ इमं चाकृत्रिमानन्दं तावत्साधु समभ्यसेत् । लक्ष्यो यावत्क्षणात्पुंसः प्रत्यक्त्वं सम्भवेत्स्वयम् ॥३८॥ ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् । तत्स्वं रूपं भवेत्तस्य विषयो मनसो गिराम् ॥३९॥ समाधौ क्रियमाणे तु विघ्नान्याअयान्ति वै बलात् । अनुसन्धानराहित्यमालस्यं भोगलालसम् ॥४०॥ लयस्तमश्च विक्षेपस्तेजः स्वेदश्च शून्यता । एवं हि विघ्नबाहुल्यं त्याज्यं ब्रह्मविशारदैः ॥४१॥ भाववृत्त्या हि भावत्वं शून्यवृत्त्या हि शून्यता । ब्रह्मवृत्त्या हि पूर्णत्वं तया पूर्णत्वमभ्यसेत् ॥४२॥ ये हि वृत्तिं विहायैनां ब्रह्माख्यां पावनीं पराम् । वृथैव ते तु जीवन्ति पशुभिश्च समा नराः ॥४३॥ ये तु वृत्तिं विजानन्ति ज्ञात्वा वै वर्धयन्ति ये । ते वै सत्पुरुषा धन्या वन्द्यास्ते भुवनत्रये ॥४४॥ येषां वृत्तिः समा वृद्धा परिपक्वा च सा पुनः । ते वै सद्ब्रह्मतां प्राप्ता नेतरे शब्दवादिनः ॥४५॥ कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः । तेऽप्यज्ञानतया नूनं पुनरायान्ति यान्ति च ॥४६॥ निमिषार्धं न तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना । यथा तिष्ठन्ति ब्रह्माद्याः सनकाद्याः शुकादयः ॥४७॥ कारणं यस्य वै कार्यं कारणं तस्य जायते । कारणं तत्त्वतो नश्येत्कार्याभावे विचारतः ॥४८॥ अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरम् । उदेति शुद्धचित्तानां वृत्तिज्ञानं ततः परम् ॥४९॥ भावितं तीव्रवेगेन यद्वस्तु निश्चयात्मकम् । दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् ॥५०॥ विद्वान्नित्यं सुखे तिष्ठेद्धिया चिद्रसपूर्णया ॥
इति प्रथमोऽध्यायः ॥१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:47:06.1230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

हेवादेवा

  • पु. 
    1. मत्सर ; द्वेष ; शत्रुभाव .
    2. स्पर्धा . [ का . हेव ]
    म्ह०
    1. शेजी गेली देवा हा मला सुटला हेवा .
    2. हेवादेवा नकटी गेली चांगदेवा .
     
  • हेवाखोर , हेवेखोर वि . द्वेषी ; मत्सरी .  
RANDOM WORD

Did you know?

जीवनात वयाच्या कोणत्या वर्षी कोणती शांती करावी?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site