पैङ्गलोपनिषत् - तृतीयोऽध्यायः

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


अथ हैनं पैङ्गलः प्रपच्छ याज्ञवल्क्यं महावाक्यविवरणमनुब्रूहीति | स होवाच याज्ञवल्क्यस्तत्त्वमसि त्वं तदसि त्वं ब्रह्मास्यहं ब्रह्मास्मीत्यनुसन्धानं कुर्यात् | तत्र पारोक्ष्यशबलः सर्वज्ञत्वादिलक्षणो मायोपाधिः सच्चिदानन्दलक्षणो जगद्योनिस्तत्पदवाच्यो भवति | स एवान्तःकरणसम्भिन्नबोधोऽस्मत्प्रत्ययावलम्बनस्त्वम्पदवाच्यो भवति | परजीवोपाधिमायाविद्ये विहाय तत्त्वंपदलक्ष्यं प्रत्यगभिन्नं ब्रह्म | तत्त्वमसीत्यहं ब्रह्मास्मीति वाक्यार्थविचारः श्रवणं भवति | एकान्तेन श्रवणार्थानुसन्धानं मननं भवति | श्रवणमनननिर्विचिकित्सेऽर्थे वस्तुन्येकतानवत्तया चेतःस्थापनं निदिध्यासनं भवति | ध्यातृध्याने विहाय निवातस्थितदीपवद्ध्येयैकगोचरं चित्तं समाधिर्भवति | तदानीमात्मगोचरा वृत्तयः समुत्थिता अज्ञाता भवन्ति | ताः स्मरणादनुमीयन्ते | इहानादिसंसारे सञ्चिताः कर्मकोटयोऽनेनैव विलयं यान्ति | ततोभ्यासपाटवात्सहस्रशः सदामृतधारा वर्षति | ततो योगवित्तमाः समाधिं धर्ममेघं प्राहुः | वासनाजाले निःशेषममुना प्रविलापिते कर्मसञ्चये पुण्यपापे समूलोन्मूलिते प्राक्परोक्षमपि करतलामलकवद्वाक्यमप्रतिबद्धापरोक्षसाक्षात्कारं प्रसूयते | तदा जीवन्मुक्तो भवति ॥ईशः पञ्चीकृतभूतानामपञ्चीकरणं कर्तुं सोऽकामयत | ब्रह्माण्डतद्गतलोकान्कार्यरूपांश्च कारणत्वं प्रापयित्वा ततः सूक्ष्माङ्गं कर्मेन्द्रियाणि प्राणांश्च ज्ञानेन्द्रियाण्यन्तःकरणचतुष्टयं चैकीकृत्य सर्वाणि भौतिकानि कारणे भूतपञ्चके संयोज्य भूमिं जले जलं वह्नौ वह्निं वायौ वायुमाकाशे चाकाशमहङ्कारे चाहङ्कारं महति महदव्यक्तेऽव्यक्तं पुरुषे क्रमेण विलीयते | विराद्ड्ढिरण्यगर्भेश्वरा उपाधिविलयात्परमात्मनि लीयन्ते | पञ्चीकृतमहाभूतसम्भवकर्मसञ्चितस्थूलदेहः कर्मक्षयात्सत्कर्मपरिपाकतोऽपञ्चीकरणं प्राप्य सूक्ष्मेणैकीभूत्वा कारणरूपत्वमासाद्य तत्कारणं कूटस्थे प्रत्यगात्मनि विलीयते | विश्वतैजसप्राज्ञाः स्वस्वोपाधिलयात्प्रत्यगात्मनि लीयन्ते | अण्डं ज्ञानाग्निना दग्धं कारणैः सह परमात्मनि लीनं भवति | ततो ब्राह्मणः समाहितो भूत्वा तत्त्वंपदैक्यमेव सदा कुर्यात् | ततो मेघापायेंऽशुमानिवात्माविर्भवति | ध्यात्वा मध्यस्थमात्मानं कलशान्तरदीपवत् | अङ्गुष्ठमात्रमात्मानमधूमज्योतिरूपकम् ॥१॥ प्रकाशयन्तमन्तःस्थं ध्यायेत्कूटस्थमव्ययम् | ध्यायन्नास्ते मुनिश्चैव चासुप्तेरामृतेस्तु यः ॥२॥ जीवन्मुक्तः स विज्ञेयः स धन्यः कृतकृत्यवान् | जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते | विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥३॥ अशब्दमस्पर्शमरूपमव्ययं तथा रसं नित्यमगन्धवच्च यत् | अनाद्यनन्तं महतः परं ध्रुवं तदेव शिष्यत्यमलं निरामयम् ॥४॥ इति ॥
इति तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP