TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पैङ्गलोपनिषत् - द्वितीयोऽध्यायः

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


द्वितीयोऽध्यायः
अथ पैङ्गलो याज्ञवल्क्यमुवाच सर्वलोकानां सृष्टिस्थित्यन्तकृद्विभूरीशः कथं जीवत्वमगमदिति | स होवाच याज्ञवल्क्यः स्थूलसूक्ष्मकारणदेहोद्भवपूर्वकं जीवेश्वरस्वरूपं विविच्य कथयामीति सावधानेनैकाग्रतया श्रूयताम् | ईशः पञ्चीकृतमहाभूतलेशानादाय व्यष्टिसमष्ट्यात्मकस्थूलशरीराणि यथाक्रममकरोत् | कपालचर्मान्त्रास्थिमांसनखानि पृथिव्यंशाः | रक्तमूत्रलालास्वेदादिकमवंशाः | क्षुत्तृष्णोष्णमोहमैथुनाद्या अग्न्यंशाः | प्रचारणोत्तारणश्वासादिका वाय्वंशाः | कामक्रोधादयो व्योमांशाः | एतत्सङ्घातं कर्मणि सञ्चितं त्वगादियुक्तं बाल्याद्यवस्थाभिमानास्पदं बहुदोपाश्रयं स्थूलशरीरं भवति ॥अथापञ्चीकृतमहाभूतरजोंशभागत्रयसमष्टितः प्राणमसृजत् | प्राणापानव्यानोदानसमानाः प्राणवृत्तयः | नागकूर्मकृकरदेवदत्तधनञ्जया उपप्राणाः | हृदासननाभिकण्ठसर्वाङ्गानि स्थानानि | आकाशादिरजोगुणतुरीयभागेन कर्मेन्द्रियमसृजत् | वाक्पाणिपादपायूपास्थास्तद्वृत्तयः | वचनादानगमनविसर्गानन्दास्तद्विषयाः ॥एवं भूतसत्त्वांशभागत्रयसमष्टितोऽन्तःकरणमसृजत् | अन्तःकरणमनोबुद्धिचित्ताहङ्कारास्तद्वृत्तयः | सङ्कल्पनिश्चयस्मरणाभिमानानुसन्धानास्तद्विषयाः | गलवदननाभिहृदयभ्रूमध्यं स्थानम् | भूतसत्वतुरीयभागेन ज्ञानेन्द्रियमसृजत् | श्रोत्रत्वक्चक्षुर्जिव्हाघ्राणास्तद्वृत्तयः | शब्दस्पर्शरूपरसगन्धास्तद्विषयाः | दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमृत्युकाः | चन्द्रो विष्णुश्चतुर्वक्त्रः शम्भुश्च कारणाधिपाः ॥अथान्नमयप्राणमयमनोमयविज्ञामयानन्दमयाः पञ्च कोशाः | अन्नरसेनैव भूत्वान्नरसेनाभिवृद्धिं प्राप्यान्नरसमयपृथिव्यां यद्विलीयते सोऽन्नमयकोशः | तदेव स्थूलशरीरम् | कर्मेन्द्रियैः सह प्राणादिपञ्चकं प्राणमयकोशः | ज्ञानेन्द्रियैः सह बुद्धिर्विज्ञानमयकोशः | एतत्कोशत्रयं लिङ्गशरीरम् | स्वरूपाज्ञानमानन्दमयकोशः | तत्कारणशरीरम् ॥अथ ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं प्राणादिपञ्चकं वियदादिपञ्चकमन्तःकरणचतुष्टयं कामकर्मतमांस्यष्टपुरम् ॥इशाज्ञया विराजो व्यष्टिदेहं प्रविश्य बुद्धिमधिष्ठाय विश्वत्वमगमत् | विज्ञानात्मा चिदाभासो विश्वो व्यावहारिको जाग्रत्स्थूलदेहाभिमानी कर्मभूरिति च विश्वस्य नाम भवति | ईशाज्ञया सूत्रात्मा व्यष्टिसूक्ष्मशरीरं प्रविश्य मन अधिष्ठाय तैजसत्वमगमत् | तैजसः प्रातिभासिकः स्वप्नकल्पित इति तैजसस्य नाम भवति | ईशाज्ञया मायोपाधिरव्यक्तसमन्वितो व्यष्टिकारणशरीरं प्रविश्य प्राज्ञत्वमगमत् | प्राज्ञोविच्छिन्नः पारमार्थिकः सुषुप्त्यभिमानीति प्राज्ञस्य नाम भवति | अव्यक्तलेशाज्ञानाच्छादितपारमार्थिकजीवस्य तत्त्वमस्यादिवाक्यानि ब्रह्मणैकतां जगुः नेतरयोर्व्यावहारिकप्रातिभासिकयोः | अन्तःकरणप्रतिबिम्बितचैतन्यं यत्तदेवावस्थात्रयभाग्भवति | स जाग्रत्स्वप्नसुषुप्त्यवस्थाः प्राप्य घटीयन्त्रवदुद्विग्नो जातो मृत इव स्थितो भवति | अथ जाग्रत्स्वप्नसुषुप्तिमूर्च्छामरणाद्यवस्थाः पञ्च भवन्ति ॥तत्तद्देवताग्रहान्वितैः श्रोत्रादिज्ञानेन्द्रियैः शब्द्याद्यर्थविषयग्रहणज्ञानं जाग्रदवस्था भवति | तत्र भ्रूमध्यं गतो जीव आपादमस्तकं व्याप्य कृषिश्रवणाद्यखिलक्रियाकर्ता भवति | तत्तत्फलभुक् च भवति | लोकान्तरगतः कर्मार्जितफलं स एव भुङ्क्ते | स सार्वभौमवद्व्यवहाराच्छ्रान्त अन्तर्भवनं प्रवेष्टुं मार्गमाश्रित्य तिष्ठति | करणोपरमे जाग्रत्संस्कारोत्थप्रबोधवद्ग्राह्यग्राहकरूपस्फुरणं स्वप्नावस्था भवति | तत्र विश्व एव जाग्रद्व्यवहारलोपान्नाडीमध्यं चरंस्तैजसत्वमवाप्य वासनारूपकं जगद्वैचित्र्यं स्वभासा भासयन्यथेप्सितं स्वयं भुङ्क्ते ॥चित्तैककरणा सुषुप्त्यवस्था भवति | भ्रमविश्रान्तशकुनिः पक्षौ संहृत्य नीडाभिमुखं यथा गच्छति तथा जीवोऽपि जाग्रत्स्वप्नप्रपञ्चे व्यवहृत्य श्रान्तोऽज्ञानं प्रविश्य स्वानन्दं भुङ्क्ते ॥अकस्मान्मुद्गरदण्डाद्यैस्ताडितवद्भयाज्ञानाभ्यामिन्द्रियसङ्घ् आतैः कम्पन्निव मृततुल्या मूर्च्छा भवति | जाग्रत्स्वप्नसुषुप्तिमूर्च्छावस्थानामन्या ब्रह्मादिस्तम्बपर्यन्तं सर्वजीवभयप्रदा स्थूलदेहविसर्जनी मरणावस्था भवति | कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि तत्तद्विषयान्प्राणान्संहृत्य कामकर्मान्वित अविद्याभूतवेष्टितो जीवो देहान्तरं प्राप्य लोकान्तरं गच्छति | प्राक्कर्मफलपाकेनावर्तान्तरकीटवद्विश्रान्तिं नैव गच्छति | सत्कर्मपरिपाकतो बहूनां जन्मनामन्ते नृणां मोक्षेच्छा जायते | तदा सद्गुरुमाश्रित्य चिरकालसेवया बन्धं मोक्षं कश्चित्प्रयाति | अविचारकृतो बन्धो विचारान्मोक्षो भवति | तस्मात्सदा विचारयेत् | अध्यारोपापवादतः स्वरूपं निश्चयीकर्तुं शक्यते | तस्मात्सदा विचारयेज्जगज्जीवपरमात्मनो जीवभावजगद्भावबाधे प्रत्यगभिन्नं ब्रह्मैवावशिष्यत इति ॥
इति द्वितीयोऽध्यायः ॥२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:47:05.9670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

evacuated

  • रिक्कित 
  • निर्वातित 
RANDOM WORD

Did you know?

What is the Hindu Caste System?
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.