TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

महोपनिषत् - पञ्चमोऽध्यायः

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


पञ्चमोऽध्यायः
अन्तरास्थां परित्यज्य भावश्रीं भावनामयीम् । योऽसि सोऽसि जगत्यस्मिंल्लीलया विहरानघ ॥१॥
सर्वत्राहमकर्तेति दृढभावनयानया । परमामृतनाम्नी सा समतैवावशिष्यते ॥२॥
खेदोल्लासविलासेषु स्वात्मकर्तृतयैकया । स्वसंकल्पे क्षयं याते समतैवावशिष्यते ॥३॥
समता सर्वभावेषु यासौ सत्यपरा स्थितिः । तस्यामवस्थितं चित्तं न भूयो जन्मभाग्भवेत् ॥४॥
अथवा सर्वकर्तृत्वमकर्तृत्वं च वै मुने । सर्वं त्यक्त्वा मनः पीत्वा योऽसि सोऽसि स्थिरो भव ॥५॥
शेषस्थिरो समाधानो येन त्यजसि तत्त्यज । चिन्मनःकलनाकारं प्रकाशतिमिरादिकम् ॥६॥
वासनां वासितारं च प्राणस्पन्दनपूर्वकम् । समूलमखिलं त्यक्त्वा व्योमसाम्यः प्रशान्तधीः ॥७॥
हृदयात्संपरित्यज्य सर्ववासनपङ्क्तयः । यस्तिष्ठति गतव्यग्रः स मुक्तः परमेश्वरः ॥८॥
दृष्टं द्रष्टव्यमखिलं भ्रान्तं भ्रान्त्या दिशो दश । युक्त्या वै चरतो ज्ञस्य संसारो गोष्पदाकृतिः ॥९॥
सबाह्याभ्यन्तरे देहे ह्यध ऊर्ध्वं च दिक्षु च । इत आत्मा ततोऽप्यात्मा नास्त्यनात्ममयं जगत् ॥१०॥
न तदस्ति न यत्राहं न तदस्ति न तन्मयम् । किमन्यदभिवाञ्छामि सर्वं सच्चिन्मयं ततम् ॥११॥
समस्तं खल्विदं ब्रह्म सर्वमात्मेदमाततम् । अहमन्य इदं चान्यदिति भ्रान्तिं त्यजानघ ॥१२॥
तते ब्रह्मघने नित्ये संभवन्ति न कल्पिताः । न शोकोऽस्ति न मोहोऽस्ति न जरास्ति न जन्म वा ॥१३॥
यदस्तीह तदेवास्ति विज्वरो भव सर्वदा । यथाप्राप्तानुभवतः सर्वत्रानभिवाञ्छनात् ॥१४॥
त्यागादानपरित्यागी विज्वरो भव सर्वदा । यस्येदं जन्म पाश्चात्यं तमाश्वेव महामते ॥१५॥
विशन्ति विद्या विमला मुक्ता वेणुमिवोत्तमम् । विरक्तमनसां सम्यक्स्वप्रसङ्गादुदाहृतम् ॥१६॥
द्रष्टुर्दृश्यसमायोगात्प्रत्ययानन्दनिश्चयः । यस्तं स्वमात्मतत्त्वोत्थं निष्पन्दं समुपास्महे ॥१७॥
द्रष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह । दर्शनप्रत्ययाभासमात्मानं समुपास्महे ॥१८॥
द्वयोर्मध्यगतं नित्यमस्तिनास्तीति पक्षयोः । प्रकाशनं प्रकाशानामात्मानं समुपास्महे ॥१९॥
सन्त्यज्य हृद्गुहेशानं देवमन्यं प्रयान्ति ये । ते रत्नमभिवाञ्छन्ति त्यक्तहस्तस्थकौस्तुभाः ॥२०॥
उत्थितानुत्थितानेतानिन्द्रियारीन्पुनः पुनः । हन्याद्विवेकदण्डेन वज्रेणेव हरिर्गिरीन् ॥२१॥
संसाररात्रिदुःस्वप्ने शून्ये देहमये भ्रमे । सर्वमेवापवित्रं तद्दृष्टं संसृतिविभ्रमम् ॥२२॥
अज्ञानोपहतो बाल्ये यौवने वनिताहतः । शेषे कलत्रचिन्तार्तः किं करोति नराधमः ॥२३॥
सतोऽसत्ता स्थिता मूर्ध्नि रम्याणां मूर्ध्न्यरम्यता । सुखानां मूर्ध्निदुःखानि किमेकं संश्रयाम्यहम् ॥२४॥
येषां निमेषणामेषौ जगतः प्रलयोदयौ । तादृशाः पुरुषा यान्ति मादृशां गणनैव का ॥२५॥
संसार एव दुःखानां सीमान्त इति कथ्यते । तन्मध्ये पतिते देहे सुखमासाद्यते कथम् ॥२६॥
प्रबुद्धोऽस्मि प्रबुद्धोऽस्मि दुष्टश्चोरोऽयमात्मनः । मनो नाम निहन्म्येनं मनसास्मि चिरं हृतः ॥२७॥
मा खेदं भज हेयेषु नोपादेयपरो भव । हेयादेयादृशौ त्यक्त्वा शेषस्थः सुस्थिरो भव ॥२८॥
निराशता निर्भयता नित्यता समता ज्ञता । निरीहता निष्क्रियता सौम्यता निर्विकल्पता ॥२९॥
धृर्मैत्री मनस्तुष्टिर्मृदुता मृदुभाषिता । हेयोपादेयनिर्मुक्ते ज्ञे तिष्ठन्त्यपवासनम् ॥३०॥
गृहीततृष्णाशबरीवासनाजालमाततम् । संसारवारिप्रसृतं चिन्तातन्तुभिराततम् ॥३१॥
अनया तीक्ष्णया तात छिन्धि बुद्धिशलाकया । वात्ययेवाम्बुदं जालं छित्त्वा तिष्ठ तते पदे ॥३२॥
मनसैव मनश्छित्त्वा कुठारेणेव पादपम् । पदं पावनमासाद्य सद्य एव स्थिरो भव ॥३३॥
तिष्ठन्गच्छन्त्स्वपञ्जाग्रन्निवसन्नुत्पतन्पतन् । असदेवेदमित्यन्तं निश्चित्यास्तां परित्यज ॥३४॥
दृश्यमाश्रयसीदं चेत्तत्सच्चितोऽसि बन्धवान् । दृश्यं सन्त्यजसीदं चेत्तदाऽचित्तोऽसि मोक्षवान् ॥३५॥
नाहं नेदमिति ध्यायंस्तिष्ठ त्वमचलाचलः । आत्मनो जगतश्चान्तर्द्रष्टृदृश्यदशान्तरे ॥३६॥
दर्शनाख्यं स्वमात्मानं सर्वदा भावयन्भव । स्वाद्यस्वादकसंत्यक्तं स्वाद्यस्वादकमध्यगम् ॥३७॥
स्वदनं केवलं ध्यायन्परमात्ममयो भव । अवलम्ब्य निरालम्बं मध्येमध्ये स्थिरो भव ॥३८॥
रज्जुबद्धा विमुच्यन्ते तृष्णाबद्धा न केनचित् । तस्मान्निदाघ तृष्णा त्वं त्यज संकल्पवर्जनात् ॥३९॥
एतामहंभावमयीपपुण्यां छित्त्वानहंभाव शलाकयैव ॥स्वभावजां भव्यभवन्तभूमौ भव प्रशान्ताखिलभूतभीतिः ॥४०॥
अहमेषां पदार्थानामेते च मम जीवितम् । नाहमेभिर्विना किंचिन्न मयैते विना किल ॥४१॥
इत्यन्तर्निश्चयं त्यक्त्वा विचार्य मनसा सह । नाहं पदार्थस्य न मे पदार्थ इति भाविते ॥४२॥
अन्तःशीतलया बुद्ध्या कुर्वतो लीलया क्रियाम् । यो नूनं वासनात्यागो ध्येयो ब्रह्मन्प्रकीर्तितः ॥४३॥
सर्वं समतया बुद्ध्या यः कृत्वा वासनाक्षयम् । जहाति निर्ममो देहं नेयोऽसौ वासनाक्षयः ॥४४॥
अहंकारमयीं त्यक्त्वा वासनां लीलयैव यः । तिष्ठति ध्येयसंत्यागी स जीवन्मुक्त उच्यते ॥४५॥
निर्मूलं कलनां त्यक्त्वा वासनां यः शमं गतः । ज्ञेयं त्यागमिमं विद्धि मुक्तं तं ब्राह्मणोत्तमम् ॥४६॥
द्वावेतौ ब्रह्मतां यातौ द्वावेतौ विगतज्वरौ । आपतत्सु यथाकालं सुखदुःखेष्वनारतौ । संन्यासियोगिनौ दान्तौ विद्धि शान्तौ मुनीश्वर ॥४७॥
ईप्सितानीप्सिते न स्तो यस्यान्तर्वर्तिदृष्टिषु । सुषुप्तवद्यश्चरति स जीवन्मुक्त उच्यते ॥४८॥
हर्षामर्षभयक्रोधकामकार्पण्यदृष्टिभिः । न हृष्यति ग्लायति यः परामर्शविवर्जितः ॥४९॥
बाह्यार्थवासनोद्भूता तृष्णा बद्धेति कथ्यते । सर्वार्थवासनोन्मुक्ता तृष्णा मुक्तेति भण्यते ॥५०॥
इदमस्तु ममेत्यन्तमिच्छां प्रार्थनयान्विताम् । तां तीक्ष्णां शृङ्खलां विद्धि दुःखजन्मभयप्रदाम् ॥५१॥
तामेतां सर्वभावेषु सत्स्वसत्सु च सर्वदा । संत्यज्य परमोदारं पदमेति महामनाः ॥५२॥
बन्धास्थामथ मोक्षास्थां सुखदुःखदशामपि । त्यक्त्वा सदसदास्थां त्वं तिष्ठाक्षुब्धमहाब्धिवत् ॥५३॥
जायते निश्चयः साधो पुरुषस्य चतुर्विधः ॥५४॥
आपादमस्तकमहं मातापितृविनिर्मितः । इत्येको निश्चयो ब्रह्मन्बन्धायासविलोकनात् ॥५५॥
अतीतः सर्वभावेभ्यो वालाग्रादप्यहं तनुः । इति द्वितीयो मोक्षाय निश्चयो जायते सताम् ॥५६॥
जगज्जाल पदार्थात्मा सर्व एवाहमक्षयः । तृतीयो निश्चयश्चोक्तो मोक्षायैव द्विजोत्तम ॥५७॥
अहं जगद्वा सकलं शून्यं व्योम समं सदा । एवमेष चतुर्थोऽपि निश्चयो मोक्षसिद्धिदः ॥५८॥
एतेषां प्रथमः प्रोक्तस्तृष्णया बन्धयोग्यया । शुद्धतृष्णास्त्रयः स्वच्छा जीवन्मुक्ता विलासिनः ॥५९॥
सर्वं चाप्यहमेवेति निश्चयो यो महामते । तमादाय विषादाय न भूयो जायते मतिः ॥६०॥
शून्यं तत्प्रकृतिर्माया ब्रह्मविज्ञानमित्यपि । शिवः पुरुष ईशानो नित्यमात्मेति कथ्यते ॥६१॥
द्वैताद्वैतसमुद्भूतैर्जगन्निर्माणलीलया । परमात्ममयीशक्तिरद्वैतैव विजृम्भते ॥६२॥
सर्वातीतपदालम्बी परिपूर्णैकचिन्मयः । नोद्वेगी न च तुष्टात्मा संसारे नावसीदति ॥६३॥
प्राप्तकर्मकरो नित्यं शत्रुमित्रसमानदृक् । ईहितानीहितैर्मुक्तो न शोचति न काङ्क्षति ॥६४॥
सर्वस्याभिमतं वक्ता चोदितः पेशलोक्तिमान् । आशयज्ञश्च भूतानां संसारे नावसीदति ॥६५॥
पूर्वां दृष्टिमवष्टभ्य ध्येयत्यागविलासिनीम् । जीवन्मुक्ततया स्वस्थो लोके विहर विज्वरः ॥६६॥
अन्तःसंत्यक्तसर्वाशो वीतरागो विवासनः । बहिःसर्वसमाचारो लोके विहर विज्वरः ॥६७॥
बहिःकृत्रिमसंरंभो हृदि संरम्भवर्जितः । कर्ता बहिरकर्तान्तर्लोके विहर शुद्धधीः ॥६८॥
त्यक्ताहंकृतिराश्वस्तमतिराकाशशोभनः । अगृहीतकलङ्काङ्को लोके विहर शुद्धधीः ॥६९॥
उदारः पेशलाचारः सर्वाचारानुवृत्तिमान् । अन्तःसङ्गपरित्यागी बहिःसंभारवानिव । अन्तर्वैराग्यमादाय बहिराशोन्मुखेहितः ॥७०॥
अयं बन्धुरयं नेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥७१॥
भावाभावविनिर्मुक्तं जरामरणवर्जितम् । प्रशान्तकलनारभ्यं नीरागं पदमाश्रय ॥७२॥
एषा ब्राह्मी स्थितिः स्वच्छा निष्कामा विगतामया । आदाय विहरन्नेवं संकटेषु न मुह्यति ॥७३॥
वैराग्येणाथ शास्त्रेण महत्त्वादिगुणैरपि । यत्संकल्पहरार्थं तत्स्वयमेवोन्नयेन्मनः ॥७४॥
वैराग्यात्पूर्णतामेति मनो नाशवशानुगम् । आशया रक्ततामेति शरदीव सरोऽमलम् ॥७५॥
तमेव भुक्तिविरसं व्यापारौघं पुनः पुनः । दिवसेदिवसे कुर्वन्प्राज्ञ कस्मान्न लज्जते ॥७६॥
चिच्चैत्यकलितो बन्धस्तन्मुक्तौ मुक्तिरुच्यते । चिदचैत्या किलात्मेति सर्वसिद्धान्तसंग्रहः ॥७७॥
एतन्निश्चयमादाय विलोकय धियेद्धया । स्वयमेवात्मनात्मानमानन्दं पदमाप्स्यसि ॥७८॥
चिदहं चिदिमे लोकाश्चिदाशाश्चिदिमाः प्रजाः । दृश्यदर्शननिर्मुक्तः केवलामलरूपवान् ॥७९॥
नित्योदितो निराभासो द्रष्टा साक्षी चिदात्मकः ॥८०॥
चैत्यनिर्मुक्तचिद्रूपं पूर्णज्योतिःस्वरूपकम् । संशान्तसर्वसंवेद्यं संविन्मात्रमहं महत् ॥८१॥
संशान्तसर्वसंकल्पः प्रशान्तसकलेषणः । निर्विकल्पपदं गत्वा स्वस्थो भव मुनीश्वर ॥८२॥
इति ।
य इमां महोपनिषदं ब्राह्मणो नित्यमधीते । अश्रोत्रियः श्रोत्रियो भवति । अनुपनीत उपनीतो भवति । सोऽग्निपूतो भवति । स वायुपूतो भवति । स सोमपूतो भवति । स सत्यपूतो भवति । स सर्वपूतो भवति । स सर्वर्देवैर्ज्ञातो भवति । स सर्वेषु तीर्थेषु स्नातो भवति । स सर्वैर्देवैरनुध्यातो भवति । स सर्वक्रतुभिरिष्टवान्भवति । गायत्र्याः षष्टिसहस्राणि जप्तानि फलानि भवन्ति । इतिहासपुराणानां शतसहस्राणि जप्तानि फलानि भवन्ति । प्रणवानामयुतं जप्तं भवति । आचक्षुषः पङ्क्तिं पुनाति । आसप्तमान्पुरुषयुगान्पुनाति । इत्याह भगवान् हिरण्यगर्भः । जप्येनामृतत्त्वं च गच्छतीत्युपनिषत् ।
॥इति षष्ठोऽध्यायः ॥६॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च ॥सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम- स्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
इति महोपनिषत्समाप्ता॥


Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:47:05.3730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आडऊ

  • पु. चाराचुरा ; डबर ; गाळ . आडऊ निघाला जो अपारु । तो महाभारतप्राकारु । भोंवता केला । - ज्ञा १८ . ३६ . [ आड ] 
RANDOM WORD

Did you know?

Are we transliterating everything? Do we copy that from some other websites?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site