महोपनिषत् - तृतीयोऽध्यायः

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


इति तृतीयोऽध्यायः ॥३॥
निदाघ तव नास्तन्यज्ज्ञेयं ज्ञानवतां वर । प्रज्ञया त्वं विजानासि ईश्वरानुगृहीतया । चित्तमालिन्यसंजातं मार्जयामि भ्रमं मुने ॥१॥
मोक्षद्वारे द्वारपालश्चत्वारः परिकीर्तिताः । शमो विचारः सन्तोषश्चतुर्थः साधुसङ्गमः ॥२॥
एकं वा सर्वयत्नेन सर्वमुत्सृज्य संश्रयेत् । एकस्मिन्वशगे यान्ति चत्वारोऽपि वशं गताः ॥३॥
शास्त्रैः सज्जनसंपर्कपूर्वकैश्च तपोदमैः । आदौ संसारमुक्त्यर्थं प्रज्ञामेवाभिवर्धयेत् ॥४॥
स्वानुभूतेश्च शास्त्रस्य गुरोश्चेवैकवाक्यता । यस्याभ्यासेन तेनात्म सततं चावलोक्यते ॥५॥
संकल्पाशानुसन्धानवर्जनं चेत्प्रतिक्षणम् । करोषि तदचित्तत्वं प्राप्त एवासि पावनम् ॥६॥
चेतसो यदकर्तृत्वं तत्समाधानमीरितम् । तदेव केवलीभावं साशुभा निर्वृतिः परा ॥७॥
चेतसा संपरित्यज्य सर्वभावात्मभावनाम् । यथा तिष्ठसि तिष्ठ त्वं मूकान्धबधिरोपमः ॥८॥
सर्वं प्रशान्तमजमेकमनादिमध्य- माभास्वरं स्वदनमात्रमचैत्यचिह्नम् ॥९॥
सर्वं प्रशान्तमिति शब्दमयी च दृष्टि- र्बाधार्थमेव हि मुधैव तदोमितीदम् ॥१०॥
नित्यप्रबुद्धचित्तस्त्वं कुर्वन्वापि जगत्क्रियाम् । आत्मैकत्वं विदित्वा त्वं तिष्ठाक्षुब्धमहाब्धिवत् ॥११॥
तत्त्वावबोध एवासौ वासनातृणपावकः । प्रोक्तः समाधिशब्देन नतु तूष्णीमवस्थितिः ॥१२॥
निरिच्छे संस्थिते रत्ने यथा लोकः प्रवर्तते । सत्तामात्रे परे तत्त्वे तथैवायं जगद्गणः ॥१३॥
अतश्चात्मनि कर्तृत्वमकर्तृत्वं च वै मुने । निरिच्छत्वादकर्तासौ कर्ता संनिधिमात्रतः ॥१४॥
ते द्वे ब्रह्मणि विन्देति कर्तृताकर्तृते मुने । यत्रैवैष चमत्कारस्तमाश्रित्य स्थिरो भव ॥१५॥
तस्मान्नित्यमकर्ताहमिति भावनयेद्धया । परमामृतनाम्नी सा समतैवावशिष्यते ॥१६॥
निदाघ शृणु सत्त्वस्था जाता भुवि महागुणाः । ते नित्यमेवाभ्युदिता मुदिताः स्व इवेन्दवः ॥१७॥
नापदि ग्लानिमायान्ति निशि हेमाम्बुजं यथा । नेहन्ते प्रकृतादन्यद्रमन्ते शिष्टवर्त्मनि ॥१८॥
आकृत्यैव विराजन्ते मैत्र्यादिगुणवृत्तिभिः । समाः समरसाः सौम्य सततं साधुवृत्तयः ॥१९॥
अब्धिवद्धतमर्याद भवति विशदाशयाः । नियतिं न विमुञ्चन्ति महान्तो भास्करा इव ॥२०॥
कोऽहं कथमिदं चेति संसारमलमाततम् । प्रविचार्यं प्रयत्नेन प्राज्ञेन सहसाधुना ॥२१॥
नाकर्मसु नियोक्तव्यं नानार्येण सहावसेत् । द्रष्टव्यः सर्वसंहर्ता न मृत्युरवहेलया ॥२२॥
शरीरमस्थिमांसं च त्यक्त्वा रक्ताद्यशोभनम् । भूतमुक्तावलीतन्तुं चिन्मात्रमवलोकयेत् ॥२३॥
उपादेयानुपतनं हेयैकान्तविसर्जनम् । यदेतन्मनसो रूपं तद्बाह्यं विद्धि नेतरत् ॥२४॥
गुरुशास्त्रोक्तमार्गेण स्वानुभूत्या च चिद्घने । ब्रह्मैवाहमिति ज्ञात्वा वीतशोको भवेन्मुनिः ॥२५॥
यत्र निशितासिशतपातनमुत्पलताडनवत्सोढव्यमग्निना दाहो हिमसेचनमिवाङ्गारवर्तनं चन्दनचर्चेव निरवधिनाराचविकिरपातो निदाघविनोदनधारा- गृहशीकरवर्षणमिव स्वशिरच्छेदः सुखनिद्रेव मूकीकरणमाननमुद्रेव बाधिर्यं महानुपचय इवेदं नावहेलनया भवितव्यमेवं दृढवैराग्याद्बोधो भवति ॥गुरुवाक्यसमुद्भूतस्वानुभूत्यादिशुद्धया । यस्याभ्यासेन तेनात्मा सततं चावलोक्यते ॥२६॥
विनष्टदिग्भ्रमस्यापि यथापूर्वं विभाति दिक् । तथा विज्ञानविध्वस्तं जगन्नास्तीति भावय ॥२७॥
न धनान्य्पकुर्वन्ति न मित्राणि न बान्धवाः । न कायक्लेशवैधुर्यं न तीर्थायतनाश्रयः । केवलं तन्मनोमात्रमयेनासाद्यते पदम् ॥२८॥
यानि दुःखानि या तृष्णा दुःसहा ये दुराधयः । शान्तचेतःसु तत्सर्वं तमोऽर्केष्विव नश्यति ॥२९॥
मातरीव परं यान्ति विषमाणि मृदूनि च । विश्वासमिह भूतानि सर्वाणि शमशालिनि ॥३०॥
न रसायनपानेन न लक्ष्म्यालिङ्गितेन च । न तथा सुखमाप्नोति शमेनान्तर्यथा जनः ॥३१॥
श्रुत्वा स्पृष्ट्वा च भुक्त्वा च दृष्ट्वा ज्ञात्वा शुभाशुभम् । न हृष्यति ग्लायति यः स शान्त इति कथ्यते ॥३२॥
तुषारकरबिंबाच्छं मनो यस्य निराकुलम् । मरणोत्सवयुद्धेषु स शान्त इति कथ्यते ॥३३॥
तपस्विषु बहुज्ञेषु याजकेषु नृपेषु च । बलवत्सु गुणाढ्येषु शमवानेव राजते ॥३४॥
सन्तोषामृतपानेन ये शान्तास्तृप्तिमागताः । आत्मारामा महात्मानस्ते महापदमागताः ॥३५॥
अप्राप्तं हि परित्यज्य संप्राप्ते समतां गतः । अदृष्टखेदाखेदो यः सन्तुष्ट इति कथ्यते ॥३६॥
नाभिनन्दत्यसंप्राप्तं प्राप्तं भुङ्क्ते यथेप्सितम् । यः स सौम्यसमाचारः सन्तुष्ट इति कथ्यते ॥३७॥
रमते धीर्यताप्राप्ते साध्वीवाऽन्तःपुराजिरे । सा जीवन्मुक्ततोदेति स्वरूपानन्ददायिनी ॥३८॥
यथाक्षणं यथाशास्त्रं यथादेशं यथासुखम् । यथासंभवसत्सङ्गमिमं मोक्षपथक्रमम् । तावद्विचारयेत्प्राज्ञो यावद्विश्रान्तिमात्मनि ॥३९॥
तुर्यविश्रान्तियुक्तस्य निवृत्तस्य भवार्णवात् । जीवतोऽजीवतश्चैव गृहस्थस्याथवा यतेः ॥४०॥
नाकृतेन कृतेनार्थो न श्रुतिस्मृतिविभ्रमैः । निर्मन्दर इवाम्बोधिः स तिष्ठति यथास्थितः ॥४१॥
सर्वात्मवेदनं शुद्धं यदोदेति तवात्मकम् । भाति प्रसृतिदिक्कालबाह्यं चिद्रूपदेहकम् ॥४२॥
एवमात्मा यथा यत्र समुल्लासमुपागतः । तिष्ठत्याशु तथा तत्र तद्रूपश्च विराजते ॥४३॥
यदिदं दृश्यते सर्वं जगत्स्थावरजङ्गमम् । तत्सुषुप्ताविव स्वप्नः कल्पान्ते प्रविनश्यति ॥४४॥
ऋतमात्मा परंब्रह्म सत्यमित्यादिका बुधैः । कल्पिता व्यवहारार्थं यस्य संज्ञा महात्मनः ॥४५॥
यथा कटकशब्दार्थः पृथग्भावो न काञ्चनात् । न हेमकटकात्तद्वज्जगच्छब्दार्थता परा ॥४६॥
तेनेयमिन्द्रजालश्रीर्जगति प्रवितन्यते । द्रष्टुदृश्यस्य सत्तान्तर्बन्ध इत्यभिधीयते ॥४७॥
द्रष्टा दृश्यवशाद्बद्धो दृश्याभावे विमुच्यते । जगत्त्वमहमित्यादिसर्गात्मा दृश्यमुच्यते ॥४८॥
मनसैवेन्द्रजालश्रीर्जगति प्रवितन्यते । यावदेतत्संभवति तावन्मोक्षो न विद्यते ॥४९॥
ब्रह्मणा तन्यते विश्वं मनसैव स्वयंभुवा । मनोमयमतो विश्वं यन्नाम परिदृश्यते ॥५०॥
न बाह्ये नापि हृदये सद्रूपं विद्यते मनः । यदर्थं प्रतिभानं तन्मन इत्यभिधीयते ॥५१॥
संकल्पनं मनो विद्धि संकल्पस्तन्न विद्यते । यत्र संकल्पनं तत्र मनोऽस्तीत्यवगम्यताम् ॥५२॥
संकल्पमनसी भिन्ने न कदाचन केनचित् । संकल्पजाते गलिते स्वरूपमवशिष्यते ॥५३॥
अहं त्वं जगतित्यादौ प्रशान्ते दृश्यसंभ्रमे । स्यात्तादृशी केवलता दृश्ये सत्तामुपागते ॥५४॥
महाप्रलयसंपत्तौ ह्यसत्तां समुपागते । अशेषदृश्ये सर्गादौ शान्तमेवावशिष्यते ॥५५॥
अस्त्यनस्तमितो भास्वानजो देवो निरामयः । सर्वदा सर्वकृत्सर्वः परमात्मेत्युदाहृतः ॥५६॥
यतो वाचो निवर्तन्ते यो मुक्तैरवगम्यते । यस्य चात्मादिकाः संज्ञाः कल्पिता न स्वभावतः ॥५७॥
चित्ताकाशं चिदाकाशमाकाशं च तृतीयकम् । द्वाभ्यां शून्यतरं विद्धि चिदाकाशं महामुने ॥५८॥
देशाद्देशान्तरप्राप्तौ संविदो मध्यमेव यत् । निमेषेण चिदाकाशं तद्विद्धि मुनिपुङ्गव ॥५९॥
तस्मिन्निरस्तनिःशेषसंकल्पस्थितिमेषि चेत् । सर्वात्मकं पदं शान्तं तदा प्राप्नोष्यसंशयः ॥६०॥
उदितौदार्यसौन्दर्यवैराग्यरसगर्भिणी । आनन्दस्यन्दिनी यैषा समाधिरभिधीयते ॥६१॥
दृश्यासंभवबोधेन रागद्वेषादितानवे । रतिर्बलोदिता यासौ समाधिरभिधीयते ॥६२॥
दृश्यासंभवबोधो हि ज्ञानं ज्ञेयं चिदात्मकम् । तदेव केवलीभावं ततोऽन्यत्सकलं मृषा ॥६३॥
मत्त ऐरावतो बद्धः सर्षपीकोणकोटरे । मशकेन कृतं युद्धं सिंहौघैरेणुकोटरे ॥६४॥
पद्माक्षे स्थापितो मेरुर्निगीर्णो भृङ्गसूनुना । निदाघ विद्धि तादृक्त्वं जगतेतद्भ्रमात्मकम् ॥६५॥
चित्तमेव हि संसारो रोगादिक्लेशदूषितम् । तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ॥६६॥
मनसा भाव्यमानो हि देहतां याति देहकः । देहवासनया मुक्तो देहधर्मैर्न लिप्यते ॥६७॥
कल्पं क्षणीकरोत्यन्तः क्षणं नयति कल्पताम् । मनोविलाससंसार इति मे निश्चिता मतिः ॥६८॥
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमनसो वापि प्रज्ञानेनैनमाप्नुयात् ॥६९॥
तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् । विदित्वा स्वात्मनो रूपं न बिभेति कदाचन ॥७०॥
परात्परं यन्महतो महान्तं स्वरूपतेजोमयशाश्वतं शिवम् । कविं पुराणं पुरुषं सनातनं सर्वेश्वरं सर्वदेवैरुपास्यम् ॥७१॥
अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्मनाम् । द्वे पदे बन्धमोक्षाय निर्ममेति ममेति च । ममेति बध्यते जन्तुर्निर्ममेति विमुच्यते ॥७२॥
जीवेश्वरादिरूपेण चेतनाचेतनात्मकम् । ईक्षणादिप्रवेशान्ता सृष्टिरीशेन कल्पिता । जाग्रदादिविमोक्षान्तः संसारो जीवकल्पितः ॥७३॥
त्रिणाचिकादियोगान्ता ईश्वरभ्रान्तिमाश्रिताः । लोकायतादिसांख्यान्ता जीवविभ्रान्तिमाश्रिताः ॥७४॥
तस्मान्मुमुक्षिभिर्नैव मतिर्जीवेशवादयोः । कार्या किंतु ब्रह्मतत्त्वं निश्चलेन विचार्यताम् ॥७५॥
अविशेषेण सर्वं तु यः पश्यति चिदन्वयात् । स एव साक्षाद्विज्ञानी स शिवः स हरिर्विधिः ॥७६॥
दुर्लभो विषयत्यागो दुर्लभं तत्त्वदर्शनम् । दुर्लभा सहजावस्था सद्गुरोः करुणां विना ॥७७॥
उत्पन्नशक्तिर्बोधस्य त्यक्तनिःशेषकर्मणः । योगिनः सहजावस्था स्वयमेवोपजायते ॥७८॥
यदा ह्येवैष एतस्मिन्नल्पमप्यन्तरं नरः । विजानाति तदा तस्य भयं स्यान्नत्र संशयः ॥७९॥
सर्वगं सच्चिदानन्दं ज्ञानचक्षुर्निरीक्षते । अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्दह्वत् ॥८०॥
प्रज्ञानमेव तद्ब्रह्म सत्यप्रज्ञानलक्षणम् । एवं ब्रह्मपरिज्ञानादेव मर्त्याऽमृतो भवेत् ॥८१॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥८२॥
अनात्मतां परित्यज्य निर्विकारौ जगत्स्थितौ । एकनिष्ठतयान्तस्थः संविन्मात्रपरो भव ॥८३॥
मरुभूमौ जलं सर्वं मरुभूमात्रमेव तत् । जगत्त्रयमिदं सर्वं चिन्मात्रं स्वविचारतः ॥८४॥
लक्ष्यालक्ष्यमतिं त्यक्त्वा यस्तिष्ठेत्केवलात्मना । शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः ॥८५॥
अधिष्ठानमनौपम्यमवाङ्मनसगोचरम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं च तदव्ययम् ॥८६॥
सर्वशक्तेर्महेशस्य विलासो हि मनो जगत् । संयमासंयमाभ्यां च संसारं शान्तिमन्वगात् ॥८७॥
मनोव्याधेश्चिकित्सार्थमुपायं कथयामि ते । यद्यत्स्वाभिमतं वस्तु तत्त्यजन्मोक्षमश्नुते ॥८८॥
स्वायत्तमेकान्तहितं स्वेप्सितत्यागवेदनम् । यस्य दुष्करतां यातं धिक्तं पुरुषकीटकम् ॥८९॥
स्वपौरुषेकसाध्येन स्वेप्सितत्यागरूपिणा । मनःप्रशममात्रेण विना नास्ति शुभा गतिः ॥९०॥
असंकल्पनशस्त्रेण छिन्नं चित्तमिदं यदा । सर्वं सर्वगतं शान्तं ब्रह्म संपद्यते तदा ॥९१॥
भव भावनया मुक्तो मुक्तः परमया धिया । धारयात्मानमव्यग्रो ग्रस्तचित्तं चितः पदम् ॥९२॥
परं पौरुषमाश्रित्य नीत्वा चित्तमचित्तताम् । ध्यानतो हृदयाकाशे चिति चिच्चक्रधारया ॥९३॥
मनो मारय निःशङ्कं त्वां प्रबध्नन्ति नारयः ॥९४॥
अयं सोऽहमिदं तन्म एतावन्मात्रकं मनः । तदभावनमात्रेण दात्रेणेव विलीयते ॥९५॥
छिन्नाभ्रमण्डलं व्योम्नि यथा शरदि धूयते । वातेन कल्पकेनैव तथान्तर्धूयते मनः ॥९६॥
कल्पान्तपवना वान्तु यान्तु चैकत्वमर्णवाः । तपन्तु द्वादशादित्या नास्ति निर्मनसः क्षतिः ॥९७॥
असंकल्पनमात्रैकसाध्ये सकलसिद्धिदे । असंकल्पातिसाम्राज्ये तिष्ठवष्टब्धतत्पदः ॥९८॥
न हि चञ्चलताहीनं मनः क्वचन दृश्यते । चञ्चलत्वं मनोधर्मो वह्नेर्धर्मो यथोष्णता ॥९९॥
एषा हि चञ्चलास्पन्दशक्तिश्चित्तत्वसंस्थिता । तां विद्धि मानसीं शक्तिं जगदाडंबरात्मिकाम् ॥१००॥
यत्तु चञ्चलताहीनं तन्मनोऽमृतमुच्यते । तदेव च तपः शास्त्रसिद्धान्ते मोक्ष उच्यते ॥१०१॥
तस्य चञ्चलता यैषा त्वविद्या वासनात्मिका । वासनापरनाम्नीं तां विचारेण विनाशय ॥१०२॥
पौरुषेण प्रयत्नेन यस्मिन्नैव पदे मनः । योज्यते तत्पदं प्राप्य निर्विकल्पो भवानघ ॥१०३॥
अतः पौरुषमाश्रित्य चित्तमाक्रम्य चेतसा । विशोकं पदमालम्ब्य निरातङ्कः स्थिरो भव ॥१०४॥
मन एव समर्थं हि मनसो दृढनिग्रहे । अराजकः समर्थः स्याद्राज्ञो निग्रहकर्मणि ॥१०५॥
तृष्णाग्राहगृहीतानां संसारार्णवपातिनाम् । आवर्तैरूह्यमानानां दूरं स्वमन एव नौः ॥१०६॥
मनसैव मनश्छित्त्वा पाशं परमबन्धनम् । भवादुत्तारयात्मानं नासावन्येन तार्यते ॥१०७॥
या योदेति मनोनाम्नी वासना वासितान्तरा । तां तां परिहरेत्प्राज्ञस्ततोऽविद्याक्षयो भवेत् ॥१०८॥
भोगैकवासनां त्यक्त्वा त्यज त्वं भेदवासनाम् । भावाभावौ ततस्त्यक्त्या निर्विकल्पः सुखी भव ॥१०९॥
एष एव मनोनाशस्त्वविद्यानाश एव च । यत्तत्संवेद्यते किंचित्तत्रास्थापरिवर्जनम् ॥११०॥
अनास्थैव हि निर्वाणं दुःखमास्थापरिग्रहः ॥१११॥
अविद्या विद्यमानैव नष्टप्रज्ञेषु दृश्यते । नाम्नैवाङ्गीकृताकारा सम्यक्प्रज्ञस्य सा कुतः ॥११२॥
तावत्संसारभृगुषु स्वात्मना सह देहिनम् । आन्दोलयति नीरन्ध्रं दुःखकण्टकशालिषु ॥११३॥
अविद्या यावदस्यास्तु नोत्पन्ना क्षयकारिणी । स्वयमात्मावलोकेच्छाअ मोहसंक्षयकारिणी ॥११४॥
अस्याः परं प्रपश्यन्ताः स्वात्मनाशः प्रजायते । दृष्टे सर्वगते बोधे स्वयं ह्येषा विलीयते ॥११५॥
इच्छामात्रमविद्येयं तन्नाशो मोक्ष उच्यते । स चासंकल्पमात्रेण सिद्धो भवति वै मुने ॥११६॥
मनागपि मनोव्योम्नि वासनारजनी क्षये । कालिका तनुतामेति चिदादित्याप्रकाशनात् ॥११७॥
चैतान्युपातरहितं सामान्येन च सर्वगम् । यच्चित्तत्त्वमनाख्येयं स आत्मा परमेश्वरः ॥११८॥
सर्वं च खल्विदं ब्रह्म नित्यचिद्घनमक्षतम् । कल्पनान्या मनोनाम्नी विद्यते न हि काचन ॥११९॥
न जायते न म्रियत्ते किंचिदत्र जगत्त्रये । न च भावविकाराणां सत्ता क्वचन विद्यते ॥१२०॥
केवलं केवलाभासं सर्वसामान्यमक्षतम् । चैत्यानुपातरहितं चिन्मात्रमिह विद्यते ॥१२१॥
तस्मिन्नित्ये तते शुद्धे चिन्मात्रे निरुपद्रवे । शान्ते शमसमाभोगे निर्विकारे चिदात्मनि ॥१२२॥
यैषा स्वभावाभिमतं स्वयं संकल्प्य धावति । चिच्चैत्यं स्वयमम्लानं माननान्मन उच्यते । अतः संकल्पसिद्धेयं संकल्पेनैव नश्यति ॥१२३॥
नाहं ब्रह्मेति संकल्पात्सुदृढाद्बध्यते मनः । सर्वं ब्रह्मेति संकल्पात्सुदृढान्मुच्यते मनः ॥१२४॥
कृशोऽहं दुःखबद्धोऽहं हस्तपादादिमानहम् । इति भावानुरूपेण व्यवहारेण बध्यते ॥१२५॥
नाहं दुःखी न मे देहो बन्धः कोऽस्यात्मनि स्थितः । इति भावानुरूपेण व्यवहारेण मुच्यते ॥१२६॥
नाहं मांसं न चास्थीनि देहादन्यः परोऽस्म्यहम् । इति निश्चितवानन्तः क्षीणाविद्यो विमुच्यते ॥१२७॥
कल्पितेयमविद्येयमनात्मन्यात्मभावनात् । परं पौरुषमाश्रित्य यत्नात्परमया धिया । भोगेच्छां दूरतस्त्यक्त्वा निर्विकल्पः सुखी भव ॥१२८॥
मम पुत्रो मम धनमहं सोऽयमिदं मम । इतीयमिन्द्रजालेन वासनैव विवल्गति ॥१२९॥
मा भवाज्ञो भव ज्ञस्त्वं जहि संसारभावनाम् । अनात्मन्यात्मभावेन किमज्ञ इव रोदिषि ॥१३०॥
कस्तवायं जडो मूको देहो मांसमयोऽशुचिः । यदर्थं सुखदुःखाभ्यामवशः परिभूयसे ॥१३१॥
अहो नु चित्रं यत्सत्यं ब्रह्म तद्विस्मृतं नृणाम् । तिष्ठतस्तव कार्येषु मास्तु रागानुरञ्जना ॥१३२॥
अहो नु चित्रं पद्मोत्थैर्बद्धास्तन्तुभिरद्रयः । अविद्यमान या विद्या तया विश्वं खिलीकृतम् ॥१३३॥
इदं तद्वज्रतां यातं तृणमात्रं जगत्त्रयम् ॥
इत्युपनिषत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP