सूतगीता - अथ षष्ठोऽध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


सर्वशास्त्रार्थसंग्रहवर्णनम् ।
सूत उवाच - वक्ष्यामि परमं गुह्यं सर्वशास्त्रार्थसङ्ग्रहम् । यं विदित्वा द्विजा मर्त्यो न पुनर्जायते भुवि ॥१॥ साक्षात्परतरं तत्त्वं सच्चिदानन्दलक्षणम् । सर्वेषां नः सदा साक्षादात्मभूतमपि स्वतः ॥२॥ दुर्दर्शमेव सूक्ष्मत्वाद्देवानां महतामपि । रुद्रः स्वात्मतया भातं तत्सदा परिपश्यति ॥३॥ विष्णुः कदाचित्तत्त्वं कथंचित्परिपश्यति । तथा कथंचिद्ब्रह्माऽपि कदाचित्परिपश्यति ॥४॥ त्रिमूर्तीनां तु यज्ज्ञानं ब्रह्मैकविषयं परम् । तस्यापि साधकं तत्त्वं साक्षित्वान्नैव गोचरम् ॥५॥ प्रसादादेव तस्यैव परतत्त्वस्य केवलम् । देवादयोऽपि पश्यन्ति तत्रापि ब्रह्म साधकम् ॥६॥ अतः प्रसादसिद्ध्यर्थं परया श्रद्धया सह । ध्येयमेव परं तत्त्वं हृदयाम्भोजमध्यगम् ॥७॥ त्रिमूर्तीनां तु रुद्रोऽपि शिवं परमकारणम् । सदा मूर्त्यात्मना प्रीत्या ध्यायति द्विजपुङ्गवाः ॥८॥ त्रिमूर्तीनां तु विष्णुश्च शिवं परमकारणम् । सदा मूर्त्यात्मना प्रीत्या ध्यायति द्विजपुङ्गवाः ॥९॥ त्रिमूर्तीनां विरिञ्चोऽपि शिवं परमकारणम् । सदा मूर्त्यात्मना प्रीत्या ध्यायति द्विजपुङ्गवाः ॥१०॥ ब्रह्मविष्णुमहेशानां त्रिमूर्तीनां विचक्षणाः । विभूतिरूपा देवाश्च ध्यायन्ति प्रीतिसंयुताः ॥११॥ घृतकाठिन्यवन्मूर्तिः सच्चिदानन्दलक्षणा । शिवाद्भेदेन नैवास्ति शिव एव हि सा सदा ॥१२॥ ब्रह्मविष्णुमहेशाद्याः शिवध्यानपरा अपि । परमात्मविभागस्था न जीवव्यूहसंस्थिताः ॥१३॥ ब्रह्मविष्णुमहेशानामाविर्भावा अपि द्विजाः । परमात्मविभागस्था न जीवव्यूहसंस्थिताः ॥१४॥ परतत्त्व परं ब्रह्म जीवात्मपरमात्मनोः । औपाधिकेन भेदेन द्विधाभूतमिव स्थितम् ॥१५॥ पुण्यपापावृता जीवा रागद्वेषमलावृताः । जन्मनाशाभिभूताश्च सदा संसारिणोऽवशाः ॥१६॥ ब्रह्मविष्णुमहेशानां तथा तेषां द्विजर्षभाः । आविर्भावविशेषाणां पुण्यपापादयो न हि ॥१७॥ आज्ञया परतत्त्वस्य जीवानां हितकाम्यया । आविर्भावतिरोभावौ तेषां केवलमास्तिकाः ॥१८॥ हरिब्रह्महरास्तेषामाविर्भावाश्च सुव्रताः । सदा संसारिभिर्जीवैरुपास्या भुक्तिमुक्तये ॥१९॥ उपास्यत्वे समानेऽपि हरः श्रेष्ठो हरेरजात् । न समो न विहीनश्च नास्ति सन्देहकारणम् ॥२०॥ विहीनं वा समं वाऽपि हरिणा ब्रह्मणा हरम् । ये पश्यन्ति सदा ते तु पच्यन्ते नरकानले ॥२१॥ हरिब्रह्मादिदेवेभ्यः श्रेष्ठं पश्यन्ति ये हरम् । ते महाघोरसंसारान्मुच्यन्ते नात्र संशयः ॥२२॥ प्राधान्येन परं तत्त्वं मूर्तिद्वारेण योगिभिः । ध्येयं मुमुक्षिभिर्नित्यं हृदयाम्भोजमध्यमे ॥२३॥ कार्यभूता हरिब्रह्मप्रमुखाः सर्वदेवताः । अप्रधानतया ध्येया न प्रधानतया सदा ॥२४॥ सर्वैश्वर्येण सम्पन्नः सर्वेशः सर्वकारणम् । शम्भुरेव सदा साम्बो न विष्णुर्न प्रजापतिः ॥२५॥ तस्मात्तत्कारणं ध्येयं प्राधान्येन मुमुक्षुभिः । न कार्यकोटिनिक्षिप्ता ब्रह्मविष्णुमहेश्वराः ॥२६॥ शिवंकरत्वं सर्वेषां देवानां वेदवित्तमाः । स्वविभूतिमपेक्ष्यैव न परब्रह्मवत्सदा ॥२७॥ शिवंकरत्वं सम्पूर्णं शिवस्यैव परात्मनः । साम्बमूर्तिधरस्यास्य जगतः कारणस्य हि ॥२८॥ अतोऽपि स शिवो ध्येयः प्राधान्येन शिवंकरः । सर्वमन्यत्परित्यज्य दैवतं परमेश्वरात् ॥२९॥ साक्षात्परशिवस्यैव शेषत्वेनाम्बिकापतेः । देवताः सकला ध्येया न प्राधान्येन सर्वदा ॥३०॥ शिखाऽप्याथर्वणी साध्वी सर्ववेदोत्तमोत्तमा । अस्मिन्नर्थे समाप्ता सा श्रुतयश्चापरा अपि ॥३१॥ यथा साक्षात्परं ब्रह्म प्रतिष्ठा सकलस्य च । तथैवाथर्वणो वेदः प्रतिष्ठैवाखिलश्रुतेः ॥३२॥ कन्दस्तारस्तथा बिन्दुः शक्तिस्तारो महाद्रुमः । स्कन्धशाखा अकाराद्या वर्णा यद्वत्तथैव तु ॥३३॥ तारस्कन्दः श्रुतेर्जातिः शक्तिराथर्वणो द्रुमः । स्कन्धशाखास्त्रयो वेदाः पर्णाः स्मृतिपुराणकाः ॥३४॥ अङ्गानि शाखावरणं तर्कास्तस्यैवरक्षकाः । पुष्पं शिवपरिज्ञानं फलं मुक्तिः परा मता ॥३५॥ बहुनोक्तेन किं विप्राः शिवो ध्येयः शिवंकरः । सर्वमन्यत्परित्यज्य दैवतं भुक्तिमुक्तये ॥३६॥ सर्वमुक्तं समासेन सारात्सारतरं बुधाः । शिवध्यानं सदा यूयं कुरुध्वं यत्नतः सदा ॥३७॥ ॥इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां सर्वशास्त्रार्थसङ्ग्रहो नाम षष्ठोऽध्यायः ॥ ६ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP