संस्कृत सूची|संस्कृत साहित्य|गीता|
युधिष्ठिरगीता

युधिष्ठिरगीता

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


॥अथ युधिष्ठिरगीता ॥
अध्याय २९५
जनमेजय उवाच । एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् । प्रतिलभ्य ततः कृष्णां किमकुर्वन्त पाण्डवाः ॥१॥ वैशम्पायन उवाच । एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् । विहाय काम्यकं राजा सह भ्रातृभिरच्युतः ॥२॥ पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः । स्वादुमूलफलं रम्यं मार्कण्डेयाश्रमं प्रति ॥३॥ अनुगुप्त फलाहाराः सर्व एव मिताशनाः । न्यवसन्पाण्डवास्तत्र कृष्णया सह भारत ॥४॥ वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः । भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ॥५॥ ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः । क्लेशमार्छन्त विपुलं सुखोदर्कं परन्तपाः ॥६॥ अजातशत्रुमासीनं भ्रतृभिः सहितं वने । आगम्य ब्राह्मणस्तूर्णं सन्तप्त इदमब्रवीत् ॥७॥ अरणी सहितं मह्यं समासक्तं वनस्पतौ । मृगस्य घर्षमाणस्य विषाणे समसज्जत ॥८॥ तदादाय गतो राजंस्त्वरमाणो महामृगः । आश्रमात्त्वरितः शीघ्रं प्लवमानो महाजवः ॥९॥ तस्य गत्वा पदं शीघ्रमासाद्य च महामृगम् । अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः ॥१०॥ ब्राह्मणस्य वचो श्रुत्वा सन्तप्तोऽथ युधिष्ठिरः । धनुरादाय कौन्तेयः प्राद्रवद्भ्रातृभिः सह ॥११॥ सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुङ्गवाः । ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम् ॥१२॥ कर्णिनालीकनाराचानुत्सृजन्तो महारथाः । नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात् ॥१३॥ तेषां प्रयतमानानां नादृश्यत महामृगः । अपश्यन्तो मृगं श्रान्ता दुःखं प्राप्ता मनस्विनः ॥१४॥ शीतलछायमासाद्य न्यग्रोधं गहने वने । क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन् ॥१५॥ तेषां समुपविष्टानां नकुलो दुःखितस्तदा । अब्रवीद्भ्रातरं ज्येष्ठममर्षात्कुरुसत्तम ॥१६॥ नास्मिन्कुले जातु ममज्ज धर्मो न चालस्यादर्थलोपो बभूव । अनुत्तराः सर्वभूतेषु भूयः सम्प्राप्ताः स्मः संशयं केन राजन् ॥१७॥

२९६
युधिष्ठिर उवाच । नापदामस्ति मर्यादा न निमित्तं न कारणम् । धर्मस्तु विभजत्यत्र उभयोः पुण्यपापयोः ॥१॥ भीम उवाच । प्रातिकाम्यनयत्कृष्णां सभायां प्रेष्यवत्तदा । न मया निहतस्तत्र तेन प्राप्ताः स्म संशयम् ॥२॥ अर्जुन उवाच । वाचस्तीक्ष्णास्थि भेदिन्यः सूतपुत्रेण भाषिताः । अतितीक्ष्णा मया क्षान्तास्तेन प्राप्तः स्म संशयम् ॥३॥ सहदेव उवाच । शकुनिस्त्वां यदाजैषीदक्षद्यूतेन भारत । स मया न हतस्तत्र तेन प्राप्ताः स्म संशयम् ॥४॥ वैशम्पायन उवाच । ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत् । आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश ॥५॥ पानीयमन्तिके पश्य वृक्षान्वाप्युदकाश्रयान् । इमे हि भ्रातरः श्रान्तास्तव तात पिपासिताः ॥६॥ नकुलस्तु तथेत्युक्त्वा शीघ्रमारुह्य पादमम् । अब्रवीद्भ्रातरं ज्येष्ठमभिवीक्ष्य समन्ततः ॥७॥ पश्यामि बहुलान्राजन्वृक्षानुदकसंश्रयान् । सारसानां च निर्ह्रादमत्रोदकमसंशयम् ॥८॥ ततोऽब्रवीत्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः । गच्छ सौम्य ततः शीघ्रं तूर्णं पानीयमानय ॥९॥ नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात् । प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत ॥१०॥ स दृष्ट्वा विमलं तोयं सारसैः परिवारितम् । पातु काकस्ततो वाचमन्तरिक्षात्स शुश्रुवे ॥११॥ मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः । प्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च ॥१२॥ अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितः । अपिबच्छीतलं तोयं पीत्वा च निपपात ह ॥१३॥ चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः । अब्रवीद्भ्रातरं वीरं सहदेवमरिन्दमम् ॥१४॥ भ्राता चिरायते तात सहदेव तवाग्रजः । तं चैवानय सोदर्यं पानीयं च त्वमानय ॥१५॥ सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत । ददर्श च हतं भूमौ भ्रातरं नकुलं तदा ॥१६॥ भ्रातृशोकाभिसन्तप्तस्तृषया च प्रपीडितः । अभिदुद्राव पानीयं ततो वागभ्यभाषत ॥१७॥ मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः । प्रश्नानुक्त्वा यथाकामं ततः पिब हरस्व च ॥१८॥ अनादृत्य तु तद्वाक्यं सहदेवः पिपासितः । अपिबच्छीतलं तोयं पीत्वा च निपपात ह ॥१९॥ अथाब्रवीत्स विजयं कुन्तीपुत्रो युधिष्ठिरः । भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन । तौ चैवानय भद्रं ते पानीयं च त्वमानय ॥२०॥ एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः । आमुक्तखड्गो मेधावी तत्सरो प्रत्यपद्यत ॥२१॥ यतः पुरुषशार्दूलौ पानीय हरणे गतु । तौ ददर्श हतौ तत्र भ्रातरौ श्वेतवाहनः ॥२२॥ प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः । धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम् ॥२३॥ नापश्यत्तत्र किं चित्स भूतं तस्मिन्महावने । सव्यसाची ततः श्रान्तः पानीयं सोऽभ्यधावत ॥२४॥ अभिधावंस्ततो वाचमन्तरिक्षात्स शुश्रुवे । किमासीदसि पानीयं नैतच्छक्यं बलात्त्वया ॥२५॥ कौन्तेय यदि वैशम्पायन उवाच । प्रश्नान्मयोक्तान्प्रतिपत्स्यसे । ततः पास्यसि पानीयं हरिष्यसि च भारत ॥२६॥ वारितस्त्वब्रवीत्पार्थो दृश्यमानो निवारय । यावद्बाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि ॥२७॥ एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः । ववर्ष तां दिशं कृत्स्नां शब्दवेधं च दर्शयन् ॥२८॥ कर्णिनालीकनाराचानुत्सृजन्भरतर्षभ । अनेकैरिषुसङ्घातैरन्तरिक्षं ववर्ष ह ॥२९॥ यक्ष उवाच । किं विघातेन ते पार्थ प्रश्नानुक्त्वा ततः पिब । अनुक्त्वा तु ततः प्रश्नान्पीत्वैव न भविष्यसि ॥३०॥ वैशम्पायन उवाच । स त्वमोघानिषून्मुक्त्वा तृष्णयाभिप्रपीडितः । अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ॥३१॥ अथाब्रवीद्भीमसेनं कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च बीभत्सुश्चापराजितः ॥३२॥ चिरं गतास्तोयहेतोर्न चागच्छन्ति भारत । तांश्चैवानय भद्रं ते पानीयं च त्वमानय ॥३३॥ भीमसेनस्तथेत्युक्त्वा तां दिशं पत्यपद्यत । यत्र ते पुरुषव्याघ्रा भ्रातरोऽस्य निपातिताः ॥३४॥ तान्दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः । अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम् । स चिन्तयामास तदा योद्धव्यं ध्रुवमद्य मे ॥३५॥ पास्यामि तावत्पानीयमिति पार्थो वृकोदरः । ततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः ॥३६॥ यक्ष उवाच । मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः । प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥३७॥ वैशम्पायन उवाच । एवमुक्तस्ततो भीमो यक्षेणामित तेजसा । अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ॥३८॥ ततः कुन्तीसुतो राजा विचिन्त्य पुरुषर्षभः । समुत्थाय महाबाहुर्दह्यमानेन चेतसा ॥३९॥ अपेतजननिर्घोषं प्रविवेश महावनम् । रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम् ॥४०॥ नीलभास्वरवर्णैश्च पादपैरुपशोभितम् । भ्रमरैरुपगीतं च पक्षिभिश्च महायशः ॥४१॥ स गच्छन्कानने तस्मिन्हेमजालपरिष्कृतम् । ददर्श तत्सरो श्रीमान्विश्वकर्म कृतं यथा ॥४२॥ उपेतं नलिनी जालैः सिन्धुवारैश्च वेतसैः । केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम् । श्रमार्तस्तदुपागम्य सरो दृष्ट्वाथ विस्मितः ॥४३॥

२९७
वैशम्पायन उवाच । स ददर्श हतान्भ्रातॄँल्लोकपालानिव च्युतान् । युगान्ते समनुप्राप्ते शक्र प्रतिमगौरवान् ॥१॥ विप्रकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम् । भीमसेनं यमौ चोभौ निर्विचेष्टान्गतायुरः ॥२॥ स दीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः । बुद्ध्या विचिन्तयामास वीराः केन निपातिताः ॥३॥ नैषां शस्त्रप्रहारोऽस्ति पदं नेहास्ति कस्य चित् । भूतं महदिदं मन्ये भ्रातरो येन मे हताः । एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम् ॥४॥ स्यात्तु दुर्योधनेनेदमुपांशु विहितं कृतम् । गन्धार राजरचितं सततं जिह्मबुद्धिना ॥५॥ यस्य कार्यमकार्यं वा सममेव भवत्युत । कस्तस्य विश्वसेद्वीरो दुर्मतेरकृतात्मनः ॥६॥ अथ वा पुरुषैर्गूढैः प्रयोगोऽयं दुरात्मनः । भवेदिति महाबाहुर्बहुधा समचिन्तयत् ॥७॥ तस्यासीन्न विषेणेदमुदकं दूषितं यथा । मुखवर्णाः प्रसन्ना मे भ्रातॄणां इत्यचिन्तयत् ॥८॥ एकैकशश्चौघबलानिमान्पुरुषसत्तमान् । कोऽन्यः प्रतिसमासेत कालान्तकयमादृते ॥९॥ एतेनाध्यवसायेन तत्तोयमवगाढवान् । गाहमानश्च तत्तोयमन्तरिक्षात्स शुश्रुवे ॥१०॥ यक्ष उवाच । अहं बकः शैवलमत्स्यभक्षो मया नीताः प्रेतवशं तवानुजाः । त्वं पञ्चमो भविता राजपुत्र न चेत्प्रश्नान्पृच्छतो व्याकरोषि ॥११॥ मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः । प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥१२॥ युधिष्ठिर उवाच । रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक् । पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम् ॥१३॥ हिमवान्पारियात्रश् च विन्ध्यो मलय एव च । चत्वारः पर्वताः केन पातिता भुवि तेजसा ॥१४॥ अतीव ते महत्कर्मकृतं बलवतां वर । यन्न देवा न गन्धर्वा नासुरा न च राक्षसाः । विषहेरन्महायुद्धे कृतं ते तन्महाद्भुतम् ॥१५॥ न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षितम् । कौतूहलं महज्जातं साध्वसं चागतं मम ॥१६॥ येनास्म्युद्विग्नहृदयः समुत्पन्न शिरो ज्वरः । पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति ॥१७॥ यक्ष उवाच । यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जले चरः । मयैते निहताः सर्वे भ्रातरस्ते महौजसः ॥१८॥ वैशम्पायन उवाच । ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम् । यक्षस्य ब्रुवतो राजन्नुपक्रम्य तदा स्थितः ॥१९॥ विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम् । ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम् ॥२०॥ सेतुमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः । मेघगन्मीरया वाचा तर्जयन्तं महाबलम् ॥२१॥ यक्ष उवाच । इमे ते भ्रातरो राजन्वार्यमाणा मयासकृत् । बलात्तोयं जिहीर्षन्तस्ततो वैशम्पायन उवाच । सूदिता मया ॥२२॥ न पेयमुदकं राजन्प्राणानिह परीप्सता । पार्थ मा साहसं कार्षीर्मम पूर्वपरिग्रहः । प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥२३॥ युधिष्ठिर उवाच । नैवाहं कामये यक्ष तव पूर्वपरिग्रहम् । कामनैतत्प्रशंसन्ति सन्तो हि पुरुषाः सदा ॥२४॥ यदात्मना स्वमात्मानं प्रशंसेत्पुरुषः प्रभो । यथा प्रज्ञं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम् ॥२५॥ यक्ष उवाच । किं स्विदादित्यमुन्नयति केच तस्याभितश्चराः । कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति ॥२६॥ युधिष्ठिर उवाच । ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः । धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति ॥२७॥ यक्ष उवाच । केन स्विच्छ्रोत्रियो भवति केन स्विद्विन्दते महत् । केन द्वितीयवान्भवति राजन्केन च बुद्धिमान् ॥२८॥ युधिष्ठिर उवाच । श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् । धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया ॥२९॥ यक्ष उवाच । किं ब्राह्मणानां देवत्वं कश्च धर्मः सतां इव । कश्चैषां मानुषो भावः किमेषामसतां इव ॥३०॥ युधिष्ठिर उवाच । स्वाध्याय एषां देवत्वं तप एषां सतां इव । मरणं मानुषो भावः परिवादोऽसतां इव ॥३१॥ यक्ष उवाच । किं क्षत्रियाणां देवत्वं कश्च धर्मः सतां इव । कश्चैषां मानुषो भावः किमेषामसतां इव ॥३२॥ युधिष्ठिर उवाच । इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतां इव । भयं वैशम्पायन उवाच । मानुषो भावः परित्यागोऽसतां इव ॥३३॥ यक्ष उवाच । किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः । का चैका वृश्चते यज्ञं कां यज्ञो नातिवर्तते ॥३४॥ युधिष्ठिर उवाच । प्राणो वैशम्पायन उवाच । यज्ञियं साम मनो वै यज्ञियं यजुः । वागेका वृश्चते यज्ञं तां यज्ञो नातिवर्तते ॥३५॥ यक्ष उवाच । किं स्विदापततां श्रेष्ठं बीजं निपततां वरम् । किं स्वित्प्रतिष्ठमानानां किं स्वित्प्रवदतां वरम् ॥३६॥ युधिष्ठिर उवाच । वर्षमापततां श्रेष्ठं बीजं निपततां वरम् । गावः प्रतिष्ठमानानां पुत्रः प्रवदतां वरः ॥३७॥ यक्ष उवाच । इन्द्रियार्थाननुभवन्बुद्धिमाँल्लोकपूजितः । संमतः सर्वभूतानामुच्छ्वसन्को न जीवति ॥३८॥ युधिष्ठिर उवाच । देवतातिथिभृत्यानां पितॄणामात्मनश्च यः । न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ॥३९॥ यक्ष उवाच । किं स्विद्गुरुतरं भूमेः किं स्विदुच्चतरं च खात् । किं स्विच्छीघ्रतरं वायोः किं स्विद्बहुतरं नृणाम् ॥४०॥ युधिष्ठिर उवाच । माता गुरुतरा भूमेः पिता उच्चरतश्च खात् । मनो शीघ्रतरं वायोश्चिन्ता बहुतरी नृणाम् ॥४१॥ यक्ष उवाच । किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति । कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्घते ॥४२॥ युधिष्ठिर उवाच । मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति । अश्मनो हृदयं नास्ति नदीवेगेन वर्धते ॥४३॥ यक्ष उवाच । किं स्वित्प्रवसतो मित्रं किं स्विन्मित्रं गृहे सतः । आतुरस्य च किं मित्रं किं स्विन्मित्रं मरिष्यतः ॥४४॥ युधिष्ठिर उवाच । सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः । आतुरस्य भिषन्मित्रं दानं मित्रं मरिष्यतः ॥४५॥ यक्ष उवाच । किं स्विदेको विचरति जातः को जायते पुनः । किं स्विद्धिमस्य भैषज्यं किं स्विदावपनं महत् ॥४६॥ युधिष्ठिर उवाच । सूर्य एको विचरति चन्द्रमा जायते पुनः । अग्निर्हिमस्य भैषज्यं भूमिरापवनं महत् ॥४७॥ यक्ष उवाच । किं स्विदेकपदं धर्म्यं किं स्विदेकपदं यशः । किं स्विदेकपदं स्वर्ग्यं किं स्विदेकपदं सुखम् ॥४८॥ युधिष्ठिर उवाच । दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः । सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम् ॥४९॥ यक्ष उवाच । किं स्विदात्मा मनुष्यस्य किं स्विद्दैवकृतः सखा । उपजीवनं किं स्विदस्य किं स्विदस्य परायणम् ॥५०॥ युधिष्ठिर उवाच । पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा । उपजीवनं च पर्जन्यो दानमस्य परायणम् ॥५१॥ यक्ष उवाच । धन्यानामुत्तमं किं स्विद्धनानां किं स्विदुत्तमम् । लाभानामुत्तमं किं स्वित्किं सुखानां तथोत्तमम् ॥५२॥ युधिष्ठिर उवाच । धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् । लाभानां श्रेष्ठमारोग्यं सुखानां तुष्टिरुत्तमा ॥५३॥ यक्ष उवाच । कश्च धर्मः परो लोके कश्च धर्मः सदा फलः । किं नियम्य न शोचन्ति कैश्च सन्धिर्न जीर्यते ॥५४॥ युधिष्ठिर उवाच । आनृशंस्यं परो धर्मस्त्रयीधर्मः सदा फलः । अनो यम्य न शोचन्ति सद्भिः सन्धिर्न जीर्यते ॥५५॥ यक्ष उवाच । किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति । किं नु हित्वार्थवान्भवति किं नु हित्वा सुखी भवेत् ॥५६॥ युधिष्ठिर उवाच । मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति । कामं हित्वार्थवान्भवति लोभं हित्वा सुखू भवेत् ॥५७॥ यक्ष उवाच । मृतं कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवेत् । श्राधं मृतं कथं च स्यात्कथं यज्ञो मृतो भवेत् ॥५८॥ युधिष्ठिर उवाच । मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् । मृतमश्रोत्रियं श्राद्धं मृतो यज्ञो त्वदक्षिणः ॥५९॥ यक्ष उवाच । का दिक्किमुदकं प्रोक्तं किमन्नं पार्थ किं विषम् । श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च ॥६०॥ युधिष्ठिर उवाच । सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम् । श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे ॥६१॥ यक्ष उवाच । व्याख्याता मे त्वया प्रश्ना याथातथ्यं परन्तप । पुरुषं त्विदानीमाख्याहि यश्च सर्वधनी नरः ॥६२॥ युधिष्ठिर उवाच । दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः । यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥६३॥ तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च । अतीतानागते चोभे स वैशम्पायन उवाच । सर्वधनी नरः ॥६४॥ यक्ष उवाच । व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः । तस्मात्तवैको भ्रातॄणां यमिच्छसि स जीवतु ॥६५॥ युधिष्ठिर उवाच । श्यामो य एष रक्ताक्षो बृहच्छाल इवोद्गतः । व्यूढोरस्को महाबाहुरङ्कुलो यक्ष जीवतु ॥६६॥ यक्ष उवाच । प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम् । स कस्मान्नकुलं राजन्सापत्नं जीवमिच्छसि ॥६७॥ यस्य नागसहस्रेण दश सङ्ख्येन वैशम्पायन उवाच । बलम् । तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि ॥६८॥ तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव । अथ केनानुभावेन सापत्नं जीवमिच्छसि ॥६९॥ यस्य बाहुबलं सर्वे पाण्डवाः समुपाश्रिताः । अर्जुनं तमपाहाय नकुलं जीवमिच्छसि ॥७०॥ युधिष्ठिर उवाच । आनृशंस्य परो धर्मः परमार्थाच्च मे मतम् । आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु ॥७१॥ धर्मशीलः सदा राजा इति मां मानवा विदुः । स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु ॥७२॥ यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः । मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु ॥७३॥ यक्ष उवाच । यस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम् । अस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ ॥७४॥

२९८
वैशम्पायन उवाच । ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवाः । क्षुत्पिपासे च सर्वेषां क्षणे तस्मिन्व्यगच्छताम् ॥१॥ युधिष्ठिर उवाच । रसस्येकेन पादेन तिष्ठन्तमपराजितम् । पृच्छामि को भवान्देवो न मे यक्षो मतो भवान् ॥२॥ वसूनां वा भवानेको रुद्राणामथ वा भवान् । अथ वा मरुतां श्रेष्ठो वर्जी वा त्रिदशेश्वरः ॥३॥ मम हि भ्रातर इमे सहस्रशतयोधिनः । न तं योगं प्रपश्यामि येन स्युर्विनिपातिताः ॥४॥ सुखं प्रतिविबुद्धानामिन्द्रियाण्युपलक्षये । स भवान्सुहृदस्माकमथ वा नः पिता भवान् ॥५॥ यक्ष उवाच । अहं ते जनकस्तात धर्मो मृदु पराक्रम । त्वां दिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ ॥६॥ यशो सत्यं दमः शौचमार्जवं ह्रीरचापलम् । दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम ॥७॥ अहिंसा समता शान्तिस्तपो शौचममत्सरः । द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सदा मम ॥८॥ दिष्ट्या पञ्चसु रक्तोऽसि दिष्ट्या ते षट्पदी जिता । द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते साम्परायिके ॥९॥ धर्मोऽहमस्मि भद्रं ते जिज्ञासुस्त्वमिहागतः । आनृशंस्येन तुष्टोऽस्मि वरं दास्यामि तेऽनघ ॥१०॥ वरं वृणीष्व राजेन्द्र दाता ह्यस्मि तवानघ । ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः ॥११॥ युधिष्ठिर उवाच । अरणी सहितं यस्य मृग आदाय गच्छति । तस्याग्नयो न लुप्येरन्प्रथमोऽस्तु वरो मम ॥१२॥ धर्म उवाच । अरणी सहितं तस्य ब्राह्मणस्य हृतं मया । मृगवेषेण कौन्तेय जिज्ञासार्थं तव प्रभो ॥१३॥ वैशम्पायन उवाच । ददानीत्येव भवगानुत्तरं प्रत्यपद्यत । अन्यं वरय भद्रं ते वरं त्वममरोपम ॥१४॥ युधिष्ठिर उवाच । वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम् । तत्र नो नाभिजानीयुर्वसतो मनुजाः क्व चित् ॥१५॥ वैशम्पायन उवाच । ददानीत्येव भगवानुत्तरं प्रत्यपद्यत । भूयो चाश्वासयामास कौन्तेयं सत्यविक्रमम् ॥१६॥ यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम् । न वो विज्ञास्यते कश्चित्त्रिषु लोकेषु भारत ॥१७॥ वर्षं त्रयोदशं चेदं मत्प्रसादात्कुरूर्वहाः । विराटनगरे गूढा अविज्ञाताश्चरिष्यथ ॥१८॥ यद्वः सङ्कल्पितं रूपं मनसा यस्य यादृशम् । तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ ॥१९॥ अरिणी सहितं चेदं ब्राह्मणाय प्रयच्छत । जिज्ञासार्थं मया ह्येतदाहृतं मृगरूपिणा ॥२०॥ तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत् । त्वं हि मत्प्रभवो राजन्विदुरश्च ममांश भाक् ॥२१॥ युधिष्ठिर उवाच । देवदेवो मया दृष्टो भवान्साक्षात्सनातनः । यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः ॥२२॥ जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो । दाने तपसि सत्ये च मनो मे सततं भवेत् ॥२३॥ धर्म उवाच । उपपन्नो गुणैः सर्वैः स्वभावेनासि पाण्डव । भवान्धर्मः पुनश्चैव यथोक्तं ते भविष्यति ॥२४॥ वैशम्पायन उवाच । इत्युक्त्वान्तर्दधे धर्मो भगवाँल्लोकभावनः । समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः ॥२५॥ अभ्येत्य चाश्रमं वीराः सर्व एव गतक्लमाः । आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने ॥२६॥ इदं समुत्थान समागमं महत् पितुश्च पुत्रस्य च कीर्तिवर्धनम् । पठन्नरः स्याद्विजीतेन्द्रियो वशी सपुत्रपौत्रः शतवर्ष भाग्भवेत् ॥२७॥ न चाप्यधर्मे न सुहृद्विभेदने परस्वहारे परदारमर्शने । कदर्य भावे न रमेन्मनो सदा नृणां सदाख्यानमिदं विजानताम् ॥२८॥

२९९ २९५
जनमेजय उवाच । एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् । प्रतिलभ्य ततः कृष्णां किमकुर्वन्त पाण्डवाः ॥१॥ वैशम्पायन उवाच । एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् । विहाय काम्यकं राजा सह भ्रातृभिरच्युतः ॥२॥ पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः । स्वादुमूलफलं रम्यं मार्कण्डेयाश्रमं प्रति ॥३॥ अनुगुप्त फलाहाराः सर्व एव मिताशनाः । न्यवसन्पाण्डवास्तत्र कृष्णया सह भारत ॥४॥ वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः । भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ॥५॥ ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः । क्लेशमार्छन्त विपुलं सुखोदर्कं परन्तपाः ॥६॥ अजातशत्रुमासीनं भ्रतृभिः सहितं वने । आगम्य ब्राह्मणस्तूर्णं सन्तप्त इदमब्रवीत् ॥७॥ अरणी सहितं मह्यं समासक्तं वनस्पतौ । मृगस्य घर्षमाणस्य विषाणे समसज्जत ॥८॥ तदादाय गतो राजंस्त्वरमाणो महामृगः । आश्रमात्त्वरितः शीघ्रं प्लवमानो महाजवः ॥९॥ तस्य गत्वा पदं शीघ्रमासाद्य च महामृगम् । अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः ॥१०॥ ब्राह्मणस्य वचो श्रुत्वा सन्तप्तोऽथ युधिष्ठिरः । धनुरादाय कौन्तेयः प्राद्रवद्भ्रातृभिः सह ॥११॥ सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुङ्गवाः । ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम् ॥१२॥ कर्णिनालीकनाराचानुत्सृजन्तो महारथाः । नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात् ॥१३॥ तेषां प्रयतमानानां नादृश्यत महामृगः । अपश्यन्तो मृगं श्रान्ता दुःखं प्राप्ता मनस्विनः ॥१४॥ शीतलछायमासाद्य न्यग्रोधं गहने वने । क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन् ॥१५॥ तेषां समुपविष्टानां नकुलो दुःखितस्तदा । अब्रवीद्भ्रातरं ज्येष्ठममर्षात्कुरुसत्तम ॥१६॥ नास्मिन्कुले जातु ममज्ज धर्मो न चालस्यादर्थलोपो बभूव । अनुत्तराः सर्वभूतेषु भूयः सम्प्राप्ताः स्मः संशयं केन राजन् ॥१७॥

२९६ युधिष्ठिर उवाच ।
नापदामस्ति मर्यादा न निमित्तं न कारणम् । धर्मस्तु विभजत्यत्र उभयोः पुण्यपापयोः ॥१॥ भीम उवाच । प्रातिकाम्यनयत्कृष्णां सभायां प्रेष्यवत्तदा । न मया निहतस्तत्र तेन प्राप्ताः स्म संशयम् ॥२॥ अर्जुन उवाच । वाचस्तीक्ष्णास्थि भेदिन्यः सूतपुत्रेण भाषिताः । अतितीक्ष्णा मया क्षान्तास्तेन प्राप्तः स्म संशयम् ॥३॥ सहदेव उवाचा । शकुनिस्त्वां यदाजैषीदक्षद्यूतेन भारत । स मया न हतस्तत्र तेन प्राप्ताः स्म संशयम् ॥४॥ वैशम्पायन उवाच । ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत् । आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश ॥५॥ पानीयमन्तिके पश्य वृक्षान्वाप्युदकाश्रयान् । इमे हि भ्रातरः श्रान्तास्तव तात पिपासिताः ॥६॥ नकुलस्तु तथेत्युक्त्वा शीघ्रमारुह्य पादमम् । अब्रवीद्भ्रातरं ज्येष्ठमभिवीक्ष्य समन्ततः ॥७॥ पश्यामि बहुलान्राजन्वृक्षानुदकसंश्रयान् । सारसानां च निर्ह्रादमत्रोदकमसंशयम् ॥८॥ ततोऽब्रवीत्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः । गच्छ सौम्य ततः शीघ्रं तूर्णं पानीयमानय ॥९॥ नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात् । प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत ॥१०॥ स दृष्ट्वा विमलं तोयं सारसैः परिवारितम् । पातु काकस्ततो वाचमन्तरिक्षात्स शुश्रुवे ॥११॥ मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः । प्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च ॥१२॥ अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितः । अपिबच्छीतलं तोयं पीत्वा च निपपात ह ॥१३॥ चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः । अब्रवीद्भ्रातरं वीरं सहदेवमरिन्दमम् ॥१४॥ भ्राता चिरायते तात सहदेव तवाग्रजः । तं चैवानय सोदर्यं पानीयं च त्वमानय ॥१५॥ सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत । ददर्श च हतं भूमौ भ्रातरं नकुलं तदा ॥१६॥ भ्रातृशोकाभिसन्तप्तस्तृषया च प्रपीडितः । अभिदुद्राव पानीयं ततो वागभ्यभाषत ॥१७॥ मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः । प्रश्नानुक्त्वा यथाकामं ततः पिब हरस्व च ॥१८॥ अनादृत्य तु तद्वाक्यं सहदेवः पिपासितः । अपिबच्छीतलं तोयं पीत्वा च निपपात ह ॥१९॥ अथाब्रवीत्स विजयं कुन्तीपुत्रो युधिष्ठिरः । भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन । तौ चैवानय भद्रं ते पानीयं च त्वमानय ॥२०॥ एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः । आमुक्तखड्गो मेधावी तत्सरो प्रत्यपद्यत ॥२१॥ यतः पुरुषशार्दूलौ पानीय हरणे गतु । तौ ददर्श हतौ तत्र भ्रातरौ श्वेतवाहनः ॥२२॥ प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः । धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम् ॥२३॥ नापश्यत्तत्र किं चित्स भूतं तस्मिन्महावने । सव्यसाची ततः श्रान्तः पानीयं सोऽभ्यधावत ॥२४॥ अभिधावंस्ततो वाचमन्तरिक्षात्स शुश्रुवे । किमासीदसि पानीयं नैतच्छक्यं बलात्त्वया ॥२५॥ कौन्तेय यदि वैशम्पायन उवाच । प्रश्नान्मयोक्तान्प्रतिपत्स्यसे । ततः पास्यसि पानीयं हरिष्यसि च भारत ॥२६॥ वारितस्त्वब्रवीत्पार्थो दृश्यमानो निवारय । यावद्बाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि ॥२७॥ एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः । ववर्ष तां दिशं कृत्स्नां शब्दवेधं च दर्शयन् ॥२८॥ कर्णिनालीकनाराचानुत्सृजन्भरतर्षभ । अनेकैरिषुसङ्घातैरन्तरिक्षं ववर्ष ह ॥२९॥ यक्ष उवाच । किं विघातेन ते पार्थ प्रश्नानुक्त्वा ततः पिब । अनुक्त्वा तु ततः प्रश्नान्पीत्वैव न भविष्यसि ॥३०॥ वैशम्पायन उवाच । स त्वमोघानिषून्मुक्त्वा तृष्णयाभिप्रपीडितः । अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ॥३१॥ अथाब्रवीद्भीमसेनं कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च बीभत्सुश्चापराजितः ॥३२॥ चिरं गतास्तोयहेतोर्न चागच्छन्ति भारत । तांश्चैवानय भद्रं ते पानीयं च त्वमानय ॥३३॥ भीमसेनस्तथेत्युक्त्वा तां दिशं पत्यपद्यत । यत्र ते पुरुषव्याघ्रा भ्रातरोऽस्य निपातिताः ॥३४॥ तान्दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः । अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम् । स चिन्तयामास तदा योद्धव्यं ध्रुवमद्य मे ॥३५॥ पास्यामि तावत्पानीयमिति पार्थो वृकोदरः । ततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः ॥३६॥ यक्ष उवाच । मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः । प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥३७॥ वैशम्पायन उवाच । एवमुक्तस्ततो भीमो यक्षेणामित तेजसा । अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ॥३८॥ ततः कुन्तीसुतो राजा विचिन्त्य पुरुषर्षभः । समुत्थाय महाबाहुर्दह्यमानेन चेतसा ॥३९॥ अपेतजननिर्घोषं प्रविवेश महावनम् । रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम् ॥४०॥ नीलभास्वरवर्णैश्च पादपैरुपशोभितम् । भ्रमरैरुपगीतं च पक्षिभिश्च महायशः ॥४१॥ स गच्छन्कानने तस्मिन्हेमजालपरिष्कृतम् । ददर्श तत्सरो श्रीमान्विश्वकर्म कृतं यथा ॥४२॥ उपेतं नलिनी जालैः सिन्धुवारैश्च वेतसैः । केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम् । श्रमार्तस्तदुपागम्य सरो दृष्ट्वाथ विस्मितः ॥४३॥

२९७
वैशम्पायन उवाच । स ददर्श हतान्भ्रातॄँल्लोकपालानिव च्युतान् । युगान्ते समनुप्राप्ते शक्र प्रतिमगौरवान् ॥१॥ विप्रकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम् । भीमसेनं यमौ चोभौ निर्विचेष्टान्गतायुरः ॥२॥ स दीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः । बुद्ध्या विचिन्तयामास वीराः केन निपातिताः ॥३॥ नैषां शस्त्रप्रहारोऽस्ति पदं नेहास्ति कस्य चित् । भूतं महदिदं मन्ये भ्रातरो येन मे हताः । एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम् ॥४॥ स्यात्तु दुर्योधनेनेदमुपांशु विहितं कृतम् । गन्धार राजरचितं सततं जिह्मबुद्धिना ॥५॥ यस्य कार्यमकार्यं वा सममेव भवत्युत । कस्तस्य विश्वसेद्वीरो दुर्मतेरकृतात्मनः ॥६॥ अथ वा पुरुषैर्गूढैः प्रयोगोऽयं दुरात्मनः । भवेदिति महाबाहुर्बहुधा समचिन्तयत् ॥७॥ तस्यासीन्न विषेणेदमुदकं दूषितं यथा । मुखवर्णाः प्रसन्ना मे भ्रातॄणां इत्यचिन्तयत् ॥८॥ एकैकशश्चौघबलानिमान्पुरुषसत्तमान् । कोऽन्यः प्रतिसमासेत कालान्तकयमादृते ॥९॥ एतेनाध्यवसायेन तत्तोयमवगाढवान् । गाहमानश्च तत्तोयमन्तरिक्षात्स शुश्रुवे ॥१०॥ यक्ष उवाच । अहं बकः शैवलमत्स्यभक्षो मया नीताः प्रेतवशं तवानुजाः । त्वं पञ्चमो भविता राजपुत्र न चेत्प्रश्नान्पृच्छतो व्याकरोषि ॥११॥ मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः । प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥१२॥ युधिष्ठिर उवाच । रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक् । पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम् ॥१३॥ हिमवान्पारियात्रश् च विन्ध्यो मलय एव च । चत्वारः पर्वताः केन पातिता भुवि तेजसा ॥१४॥ अतीव ते महत्कर्मकृतं बलवतां वर । यन्न देवा न गन्धर्वा नासुरा न च राक्षसाः । विषहेरन्महायुद्धे कृतं ते तन्महाद्भुतम् ॥१५॥ न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षितम् । कौतूहलं महज्जातं साध्वसं चागतं मम ॥१६॥ येनास्म्युद्विग्नहृदयः समुत्पन्न शिरो ज्वरः । पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति ॥१७॥ यक्ष उवाच । यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जले चरः । मयैते निहताः सर्वे भ्रातरस्ते महौजसः ॥१८॥ वैशम्पायन उवाच । ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम् । यक्षस्य ब्रुवतो राजन्नुपक्रम्य तदा स्थितः ॥१९॥ विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम् । ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम् ॥२०॥ सेतुमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः । मेघगन्मीरया वाचा तर्जयन्तं महाबलम् ॥२१॥ यक्ष उवाच । इमे ते भ्रातरो राजन्वार्यमाणा मयासकृत् । बलात्तोयं जिहीर्षन्तस्ततो वैशम्पायन उवाच । सूदिता मया ॥२२॥ न पेयमुदकं राजन्प्राणानिह परीप्सता । पार्थ मा साहसं कार्षीर्मम पूर्वपरिग्रहः । प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥२३॥ युधिष्ठिर उवाच । नैवाहं कामये यक्ष तव पूर्वपरिग्रहम् । कामनैतत्प्रशंसन्ति सन्तो हि पुरुषाः सदा ॥२४॥ यदात्मना स्वमात्मानं प्रशंसेत्पुरुषः प्रभो । यथा प्रज्ञं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम् ॥२५॥ यक्ष उवाच । किं स्विदादित्यमुन्नयति केच तस्याभितश्चराः । कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति ॥२६॥ युधिष्ठिर उवाच । ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः । धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति ॥२७॥ यक्ष उवाच । केन स्विच्छ्रोत्रियो भवति केन स्विद्विन्दते महत् । केन द्वितीयवान्भवति राजन्केन च बुद्धिमान् ॥२८॥ युधिष्ठिर उवाच । श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् । धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया ॥२९॥ यक्ष उवाच । किं ब्राह्मणानां देवत्वं कश्च धर्मः सतां इव । कश्चैषां मानुषो भावः किमेषामसतां इव ॥३०॥ युधिष्ठिर उवाच । स्वाध्याय एषां देवत्वं तप एषां सतां इव । मरणं मानुषो भावः परिवादोऽसतां इव ॥३१॥ यक्ष उवाच । किं क्षत्रियाणां देवत्वं कश्च धर्मः सतां इव । कश्चैषां मानुषो भावः किमेषामसतां इव ॥३२॥ युधिष्ठिर उवाच । इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतां इव । भयं वैशम्पायन उवाच । मानुषो भावः परित्यागोऽसतां इव ॥३३॥ यक्ष उवाच । किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः । का चैका वृश्चते यज्ञं कां यज्ञो नातिवर्तते ॥३४॥ युधिष्ठिर उवाच । प्राणो वैशम्पायन उवाच । यज्ञियं साम मनो वै यज्ञियं यजुः । वागेका वृश्चते यज्ञं तां यज्ञो नातिवर्तते ॥३५॥ यक्ष उवाच । किं स्विदापततां श्रेष्ठं बीजं निपततां वरम् । किं स्वित्प्रतिष्ठमानानां किं स्वित्प्रवदतां वरम् ॥३६॥ युधिष्ठिर उवाच । वर्षमापततां श्रेष्ठं बीजं निपततां वरम् । गावः प्रतिष्ठमानानां पुत्रः प्रवदतां वरः ॥३७॥ यक्ष उवाच । इन्द्रियार्थाननुभवन्बुद्धिमाँल्लोकपूजितः । संमतः सर्वभूतानामुच्छ्वसन्को न जीवति ॥३८॥ युधिष्ठिर उवाच । देवतातिथिभृत्यानां पितॄणामात्मनश्च यः । न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ॥३९॥ यक्ष उवाच । किं स्विद्गुरुतरं भूमेः किं स्विदुच्चतरं च खात् । किं स्विच्छीघ्रतरं वायोः किं स्विद्बहुतरं नृणाम् ॥४०॥ युधिष्ठिर उवाच । माता गुरुतरा भूमेः पिता उच्चरतश्च खात् । मनो शीघ्रतरं वायोश्चिन्ता बहुतरी नृणाम् ॥४१॥ यक्ष उवाच । किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति । कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्घते ॥४२॥ युधिष्ठिर उवाच । मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति । अश्मनो हृदयं नास्ति नदीवेगेन वर्धते ॥४३॥ यक्ष उवाच । किं स्वित्प्रवसतो मित्रं किं स्विन्मित्रं गृहे सतः । आतुरस्य च किं मित्रं किं स्विन्मित्रं मरिष्यतः ॥४४॥ युधिष्ठिर उवाच । सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः । आतुरस्य भिषन्मित्रं दानं मित्रं मरिष्यतः ॥४५॥ यक्ष उवाच । किं स्विदेको विचरति जातः को जायते पुनः । किं स्विद्धिमस्य भैषज्यं किं स्विदावपनं महत् ॥४६॥ युधिष्ठिर उवाच । सूर्य एको विचरति चन्द्रमा जायते पुनः । अग्निर्हिमस्य भैषज्यं भूमिरापवनं महत् ॥४७॥ यक्ष उवाच । किं स्विदेकपदं धर्म्यं किं स्विदेकपदं यशः । किं स्विदेकपदं स्वर्ग्यं किं स्विदेकपदं सुखम् ॥४८॥ युधिष्ठिर उवाच । दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः । सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम् ॥४९॥ यक्ष उवाच । किं स्विदात्मा मनुष्यस्य किं स्विद्दैवकृतः सखा । उपजीवनं किं स्विदस्य किं स्विदस्य परायणम् ॥५०॥ युधिष्ठिर उवाच । पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा । उपजीवनं च पर्जन्यो दानमस्य परायणम् ॥५१॥ यक्ष उवाच । धन्यानामुत्तमं किं स्विद्धनानां किं स्विदुत्तमम् । लाभानामुत्तमं किं स्वित्किं सुखानां तथोत्तमम् ॥५२॥ युधिष्ठिर उवाच । धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् । लाभानां श्रेष्ठमारोग्यं सुखानां तुष्टिरुत्तमा ॥५३॥ यक्ष उवाच । कश्च धर्मः परो लोके कश्च धर्मः सदा फलः । किं नियम्य न शोचन्ति कैश्च सन्धिर्न जीर्यते ॥५४॥ युधिष्ठिर उवाच । आनृशंस्यं परो धर्मस्त्रयीधर्मः सदा फलः । अनो यम्य न शोचन्ति सद्भिः सन्धिर्न जीर्यते ॥५५॥ यक्ष उवाच । किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति । किं नु हित्वार्थवान्भवति किं नु हित्वा सुखी भवेत् ॥५६॥ युधिष्ठिर उवाच । मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति । कामं हित्वार्थवान्भवति लोभं हित्वा सुखू भवेत् ॥५७॥ यक्ष उवाच । मृतं कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवेत् । श्राधं मृतं कथं च स्यात्कथं यज्ञो मृतो भवेत् ॥५८॥ युधिष्ठिर उवाच । मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् । मृतमश्रोत्रियं श्राद्धं मृतो यज्ञो त्वदक्षिणः ॥५९॥ यक्ष उवाच । का दिक्किमुदकं प्रोक्तं किमन्नं पार्थ किं विषम् । श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च ॥६०॥ युधिष्ठिर उवाच । सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम् । श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे ॥६१॥ यक्ष उवाच । व्याख्याता मे त्वया प्रश्ना याथातथ्यं परन्तप । पुरुषं त्विदानीमाख्याहि यश्च सर्वधनी नरः ॥६२॥ युधिष्ठिर उवाच । दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः । यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥६३॥ तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च । अतीतानागते चोभे स वैशम्पायन उवाच । सर्वधनी नरः ॥६४॥ यक्ष उवाच । व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः । तस्मात्तवैको भ्रातॄणां यमिच्छसि स जीवतु ॥६५॥ युधिष्ठिर उवाच । श्यामो य एष रक्ताक्षो बृहच्छाल इवोद्गतः । व्यूढोरस्को महाबाहुरङ्कुलो यक्ष जीवतु ॥६६॥ यक्ष उवाच । प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम् । स कस्मान्नकुलं राजन्सापत्नं जीवमिच्छसि ॥६७॥ यस्य नागसहस्रेण दश सङ्ख्येन वैशम्पायन उवाच । बलम् । तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि ॥६८॥ तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव । अथ केनानुभावेन सापत्नं जीवमिच्छसि ॥६९॥ यस्य बाहुबलं सर्वे पाण्डवाः समुपाश्रिताः । अर्जुनं तमपाहाय नकुलं जीवमिच्छसि ॥७०॥ युधिष्ठिर उवाच । आनृशंस्य परो धर्मः परमार्थाच्च मे मतम् । आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु ॥७१॥ धर्मशीलः सदा राजा इति मां मानवा विदुः । स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु ॥७२॥ यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः । मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु ॥७३॥ यक्ष उवाच । यस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम् । अस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ ॥७४॥

२९८
वैशम्पायन उवाच । ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवाः । क्षुत्पिपासे च सर्वेषां क्षणे तस्मिन्व्यगच्छताम् ॥१॥ युधिष्ठिर उवाच । रसस्येकेन पादेन तिष्ठन्तमपराजितम् । पृच्छामि को भवान्देवो न मे यक्षो मतो भवान् ॥२॥ वसूनां वा भवानेको रुद्राणामथ वा भवान् । अथ वा मरुतां श्रेष्ठो वर्जी वा त्रिदशेश्वरः ॥३॥ मम हि भ्रातर इमे सहस्रशतयोधिनः । न तं योगं प्रपश्यामि येन स्युर्विनिपातिताः ॥४॥ सुखं प्रतिविबुद्धानामिन्द्रियाण्युपलक्षये । स भवान्सुहृदस्माकमथ वा नः पिता भवान् ॥५॥ यक्ष उवाच । अहं ते जनकस्तात धर्मो मृदु पराक्रम । त्वां दिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ ॥६॥ यशो सत्यं दमः शौचमार्जवं ह्रीरचापलम् । दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम ॥७॥ अहिंसा समता शान्तिस्तपो शौचममत्सरः । द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सदा मम ॥८॥ दिष्ट्या पञ्चसु रक्तोऽसि दिष्ट्या ते षट्पदी जिता । द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते साम्परायिके ॥९॥ धर्मोऽहमस्मि भद्रं ते जिज्ञासुस्त्वमिहागतः । आनृशंस्येन तुष्टोऽस्मि वरं दास्यामि तेऽनघ ॥१०॥ वरं वृणीष्व राजेन्द्र दाता ह्यस्मि तवानघ । ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः ॥११॥ युधिष्ठिर उवाच । अरणी सहितं यस्य मृग आदाय गच्छति । तस्याग्नयो न लुप्येरन्प्रथमोऽस्तु वरो मम ॥१२॥ धर्म उवाच । अरणी सहितं तस्य ब्राह्मणस्य हृतं मया । मृगवेषेण कौन्तेय जिज्ञासार्थं तव प्रभो ॥१३॥ वैशम्पायन उवाच । ददानीत्येव भवगानुत्तरं प्रत्यपद्यत । अन्यं वरय भद्रं ते वरं त्वममरोपम ॥१४॥ युधिष्ठिर उवाच । वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम् । तत्र नो नाभिजानीयुर्वसतो मनुजाः क्व चित् ॥१५॥ वैशम्पायन उवाच । ददानीत्येव भगवानुत्तरं प्रत्यपद्यत । भूयो चाश्वासयामास कौन्तेयं सत्यविक्रमम् ॥१६॥ यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम् । न वो विज्ञास्यते कश्चित्त्रिषु लोकेषु भारत ॥१७॥ वर्षं त्रयोदशं चेदं मत्प्रसादात्कुरूर्वहाः । विराटनगरे गूढा अविज्ञाताश्चरिष्यथ ॥१८॥ यद्वः सङ्कल्पितं रूपं मनसा यस्य यादृशम् । तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ ॥१९॥ अरिणी सहितं चेदं ब्राह्मणाय प्रयच्छत । जिज्ञासार्थं मया ह्येतदाहृतं मृगरूपिणा ॥२०॥ तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत् । त्वं हि मत्प्रभवो राजन्विदुरश्च ममांश भाक् ॥२१॥ युधिष्ठिर उवाच । देवदेवो मया दृष्टो भवान्साक्षात्सनातनः । यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः ॥२२॥ जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो । दाने तपसि सत्ये च मनो मे सततं भवेत् ॥२३॥ धर्म उवाच । उपपन्नो गुणैः सर्वैः स्वभावेनासि पाण्डव । भवान्धर्मः पुनश्चैव यथोक्तं ते भविष्यति ॥२४॥ वैशम्पायन उवाच । इत्युक्त्वान्तर्दधे धर्मो भगवाँल्लोकभावनः । समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः ॥२५॥ अभ्येत्य चाश्रमं वीराः सर्व एव गतक्लमाः । आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने ॥२६॥ इदं समुत्थान समागमं महत् पितुश्च पुत्रस्य च कीर्तिवर्धनम् । पठन्नरः स्याद्विजीतेन्द्रियो वशी सपुत्रपौत्रः शतवर्ष भाग्भवेत् ॥२७॥ न चाप्यधर्मे न सुहृद्विभेदने परस्वहारे परदारमर्शने । कदर्य भावे न रमेन्मनो सदा नृणां सदाख्यानमिदं विजानताम् ॥२८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP