TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|गीता|
यमगीता

यमगीता

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


यमगीता
॥विष्णु नृसिंह एवम् अग्निपुराणान्तर्गत यमगीता॥
    
॥अथ प्रारभ्यते विष्णुपुराणान्तर्गता यमगीता॥
मैत्रेय उवाच -
यथावत्कथितं सर्वं यत्पृष्टोऽसि मया द्विज । श्रोतुमिच्छाम्यहं त्वेकं तद्भवान्प्रब्रवीतु मे ॥१॥
सप्तद्वीपानि पातालवीथ्यश्च सुमहामुने । सप्तलोका येऽन्तरस्था ब्रह्माण्डस्यस्य सर्वतः ॥२॥
स्थूलैः सूक्ष्मैस्तथा स्थूलसूक्ष्मैः सूक्ष्मस्थूलैस्तथा । स्थूलास्थूलतरैश्चैतत्सर्वं प्राणिभिरावृतम् ॥३॥
अङ्गुलस्याष्टभागोऽपि न सोऽस्ति मुनिसत्तम । न सन्ति प्राणिनो यत्र कर्मबन्धनिबन्धनाः॥४॥
सर्वे चैते वशं यान्ति यमस्य भगवन्किल । आयुषोऽन्तेन ते यान्ति यातनास्तत्प्रचोदिताः॥५॥
यातनाभ्यः परिभ्रष्टा देवाद्यास्वथ योनिषु । जन्तवः परिवर्तन्ते शास्त्राणामेष निर्णयः॥६॥
सोऽहमिच्छामि तच्छ्रोतुं यमस्य वशवर्तिनः । न भवन्ति नरा येन तत्कर्म कथयामलम्॥७॥
पराशर उवाच -
अयमेव मुने प्रश्नो नकुलेन महात्मना । पृष्टः पितामहः प्राह भीष्मो यत्तच्छ्रुणुष्व मे॥८॥
भीष्म उवाच -
पुरा ममागतो वत्स सखा कालिंगको द्विजः । स मामुवाच पृष्टो वै मया जातिस्मरो मुनिः॥९॥
तेनाख्यातमिदं चेदमित्थं चैतद्भविष्यति । तथा च तदभूद्वत्स यथोक्तं तेन धीमता ॥१०॥
स पृष्टश्च मया भूयः श्रद्दधानवता द्विजः । यद्यदाह न तद्दृष्टमन्यथा हि मया क्वचित् ॥११॥
एकदा तु मया पृष्टं यदेतद्भवतोदितम् । प्राह कालिंगको विप्रः स्मृत्वा तस्य मुनेर्वचः ॥१२॥
जातिस्मरेण कथितो रहस्यः परमो मम । यमकिंकरयोर्योऽभूत्संवादस्तं ब्रवीमि ते ॥१३॥
कालिंग उवाच -
स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले । परिहर मधुसूदनं प्रपन्नान् प्रभुरहमस्मि नृणां न वैष्णवानाम् ॥१४॥
अहममरगणार्चितेन धात्रा यम इति लोकहिताहिते नियुक्तः । हरिगुरुवशगोऽस्मि न स्वतन्त्रः प्रभवति संयमनि ममापि विष्णुः ॥१५॥
कटकमुकुटकर्णिकादिभेदैः कनकमभेदमपीष्यते यथैकम् । सुरपशुमनुजादिकल्पनाभि- र्हरिरखिलाभिरुदीयते तथैकः ॥१६॥
क्षितिजलपरमाणवोऽनिलान्ते पुनरपि यान्ति यथैकतां धरित्र्या । सुरपशुमनुजादयस्तथान्ते गुणकलुषेण सनातनेन तेन ॥१७॥
हरिममरगणार्चितांघ्रिपद्मं प्रणमति यः परमार्थतो हि मर्त्यः । तमथ गतसमस्तपापबन्धं व्रज परिहृत्य यथाग्निमाज्यसिक्तम् ॥१८॥
इति यमवचनं निशम्य पाशी यमपुरुषमुवाच धर्मराजम् । कथय मम विभोः समस्तधातु- र्भवति हरेः खलु यादृशोऽस्य भक्तः ॥१९॥
यम उवाच -
न चलति निजवर्णधर्मतो यः सममतिरात्मसुहृद्विपक्षपक्षे । न हरति न च हन्ति किंचिदुच्चैः सितमनसं तमवेहि विष्णुभक्तम् ॥२०॥
कलिकलुषमलेन यस्य नात्मा विमलमतेर्मलिनीकृतोऽस्तमोहे । मनसि कृतजनार्दनं मनुष्यं सत्तमवेहि हरेरतीवभक्तम् ॥२१॥
कनकमपि रहस्यवेक्ष्य बुद्ध्या तृणमिव यः समवैति वै परस्वम् । भवति च भगवत्यनन्यचेताः पुरुषवरं तमवेहि विष्णुभक्तम् ॥२२॥
स्फटिकगिरिशिलामलः क्व विष्णु- र्मनसि नृणां क्व च मत्सरादिदोषः । न हि तुहिनमयूखरश्मिपुञ्जे भवति हुताशनदीप्तिजः प्रतापः ॥२३॥
विमलमतिविमत्सरः प्रशान्तः शुचिचरितोऽखिलसत्त्वमित्रभूतः । प्रियहितवचनोऽस्तमानमायो वसति सदा हृदि तस्य वासुदेवः ॥२४॥
वसति हृदि सनातने च तस्मिन् भवतिपुमाञ्जगतोऽस्य सौम्यरूपः । क्षितिरसमतिरम्यमात्मनोऽन्तः कथयति चारुतयैव शालपोतः ॥२५॥
यमनियमविधूतकल्मषाणा- मनुदिनमच्युतसक्तमानसानाम् । अपगतमदमानमत्सराणां व्रज भट दूरतरेण मानवानाम् ॥२६॥
हृदि यदि भगवाननादिरास्ते हरिरसिशंखगदाधरोऽव्ययात्मा । तदघमघविघातकर्तृभिन्नम् भवति कथं सति वान्धकारमर्के ॥२७॥
हरति परधनं निहन्ति जन्तून् वदति तथानिशनिष्ठुराणि यश्च । अशुभजनितदुर्मदस्य पुंसः कलुषमतेर्हृदि तस्य नास्त्यनन्तः ॥२८॥
न सहति परमं पदं विनिन्दां कलुषमतिः कुरुते सतामसाधुः । न यजति न ददाति यश्च सन्तं मनसि न तस्य जनार्दनोऽधमस्य ॥२९॥
परमसुहृदि बान्धवे कलत्रे सुततनयापितृमातृभृत्यवर्गे । शठमतिरुपयाति योऽर्थतृष्णां तमधमचेष्टमवेहि नास्य भक्तम् ॥३०॥
अशुभमतिरसत्प्रवृत्तिसक्तः सततमनार्यविशालसंगमत्तः । अनुदिनकृतपापबन्धयत्नः पुरुषपशुर्न हि वासुदेवभक्तः ॥३१॥
सकलमिदमहं च वासुदेवः परमपुमान्परमेश्वरः स एकः । इति मतिरमला भवत्यनन्ते हृदयगते व्रज तान्विहाय दूरात् ॥३२॥
कमलनयन वासुदेव विष्णो धरणिधराच्युत शंखचक्रपाणे । भव शरणमितीरयन्ति ये वै त्यज भट दूरतरेण तानपापान् ॥३३॥
वसति मनसि यस्य सोऽव्ययात्मा पुरुषवरस्य न तस्य दृष्टिपाते । तव गतिरथवा ममास्ति चक्र- प्रतिहतवीर्यवलस्य सोऽन्यलोक्यः ॥३४॥
कालिंग उवाच -
इति निजभटशासनाय देवो रवितनयः स किलाह धर्मराजः । मम कथितमिदं च तेन तुभ्यं कुरुवर सम्यगिदं मयापि चोक्तम् ॥३५॥
भीष्म उवाच -
नकुलैतन्ममाख्यातं पूर्वं तेन द्विजन्मना । कलिंगदेशादभ्येत्य प्रीयता सुमहात्मना ॥३६॥
मयाप्येतद्यथान्यायं सम्यग्वत्स तवोदितम् । यथा विष्णुमृते नान्यत्त्राणं संसारसागरे ॥३७॥
किंकरा दण्डपाशौ वा न यमो न च यातनाः । समर्थास्तस्य यस्यात्मा केशवालम्बनः सदा ॥३८॥
पराशर उवाच -
एतन्मुने तवाख्यातं गीतं वैवस्वतेन यत् । त्वत्प्रश्नानुगतं सम्यक्किमन्यच्छ्रोतुमिच्छसि ॥३९॥
॥इति विष्णुपुराणान्तर्गता यमगीता समाप्ता॥


॥अथ प्रारभ्यते नृसिंहपुराणान्तर्गता यमगीता॥
व्यास उवाच -
मृत्युश्च किंकराश्चैव विष्णुदूतैः प्रपीडिताः । स्वराज्ञस्तेऽनुनिर्वेशं गत्वा संचक्रुशुर्भृशम् ॥१॥
मृत्युकिंकराः ऊचुः - शृणु राजन्वचोऽस्माकं तवाग्रे यद्ब्रवीमहे । त्वदादेशाद्वयं गत्वा मृत्युं संस्थाप्य दूरतः ॥२॥
ब्राह्मणस्य समीपं च भृगोः पौत्रस्य सत्तमः । तं ध्यायमानं कमपि देवमेवाग्रमानसम् ॥३॥
गन्तुं न शक्तास्तत्पार्श्वं वयं सर्वे महामते । यावत्तावन्महाकायैः पुरुषैर्मुशलैर्हताः॥४॥
वयं निवृत्तास्तद्वीक्ष्य मृत्युस्तत्र गतः पुनः । अस्मान्निर्भर्त्स्य तत्रायं तैर्नरैर्मुशलैर्हतः॥५॥
एवमत्र तमानेतुं ब्राह्मणं तपसि स्थितम् । अशक्ता वयमेवात्र मृत्युना सह वै प्रभो॥६॥
तद्ब्रवीमि महाभाग यद्ब्रह्म ब्राह्मणस्य तु । देवं कं ध्यायते विप्रः के वा ते यैर्हता वयम्॥७॥
व्यास उवाच -
इत्युक्तः किंकरैः सर्वैर्मृत्युना च महामते । ध्यात्वा क्षणं महाबुद्धिः प्राह वैवस्वतो यमः॥८॥
यम उवाच -
शृण्वन्तु किंकराः सर्वे मृत्युश्चान्ये च मे वचः । सत्यमेतत्प्रवक्ष्यामि ज्ञानं यद्योगमार्गतः॥९॥
भृगोः पौत्रो महाभागो मार्कण्डेयो महामतिः । स ज्ञात्वाद्यात्मनः कालं गतो मृत्युजिगीषया ॥१०॥
भृगुणोक्तेन मार्गेण स तेपे परमं तपः । हरिमाराध्य मेधावी जपन्वै द्वादशाक्षरम् ॥११॥
एकाग्रेणैव मनसा ध्यायते हृदि केशवम् । सततं योगयुक्तस्तु स मुनिस्तत्र किंकराः ॥१२॥
हरिध्यानमहादक्षा बलं तस्य महामुनेः । नान्यद्वै प्राप्तकालस्य बलं पश्यामि किंकराः ॥१३॥
हृदिस्थे पुण्डरीकाक्षे सततं भक्तवत्सले । पश्यन्तं विष्णुभूतं नु को हि स्यात्केशवाश्रयम् ॥१४॥
तेऽपि वै पुरुषा विष्णोर्यैर्यूयं ताडिता भृशम् । अत ऊर्ध्वं न गन्तव्यं यत्र वै वैष्णवाः स्थिताः ॥१५॥
न चित्रं ताडनं तत्र अहं मन्ये महात्मभिः । भवतां जीवनं चित्रं यक्षैर्दत्तं कृपालुभिः ॥१६॥
नारायणपरं विप्रं कस्तं वीक्षितुमुत्सहेत् । युष्माभिश्च महापापैर्मार्कण्डेयं हरिप्रियम् । समानेतुं कृतो यत्नः समीचीनं न तत्कृतम् ॥१७॥
नरसिंहं महादेवं ये नराः पर्युपासते । तेषां पार्श्वं न गन्तव्यं युष्माभिर्मम शासनात् ॥१८॥
व्यास उवाच -
स एवं किंकरानुक्त्वा मृत्युं च पुरतः स्थितम् । यमो निरीक्ष्य च जनं नरकस्थं प्रपीडितम् ॥१९॥
कृपया परया युक्तो विष्णुभक्त्या विशेषतः । जनस्यानुग्रहार्थाय तेनोक्ता चागिरः शृणु ॥२०॥
नरके पच्यमानस्य यमेन परिभाषितम् । किं त्वया नार्चितो देवः केशवः क्लेशनाशनः ॥२१॥
उदकेनाप्यलाभे तु द्रव्याणां पूजितः प्रभुः । यो ददाति स्वकं लोकं स त्वया किं न पूजितः ॥२२॥
नरसिंहो हृषीकेशः पुण्डरीकनिभेक्षणः । स्मरणान्मुक्तिदो नॄणां स त्वया किं न पूजितः ॥२३॥
इत्युक्त्वा नारकान्सर्वान्पुनराह स किंकरान् । वैवस्वतो यमः साक्षाद्विष्णुभक्तिसमन्वितः ॥२४॥
नारदाय स विश्वात्मा प्राहैवं विष्णुरव्ययः । अन्येभ्यो वैष्णवेभ्यश्च सिद्धेभ्यः सततं श्रुतम् ॥२५॥
तद्वः प्रीत्या प्रवक्ष्यामि हरिवाक्यमनुत्तमम् । शिक्षार्थं किंकराः सर्वे शृणुत प्रणता हरेः ॥२६॥
हे कृष्ण कृष्ण कृष्णेति यो मां स्मरति नित्यशः । जलं भित्त्वा यथा पद्मं नरकादुद्धराम्यहम् ॥२७॥
पुण्डरीकाक्ष देवेश नरसिंह त्रिविक्रम । त्वामहं शरणं प्राप्त इति यस्तं समुद्धर ॥२८॥
त्वां प्रपन्नोऽस्मि शरणं देवदेव जनार्दन । इति यः शरणं प्राप्तस्तं क्लेशादुद्धराम्यहम् ॥२९॥
व्यास उवाच -
इत्युदीरितमाकर्ण्य हरिवाक्यं यमेन च । नारकाः कृष्ण कृष्णेति नारसिंहेति चुक्रुशुः ॥३०॥
यथा यथा हरेर्नाम कीर्तयन्त्यत्र नारकाः । तथा तथा हरेर्भक्तिमुद्वहन्तोऽब्रुवन्निदम् ॥३१॥
नारका ऊचुः -
नमो भगवते तस्मै केशवाय महात्मने । यन्नामकीर्तनात्सद्यो नरकाग्निः प्रशाम्यति ॥३२॥
भक्तप्रियाय देवाय रक्षाय हरये नमः । लोकनाथाय शान्ताय यज्ञेशायादिमूर्तये ॥३३॥
अनन्तायाप्रमेयाय नरसिंहाय ते नमः । नारायणाय गुरवे शंखचक्रगदाभृते ॥३४॥
वेदप्रियाय महते विक्रमाय नमो नमः । वाराहायाप्रतर्क्याय वेदांगाय महीभृते ॥३५॥
नमो द्युतिमते नित्यं ब्राह्मणाय नमो नमः । वामनाय बहुज्ञाय वेदवेदांगधारिणे ॥३६॥
बलिबन्धनदत्ताय वेदपालाय ते नमः । विष्णवे सुरनाथाय व्यापिने परमात्मने ॥३७॥
चतुर्भुजाय शुद्धाय शुद्धद्रव्याय ते नमः । जामदग्न्याय रामाय दुष्टक्षत्रान्तकारिणे ॥३८॥
रामाय रावणान्ताय नमस्तुभ्यं महात्मने । अस्मानुद्धर गोविन्द पूतिगन्धान्नमोऽस्तु ते ॥३९॥
इति नृसिंहपुराणे यमगीताध्यायः॥॥इति यमगीता समाप्ता॥

॥अथ प्रारभ्यते अग्निपुराणान्तर्गता यमगीता॥
अग्निरुवाच -
यमगीतां प्रवक्ष्यामि उक्ता या नाचिकेतसे । पठतां शृण्वतां भुक्त्यै मुक्त्यै मोक्षार्थिनं सताम् ॥१॥
यम उवाच -
आसनं शयनं यानपरिधानगृहादिकम् । वांछन्त्यहोऽतिमोहेन सुस्थिरं स्वयमस्थिरः ॥२॥
भोगेषु शक्तिः सततं तथैवात्मावलोकनम् । श्रेयः परं मनुष्याणां कपिलोद्गीतमेव हि ॥३॥
सर्वत्र समदर्शित्वं निर्ममत्वमसंगता । श्रेयः परं मनुष्याणां गीतं पंचशिखेन हि॥४॥
आगर्भजन्मबाल्यादिवयोऽवस्थादिवेदनम् । श्रेयः परं मनुष्याणां गंगाविष्णुप्रगीतकम्॥५॥
आध्यात्मिकादिदुःखानामाद्यन्तादिप्रतिक्रिया । श्रेयः परं मनुष्याणां जनकोद्गीतमेव च॥६॥
अभिन्नयोर्भेदकरः प्रत्ययो यः परात्मनः । तच्छान्तिपरमं श्रेयो ब्रह्मोद्गीतमुदाहृतम्॥७॥
कर्तवयमिति यत्कर्म ऋग्यजुःसामसञ्ज्ञितम् । कुरुते श्रेयसे संगान् जैगीषव्येण गीयते॥८॥
हानिः सर्वविधित्सानामात्मनः सुखहैतुकी । श्रेयः परं मनुष्याणां देवलोद्गीतमीरितम्॥९॥
कामत्यागात्तु विज्ञानं सुखं ब्रह्मपरं पदम् । कामिनां न हि विज्ञानं सनकोद्गीतमेव तत् ॥१०॥
प्रवृत्तं च निवृत्तं च कार्यं कर्मपरोऽब्रवीत् । श्रेयसा श्रेय एतद्धि नैष्कर्म्य ब्रह्म तद्दहरिः ॥११॥
पुमांश्चाधिगतज्ञानो भेदं नाप्नोति सत्तमः । ब्रह्मणा विष्णुसञ्ज्ञेन परमेणाव्ययेन च ॥१२॥
ज्ञानं विज्ञानमास्तिक्यं सौभाग्यं रूपमुत्तमम् । तपसा लक्ष्यते सर्वं मनसा यद्यदिच्छति ॥१३॥
नास्ति विष्णुसमं ध्येयं तपो नानशनात्परम् । नास्त्यारोग्यसमं धन्यं नास्ति गंगासमा सरित् ॥१४॥
न सोऽस्ति बान्धवः कश्चिद्विष्णुं मुक्त्वा जगद्गुरुम् । अधश्चोर्ध्वं हरिश्चाग्रे देहेन्द्रियमनोमुखे ॥१५॥
इत्येव संस्मरन्प्राणान्यस्त्यजेत्स हरिर्भवेत् । यत्तद्ब्रह्म यतः सर्वं यत्सर्वं तस्य संस्थितम् ॥१६॥
अग्राह्यकमनिर्देश्यं सुप्रतीकं च यत्परम् । परापरस्वरूपेण विष्णुः सर्वहृदि स्थितः ॥१७॥
यज्ञेशं यज्ञपुरुषं केचिदिच्छन्ति तत्परम् । केचिद्विष्णुं हरं केचित्केचिद्ब्रह्माणमीश्वरम् ॥१८॥
इन्द्रादिनामभिः केचित्सूर्यं सोमं च कालकम् । ब्रह्मादिस्तम्बपर्यन्तं जगद्विष्णुं वदन्ति च ॥१९॥
स विष्णुः परमं ब्रह्म यतो नावर्तते पुनः । सुवर्णादिमहादानपुण्यतीर्थावगाहनैः ॥२०॥
ध्यानैर्व्रतैः पूजया च धर्मश्रुत्या तदाप्नुयात् । आत्मानं रथिनं विद्धि शरीरं रथमेव च ॥२१॥
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च । इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ॥२२॥
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः । यस्त्वविज्ञानवान्भवत्ययुक्येन मनसा सदा ॥२३॥
न तत्पदमवाप्नोति संसारं चाधिगच्छति । यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा ॥२४॥
स तत्पदमवाप्नोति यस्माद्भूयो न जायते । विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ॥२५॥
सोऽध्वानं परमाप्नोति तद्विष्णोः परमं पदम् । इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ॥२६॥
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः । महतः परमव्यक्तमव्यक्तात्पुरुषः परः ॥२७॥
पुरुषान्न परं किंचित् सा काष्ठा सा परा गतिः । एषु सर्वेषु भूतेषु गूढात्मा न प्रकाशते ॥२८॥
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः । यच्छेद्वाङ्मनसी प्राज्ञः तद्यच्छेज्ज्ञानमात्मनि ॥२९॥
ज्ञानमात्मनि महति नियच्छेच्छान्त आत्मनि । ज्ञात्वा ब्रह्मात्मनोर्योगं यमाद्यैर्ब्रह्म सद्भवेत् ॥३०॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ । यमाश्च नियमाः पंचं शौचं संतोषसत्तमः ॥३१॥
स्वाध्यायेश्वरपूजा च आसनं पद्मकादिकम् । प्राणायामो वायुजयः प्रत्याहारः स्वनिग्रहः ॥३२॥
शुभे ह्येकत्र विषये चेतसो यत्प्रधारणम् । निश्चलत्वात्तु धीमद्भिर्धारणा द्विज कथ्यते ॥३३॥
पौनः पुन्येन तत्रैव विषयेष्वेव धारणा । ध्यानं स्मृतं समाधिस्तु अहम्ब्रह्मात्मसंस्थितिः ॥३४॥
घटध्वंसाद्यथाकाशमभिन्नं नभसा भवेत् । मुक्तो जीवो ब्रह्मणैवं सद्ब्रह्म ब्रह्म वै भवेत् ॥३५॥
आत्मानं मन्यते ब्रह्म जीवो ज्ञानेन नान्यथा । जीवो ह्यज्ञानतत्कार्यमुक्तः स्यादजरामरः ॥३६॥
अग्निरुवाच - वसिष्ठ यमगीतोक्ता पठतां भुक्तिमुक्तिदा । आत्यन्तिको लयः प्रोक्तो वेदान्तब्रह्मधीमयः ॥७३॥

॥इति अग्निपुराणान्तर्गता यमगीता समाप्ता॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:51:18.2570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कर्मर

  • न. एक प्रकारचें शस्त्र . ' काय देह घालूं करवती कर्मरी । टाकूं या भीतरी अग्नीमाजीं । ' - तुगा १११८ . कर्वतीं कर्मरीं देहासी दंडण । ' - तुगा २४९४ . 
RANDOM WORD

Did you know?

सूतक कोणाचे नसते?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.