TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|गीता|
वसिष्ठ गीता

वसिष्ठ गीता

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


वसिष्ठ गीता
निर्वाण प्रकरण
उत्तरार्ध सर्गः ३९
॥अथ वसिष्ठ गीता ॥
श्रीवसिष्ठ उवाच ।
सञ्जाताकृत्रिमक्षीणसंसृतिप्रत्ययः पुमान् । सङ्कल्पो न सङ्कल्पं वेत्ति तेनासदेव सः ॥१॥
श्वासान्म्लानिरिवादर्शे कुतोऽप्यहमिति स्थिता । विदि साऽकारणं दृष्टा नश्यन्त्याशु न लभ्यते ॥२॥
यस्य क्षीणावरणता शान्तसर्वेहतोदिता । परमामृतपूर्णात्मा सत्तयैव स राजते ॥३॥
सर्वसन्देहदुर्ध्वान्तमिहिकामातरिश्वना । भाति भास्वद्धिया देशस्तेन पूर्णेन्दुनेव खम् ॥४॥
विसंसृतिर्विसन्देहो लब्धज्योतिर्निरावृतिः । शरदाकाशविशदो ज्ञेयो विज्ञायते बुधः ॥५॥
निःसङ्कल्पो निराधारः शान्तः स्पर्शात्पवित्रताम् । अन्तःशीतल आधत्ते ब्रह्मलोकादिवानिलः ॥६॥
असद्रूपोपलम्भानामियं वस्तुस्वभावता । यत्स्वर्गवेदनं स्वप्नवन्ध्यापुत्रोपलम्भवत् ॥७॥
अविद्यमानमेवेदं जगद्यदनुभूयते । असद्रूपोपलम्भस्य सैषा वस्तुस्वभावता ॥८॥
असत्येष्वेव संसारेष्वास्तामर्थः कुतो भवेत् । सर्गापवर्गयोः शब्दावेव वन्ध्यासुतोपमौ ॥९॥
जगद्ब्रह्मतया सत्यमनिर्मितमभावितम् । अनिष्ठितं चान्यथा तु नाहं नावगतं च तत् ॥१०॥
आत्मस्वभावविश्रान्तेरियं वस्तुस्वभावता । यदहन्तादिसर्गादिदुःखाद्यनुपलम्भता ॥११॥
क्षणाद्योजनलक्षान्तं प्राप्ते देशान्तरे चितः । चेतनेऽयस्य तद्रूपं मार्गमध्ये निरञ्जनम् ॥१२॥
अस्पन्दवातसदृशं खकोशाभासचिन्मयम् । अचेत्यं शान्तमुदितं लताविकसनोपमम् ॥१३॥
सर्वस्य जन्तुजातस्य तत्स्वभावं विदुर्बुधाः । सर्गोपलम्भो गलति तत्रस्थस्य विवेकिनः ॥१४॥
सुषुप्ते स्वप्नधीर्नास्ति स्वप्ने नास्ति सुषुप्तधीः । सर्गनिर्वाणयोर्भ्रान्ती सुषुप्तस्वप्नयोरिव ॥१५॥
भ्रान्तिवस्तुस्वभावोऽसौ न स्वप्नो न सुषुप्तता । न सर्गो न च निर्वाणं सत्यं शान्तमशेषतः ॥१६॥
भ्रान्तिस्त्वसन्मात्रमयी प्रेक्षिता चेन्न लभ्यते । शुक्तिरूप्यमिवासत्यं किल संप्राप्यते कथम् ॥१७॥
यन्न लब्धं च तन्नास्ति तेन भ्रान्तेरसंभवः । स्वभावादुपलम्भोऽन्यो नास्ति कस्य न कस्यचित् ॥१८॥
स्वभाव एव सर्वस्मै स्वदते किल सर्वदा । अनानैव हि नानेव किं वादैः संविभाव्यताम् ॥१९॥
अस्वभावे महद्दुःखं स्वभावे केवलं शमः । इति बुद्ध्या विचार्यान्तर्यदिष्टं तद्विधीयताम् ॥२०॥
सूक्ष्मे बीजेऽस्त्यगः स्थूलो दृष्टमित्युपपद्यते । शिवे मूर्ते जगन्मूर्तमस्तीत्युत्तमसंकथा ॥२१॥
रूपालोकमनस्कारबुद्ध्यहन्तादयः परे । स्वरूपभूताः सलिले द्रवत्वमिव खात्मकाः ॥२२॥
मूर्तो यथा स्वसदृशैः करोत्यवयवैः क्रियाः । आत्मभूतैस्तथा भूतैश्चिदाकाशमकर्तृ सत् ॥२३॥
आत्मस्थादहमित्यादिरस्मदादेरसंसृतेः । शब्दोऽर्थभावमुक्तो यः पटहादिषु जायते ॥२४॥
यद्भातं प्रेक्षया नास्ति तन्नास्त्येव निरन्तरम् । जगद्रूपमरूपात्म ब्रह्म ब्रह्मणि संस्थितम् ॥२५॥
येषामस्ति जगत्स्वप्नस्ते स्वप्नपुरुषा मिथः । न सन्ति ह्यात्मनि मिथो नास्मास्वम्बरपुष्पवत् ॥२६॥
मयि ब्रह्मैकरूपं ते शान्तमाकाशकोशवत् । वायोः स्पन्दैरिवाभिन्नैर्व्यवहारैश्च तन्मयि ॥२७॥
अहं तु सन्मयस्तेषां स्वप्नः स्वप्नवतामिव । ते तु नूनमसन्तो मे सुषुप्तस्वप्नका इव ॥२८॥
तैस्तु यो व्यवहारो मे तद्ब्रह्म ब्रह्मणि स्थितम् । ते यत्पश्यन्ति पश्यन्तु तत्तैरलमलं मम ॥२९॥
अहमात्मनि नैवास्मि ब्रह्मसत्तेयमातता । त्वदर्थं समुदेतीव तथारूपैव वागियम् ॥३०॥
अविरुद्धविरुद्धस्य शुद्धसंविन्मयात्मनः । न भोगेच्छा न मोक्षेच्छा हृदि स्फुरति तद्विदः ॥३१॥
स्वभावमात्रायत्तेऽस्मिन्बन्धमोक्षक्रमे नृणाम् । कदर्थनेत्यहो मोहाद्गोष्पदेऽप्युदधिभ्रमः ॥३२॥
स्वभावसाधने मोक्षेऽभावोपशमरूपिणि । न धनान्युपकुर्वन्ति न मित्राणि न च क्रियाः ॥३३॥
तैलबिन्दुर्भवत्युच्चैश्चक्रमप्पतितो यथा । तथाशु चेत्यसंकल्पे स्थिता भवति चिज्जगत् ॥३४॥
जाग्रति स्वप्नवृत्तान्तस्थितिर्यादृग्रसा स्मृतौ । तादृग्रसाहंत्वजगज्जालसंस्था विवेकिनः ॥३५॥
तेनैवाभ्यासयोगेन याति तत्तनुतां तथा । यथा नाहं न संसारः शान्तमेवावशिष्यते ॥३६॥
यदा यदा स्वभावार्कः स्थितिमेति तदा तदा । भोगान्धकारो गलति न सन्नप्यनुभूयते ॥३७॥
मोहमहत्तारहितः स्फुरति मृतौ भवति भासते च तथा । बुद्ध्यादिकरणनिकरो यस्माद्दीपादिवालोकः ॥३८॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये देवदूतोक्ते मोक्षोपाये निर्वाणप्रकरणे उत्तरार्धे वसिष्ठगीतासु स्वभावविश्रान्तियोगोपदेशो नामैकोनचत्वारिंशः सर्गः ॥३९॥

॥सर्गः ४० ॥
श्रीवसिष्ठ उवाच -
रूपालोकमनस्कारबुद्ध्यादीन्द्रियवेदनम् । स्वरूपं विदुरम्लानमस्वभावस्य वस्तुनः ॥१॥
अस्वभावतनुत्वेन स्वभावस्थितिरातता । यदोदेति तदा सर्गो भ्रमाभः प्रतिभासते ॥२॥
यदा स्वभावविश्रान्तिः स्थितिमेति शमात्मिका । जगद्दृश्यं तदा स्वप्नः सुषुप्त इव शाम्यति ॥३॥
भोगा भवमहारोगा बन्धवो दृढबन्धनम् । अनर्थायार्थसंपत्तिरात्मनात्मनि शाम्यताम् ॥४॥
अस्वभावात्मता सर्गः स्वभावैकात्मता शिवः । भूयतां परमव्योम्ना शाम्यतां मेह ताम्यताम् ॥५॥
नात्मानमवगच्छामि न दृश्यं च जगद्भ्रमम् । ब्रह्म शान्तं प्रविष्टोऽस्मि ब्रह्मैवास्मि निरामयः ॥६॥
त्वमेव पश्यसि त्वन्त्वं सत्त्वं शब्दार्थजृम्भितम् । पश्यामि शान्तमेवाहं केवलं परमं नभः ॥७॥
ब्रह्मण्येव पराकाशे रूपालोकमनोमयाः । विभ्रमास्तव संजातकल्पाः स्पन्दा इवानिले ॥८॥
ब्रह्मात्मा वेत्ति नो सर्गं सर्गात्मा ब्रह्म वेत्ति नो । सुषुप्तो वेत्ति नो स्वप्नं स्वप्नस्थो न सुषुप्तकम् ॥९॥
प्रबुद्धो ब्रह्मजगतोर्जाग्रत्स्वप्नदृशोरिव । रूपं जानाति भारूपं जीवन्मुक्तः प्रशान्तधीः ॥१०॥
यथाभूतमिदं सर्वं परिजानाति बोधवान् । संशाम्यति च शुद्धात्मा शरदीव पयोधरः ॥११॥
स्मृतिस्थः कल्पनस्थो वा यथाख्यातश्च संगरः । सदसद्भ्रान्ततामात्रस्तथाहंत्वजगद्भ्रमः ॥१२॥
आत्मन्यपि नास्ति हि या द्रष्टा यस्या न विद्यते कश्चित् । न च शून्यं नाशून्यं भ्रान्तिरियं भासते सेति ॥१३॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये देवदूतोक्ते मोक्षोपाये निर्वाणप्रकरणे उत्तरार्धे वसिष्ठगीतासु आत्मविश्रान्तिकथनं नाम चत्वारिंशः सर्गः ॥४०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:51:18.1470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अटवी

  • f  A forest. A wilderness. 
  • स्त्री. जंगल ; अरण्य ; वन . अटवियेमाजीं जैसा । वन्हि रिघतां सहसा ॥ - ज्ञा १८ . १५२१ . [ सं . तुल० का . अट = गति ; ते . अडवी ; अड हा द्राविडी धातु व वी हा प्रत्यय ] 
RANDOM WORD

Did you know?

’ एकोद्दिष्ट श्राद्ध ’ बद्दल माहिती द्यावी.
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site