संस्कृत सूची|संस्कृत साहित्य|गीता|
काश्यपगीता

काश्यपगीता

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् | गीताः क्षमावतां कृष्णे काश्यपेन महात्मना ॥१॥
क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् | य एतदेव जानाति स सर्व क्षन्तुमर्हति ॥२॥
क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च | क्षमा तपः क्षमा शौचं क्षमयेदं धृतं जगत् ॥३॥
अतियज्ञविदांलोकान्क्षमिणः प्राप्नुवन्ति च | अतिब्रह्मविदांलोकानतिचापि तपस्विनाम् ॥४॥
अन्येवै यजुषां लोकाः कर्मिणामपरे तथा | क्षमावतां ब्रह्मलोके लोकाः परमपूजिताः ॥५॥
क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् | क्षमा सत्यं सत्यवतां क्षमा यज्ञः क्षमा शमः ॥६॥
तां क्षमां तादृशीं कृष्णे कथमस्मद्विधस्त्यजेत् | यस्यां ब्रह्म च सत्यं च यज्ञालोकाश्चधिष्ठिताः ॥७॥
क्षन्तव्यमेव सततं पुरुषेण विजानता | यदा हि क्षमते सर्वं ब्रह्म सम्पद्यते तदा ॥८॥
क्षमावतामयं लोकः परश्चैव क्षमावताम् | इह सन्मानमृच्छति परत्र च शुभां गतिम् ॥९॥
येषां मन्युर्मनुष्याणां क्षमयाऽभिहतः सदा | तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता ॥१०॥
इति गीताः काश्यपेन गाथा नित्यं क्षमावताम् | श्रुत्वा गाथाः क्षमायास्त्वं तुष्य द्रौपदि माक्रुधः ॥११॥
पितामहः शान्तनवः क्षमां संपूजयिष्यति | कृष्णश्च देवकीपुत्रः क्षमां संपूजयिष्यति ॥१२॥
आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः | कृपश्च संजयश्चैव शममेव वदिष्यतः ॥१३॥
सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च | पितामहश्च नो व्यासः शमं वदति नित्यशः ॥१४॥
सुयोधनो नार्हतीति क्षमामेवं न विन्दति | अर्हस्तत्राहमित्येवं तस्मान्मां विन्दते क्षमा ॥१५॥
एतदात्मवतां वृत्तमेष धर्मः सनातनः | क्षमाचैवानृशंस्यं च तत्कर्तास्म्यहमंजसा ॥१६॥
परैस्ताडितस्यापितत्ताडनसमर्थस्य चिते क्षोभानुत्पत्तिः क्षमा ॥१७॥
॥इति काश्यपगीता समाप्ता ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP