TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|गीता|
बकगीता

बकगीता

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


बकगीता
॥ अथ बकगीता ॥
वैशम्पायन उवाच -
मार्कण्डेयमृषयो ब्राह्मणा युधिष्ठिरश्च पर्यपृच्छन्नृषिः । केन दीर्घायुरासीद्बको मार्कण्डेयस्तु तान्सर्वानुवाच ॥१॥
महातपा दीर्घायुश्च बको राजर्षिर्नात्रकार्या विचारणा ॥२॥
एतच्छृत्वा तु कौन्तेयो भ्रातृभिः सह भारत । मार्कण्डेयं पर्यपृच्छद्धर्मराजो युधिष्ठिरः ॥३॥
बकदाल्भ्यौ महात्मानौ श्रूयेते चिरजीविनौ । सखायौ देवराजस्य तावृषी लोकसंमितौ ॥४॥
एतदिच्छामि भगवन् बकशक्रसमागमम् । सुखदुःखसमायुक्तं तत्त्वेन कथयस्व मे ॥५॥
मार्कण्डेय उवाच -
वृत्ते देवासुरे राजन्संग्रामे लोमहर्षणे । त्रयाणामपि लोकानामिन्द्रो लोकाधिपो भवत् ॥६॥
सम्यग्वर्षति पर्जन्ये सुखसम्पद उत्तमाः । निरामयास्तु धर्मिष्ठाः प्रजा धर्मपरायणाः ॥७॥
मुदितश्च जनः सर्वः स्वधर्मे सुव्यवस्थितः । ताः प्रजा मुदिताः सर्वा दृष्टाबलनिषूदनः ॥८॥
ततस्तु मुदितो राजन् देवराजः शतक्रतुः । ऐरावतं समास्थाय ताः पश्यन्मुदिताः प्रजाः ॥९॥
आश्रमांश्च विचित्रांश्च नदीश्च विविधाः शुभाः । नगराणि समृद्धानि खेटाञ्जनपदांस्तथा ॥१०॥
प्रजापालनदक्षांश्च नरेन्द्रान्धर्मचारिणः । उदपानप्रपावापीतडागानिसरांसिच ॥११॥
नानाब्रह्मसमाचारैः सेवितानि द्विजोत्तमैः । ततोवतीर्य रम्यायां पृथ्व्यां राजञ्छतक्रतुः ॥१२॥
तत्र रम्ये शिवे देशे बहुवृक्षसमाकुले । पूर्वस्यां दिशि रम्यायां समुद्राभ्याशतो नृप ॥१३॥
तत्राश्रमपदं रम्यं मृगद्विजनिषेवितम् । तत्राश्रमपदे रम्ये बकं पश्यति देवराट् ॥१४॥
बकस्तु दृष्ट्वा देवेन्द्रं दृढं प्रीतमनाभवत् । पाद्यासनार्घदानेन फलमूलैरथार्चयत् ॥१५॥
सुखोपविष्टो वरदस्ततस्तु बलसूदनः । ततः प्रश्नं बकं देव उवाच-त्रिदशेश्वरः॥१६॥
शतं वर्षसहस्राणि मुने जातस्य तेनघ । समाख्याहि मम ब्रह्मन् किं दुःखं चिरजीविनाम् ॥१७॥
बक उवाच -
अप्रियैः सह संवासः प्रियैश्चापि विनाभवः । असद्भिः संप्रयोगश्च तद्दुःखं चिर्जीविनाम् ॥१८॥
पुत्रदारविनाशोत्र ज्ञातीनां सुहृदामपि । परेष्वापतते कृछ्रं किंनु दुःखतरं ततः ॥१९॥
नान्यद्दुःखतरं किंचिल्लोकेषु प्रतिभाति मे । अर्थैर्विहीनः पुरुषः परैः संपरिभूयते ॥२०॥
अकुलानां कुले भावं कुलीनानां कुलक्षयम् । संयोगं विप्रयोगं च पश्यन्ति चिरजीविनः ॥२१॥
अपि प्रत्यक्षमेवैतद्देवदेव शतक्रतो । अकुलानां समृद्धानां कथं कुलविपर्ययः ॥२२॥
देवदानवगन्धर्वमनुष्योरगराक्षसाः । प्राप्नुवन्ति विपर्यासं किंनु दुःखतरं ततः ॥२३॥
कुले जाताश्च क्लिश्यन्ते दौष्कुले यवशानुगाः । आढ्यैर्दरिद्रावमताः किंनु दुःखतरं ततः ॥२४॥
लोके वैधर्म्यमेतत्तु दृश्यते बहुविस्तरम् । हीनज्ञानाश्च दृश्यन्ते क्लिश्यन्ते प्राज्ञकोविदाः ॥२५॥
बहुदुःखपरिक्लेशं मानुष्यमिह दृश्यते । इन्द्र उवाच - पुनरेव महाभाग देवर्षिगणसेवित ॥२६॥
समाख्याहि मम ब्रह्मन् किं सुखं चिरजीविनाम् । बक उवाच - अष्टमे द्वादशे वापि शाकं यः पचते गृहे ॥२७॥
कुमित्राण्यनपाश्रित्य किं वै सुखतरं ततः । यत्राहानि न गण्यन्ते नैनमाहुर्महाशनम् ॥२८॥
अपि शाकंपचानस्य सुखं वै मघवन् गृहे । अर्जितं स्वेन वीर्येण नाप्यपाश्रित्य कञ्चन ॥२९॥
फलशाकमपि श्रेयो भोक्तुं ह्यकृपणे गृहे । परस्य तु गृहे भोक्तुः परिभूतस्य नित्यशः ॥३०॥
सुमृष्टमपि ने श्रेयो विकल्पोयमतः सताम् । श्ववत्कीलालपो यस्तु परान्नं भोक्तुमिच्छति ॥३१॥
धिगस्तु तस्यतद्भुक्तं कृपणस्य दुरात्मनः । यो दत्त्वातिथिभूतेभ्यः पितृभ्यश्च द्विजोत्तमः ॥३२॥
शिष्टान्यनानि यो भुङ्क्ते किंवै सुखतरं ततः । अतो मृष्टतरं नान्यत्पूतं किन्चिच्छ्तक्रतो ॥३३॥
दत्वा यस्त्वतिथिभ्यो वै भुङ्क्ते तेनैव नित्यशः । यावतोह्यंधसः पिण्डानश्नाति सततं द्विजः ॥३४॥
तावतां गोसहस्राणां फलं प्राप्नोति दायकः । यदेनो यौवनकृतं तत्सर्व नश्यते ध्रुवम् ॥३५॥
सदक्षिणस्य भुक्तस्य द्विजस्य तु करे गतम् । यद्वारि वारिणा सिंचेत्तद्ध्येनस्तरते क्षणात् ॥३६॥
एतश्चान्याश्चवै बह्वीः कथयित्वा कथाः शुभाः । बकेन सह देवेन्द्र आपृच्छ्य त्रिदिवं गतः ॥३७॥
॥ इति बक शक्र संवाद एवं बकगीता समाप्ता ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:51:17.6130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

राह्याला सावलीः खायाला पायलीः

  • ( महानु.) राहाण्याचें घर चांगलें व खाण्यास भरपूर असलें म्हणजे मग कांहीं कमी नाहीं. 
RANDOM WORD

Did you know?

दत्तकपुत्र घेण्याविषयी कांही धर्मशास्त्रीय निर्णय आहेत काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.