TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अध्यायः ३
सूत उवाच
शृणु तेषां कथां दिव्यां सर्वपापप्रमोचनीम् ।
कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसंमताम् ॥१॥

य इमां धारयेन्नित्यं शृणुयाद्वाप्यभीक्ष्णशः ।
स्ववंशं धारणं कृत्वा स्वर्गलोके महीयते ॥२॥

विश्वतारा या च पञ्च यथावृत्तं यथाश्रुतम् ।
कीर्त्यमानं निबोधार्थं पूर्वेषां कीर्त्तिवर्द्धनम् ॥३॥

धन्यं यशस्यमायुष्यं स्वर्ग्यं शत्रुघ्नमेव च ।
कीर्त्तनं स्थिरकीर्तीनां सर्वेषां पुण्यकर्मणाम् ॥४॥

यस्मात्कल्पायते कल्पः समग्रं शुचये शुचिः ।
तस्मै हिरण्यगर्भाय पुरुषायेश्वराय च ॥५॥

अजाय प्रथमायैव वरिष्ठाय प्रजासृजे ।
ब्रह्मणे लोकतन्त्राय नमस्कृत्य स्वयंभुवे ॥६॥

महदाद्यं विशेषान्तं सवैरूप्यं सलक्षणम् ।
पञ्चप्रमाणं षद्श्रान्तः पुरुषाधिष्ठितं च यत् ॥७॥

आसंयमात्प्रवक्ष्यामि भूतसर्गमनुत्तमम् ।
अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् ॥८॥

प्रधानं प्रकृतिं चैव यमाहुस्तत्त्वचिन्तकाः ।
गन्धरूपरसैर्हीनं शब्दस्पर्शविवर्जितम् ॥९॥

जगद्योनिम्महाभूतं परं ब्रह्मसनातनम् ।
विग्रहं सर्वभूतानामव्यक्तमभवत्किल ॥१०॥

अनाद्यन्तमजं सूक्ष्मं त्रिगुणं प्रभवाप्ययम् ।
असांप्रतिकमज्ञेयं ब्रह्म यत्सदसत्परम् ॥११॥

तस्यात्मना सर्वमिदं व्याप्तमासीत्तमोमयम् ।
गुणसाम्ये तदा तस्मिन्नविभातं तमोमयम् ॥१२॥

सर्गकाले प्रधानस्य क्षत्रज्ञाधिष्ठितस्य वै ।
गुणभावाद्भासमाने महातत्त्व बभूव ह ॥१३॥

सूक्ष्मः स तु महानग्रे अव्यक्तेन समावृतः ।
सत्त्वोद्रेको महानग्रे सत्त्वमात्रप्रकाशकः ॥१४॥

सत्त्वान्महान्स विज्ञेय एकस्तत्कारणः समृतः ।
निङ्गमात्रं समुत्पन्नं क्षेत्रज्ञाधिष्टितं महत् ॥१५॥

संकल्पोऽध्यवसायश्च तस्य वृत्तिद्वयं स्मृतम् ।
महासृष्टिं च कुरुते वीतमानः सिसृक्षया ॥१६॥

धर्मादीनि च भूतानि लोकतत्त्वार्थहेतवः ।
मनो महात्मनि ब्रह्म दुर्बुद्धिख्यातिरीश्वरात् ॥१७॥

प्रज्ञासंधिश्च सर्वस्वं संख्यायतनरश्मिभिः ।
मनुते सर्वभूतानां तस्माच्चेष्टफलो विभुः ॥१८॥

भोक्ता त्राता विभक्तात्मा वर्त्तनं मन उच्यते ।
तत्त्वानां संग्रहे यस्मान्महांश्च परिमाणतः ॥१९॥

शेषेभ्यो गुणातत्त्वेभ्यो महानिव तनुः स्मृतः ।
विभक्तिमानं मनुते विभागं मन्यतेऽपि वा ॥२०॥

पुरुषो भोगसंबन्धात्तेन चासौ सति स्मृतः ।
बृहत्त्वाद्वृंहणत्वाच्च भावानामखिलाश्रयात् ॥२१॥

यस्माद्वृंहयत भावान् ब्रह्मा तेन निरुच्यते ।
आपूरयति यस्माच्च सर्वान् देहाननुग्रहैः ॥२२॥

बुध्यते पुरुषश्चात्र सर्वान् भावान्पृथक्पृथक् ।
तस्मिंस्तु कार्यकरणं संसिद्धं ब्रह्मणः पुरा ॥२३॥

प्राकृतं देवि वर्तं मां क्षेत्रज्ञो ब्रह्मसंमितः ।
स वै शरीरी प्रथमः पुरा पुरुष उच्यते ॥२४॥

आदिकर्त्ता स भूतानां ब्रह्माग्रे समवर्त्तिनाम् ॥२५॥

हिरण्यगभः सोऽण्डेऽस्मिन्प्रादुर्भूतश्चतुर्मुखः ।
सर्गे च प्रतिसर्गे च क्षेत्रज्ञो ब्रह्म संसितः ॥२६॥

करणैः सह पृच्छन्ते प्रत्याहारेस्त्यजन्ति च ।
भजन्ते च पुनर्देहांस्ते समाहारसंधिसु ॥२७॥

हिरण्मयस्तु यो मेरुस्तस्योद्धर्तुर्महात्मनः ।
गर्तोदकं सबुदास्तु हरेयुश्चापि पञ्चताः ॥२८॥

यस्मिन्नण्ड इमे लोकाः सप्त वै संप्रतिष्ठिताः ।
पृथिवी सप्तभिर्द्वीपैः समुद्रैः सह सप्तभिः ॥२९॥

पर्वतैः सुमहद्भिश्च नदीभिश्च सहस्रशः ।
अन्तःस्थस्य त्विमे लोका अन्तर्विश्वमिदं जगत् ॥३०॥

चन्द्रादित्यौ सनक्षतौ संग्रहः सह वायुना ।
लोकालोकं च यत्किञ्चिदण्डे तस्मिन्प्रतिष्टितम् ॥३१॥

आपो दशगुणे नैव तेजसा बाह्यतो वृताः ।
तेजो दशगुणेनैव बाह्यतो वायुना वृतम् ॥३२॥

वायुर्दशगुणेनैव बाह्यतो नभसा वृतः ।
आकाशमावृतं सर्वं बहिर्भूतादिना तथा ॥३३॥

भूतादिर्महता चैव प्रधानेनावृतो महान् ।
एभिरावरणैरण्डं सप्तभिः प्राकृतैर्वृतम् ॥३४॥

इच्छया वृत्य चान्योन्यमरणे प्रकृतयः स्थितः ।
प्रसर्गकाले स्थित्वा च ग्रसंतस्च परस्परम् ॥३५॥

एवं परस्परैश्चैव धारयन्ति परस्परम् ।
आधाराधेयभावेन विकारास्ते विकारिषु ॥३६॥

अव्यक्तं क्षेत्रमित्युक्तं ब्रह्म क्षेत्रज्ञमुच्यते ।
इत्येवं प्राकृतः सर्गः क्षेत्रज्ञाधिष्ठितस्तु सः ॥३७॥

अबुद्धिपूर्वः प्रथमः प्रादुर्भूतस्तडिद्यथा ।
एतद्धिरण्यगर्भस्य चन्म यो वेत्ति तत्त्वतः ।
आयुष्मान्कीर्तिमान्धन्यः प्रज्ञावांश्च न संशयः ॥३८॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे प्रथमे प्रक्रियापादे हिरण्यगर्भोत्पत्तिवर्णनं नाम तृतीयोऽध्याय

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:47.7570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

capillary pressure head

  • = capillary head 
RANDOM WORD

Did you know?

GAJA LAXMI VRAT MHANJE KAY AANI TE KASE KARAYACHE?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.