TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अध्यायः १
श्रीगणेशाय नमः
श्रीसरस्वत्यै नमः
श्रीरामचन्द्राय नमः
अथ ब्रह्माण्डमहापुराणं पूर्वभागप्रारम्भः ।
नमोनमः क्षये सृष्टौ स्थितौ सत्त्वमयाय वा ।
नमो रजस्तमःसत्त्वत्रिरूपाय स्वयंभुवे ॥१॥

जितं भगवता तेन हरिणा लोकधारिणा ।
अजेन विश्वरूपेण निर्गुणेन गुणात्मना ॥२॥

ब्रह्माणं लोककर्त्तारं सर्वज्ञमपराजितम् ।
प्रभुंभूतभविष्यस्य साम्प्रतस्य च सत्पतिम् ॥३॥

ज्ञानमब्रतिमं तस्य वैराग्यं च जगत्पतेः ।
ऐश्वर्य्यं चैव धर्मश्च सद्भिः सेव्यं चतुष्टयम् ॥४॥

इमान्नरस्य वै भावान्नित्यं सदसदात्मकान् ।
अविंशकः पुनस्तान्वै क्रियाभावार्थमीश्वरः ॥५॥

लोककृल्लोकतत्त्वज्ञो योगमास्थाय योगवित् ।
असृजत्सर्वभूतानि स्थावराणि चराणि च ॥६॥

तसहं विश्वकर्माणं सत्पतिं लोकसाक्षिणम् ।
पुराणाख्यानजिज्ञासुर्गच्छामि शरणं विभुम् ॥७॥

पुराणं लोकतत्त्वार्थमशिलं वेदसंमितम् ।
प्रशशंस स भगवान् वसिष्ठाय प्रजापतिः ॥८॥

तत्त्वज्ञानामृतं पुण्यं वसिष्ठो भगवानृषिः ।
पौत्रमध्यापयामास शक्तेः पुत्रं पराशरम् ॥९॥

पराशरश्च भगवान् जातूकर्ण्यमृषिं पुरा ।
तमध्यापितवान्दिव्यं पुराणं वेदसंमितम् ॥१०॥

अधिगम्य पुराणं तु जातूकर्ण्यो विशेषवित् ।
द्वैपायनाय प्रददौ परं ब्रह्म सनातनम् ॥११॥

द्वैपायनस्ततः प्रीतःशष्येभ्यःप्रददौवशी ।
लोकतत्त्वविधानार्थं पञ्चभ्यः परमाद्भुतम् ॥१२॥

विख्यापनार्थं लोकेषु बह्वर्थं श्रुतिसंमतम् ।
जैमिनिञ्च सुमन्तुं च वैशंपायनमेवच ॥१३॥

चतुर्थं पैलवं तेषां पञ्चमं लोमहर्षणम् ।
सूतमद्भुतवृत्तान्तं विनीतं धार्मिकं श्रुचिम् ॥१४॥

अधीत्य च पुराणं च विनीतो लोमहर्षणः ।
ऋषिणा च त्वया पृष्टः कृतप्रज्ञः सुधार्मिकः ॥१५॥

वसिष्ठश्चापि मुनिभिः प्रणाम्य शिरसा मुनीन् ।
भक्त्या परमया युक्तः कृत्वा चापि प्रदक्षिणम् ॥१६॥

अवाप्तविद्यः सर्तुष्टः कुरुक्षेत्रमुपागमत् ।
सत्रे सवितते यत्र यजमानानृषीञ्शुचीन् ॥१७॥

विनयेनोपसंगम्य सत्र्रिणो रोमहर्षणम् ।
विधानतो यथाशास्त्रं प्रज्ञयातिजगाम ह ॥१८॥

ऋषयश्चापि ते सर्वे तदानीं रोमहर्षणम् ।
दृष्ट्वा परमसंहृष्टाः प्रीताः सुमनसस्तथा ॥१९॥

सत्कारैरर्च्चयामासुरर्घ्यपाद्यादिभिस्ततः ।
अभिवाद्य मुनीन्सर्वान् राजाज्ञामभिगम्य च ॥२०॥

ऋषिभिस्तैरनुज्ञातः पृष्टः सर्वमनामयम् ।
अभिगम्य मुनीन्सर्वांस्तेजो ब्रह्म सनातनम् ।
सदस्यानुमते रम्ये स्वास्तीर्णे समुपाविशत् ॥२१॥

उपविष्टे तदा तस्मिन्मुनयः शंसितव्रताः ।
मुदान्विता यथान्यायं विनयस्थाः समाहिताः ॥२२॥

सर्वे ते ऋषयश्चैनं परिवार्य महाव्रतम् ।
परमप्रीतिसंयुक्ता इत्यूचुः सूतनन्दनम् ॥२३॥

स्वागतं ते महाभाग दिष्ट्या च त्वांनिरामयम् ।
पश्याम धीमन्नत्रस्थाः सुब्रतं मुनिसत्तमम् ॥२४॥

अशून्या मे रसाद्यैव भवतः पुण्यकर्मणः ।
भवांस्तस्य मुनेः सूत व्यासस्यापि महात्मनः ॥२५॥

अनुग्राह्यः सदा धीमात्र्शिष्यः शिष्यगुणान्वितः ।
कृतबुद्धिश्च ते तत्त्वमनुग्राह्यतया प्रभो ॥२६॥

अवाप्य विपुलं ज्ञानं सर्वतश्छिन्नसंशयः ।
पृच्चतां नः सदा प्राज्ञ सर्वमाख्यातुमर्हसि ॥२७॥

तदिच्छामः कथां दिव्यां पौराणीं श्रुतिसंमिताम् ।
श्रोतुं धर्मार्थयुक्तां तु एतव्द्यासाच्छ्रुतं त्वया ॥२८॥

एवसुक्तस्तदा सूतस्त्वृषिभिर्विनयान्वितः ।
उवाच परमाप्राक्ज्ञो विनीतोत्तर मुत्तमम् ॥२९॥

ऋषेः शुश्रूषणं यच्च तस्मात्प्रज्ञा च या मम ।
यस्माच्छुशूषणार्थं च तत्सत्यमिति निश्चयः ॥३०॥

एवं गतेर्ऽथे यच्छक्यं मया वक्तुं द्विजोत्तमाः ।
जिज्ञासा यत्र युष्माकं तदाज्ञातुमिहार्हथ ॥३१॥

एतच्छ्रुत्वा तु मुनयो मधुरं तस्य भाषितम् ।
प्रत्यूचुस्ते पुनः सूतं बाष्पपर्याकुलेक्षणम् ॥३२॥

भवान् विशेषकुशलो व्यासं साक्षात्तु दृष्टवान् ।
तस्मात्त्वं संभवं कृत्स्नं लोकस्येमं विदर्शय ॥३३॥

यस्य यस्यान्वये ये ये तांस्तानिच्छाम वेदितुम् ।
तेषां पूर्वविसृष्टिं च विचित्रां त्वं प्रजापतेः ।
सत्कृत्य परिपृष्टः स महात्मा रोमहर्षणः ॥३४॥

विस्तरेणानुपूर्व्या च कथयामास सत्तमः ।
सूत उवाच
यो मे द्वैपायनप्रीतः कथां वै द्विजसत्तमाः ॥३५॥

पुण्यामाख्यातवान्विप्रास्तां वै वक्ष्याम्यनुक्रमात् ।
पुराणं संप्रवक्ष्यामि यदुक्तं मातरिश्वना ॥३६॥

पृष्टेन मुनिभिः पूर्वं नैमिषीयैर्म हात्मभिः ।
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥३७॥

वंश्यानुचरितं चैव पुराणं पञ्चलक्षणम् ।
प्रक्रिया प्रथमः पादः कथायां स्यात्परिग्रहः ॥३८॥

अनुषङ्ग उत्पोद्धात उपसंहार एव च ।
एवं पादास्तु चत्वारः समासात्कींर्तिता मया ॥३९॥

वक्ष्यामि तान्पुरस्तात्तु विस्तरेण यथाक्रमम् ।
प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा श्रुतम् ॥४०॥

अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः ।
अङ्गानि धर्मशास्त्रं च व्रतानि नियमास्तथा ॥४१॥

अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् ।
महदादिविशेषान्तं सृजामीति विनिश्चयः ॥४२॥

अण्डं हिरण्मयं चैव ब्रह्मणःसूतिरुत्तमा ।
अडस्यावरणं वार्धिरपामपि च तेजसा ॥४३॥

वायुना तस्य वायोश्च खेन भूतादिना ततः ।
भूतादिर्महता चैव अव्यक्तेनावृतो महान् ॥४४॥

अन्तर्वर्ति च भूतानामण्डमेवोपवर्णितम् ।
नदीनां पर्वतानां च प्रादुर्भावोऽत्र पठ्यते ॥४५॥

मन्वन्तराणां सर्वेषां कल्पानां चैव वर्णनम् ।
कीर्त्तनं ब्रह्मवृक्षस्य ब्रह्मजन्म प्रकीर्त्यते ॥४६॥

अतः परं ब्रह्मणश्च प्रजासर्गोपवर्णनम् ।
अवस्थाश्चात्र कीर्त्यन्ते ब्रह्मणोऽव्यक्तजन्मनः ॥४७॥

कल्पानां संभवश्चेव जगतः स्थापनं तथा ।
शयनं च हरेरप्सु पृथिव्युद्धरणं तथा ॥४८॥

सविशेषः पुरादीनां वर्णाश्रमविभाजनम् ।
ऋक्षाणां ग्रहसंस्थानां सिद्धानां च निवेशनम् ॥४९॥

योजनानां यथा चव संचरो बहुविस्तरः ।
स्वर्गस्थानविभागश्च सर्त्यानां शुभचारिणाम् ॥५०॥

वृक्षाणामौषधीनां च वीरुधां च प्रकीर्त्तनम् ।
देवतानामृषीणां च द्वे सृती परिकीर्तिते ॥५१॥

आम्लादीनां तरूणां च सर्जनं व्यञ्जनं तथा ।
पशूनां पुरुषाणां च संभवः परिकीर्त्तितः ॥५२॥

तथा निर्वचनं प्रोक्तं कल्पस्य च परिग्रहः ।
नव सर्गाः पुनः प्रोक्ता ब्रह्मणो बुद्धिपूर्वकाः ॥५३॥

त्रयो ये बुद्धिपूर्वास्तु तथा यल्लोककल्पनम् ।
ब्रह्मणोऽवयवेभ्यश्च धर्मादीनां समुद्भवः ॥५४॥

ये द्वादश प्रसूयन्ते प्रजाकल्पे पुनः पुनः ।
कल्पयोरन्तरे प्रोक्तं प्रतिसंधिश्च यस्तयोः ॥५५॥

तमोमात्रा वृतत्वात्तु ब्रह्मणोऽधर्मसंभवः ।
सत्त्वोद्रिक्ताच्च देहाच्च पुरुषस्य च संभवः ॥५६॥

तथैव शतरूपायां तयोः पुत्रास्ततः परम् ।
प्रियव्रतोत्तानपादौ प्रसूत्याकृतयः शुभाः ॥५७॥

कीर्त्यन्ते धूतपाप्मानस्त्रैलोक्ये ये प्रतिष्ठिताः ।
रुचेः प्रजापतेश्चोर्द्धमाकूत्यां मिथुनोद्भवः ॥५८॥

प्रसूत्यमपि दक्षस्य कन्यानामुद्भवः शुभः ।
दाक्षायणीषु वाप्यूर्ध्वंशब्दाद्यासु महात्मनः ॥५९॥

धर्मस्य कीर्त्यते सर्गः सात्त्विकस्तु सुखोदयः ।
तथाधर्मस्य हिंसायां तमसोऽशुभलक्षणः ॥६०॥

भृग्वादीनामृषीणां च प्रजासर्गोपवर्णनम् ।
ब्रह्मर्षेश्च वसिष्ठस्य यत्र गोत्रानुकीर्त्तनम् ॥६१॥

अग्नेः प्रजायाः संभूतिः स्वाहायां यत्र कीर्त्यते ।
पितॄणां द्विप्रकाराणां स्वधायां तदनन्तरम् ॥६२॥

पितृवंशप्रसंगेन कीर्त्यते च महेश्वरात् ।
दक्षस्य शापः सत्याश्च भृग्वादीनां च धीमताम् ॥६३॥

प्रतिशापश्च दक्षस्य रुद्रादद्भुतकर्मणः ।
प्रतिषेधश्च वैरस्य कीर्त्यते दोषदर्शनात् ॥६४॥

मन्वन्तरप्रसंगेन कालाख्यानं च कीर्त्यते ।
प्रजापतेः कर्द्दमस्य कन्यायाः शुभलक्षणम् ॥६५॥

प्रियव्रतस्य पुत्राणां कीर्त्यते यत्र विस्तरः ।
तेषां नियोगो द्वीपेषु देशेषु च पृथक्पृथक् ॥६६॥

स्वायंभुवस्य सर्गस्य ततश्चाप्यनुकीर्त्तनम् ।
वर्षाणां च नदीनां च तद्भेदानां च सर्वशः ॥६७॥

द्वीपभेदसहस्राणा मन्तर्भावश्च सप्तसु ।
विस्तरान्मण्डलं चैव जंबूद्वीपसमुद्रयोः ॥६८॥

प्रमाणं योजनाग्रेण कीर्त्यन्ते पर्वतैः सह ।
हिमवान्हेमकूटश्च निषधो मेरुरेव च ।
नीलः श्वेतश्च शृङ्गी च कीर्त्यन्ते सप्त पर्वताः ॥६९॥

तेषामन्तरविष्कंभा उच्छ्रायायामविस्तराः ॥७०॥

कीर्त्यन्ते योजनाग्रेण ये च तत्र निवासिनः ।
भारतादीनि वर्षाणि नदीभिः पर्वतैस्तथा ॥७१॥

भूतैश्चोपनिविष्टानि गतिमद्भिर्धुवै स्तथा ।
जंबूद्वीपादयो द्वीपाः समुद्रैः सप्तभिर्वृताः ॥७२॥

ततः स्वर्णमयी भूमिर्लोकालोकश्च कीर्त्यते ।
सप्रमाणा इमे लोकाः सप्तद्वीपा च मेदिनी ॥७३॥

रूपादयः प्रकीर्त्यन्ते करणात्प्राकृतैः सह ।
सर्वं चैतत्प्रधानस्य परिणामैकदेशिकम् ॥७४॥

पर्यायपरिमाणं च संक्षेपेणात्र कीर्त्यते ।
सूर्याचन्द्रमसोश्चैव पृथिव्याश्चाप्यशेषतः ॥७५॥

प्रमाणं योजनाग्रेण सांप्रतैरभिमानिभिः ।
महेन्द्राद्याः शुभाः पुण्या मानसोत्तरमूर्धनि ॥७६॥

अत ऊर्ध्दगतिश्चोक्ता सूर्यस्यालातयक्रवत् ।
नागवीथ्यक्षवीथ्योश्च लक्षणं च प्रकीर्त्यते ॥७७॥

कोष्ठयोर्लेखयोश्चैव मण्डलानां च योजनैः ।
लोकालोकस्य सन्ध्याया अह्नो विषुवतस्तथा ॥७८॥

लोकपालाः स्थिताश्चोर्द्धं कीर्त्यन्ते ते चतुर्द्दिशम् ।
पितॄणां देवतानां च पन्थानौ दक्षिणोत्तरौ ॥७९॥

गृहिणां न्यासिनां चोक्तो रजःसत्त्वसमाश्रयः ।
कीर्त्यते च पदं विष्णोर्धर्माद्या यत्र च स्थिताः ॥८०॥

सूर्याचन्द्रमसोश्चारो ग्रहाणां ज्योतिषां तथा ।
कीर्त्यते धृतसामर्थ्यात्प्रजानां च शुभाशुभम् ॥८१॥

ब्रह्मणा निर्मितः सौरः सादनार्थं च स स्वयम् ।
कीर्त्यते भगवान्येन प्रसर्प्पति दिवः क्षयम् ॥८२॥

स रथोऽधिष्ठितो देवैरादित्यै ऋषिभिस्तथा ।
गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥८३॥

अपां सारमयात्स्यन्दात्कथ्यते च रसस्तथा ।
वृद्धिक्षयौ च सोमस्य कीर्त्येते सोमकारितौ ॥८४॥

सूर्यादीनां स्यन्दनानां ध्रुवादेव प्रवर्त्तनम् ।
कीर्त्यते शिशुमारस्य यस्य पुच्छे ध्रुवः स्थितः ॥८५॥

तारारूपाणि सर्वाणि नक्षत्राणि ग्रहैः सह ।
निवासा यत्र कीर्त्यन्ते देवानां पुण्यकर्मणाम् ॥८६॥

सूर्यरश्मिसहस्रं च वर्षशीतोष्णविश्रवः ।
प्रविभागश्चरश्मीनां नामतः कर्मतीर्थतः ॥८७॥

परिमाणं गतिश्चोक्ता ग्रहाणां सूर्यसंश्रयात् ।
वेश्यारूपात्प्रधानस्य परिमाणो महाद्भवः ॥८८॥

पुरूरवस ऐलस्य माहात्म्यस्यानुकीर्त्तनम् ।
पितॄणां द्विप्रकाराणां माहात्म्यं वा मृतस्य च ॥८९॥

ततः पर्वाणि कीर्त्यन्ते पर्वणां चैव संधयः ।
स्वर्गलोकगतानाञ्च प्राप्तानाञ्चाप्यधोगतिम् ॥९०॥

पितॄणां द्विप्रकाराणां श्राद्धेनानुग्रहो महान् ।
युगसंख्याप्रमाणं च कीर्त्यते च कृतं युगम् ॥९१॥

त्रेतायुगे चापकर्षाद्वार्त्तायाः संप्रवर्त्तनम् ।
वर्णानामाश्रमाणां च संस्थितिर्धर्मतस्तथा ॥९२॥

वज्रप्रवर्त्तनं चैव संवादो यत्र कीर्त्यते ।
ऋषीणां वसुना सार्द्धं वसोश्चाधः पुनर्गतिः ।
शब्दत्वं च प्रधानात्तु स्वायम्भुवमृते मनुम् ॥९३॥

प्रशंसा तपसश्चोक्ता युगावस्थाश्च कृत्स्नशः ।
द्वापरस्य कलेश्चापि संक्षेपेण प्रकीर्त्तनम् ॥९४॥

मन्वन्तरं च संख्या च मानुषेण प्रकीर्त्तिता ।
मन्वन्तराणां सर्वेषामेतदेव च लक्षणम् ॥९५॥

अतीतानागतानां च वर्त्तमानं च कीर्त्यते ।
तथा मन्वन्तराणां च प्रतिसंधानलक्षणम् ॥९६॥

अतीताना गतानां च प्रोक्तं स्वायम्भुवे ततः ।
ऋषीणां च गतिः प्रोक्ता कालज्ञानगतिस्तथा ॥९७॥

दुर्गसंख्याप्रमाणं च युगवार्ता प्रवर्त्तनम् ।
त्रेतायां चक्रवर्तीनां लक्षणं जन्म चैव हि ॥९८॥

प्रमतेश्च तथा जन्म अथो कलियुगस्य वै ।
अङ्गुलैर्हासनं चैव भूतानां यच्च चोच्यते ॥९९॥

शाशानां परिसंख्यानं शिष्यप्राधान्यमेव च ।
वाक्यं सप्तविधं चैव ऋषिगोत्रानुकीर्तनम् ॥१००॥

लक्षणं सूतपुत्राणां ब्रह्मणास्य च कृत्स्नशः ।
देदानां व्यसनं चैव वेदव्यासैर्महात्मभिः ॥१०१॥

मन्वन्तरेषु देवानां प्रजेशानां च कीर्त्तनम् ।
मन्वन्तरक्रमश्चैव कालज्ञानं च कीर्त्यते ॥१०२॥

दक्षस्य चापि दौहित्राः प्रियाया दुहितुः शुभाः ।
ब्रह्मादिभिस्तेजनिता दक्षेणैव च धीमता ॥१०३॥

सावर्णाश्चात्र कीर्त्यन्ते मनवो मेरुमाश्रिताः ।
ध्रुवस्यौत्तानपादस्य प्रजासर्गोपवर्णनम् ॥१०४॥

चाक्षुषस्य मनोः सर्गः प्रजानां वीर्यवर्मनम् ।
प्रभुणा चैव वैन्येन भूमिदोहप्रवर्तता ॥१०५॥

पात्राणां पयसां चैव वत्सानां च विशेषणम् ।
ब्रह्मादिभिः पूर्वमेव दुग्धा चैयं वसुंधरा ॥१०६॥

दशभ्यश्चं प्रचेतोभ्यो मारिषायां प्रजापतेः ।
दक्षस्य कीर्त्यत जन्म समस्यांशेन धीमतः ॥१०७॥

भूतभव्यभवेशत्वं महेन्द्राणां च कीर्त्यते ।
मन्वादिका भविष्यन्ति आख्यानैबर्हुभिर्वृताः ॥१०८॥

वैवस्वतस्य च मनोः कीर्त्यते सर्गविस्तरः ।
ब्रह्मादिकोश उत्पत्तिर्भृग्वदीनां च कीर्त्यते ॥१०९॥

विनिष्कृष्य प्रजासर्गे चाक्षुषस्य मनोःशुभे ।
दक्षस्य कीर्त्यते सर्गो ध्यानाद्वैवस्वतान्तरे ॥११०॥

नारदः कृतसंवादो दक्षपुत्रान्महाबलान् ।
नाशयामास शापाय मानसो ब्रह्मणः सुतः ॥१११॥

ततो दक्षोऽसृजत्कन्या वैरिणा नाम विश्रुताः ।
मरुत्प्रवाहे मरुतो दित्यां देव्यां च संभवः ॥११२॥

कीर्त्यते मरुतां चात्रगणास्ते सप्तसप्तकाः ।
देवत्वमिन्द्रवासेन वायुस्कन्धेषु चाश्रमः ॥११३॥

दैत्यानां दानवानां च यक्षगन्धर्वरक्षसाम् ।
सर्वभूतपिशाचानां यक्षणां पक्षिवीरुधाम् ॥११४॥

उत्पत्तयश्चाप्सरसां कीर्त्यन्ते बहुविस्तरात् ।
मार्तण्डमण्डलं कृत्स्नं जन्मैरावतहस्तिनः ॥११५॥

वैनतेयसमुत्पत्तिस्तथा राज्या भिषेचनम् ।
भृगूणां विस्तरश्चोक्तस्तथा चाङ्गिरसामपि ॥११६॥

कश्यपस्य पुलस्त्यस्य तथैवात्रेर्महात्मनः ।
पराशरस्य च मुनेः प्रजानां यत्र विस्तरः ॥११७॥

तिस्रः कन्याः सुकीर्त्यन्ते यासुलोकाः प्रतिष्ठिताः ।
इच्छाया विस्तरश्चोक्त आदित्यस्य ततः परम् ॥११८॥

किङ्कुविच्चरितं प्रोक्तं ध्रुवस्यैव निबर्हणम् ।
बृहद्बलानां संक्षेपादिक्ष्वाक्वाद्याः प्रकीर्त्तिताः ॥११९॥

निश्यादीनां क्षितीशानां पलाण्डु हरणादिभिः ।
कीर्त्यते विस्तरात्सर्गे ययातेरपि भूपतेः ॥१२०॥

यदुवंशसमुद्देशो हैहयस्य च विस्तरः ।
क्रोधादनन्तरं चोक्तस्तथा वंशस्य विस्तरः ॥१२१॥

ज्यामघस्य च माहात्म्यं प्रजासर्गश्च कीर्त्यते ।
देवावृधस्यान्धकस्य धृष्टेश्चपि महात्मनः ॥१२२॥

अनिमित्रान्वयश्चैव विशोर्मिथ्याभिशंसनम् ।
विशोधमनुसंप्राप्तिर्मणिरत्नस्य धीमतः ॥१२३॥

सत्राजितः प्रजासर्गे राजर्षेर्देवमीढुषः ।
शूरस्य जन्म चाप्युक्तं चरितं च माहात्मनः ॥१२४॥

कंसस्यापि च दौरात्म्यमेकीवंश्यात्समुद्भवः ।
वासुदेवस्य देव क्यां विष्णोरमिततेजसः ॥१२५॥

अनन्तरमृषेः सर्गः प्रजासर्गोपवर्णनम् ।
देवासुरे समुत्पन्ने विष्णुना स्त्रीवधे कृते ॥१२६॥

संरक्षता शक्रवधं शापः प्राप्तः पुरा भृगोः ।
भृगुश्चोत्थापयामास दिव्यां शुक्रस्य मातरम् ॥१२७॥

देवानां च ऋषीणां च संक्रमा द्वादशात्दृताः ।
नारसिहप्रभृतयः कीर्त्यन्ते पापनाशनाः ॥१२८॥

शुकेणाराधनं स्थाणोर्घोरेण तपसा तथा ।
वरप्रदान कृत्तेन यत्र शर्वस्तवः कृतः ॥१२९॥

अनन्तरं च निर्दिष्टं देवासुरविचेष्टितम् ।
जयन्त्या सह शक्रेण यत्र शुको महात्मनि ॥१३०॥

असुरान्मोहयामास शक्ररूपेण बुद्धिमान् ।
बृहस्पतिश्च तं शुकं शशाप स महाद्युतिः ॥१३१॥

उक्त च विष्णोर्माहात्म्यं विष्णोर्जन्मनि शब्द्यते ।
तुर्वसुश्चात्र दौहित्रो यवीयान्यो यदोरभूत् ॥१३२॥

अनुर्द्रुह्यादयः सर्वे तथा तत्तनया नृपाः ।
अनुवंश्यामहात्मानस्तेषां पार्थिवसत्तमाः ॥१३३॥

कीर्त्यन्ते यत्र कार्त्स्न्येन भूरिद्रविणतेजसः ।
आतिथ्यस्य तु विब्रर्षेः सप्तधा धर्मसंश्रयात् ॥१३४॥

बार्हस्वत्यं सूरिभिश्च यत्र शापमुपावृतम् ।
हरवंशयशःस्पर्शः शन्तनोर्वीर्यशब्दनम् ॥१३५॥

भविष्यतां तथा राज्ञामुपसंहारशब्दनम् ।
अनागतानांसंघानां प्रभूणां चोपवर्णनम् ॥१३६॥

भौत्यस्यान्ते कलियुगे क्षीणे संहारवर्णनम् ।
नैमित्तिकाः प्राकृतिका यथैवात्यन्तिकाः स्मृताः ॥१३७॥

विविधः सर्वभूतानां कीर्त्यते प्रतिसंचरः ।
अनादृष्टिर्भास्करस्य घोरः संवर्त्तकानलः ॥१३८॥

सांख्ये लक्षणमुद्दिष्टं ततो ब्रह्म विशेषतः ।
भुवादीनां च लोकानां सप्तानां चोपवर्णनम् ॥१३९॥

अपरार्द्धापरैश्चैव लक्षणं परिकीर्त्यते ।
ब्रह्मणोयोजनाग्रेण परिमाणविनिर्णयः ॥१४०॥

कीर्त्यन्ते चात्र निरयाः पापानां रौरवादयः ।
सर्वेषां चैव सत्त्वानां परिणामविनिर्णयः ॥१४१॥

ब्रह्मणः प्रतिसंसर्गात्सर्व संसारवर्णनम् ।
गतिरूर्द्धमधश्चोक्ता धर्माधर्मसमाश्रया ॥१४२॥

कल्पे कल्पे च भूतानां महतामपि संक्षयम् ।
असंख्यया च दुःखानि ब्रह्मणश्चाप्यनित्यता ॥१४३॥

दौरात्म्यं चैव भोगानां संहारस्य च कष्टता ।
दुर्लभत्वं च मोक्षस्य वैराग्याद्दोषदर्शनात् ॥१४४॥

व्यक्ताव्यक्तं परित्यज्य सत्त्वं ब्रह्मणि संस्थितम् ।
नानात्वदर्शनाच्छुद्धस्तवस्तत्र निवर्त्तते ॥१४५॥

ततस्तापत्रयाद्भीतो रूपार्थोहि निरञ्जनः ।
आनन्दं ब्रह्मणः प्राप्य न बिभेति कुतश्चन ॥१४६॥

कीर्त्यते च पुनः सर्गो ब्रह्मणोऽन्यस्य पूर्ववत् ।
कीर्त्यते जगतश्चत्र सर्गप्रलयविक्रियाः ॥१४७॥

प्रवृत्तयश्च भूतानां प्रसुतानां फलानि च ।
कीर्त्यते ऋषिवर्गस्य सर्गः पापप्रणाशनः ॥१४८॥

प्रादुर्भावो वसिष्ठस्य शक्तेर्जन्म तथैव च ।
सौदासास्थिग्रहश्चास्य विश्वामित्रकृतेन तु ॥१४९॥

पराशरस्य चोत्पत्तिरदृश्यन्त्यां तथा विभोः ।
संजज्ञे पितृकन्यायां व्यासश्चापि महामुनिः ॥१५०॥

शुकस्य च तथा जन्म सह पुत्रस्य धीमप्तः ।
पराशरस्य प्रद्वेपो विश्वामित्र ऋषिं प्रति ॥१५१॥

वसिष्ठसंभृतिश्चाग्नेर्विश्वामित्रजिघांसया ।
देवेन विधिना विप्र विश्वामित्रहितैषिणा ॥१५२॥

संतानहेतोर्विभुना गीर्णस्कन्धेन धीमता ।
एकं वेदं चतुष्पादं चतुर्द्धा पुनरीश्वरः ॥१५३॥

तथा बिभेद भागवान् व्यासः शार्वादनुग्रहात् ।
तस्य शिष्यप्रशिष्यैश्च शाखा वेदायुताः कृताः ॥१५४॥

प्रयोगे प्रह्वला नैव यथा दृष्टः स्वयंभुवा ।
पृष्ट वन्तो विशिष्टास्ते मुनयो धर्मकाङ्क्षिणः ॥१५५॥

देशं पुण्यमभीप्सतो विभुना तद्धितैषिणा ।
सुनाभं दिव्यरूपाभं सप्ताङ्गं शुभशंसनम् ॥१५६॥

आनौपम्यमिदं चक्रं वर्त्तमानमतन्द्रिताः ।
पृष्ठतो यात नियतास्ततः प्राप्स्यथ पाटितम् ॥१५७॥

गच्छतस्तस्य चक्रस्य यत्र नेमिर्विशीर्यते ।
पुण्यः स देशो मन्तव्यः प्रत्युवाच तदा प्रभुः ॥१५८॥

उक्त्वा चैवमृषीन्सर्वानदृश्यत्वमुपागमत् ।
गङ्गा गर्भ यवाहारा नैमिषेयास्तथैव च ॥१५९॥

ईशिरे चैव सत्रेण मुनयो नैमिषे तदा ॥१६०॥

मृतेशरद्वतितथा तस्य चोत्थापनङ्कृतम् ।
ऋषयो नैमिषेयाश्च दयया परया युताः ॥१६१॥

निःसीमां गामिमां कृत्वा कृषणं राजानमाहरत् ।
प्रीतिं चैव कृतातिथ्यं राजानं विधिवत्तदा ॥१६२॥

अन्तः सर्गगतः क्रूरः स्वर्भानुरसुरो हरन् ।
द्रुते राजनि राजानु मद्रते मुनयस्ततः ॥१६३॥

गन्धर्वरक्षितं दृष्ट्वा कलापग्रामकेतनम् ।
सन्निपातः पुनस्तस्य तथा यज्ञे महर्षिभिः ॥१६४॥

दृष्ट्वा हिरण्मयं सर्वं विवादस्तस्य तैरभूत् ।
तदा वै नैमिषेयानां सत्रे द्वादशवार्षिके ॥१६५॥

तथा विवदमानैश्च यदुः संस्थापितश्च तैः ।
जनयित्वा त्वरण्यं वै यदुपुत्रमथायुतम् ॥१६६॥

समापयित्वा तत्सत्रं वायुं ते पर्युपासत ।
इति कृत्यसमुद्देशः पुराणांशोपवर्णितः ॥१६७॥

अनेनानुक्रमेणैव पुराणं संप्रकाशते ।
सुखमर्थः समासेन महानप्युपलक्ष्यते ॥१६८॥

तस्मात्समासमुद्दिश्य वक्ष्यामि तव विस्तरम् ।
पादमाद्यमिदं सम्यग्योऽधीते विजितेद्रियः ॥१६९॥

तेनाधीतं पुराणं स्यात्सर्वं नास्त्यत्रसंशयः ।
यो विद्याच्चतुरो वेदान् सांगोपनिषदान् द्विजाः ॥१७०॥

इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ॥१७१॥

अभ्यसन्निममध्यायं साक्षात्प्रोक्तं स्वयंभुवा ।
नापदं प्राप्य मुह्येत यथेष्टां प्राप्नुयाद्गतिम् ॥१७२॥

यस्मात्पुरा ह्यभूच्चैतत्पुराणं तेन तत्स्मृतम् ।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥१७३॥

अतश्च संक्षेपमिमं शृणुध्वं नारायणः सर्वमिदं पुराणम् ।
संसर्गकालेऽपि करोति मर्ग संहार काले च न वास्ति भूयः ॥१७४॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे प्रथमे प्रक्रियापादे कृत्यसमुद्देशो नाम प्रथमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:47.6630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

करूं गेलों तुज व झालें मज

  • ‘करी मला, होई तुला’ पहा. 
RANDOM WORD

Did you know?

मृत माणसाच्या दहाव्याच्या पिंडाला कावळा न शिवल्यास धर्मशास्त्राप्रमाणे अन्य उपाय कोणता?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site