TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

कुमारसम्भवम् - षोडशः सर्गः

महाकवि कालिदास रचित कुमारसंभव हे काव्य कार्तिकेयच्या जन्मासंबंधी असून, संस्कृत भाषेतील पाच महाकाव्यांपैकी एक आहे.  


षोडशः सर्गः
अथान्योन्यं विमुक्तास्त्रशस्त्रजालैर्भयंकरैः ।
युद्धमासीत्सुनासीरसुरारिबलयोर्महत् ॥१॥

पत्तिः पत्तिमभीयाय रणाय रथिनं रथी ।
तुरङ्गस्थं तुरड्‌गस्थो दन्तिस्थं दन्तिनि स्थितः ॥२॥

युद्धाय धावतां धीरं वीराणामितरेतरम् ।
वैतालिकाः कुलाधीशा नामान्यलमुदाहरन् ॥३॥

पठतां वन्दिवृन्दानां प्रवीरा विक्रमावलीम् ।
क्षणं विलम्ब्य चित्तानि ददुर्युद्धोत्सुकाः पुरः ॥४॥

सङ्ग्रामानन्दवर्धिष्णौ विग्रहे पुलकाञ्चिते ।
आसीत्कवचविच्छेदो वीराणां मिलतां मिथः ॥५॥

निर्दयं खड्गभिन्नेभ्यः कवचेभ्यः समुत्थितैः ।
आसन्ध्योमदिशस्तूलैः पलितैरिव पाण्डुराः ॥६॥

खड्गा रुधिरसंलिप्ताश्चण्डांशुकरभासुराः ।
इतस्ततोऽपि वीराणां विद्युतां वैभवं दधुः ॥७॥

विसृजन्तो मुखैर्ज्वाला भीमा इव भुजंगमाः ।
विसृष्टाः सुभटै रुष्टैर्व्योम व्यानशिरे शराः ॥८॥

बाढं वपूंषि निर्भिद्य धन्विनां निघ्नतां मिथः ।
अशोणितमुखा भूमिं प्राविशन्दूरमाशुगाः ॥९॥

निर्भिद्य दन्तिनः पूर्वं पातयामासुराशुगाः ।
पेतुः प्रवरयोधानां प्रीतानामाहवोत्सवे ॥१०॥

ज्वलदग्निमुखैर्वाणैर्नीरन्ध्रैरितरेतरम् ।
उच्चैर्वैमानिका व्योम्नि कीर्णे दूरमपासरन् ॥११॥

विभिन्नं धन्विनां बाणैर्व्यथार्तमिव विह्वलम् ।
ररास विरसं व्योम श्येनप्रतिरवच्छलात् ॥१२॥

चापैराकर्णमाकृष्टैर्विमुक्ता दूरमाशुगाः ।
अधाबन्रुधिरास्वादलुब्धा इव रणैषिणाम् ॥१३॥

गृहीताः पाणिभिर्वीरैर्विकोशाः खङ्गराजयः ।
कान्तिजालच्छलादाजौ व्यहसन्संमदादिव ॥१४॥

खड्गाः शोणितसंदिग्धा नृत्यन्तो वीरपाणिषु ।
रजोघने रणेऽनन्ते विद्युतां वैभवं दधुः ॥१५॥

कुन्ताश्चकाशिरे चण्डमुल्लसन्तो रणार्थिनाम् ।
जिह्वाभोगा यमस्येव लेलिहाना रणाङ्गणे ॥१६॥

प्रज्वलत्कान्तिचक्राणि चक्राणि वरचक्रिणाम् ।
चण्डांशुमण्डलश्रीणि रणव्योमनि बभ्रमुः ॥१७॥

केचिद्धीरैः प्रणादैश्च वीराणामभ्युपेयुषाम् ।
निपेतुः क्षोभतो वाहादपरे मुमुहुर्मदात् ॥१८॥

कश्चिदभ्यागते वीरे जिघांसौ मुदमादधौ
परावृत्य गते क्षुब्धे विषसादाहवप्रियः ॥१९॥

बहुभिः सह युद्ध्वा वा परिभ्रम्य रणोल्बणाः ।
उद्दिश्य तानुपेयुः केऽपि ये पूर्ववृता रणे ॥२०॥

अभितोऽभ्यागतान्योद्धुं वीरान्रणमदोद्धतान् ।
प्रत्यनन्दन्भुजादण्डरोमोद्गमभृतो भटाः ॥२१॥

शस्त्रभिन्नेभकुम्भेभ्यो मौक्तिकानि च्युतान्यधः ।
अध्याहवक्षेत्रमुप्तकीर्तिबीजाङ्कुरश्रियम् ॥२२॥

वीराणां विषमैर्घोषूर्विद्रुता वारणा रणे ।
शास्यमाना अपि त्रासाद्भेजुर्धूताङ्कुशा दिशः १६.२३॥

रणे वाणगणैर्भिन्ना भ्रमन्तो भिन्नयोधिनः ।
निममज्जुर्मिलद्रक्तनिम्नगासु महागजाः ॥२४॥

अपारेऽसृक्सरित्पूरे रथेषूच्चैस्तरेष्वपि ।
रथिनोऽभिरिपुं क्रुद्धा हुंकृतैर्व्यसृजञ्शरान् ॥२५॥

खड्गनिर्लूनमूर्धानो व्यापतन्तोऽपि वाजिनः ।
प्रथमं पातयामासुरसिना दारितानरीन् ॥२६॥

वीराणां शस्त्रभिन्नानि शिरांसि निपतन्त्यपि ।
अधावन्दन्तदष्टोष्ठभीमान्यभिरिपुं क्रुधा ॥२७॥

शिरांसि वरयोधानामर्धचन्द्रहृतान्यलम् ।
आदधाना भृशं पादैः श्येना व्यानशिरे नभः ॥२८॥

क्रोधादभ्यापतद्दन्तिदन्तारुढाः पदातयः ।
अश्वारोहा गजारोहप्राणान्प्रासैरपाहरन् ॥२९॥

शस्त्रच्छिन्नगजारोहा विभ्रमन्त इतस्ततः ।
युगान्तवातचलिताः शैला इव गजा बभुः ॥३०॥

मिलितेषु मिथो योद्धुं दन्तिषु प्रसभं भटाः ।
अगृह्णन्युद्ध्यमानाश्च शस्त्रैः प्राणान्परस्परम् ॥३१॥

रुषा मिथो मिलद्दन्तिदन्तसंघर्षजोऽनलः ।
योधाञ्शस्त्रहृतप्राणानदहत्सहसारिभिः ॥३२॥

आक्षिप्ता अपि दन्तीन्द्राः कोपनैः पत्तयः परम् ।
तदसूनहरन्खड्गघातैः स्वस्य पुरः प्रभोः ॥३३॥

उत्क्षिप्य करिभिर्दूरान्मुक्तानां योधिनां दिवि ।
प्रापि जीवात्मभिर्दिव्या गतिर्वा विग्रहैर्मही ॥३४॥

खड्गैर्धवलधारालैर्निहत्य करिणां करान् ।
तैर्भुवापि समं विद्धान्संतोषं न भटा ययुः ॥३५॥

आक्षिप्याभिदिवं नीताः पत्तयः करिभिः करः ।
दिव्याङ्गनाभिरादातुं रक्ताभिर्द्रुतमीषिरे ॥३६॥

धन्विनस्तुरगारुढा गजारोहाञ्शरैः क्षतान् ।
प्रत्यैच्छन्मूर्च्छितान्भूयो योद्धुमाश्वसतश्चिरम् ॥३७॥

क्रुद्धस्य दन्तिनः पत्तिर्जिघृक्षोरसिना करम् ।
निर्भिद्य दन्तमुसलावारुरोह जिघृक्षया ॥३८॥

खड्गेन मूलतो हत्वा दन्तिनो रदनद्वयम् ।
प्रातिपक्ष्ये प्रविष्टोऽपि पदातिर्निरगाद्द्रुतम् ॥३९॥

करेण करिणा वीरः सुगृहीतोऽपि कोपिना ।
असिनासूञ्जहाराशु तस्यैव स्वयमक्षतः ॥४०॥

तुरङ्गी तुरगारुढं प्रासेनाहत्य वक्षसि ।
पततस्तस्य नाज्ञासीत्प्रसघातं स्वके हृदि ॥४१॥

द्विषा प्रासहृतप्राणो वाजिपृष्ठदृढासनः ।
हस्तोद्धृतमहाप्रासो भुवि जीवन्निवाभ्रमत् ॥४२॥

तुरङ्गसादिनं शस्त्रहृतप्राणं मतं भुवि ।
अबद्धोऽपि महावाजी न साश्रुनयनोऽत्यजत् ॥४३॥

भल्लेन शितधारेण भिन्नोऽपि रिपुणाश्वगः ।
नामूर्च्छत्कोपतो हन्तुमियेष प्रपतन्नपि ॥४४॥

मिथः प्रासाहतौ वाजिच्युतौ भूमिगतौ रुषा ।
शस्त्र्या युयुधतुः कौचित्कोशाकेशि भुजाभुजि ॥४५॥

रथिनो रथिभिर्बाणैर्हृतप्राणा दृढासनाः ।
क्षतकार्मुकसंधानाः सप्राणा इव मेनिरे ॥४६॥

न रथी रथिनं भूयः प्राहरच्छस्त्रमूर्च्छितम् ।
प्रत्याश्वसन्तमन्विच्छन्नातिष्ठद्युधि लोभतः ॥४७॥

अन्योन्यं रथिनौ कौचिद्गतप्राणौ दिवं गतौ ।
एकामप्सरसं प्राप्य युयुधाते वरायुधौ ॥४८॥

मिथोऽर्धचन्द्रनिर्लूनमूर्धानौ रथिनौ रुचा ।
खेचरौ भुवि नृत्यन्तौ स्वकबन्धावपश्यताम् ॥४९॥

रणाङ्गणे शोणितपङ्कपिच्छिले कथं कथं चिन्ननृतुर्धृतायुधाः ।
नदत्सु तुर्येषु परेतयोषितां गणेषु गायत्सु कबन्धराजयः ॥५०॥

इति सुररिपुर्वृत्ते युद्धे सुरासुरसैन्ययो
रुधिरसरितां मज्जद्दन्तिव्रजेषु तटेष्वलम् ।
अरुणनयनः क्रोधाद्भीमभ्रमद्भृकुटीमुखः
सपदि ककुभामीशानभ्यागमत्सयुयुत्सया ॥५१॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसम्भव-
श्रीसीतारामकविविरचितया संजीविनीसमाख्यया व्याख्यया
समेतः श्रीकालिदासकृतौ कुमारसम्भवे-महाकाव्ये
सुरासुरसैन्यसंग्रामवर्णनं नाम षोडशः सर्गः॥
Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:36.1930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

जोबळा

  • पु. नामई ; नपूसंक . 
RANDOM WORD

Did you know?

मनुष्याच्या जीवनात स्नानाचे महत्त्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.