TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

कुमारसम्भवम् - पञ्चदशः सर्गः

महाकवि कालिदास रचित कुमारसंभव हे काव्य कार्तिकेयच्या जन्मासंबंधी असून, संस्कृत भाषेतील पाच महाकाव्यांपैकी एक आहे.  


पञ्चदशः सर्गः
सेनापतिं नन्दनमन्धकद्विषो युधे पुरस्कृत्य बलस्य शात्रवः ।
सैन्यैरुपैतीति सुरद्विषां पुरोऽभूत्किंवदन्ती हृदयप्रकम्पिनी ॥१॥

चमूप्रभुं मन्मथमर्दनात्मजं विजित्वरीभिर्विजयश्रियाश्रितम् ।
श्रुत्वा सुराणां पृतनाभिरागतं चित्ते चिरं चुक्षुभिरे महासुराः ॥२॥

समेत्य दैत्याधिपतेः पुरे स्थिताः किरीटबद्धाञ्जलयः प्रणम्य ते ।
न्यवेदयन्मन्मथशत्रुसूनुना युयुत्सुना जम्भजितं सहागतम् ॥३॥

दासीकृताशेषजगत्त्रयं न मां जिगाय युद्धे कतिशः शचीपतिः ।
गिरीशपुत्रस्य बलेन सांप्रतं ध्रुवं विजेतेति स काकुतोऽहसत् ॥४॥

ततः क्रुधा विस्फुरिताधराधरः स तारको दर्पितदोर्बलोद्धतान् ।
युधे त्रिलोकीजयकेलिलालसः सेनापतीन् संनहनार्थमादिशत् ॥५॥

महाचमूनामधिपाः समन्ततः संनह्य सद्यः सुतरामुदायुधाः ।
तस्थुर्विनम्रक्षितिपालसंकुले तदङ्गनद्वारवरप्रकोष्ठके ॥६॥

स द्वारपालेन पुरः प्रदर्शितान्कृतानतीन्बाहुवरानधिष्ठितान् ।
महाहवाम्भोधिविधूननोद्धतान्ददर्श राजा पृतनाधिपान्बहून् ॥७॥

बली बलारातिबलातिशातनं दिग्दन्तिनादद्रवनाशनस्वनम् ।
महीधराम्भोधिनवारितक्रमं ययौ रथं घोरमथाधिरुह्य सः ॥८॥

युगक्षयक्षुब्धपयोधिनिःस्वनाश्चलत्पताकाकुलवारितातपाः ।
धरारजोग्रस्तदिगन्तभास्कराः पतिं प्रयान्तं पृतनास्तमन्वयुः ॥९॥

चमूरजः प्राप दिगन्तदन्तिनां महासुरस्याभिसुरं प्रसर्पिणः ।
दन्तप्रकाण्डेषु सितेषु शुभ्रतां कुम्भेषु दानाम्बुघनेषु पङ्कताम् ॥१०॥

महीभृतां कन्दरदारणोल्बणैस्तद्वाहिनीनां पटहस्वनैर्घनैः ।
उद्वेलिताश्चुक्षुभिरे महार्णवा नभःस्त्रवन्ती सहसाऽभ्यवर्धत ॥११॥

सुरारिनाथस्य महाचमूस्वनैर्विगाह्यमाना तुमुलैः सुरापगा ।
अभ्युच्छ्रितैरूर्मिशतैश्च वारिजैरक्षालयन्नाकनिकेतनावलीम् ॥१२॥

अथ प्रयाणाभिमुखस्य नाकिनां द्विषः पुरस्तादशुभोपदेशिनी ।
अगाधदुःखाम्बुधिमध्यमज्जनं बभूव चोत्पातपरम्परा तव ॥१३॥

आगामिदैत्याशनकेलिकाङ्क्षिणी कुपक्षिणां घोरतरा परम्परा ।
दधौ पदं व्योम्नि सुरारिवाहिनीरुपर्युपर्येत्यनिवारितातपा ॥१४॥

मुहुर्विभग्नातपवारणध्वजश्चलद्धराधूलिकुलाकुलेक्षणः ।
धूताश्वमातङ्गमहारथाकरानवेक्षणोऽभूत्प्रसभं प्रभञ्जनः ॥१५॥

सद्यो विभिन्नाञ्जनपुञ्जतेजसो मुखैर्विषाग्निं विकिरन्त उच्चकैः ।
पुरः पथोऽतीत्य महाभुजङ्गमा भयंकराकारभृतो भृशं ययुः ॥१६॥

मिलन्महाभीमभुजङ्गभूषणं प्रभुर्दिनानां परिवेषमादधौ ।
महासुरस्य द्विषतोऽतिमत्सरादि वान्तमासूचयितुं भयङ्करः ॥१७॥

त्विषामधीशस्य पुरोऽधिमण्डलं शिवाः समेताः परुषं ववाशिरे ।
सुरारिराजस्य रणान्तशोणितं प्रसह्य पातुं द्रुतमुत्सुका इव ॥१८॥

दिवापि तारास्तरलास्तरस्विनीः परापतन्तीः परितोऽथ वाहिनीः ।
विलोक्य लोको मनसा व्यचिंन्तयत्प्राणव्ययान्तं व्यसनं सुरद्विषः ॥१९॥

ज्वलद्भिरुच्चैरभितः प्रभाभरैरुद्भासिताशेषदिगन्तराम्बरम् ।
रवेण रौद्रेण हृदन्तदारणं पपात वज्रं नभसो निरम्बुदात् ॥२०॥

ज्वलद्भिरङ्गारचयैर्नभस्तलं ववर्ष गाढं सह शोणितास्थिभिः ।
धूमं ज्वलन्त्यो व्यसृजन्मुखै रजो दधुर्दिशो रासभकण्ठधूसरम् ॥२१॥

निर्घातघोषो गिरिश्रृङ्गशातनो घनोऽम्बराशाकुहरोदरम्भरिः ।
बभूव भूम्ना श्रुतिभित्तिभेदनः प्रकोपिकालार्जितगर्जितर्जनः ॥२२॥

स्खलन्महेभं प्रपतत्तुरङ्गमं परस्पराश्लिष्टजनं समन्ततः ।
प्रक्षुभ्यदंभोधिविभिन्नभूधराद् बलं द्विषोऽभूदवनि प्रकम्पात् ॥२३॥

ऊर्ध्वीकृतास्या रविदत्तदृष्टयः समेत्य सर्वे सुरविद्विषः पुरः ।
श्वानः स्वरेण श्रवणान्तशातिना मिथो रुदन्तः करुणेन निर्ययुः ॥२४॥

अपीति पश्यन्परिणामदारुणां महत्तमां गाढमरिष्टसंततिम् ।
दुर्दैवदष्टो न खलु न्यवर्तत क्रुधा प्रयाणव्यवसायतो सुरः ॥२५॥

अरिष्टमाशङ्क्य विपाकदारुणं निवार्यमाणोऽपि बुधैर्महासुरः ।
पुरः प्रतस्थे महतां वृथा भवेदसद्ग्रहान्धस्य हितोपदेशनम् ॥२६॥

क्षितौ निरस्तं प्रतिकूलवायुना तदीयचामीकरघर्मवारणम् ।
रराज मृत्योरिव पारणाविधौ प्रकल्पितं हाटकभाजनं महत् ॥२७॥

विजानता भावि शिरो निकृन्तनं प्रज्ञेन शोकादिव तस्य मौलिना ।
मुहुर्गलद्भिस्तरलैरलंतरामरोदि मुक्ताफलवाष्पबिन्दुभिः ॥२८॥

निवार्यमाणैरभितोऽनुयायिभिर्ग्रहीतुकामैरिव तं मुहुर्मुहुः ।
अपाति गृध्रैरभिमौलिमाकुलैर्भविष्यदेतन्मरणोपदेशिभिः ॥२९॥

सद्यो निकृत्ताञ्जनसोदरद्युतिं फणामणिप्रज्वलदंशुमण्डलम् ।
निर्यद्विषोल्कानलगर्भफूत्कृतं ध्वजे जनस्तस्य महाहिमैक्षत ॥३०॥

रथाश्वकेशावलिकर्णचामरं ददाह बाणासनबाणबाणधीन् ।
अकाण्डतश्चण्डतरो हुताशनस्तस्यातनुस्यन्दनधुर्यगोचरः ॥३१॥

इत्याद्यरिष्टैरशुभोपदेशिभिर्विहन्यमानोऽप्यसुरः पुनः पुनः ।
यदा मदान्धो न गतात्न्यवर्तताम्बरात्तदाभून्मरुतां सरस्वती ॥३२॥

मदान्ध मा गा भुजदण्डचण्डिमावलेपतो मन्मथहन्तृसूनुना ।
सुरैः सनाथेन पुरंदरादिभिः समं समन्तात्स(६ मरं विजित्वरैः ॥३३॥

गुहोऽसुरैः षड्दिनजातमात्रको निदाघधामेव निशातमोभरैः ।
विषह्यते नाभिमुखो हि संगरे कुतस्त्वया तस्य समं विरोधिता ॥३४॥

अभ्रंलिहैः श्रृङ्गशतैः समन्ततो दिक्चक्रवालैः स्थगितस्य भूभृतः ।
क्रौञ्चस्य रन्ध्रं विशिखेन निर्ममे येनाहवस्तस्य सह त्वया कुतः ॥३५॥

लब्ध्वा धनुर्वेदमनङ्गविद्विषस्त्रिःसप्तकृत्वः समरे महीभुजाम् ।
कृत्वाभिषेकं रुधिराम्बुभिर्घनैः स्वक्रोधवह्निं शमयांबभूव यः ॥३६॥

न जामदग्न्यः क्षयकालरात्रिकृत्स क्षत्रियाणां समराय वल्गति ।
येन त्रिलोकीसुभटेन तेन कुतोऽवकाशः सह विग्रहग्रहे ॥३७॥

त्यजाशु गर्वं मदमूढ मा स्म गाः स्मरारिसूनोर्वरशक्तिगोचरम् ।
तमेव नूनं शरणं व्रजाधुना जगत्सुवीरं स चिराय जीव तत् ॥३८॥

श्रुत्वेति वाचं वियतो गरीयसीं क्रोधादहंकारपरो महासुरः ।
प्रकम्पिताशेषजगत्त्रयोऽपि सन्नकम्पतोच्चैर्दिवमभ्यधाच्च सः ॥३९॥

किं ब्रूथ रे व्योमचरा महासुराः स्मरारिसूनुप्रतिपक्षवर्तिनः ।
मदीयबाणव्रणवेदना हि साऽधुना कथं विस्मृतिगोचरीकृता ॥४०॥

कटुस्वरैः प्रालपथाम्बरस्थिताः शिशोर्बलात्षड्दिनजातकस्य किम् ।
श्वानः प्रमत्ता इव कार्तिके निशि स्वैरं वनान्ते मृगधूर्तका इव ॥४१॥

सङ्गेन वो गर्भतपस्विनः शिशुर्वराक एषोऽन्तमवाप्स्यति ध्रुवम् ।
अतस्करस्तस्करसङ्गतो यथा तद्वो निहन्मि प्रथमं ततोऽप्य मुम् ॥४२॥

इतीरयत्युग्रतरं महासुरे महाकृपाणं कलयत्यलं क्रुधा ।
परस्परोत्पीडितजानवो भयान्नभश्चरा दूरतरं विदुद्रुवुः ॥४३॥

ततोऽवलेपाद्विकटं विहस्य स व्यवत्त कोशादसिमुत्तमं बहिः ।
रथं द्रुतं प्रापय वासवान्तिकं नन्वित्यवोचन्निजसारथिं रथी ॥४४॥

मनोतिवेगेन रथेन सारथिप्रणोदितेन प्रचलन्महासुरः ।
ततः प्रपेदे सुरसैन्यसागरं भयंकराकारमपारमग्रतः ॥४५॥

पुरः सुराणां पुतनां प्रथीयसीं विलोक्य वीरः पुलकं प्रमोदजम् ।
बभार भूम्नाथ स बाहुदण्डयोः प्रचण्डयोः सङ्गरकेलिकौतुकी ॥४६॥

ततो महेन्द्रस्य चराश्चमूचरा रणान्तलीलारभसेन भूयसा ।
पुरः प्रचेलुर्मनसोऽतिवेगिनो युयुत्सुभिः किं समरे विलम्ब्यते ॥४७॥

पुरःस्थितं देवरिपोश्चमूचरा बलद्विषः सैन्यसमुद्रमभ्ययुः ।
भुजं समुत्क्षिप्य परेभ्य आत्मनोऽभिधानमुच्चैरभितो न्यवेदयन् ॥४८॥

पुरोगतं दैत्यचमूमहार्णवं दृष्ट्वा परं चुक्षुभिरे महासुराः ।
पुरारिसूनोर्नयनैककोणके ममुर्भटास्तस्य रणेऽवहेलया ॥४९॥

द्विषद्वलत्रासवि भीषिताश्चमूर्दिवौकसामन्धकशत्रुनन्दनः ।
अपश्यदुद्दिश्य महारणोत्सवं प्रसादपीयूषधरेण चक्षुषा ॥५०॥

उत्साहिताः शक्तिधरस्य दर्शनान्मृधे महेन्द्रप्रमुखा मखाशनाः ।
अहं मृधे जेतुमरीनरीरमन्न कस्य वीर्याय वरस्य सङ्गतिः ॥५१॥

परस्परं वज्रधरस्य सैनिका द्विषोऽपि योद्धुं स्वकरोद्धृतायुधाः ।
वैतालिकश्राविततारविक्रमाभिधानमीयुर्विजयैषिणो रणे ॥५२॥

सङ्ग्रामं प्रलयाय संनिपततो वेलामतिक्रामतो
वृन्दारासुरसैन्यसागरयुगस्याशेषदिग्व्यापिनः ।
कालातिथ्यभुजो बभूव बहलः कोलाहलः क्रोषणः
शैलोत्तालतटीविघट्टनपटुर्ब्रह्माण्डकुक्षिंभरिः ॥५३॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसम्भवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसम्भवे सुरासुरसैन्यसंघट्ट
नाम पञ्चदशः सर्गः॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:36.1300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

dihybridism

  • पु. Zool. द्विसंकरवाद 
RANDOM WORD

Did you know?

भीमा माहात्म्य हा ग्रंथ उपलब्ध होइल का?
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.