TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

शुक्रनीतिः - चतुर्थ अध्याय

प्रस्तुत नीति शुक्राचार्यांनी न लिहिता मूळ नीति भगवान् श्रीशंकरांनी लिहिली आहे.


चतुर्थ अध्याय
मिश्र प्रकरण
प्रकरण पहिले - सुह्रदादि निरुपण
अथ मिश्रप्रकरणं प्रवक्ष्यामि समासतः ।
लक्षणं सुह्रदादीनां समासाच्छणुताधुना ॥१॥

उत्तम मित्राचे लक्षण
यस्य सुद्रवते चित्तं परदुःखेन सर्वदा ।
इष्टार्थे यततेऽन्यस्य प्रेरितः सत्करोति यः ॥२॥

आत्मस्त्रीधनगुह्यानां शरणं समये सुह्रत्‍ ।
प्रोक्तोत्तमोऽयमन्यश्च द्वित्र्येकपदमित्रकः ॥३॥

शत्रूतेचे लक्षण
अनन्यस्वत्व कामत्वमेकस्मिन्‍ विषये द्वयोः ।
वैरिलक्षजमेतद्वाऽन्येष्टा नाशनकारिता ॥४॥

भ्रात्रभावेऽपि तु द्रव्यमाखिलं मम वै भवेत्‍ ।
न स्यादेतस्य वश्योयं ममैव स्यात्‍ परस्परम्‍ ॥५॥

भोक्ष्येऽखिलमहं चैतद्विनाऽन्यं स्तः सुवैरिणौ ।
द्वेष्टि द्विष्ट उभौ शत्रु स्तश्चैकतरसंज्ञाकौ ॥६॥

राजाची कृत्रिम मित्रता
शूरस्योत्थानशीलस्य बलनीतिमतः सदा ।
सर्व मित्र गूढवैरा नृपा कालप्रतीक्षकाः ॥७॥

भवन्तीति किमाश्चर्य राज्यलुब्धा न ते हि किम्‍ ।
न राज्ञो विद्यते मित्रं राजा मित्रं न कस्य वै ॥८॥

प्रायः कृत्रिममित्रे ते भवतश्च परस्परम्‍ ।
केचित्‍ स्वभावतो मित्राः शत्रवः सन्ति सर्वदा ॥९॥

सहज मित्रता
माता मातृकुलं चैव पिता तत्पितरौ तथा ।
पितृपितृव्यात्मकन्या पत्नी तत्कुलमेव च ॥१०॥

पितृमात्रात्मभगिनीकन्यका सन्ततिश्च या ।
प्रजापालो गुरुश्चैव मित्राणि सहजानि हि ॥११॥

विद्या शौर्य च दाक्ष्यं च बलं धैर्य च पंचमम्‍ ।
मित्राणि सहजान्याहुवर्तयन्ति हि तैर्बुयाः ॥१२॥

सार्थक पुत्र
पुत्रो निर्देशर्क्ती यः स पुत्रोऽन्वर्थनामवान्‍ ।
श्रेष्ठ एकस्तु गुणवान किं शतैरपि निर्गुणैः ॥१३॥

स्वाभाविक शत्रूता
स्वभावतो भवन्त्येते हिंस्त्रो दुर्वृत्त एव च ।
ऋणकारी पिता शत्रुर्माता स्त्री व्यभिचारिणी ॥१४॥

आत्मपितृभ्रातरश्च तत्स्मीपुत्राश्च शत्रवः ।

स्नुषा श्वश्रूः सपत्नी च ननान्दा यातरस्तया ॥१५॥

मूर्खः पुत्रः कुवैद्यश्चारक्षकस्तु पतिः प्रभुः ।
चंडश्चंडा प्रजा शत्रुरदाता धनिकश्च धनिकश्च थः ॥१६॥

दुष्टानां नृपतिः शत्रुः कुलटानां पतिव्रता ।
साधुः खलानां शत्रुः स्थान्मूर्खाणां वोधकोरिपुः ॥१७॥

उपदेशो हि मूर्खाणां क्रोधायैव शमाय न ।
पयः पानं भुजंगानां विषयैवामृताय न ॥१८॥

मित्र वश होणारा कसा होईल
मित्रं शत्रुं यथायोग्यौ कुर्यात्‍ स्ववशवर्तिनम्‍ ।
उपायेन यथा व्यालो गजः सिंहोऽपि साध्यते ॥१९॥

भूमिष्ठाः स्वर्गमायान्ति वज्रं भिन्दन्त्युपापतः ॥२०॥

एकशीलवयोविद्या जातिव्यसनवृत्तयः ।
साहचर्ये भवेन्मित्रमेभिर्यदि तु साजवैः ॥२१॥

मित्रांसंबंधी वाक्ये कोणती आहेत
त्वत्समस्तु सखा नास्ति मित्रे साम इदं स्मृतम्‍ ।
मम सर्व तवैवास्ति दानं मित्रे सजीवितम्‍ ॥२२॥

मित्रेऽन्यमित्रसुगुणान्‍ कीर्तयेद्‍ भेदनं हितत्‍ ।
मित्रे दण्डो न करिष्ये मैत्रीमेवंविधोऽसि चेत्‍ ॥२३॥

उदासीनाची शत्रूता
यो न संयोजयेदिष्टमन्यानिष्ट मुपेक्षते ।
उदासीनः स न कथं भवेच्छयुः सुसन्धिकः ॥२४॥

शत्रूला दंड
दस्युभिः पीऽनं शत्रोः कर्षणं धनधान्यतः ।
तच्छिद्रदर्शनादुग्रबलैर्नीत्या प्रभीषणम्‍ ॥२५॥

प्राप्तयुद्धानिवृत्तित्वस्नासनं दण्ड उच्यते ।

सर्वोपायेस्तथा कुर्यान्नीतिज्ञः पृथिवीपतिः ।
यथा स्वाभ्यधिका न स्युमित्रोदासीनशत्रवः ॥२६॥

दंडाचे लक्षण
निवृत्तिरसदाचाराद्दमनं दण्डतश्च तत ।
येन संदम्यते जन्तुरुपायो दण्ड एव सः ॥२७॥

स उपायो नृपाधीनः स सर्वस्य प्रभुर्यतः ।

दंडाचे भेद
निर्भर्त्सनं चापमानोऽनशनं बन्धनं तथा ॥२८॥

ताऽनं द्रव्यहरणं पुरान्निर्वासनांकने ।
व्यस्तक्षौरमसद्यानमंच्छेदो वधस्तथा ॥२९॥

युद्धयेते ह्युपायाश्च दण्डसैव प्रभेदकाः ।

जायते धर्मनिरताः प्रजा दण्डभयेन च ॥३०॥

करोदयाधर्षणं नैव तथा चासत्यभाषणम्‍ ।
क्रुराश्च मार्दवं यान्ति दुष्टा दौष्ट्यं त्यजन्ति च ॥३१॥

पशवोऽपि वशं यान्ति विद्रवन्ति च दस्यवः ।
पिशुना मूकतां यान्ति भयं यान्त्याततायिनः ॥३२॥

करदाश्च भवन्त्यन्ये वित्रासं यान्ति चापरे ।
अतो दण्डधरो नित्यं स्यान्नृपो धर्मरक्षणे ॥३३॥

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथ प्रतिपन्नस्य कार्यं भवति शासनम्‍ ॥३४॥

राज्ञां सदण्डनीत्या हि सर्वे सिध्यन्त्युपक्रमाः ।
दण्ड एव हि धर्माणां शरणं परमं स्मृतम्‍ ॥३५॥

दण्ड्यस्यादण्डनान्नित्यमदण्ड्यस्य च दण्डनात्‍ ॥३६॥

अतिदण्डाच्च गुणिभिस्त्यज्जते पातकी भवेत ।

राजा आणि प्रजा
प्रसन्नो येन नृपतिस्तदाचरति वै जनः ॥३७॥

लोभाद्‍ भयाच्च कि तेन शिक्षितं नाचरेत्‍ कथम्‍ ।

सुपण्यो यत्र नृपतिधर्मर्मिष्टास्तत्र हि प्रजाः ॥३८॥

महापापी यत्र राजा तत्राधर्मपरो जनः ।

मद्यप्येकश्च भ्रष्टः स्याद्‍ बुद्धाच व्यवहारतः ॥३९॥

कामक्रोधो मद्यतमौ सर्वमद्याधिकौ यतः ।

धनप्राणहरो राजा प्रजायाश्चातिलोभतः ॥४०॥

तस्मादेतत्‍ त्रयं त्यक्त्वा दण्डधारी भवेन्नृपः ।

राष्ट्रंकर्णेजपैनित्यं हन्यते च स्वभावतः ॥४१॥

अतो नृपः सूचितोऽपि विमृशेत्‍ कार्यमादरात्‍ ।

अपराधांचे भेद
कायिको वाचिको मानसिकः सांसत्रिकस्तथा ॥४२॥

चतुविधोऽपराधः स बुद्धयबुद्धिकृतो द्विधा ।

पुनर्द्विंधा कारितश्च तथा ज्ञेयोऽनुमोदितः ॥४३॥

सकृदसकृदभ्यस्तस्वभावैः स चतुर्विधः ।

मानसिक अपराधाची परीक्षा
नेत्रवक्त्रविकाराद्यैर्मावैर्मानसिकंतथा ॥४४॥

क्रियया काचिकं वीक्ष्य वाचिकं क्रूरशब्दतः ।
सांसर्गिकं साहचयैंर्ज्ञात्वा गौरवलाघवम्‍ ॥४५॥

उत्पन्नोत्पत्स्यमानानां कार्याणां दण्डमावहेत्‍ ।

हरेत्‍ पादं धनात्तस्य यः कुर्याद्‍ धनगर्वतः ।
पूर्व ततोऽर्धमखिलं यावज्जीवं तु बन्धनम्‍ ॥४६॥

सहायगौरवाद्‍ विद्यामदाश्च बलदर्पतः ।
पापं करोति यस्तं बन्धयेत्‍ ताडयेत्सदा ॥४७॥

नापराधं तु क्षमते प्रचण्डो धनहारक ॥४८॥

नृपो यदा तदा, लोकः क्षुभ्यते इद्यते परैः ।
अतः सुभागदण्डी स्यात्‍ क्षमावान रंजको नृपः ॥४९॥

अधर्मी राजाला घाबरवावे
अधर्मशीलो नृपतिर्यदा तं भीषयेज्जनः ।
धर्मशीलातिबलवद्रिपोराश्रयतः सदा ॥५०॥

यावत्तु धर्मशीलः स्यात्‍ स नृपस्तावदेव हि ।
अन्यथा नश्यते लोको द्रांनृपोऽमि विनश्यति ॥५१॥

सोपायाः कथिता मिश्रे मित्रोदासीनशत्रवः ॥५२॥

दुसरे प्रकरण
कोश निरुपण
एकार्थसमुदायो यः स कोशः स्यात्‍ पृथक्‍ पृथक्‍ ॥१॥

सुखप्रद आणि दुःखप्रद कोश
बलप्रजारक्षणार्थ यज्ञार्थं कोशसंग्रहः ।
परेत्रेह च सुखदो नृपस्यान्यश्च दुःखदः ॥२॥

स्त्रीपुत्रार्थं कृतो यश्च स्वोपभोगाय केवलम्‍ ।
नरकायैव स ज्ञेयो न परत्र सुखप्रदः ॥३॥

सुपात्र आणि अपात्र यांचे धन
अन्यायेनाजितो यस्माद्‍ येन तत्पापभाक्‍ च सः ।
सुपात्रतो गृहीतं यद्दत्तं वा वर्धते च यत्‍ ॥४॥

स्वागमी सद्‍ व्ययी पात्रमपात्रं विपरीतकम्‍ ।
अपात्रस्य हरेत्‍ सर्वं धनं राजा न दोषभाक्‍ ॥५॥

अधर्मशीलनृपतेः सर्वतः संहरेद्धनम्‍ ।
छलाद्‍ बलाद्दस्ययुवृत्या पराराष्ट्राद्धरेत्तथा ॥६॥

त्यक्त्वा नीतिबलं स्वीयप्रजापीडनतो धनम्‍ ।
संचितं येन तत्तस्य सराज्यं शत्रुसादभवेत्‍ ॥७॥

दण्डभूभागशुल्कानामाधिक्यात्‍ कोशवर्धनम्‍ ।
अनापदि न कुर्वीत तीर्थदेवकरग्रहात्‍ ॥८॥

आपत्तीमध्ये कर
यदा शत्रुविनाशार्थं बलसंरक्षणोद्यतः ।
विशिष्ट दण्डशुल्कादि धनं लोकात्तदा हरेत्‍ ॥९॥

धनिकेभ्यो भृति दत्त्वा स्वापत्तौ तद्धनं हरेत्‍ ।
राजा स्वापत्समुत्तीर्णस्तत्‍ स्वं दद्यात्‍ सवृद्धिकम्‍ ॥१०॥

प्रबळ दंडामुळे अनिष्ट
प्रजाऽन्यथा हीयते च राज्यं कोशो नृपस्तथा ।
हीनाः प्रबलदण्डेन सुरथाद्या नृपा यतः ॥११॥

प्रजेचे संरक्षण
बलमूलो भवेत कोशः कोशमूलं बलं स्मृतम्‍ ॥१२॥

बलसंरक्षणात्‍ कोशराष्ट्रवृद्धिररिक्षयः ।
जायते तत्त्रयं स्वर्गः प्रजासंरक्षणेन वै ॥१३॥

व्यापारी काय करतो
मूलैर्व्यवहरन्त्यर्धैर्न वृद्धा वणिजः कचित्‍ ॥१४॥

विक्रीणन्ति महार्धे तु हीनार्धे सञ्चयानी हि ।

संग्रह केलेल्या धनाचेसुद्धा रक्षण
संरक्षयेत्‍ प्रयत्नेन संगृहीतं धनादिकम्‍ ॥१५॥

अर्जने तु महद्‍ दुःखं रक्षणे तच्चतुर्गुणम्‍ ।

क्षणं चोपेक्षितं यत्तद्विनाशं द्राक्‍ समाप्नुयात्‍ ॥१६॥

आर्जकस्यैव दुःखं स्यात्तथाऽर्जित विनाशने ।
स्त्रीपुत्राणामपि तथा नान्येषां तु कथं भवेत्‍ ॥१७॥

कार्यामागील जागृतता
स्वकार्ये शिथिलो यः स्यात्‍ किमन्ये न भवन्ति हि ।
जागरुकः स्वकार्ये यस्तत्सहायाश्च तत्समाः ॥१८॥

मूर्खाचे लक्षण
एकस्मिन्नधिकारे तु यो द्वावधिकरोति सः ।
मूर्खो जीवद्‍ - द्विभार्यच्च ह्यतिविस्त्रम्भवांस्तथा ॥१९॥

महाधनाशो रचलसः स्त्री भिर्निर्जित एव हि ।
तथा यः साक्षितां पृच्छेश्चौरजाराततायिषु ॥२०॥

संरक्षयेत्‍ कृपणवत्‍ काले दद्याद्विरक्तवत्‍ ।
मूर्खत्वमन्यथा याति स्वधनव्ययतोऽपि च ॥२१॥

जकातीचे लक्षण
विक्रेतृक्रेतृतो राजभागः शुल्कमुदाह्रनम्‍ ॥२२॥

शुल्कदेशा हट्टमार्गाः करसीमाः प्रकीर्तिताः ।
वस्तुजातस्यैकवारं शुल्कं ग्राह्यं प्रयत्नतः ॥२३॥

कचिन्नैवासकृच्छुल्कं राष्ट्रेग्राह्यं नृपैश्छत्मत्‍ ।
द्वात्रिंशांशं हरेदाजा विक्रेतुः क्रेतुरेव वा ॥२४॥

विंवांशं वा षोडशांशं शुल्कं मूल्याविरोधकम्‍ ।
न हीनसममूल्याद्धि शुल्कं विक्रेतृतो हरेत्‍ ॥२५॥

लाभं दृष्ट्वा हरेकच्छुल्कं क्रेतृतश्च सदा नृपः ।

व्यापारी, महाजन आणि जमिनदारांवर कर

वार्धुषिकाच्च कौसीदाद्‍ द्वात्रिंशांशं हरेन्नपः ।
गृहाद्याधारभूशुल्कं कृष्टभूमिरिवाहरेत्‍ ॥२६॥

तथा चापणिकेभ्यस्तु पण्यभूशुल्कमाहरेत्‍ ।
मार्गसंस्काररक्षार्थं मार्गगेभ्यो हरेत्‍ फलम्‍ ॥२७॥

सर्वतः फलभुग्‍ भुत्वा दासवत्‍ स्यात्तु रक्षणे ।
इति कोश प्रकरणं समासात्‍ कथितं किल ॥२८॥

तिसरे प्रकरण
विद्या व कला निरुपण
राज्य आणि राज्याची सर्वश्रेष्ठता
यस्याधीनं भवेद्यावत्तद्राष्ट्रंतस्य वै भवेत्‍ ।
कुबेरता शतगुणाधिका सर्वगुणात्ततः ॥१॥

ईशता चाधिकतरा सा नाल्यतपसः फलम्‍ ।
स दीव्यति पृथिव्यां तु नान्यो देवो यतः स्मृतः ॥२॥

यस्याश्रितो भवेल्लोकस्तद्वदाचरति प्रजा ।
भुंक्ते राष्ट्रफलं सम्यगता राष्ट्रकृतं त्वघम्‍ ॥३॥

स्वस्वधर्मपरो लोको यस्य राष्ट्रेप्रवर्तते ।
धर्मनीतिपते राजा चिरं कीर्ति से चाश्नुते ॥४॥

भूमौ यावद्यस्य कीर्तिस्तावत्स्वर्गे स तिष्ठति ।

नरकाचे लक्षण
अकीर्तिरेव नरको नान्योऽस्ति नरको दिवि ॥५॥

नरदेहाद्विना त्वन्यो देही नरक एव सः ।
महत्पापफलं विद्यादाधिव्याधिस्वरुपकम्‍ ॥६॥

धर्मरक्षणाने देशरक्षण
देशधर्मा जातिधर्माः कुलधर्माः सनातनाः ।
मुनिप्रोक्ताश्च ये धर्माः प्राचीना नूतनाश्च ये ॥७॥

ते राष्ट्रगुप्त्यै सन्धार्या ज्ञात्वा यत्नेन सन्नृपैः ।
धर्मसंस्थापनाद्राजा श्रियं कीर्ति प्रविन्दति ॥८॥

मन्यन्ने जाति भेदं ये मनुष्याणां तु जन्मता ॥९॥

त एव हि विजानति पार्थक्यं नामकर्मभिः ।

उत्तमो नीचसंसर्गाद्‍ भवेन्नीचस्तु जन्मना ।
नीचो भवेन्नौत्तमस्तु संसर्गाद्वाऽपि जन्मना ॥१०॥

कर्मणोत्तमनीचत्वं कालतस्तु भवेद्‍ गुणैः ।
विद्याकलाश्रयेणैव तन्नाम्ना जातिरुच्यते ॥११॥

ब्राह्मणाचे कर्म
इज्याध्ययनदानानि कर्माणि तु द्विजन्मनाम्‍ ।
प्रतिग्रहोऽध्यापन च याजनं ब्रह्मेऽधिकम्‍ ॥१२॥

क्षत्रिय आणि वैश्य यांचा धर्म
सद्रक्षणं दुष्टनाशः स्वांशादानं तु क्षत्रिये ।
कृषिगोगुप्तिवाणिज्यमधिकं तु विशां स्मृतम्‍ ॥१३॥

शूद्राचे कर्म
दानं सेवैव शूद्रादेर्नीचकर्म प्रकीर्तितम्‍ ।
क्रियामेदैस्तु सर्वेषां भृतिवृत्तिरनिन्दिता ॥१४॥

गुरुचे लक्षण
योऽधीनविद्यः सकलः स सर्वेषां गुरुर्भवेत्‍ ।
न च जात्याऽनधीतो यो गुरुर्भवितुमर्हति ॥१५॥

विद्या आणि कला यांचे लक्षण
यद्यत्स्याद्वाचिं सम्यक्कर्मविद्याभिसंज्ञकम्‍ ।
शक्तो मूकोऽपि यत्कर्तुं कलासंज्ञ तु तत्स्मृतम्‍ ॥१६॥

वेद आणि उपवेद
ऋग्यजुः साम चाथर्व वेदा आयुर्यनुः क्रमात्‍ ।
गार्न्धश्चैव तत्राणि उपवेदाः प्रकीर्तिताः ॥१७॥

वेदांची सहा अंगे
शिक्षा व्याकरणं कल्पो निरुक्तं ज्योतिषं तथा ।
छन्दः षडंगानीमानि वेदानां कीर्तितानि हि ॥१८॥

दुसर्‍या अठरा विद्या
मीमांसातर्कसांख्यानि वेदान्तो योग्य एवं च ।
इतिहासाः पुराणानि स्मृतयो नास्तिकं मतम्‍ ॥१९॥

अर्थशास्त्रं कामशास्त्रं तथा शिल्पमलंकृतिः ।
काव्यानि देशभाषाऽव - सरोक्तिर्यावनं मतम्‍ ॥२०॥

देशादिधर्मा द्वात्रिशदेता विद्याभिसंज्ञिताः ।

आयुर्वेदाचे लक्षण
विन्दत्यायुर्वेत्ति सम्य - गाकृत्योषधिहेतुतः ।
यस्मिनऋग्वेदोपवेदः स चायुर्वेदसंज्ञकः ॥२१॥

धनुर्वेदाचे लक्षण
युद्धशस्त्रास्त्रकुशलो रचनाकुशलो भवेत्‍ ।
यजुर्वेदोपवेदोऽयं धनुर्वेदस्तु येन सः ॥२२॥

तंत्र किंवा आगम याचे लक्षण
विविधोनास्यमन्त्राणां प्रयोगाः सुविभेदतः ॥२३॥

कथिताः सोपसंहारस्तद्धर्मनियमैश्च षट्‍ ।
अथर्वणां चोपवेदस्तन्त्ररुपः स एव हि ।

शिक्षणाचे लक्षण
स्वरतः कालतः स्थानात्प्रयत्नानु प्रदानतः ॥२४॥

स्वनाद्यैश्च सा शिक्षा वर्णानां पाठ शिक्षणात्‍ ।

कल्पाचे लक्षण आणि भेद
प्रयोगो यत्र यज्ञानुमुक्तो ब्राह्मणशेषतः ॥२५॥

श्रोतकल्प स विज्ञेयः स्मार्तकल्पस्तथेतरः ।

व्याकरणाचे लक्षण
व्याकृताः प्रत्ययाद्यैश्च धातुसन्धिसमासतः ॥२६॥

शब्दा यत्र व्याकरणमेतद्धि बहुलिंगतः ।

निरुक्ताचे लक्षण
शब्दनिर्वचनं यत्र वाक्यार्थैकार्थसंग्रहः ॥२७॥

निरुक्तं तत्समाख्यानाद्वेदांग श्रोत्रसंज्ञकम्‍ ।

ज्योतिष शास्त्राचे लक्षण
नक्षत्रग्रहमनैः कालो येन विधीयते ॥२८॥

संहिताभिश्च होराभिर्गणितं ज्यौतिषं हि तत्‍ ।

मीमांसाचे लक्षण
यत्र व्यवस्थिता चार्थकल्पना विधिभेदतः ॥२९॥

मीमांसा वेदवाक्यानां सैव न्यायश्च कीर्तितः ।

तर्काचे लक्षण
भावाभावपदार्थानां प्रत्यक्षादि प्रमाणतः ॥३०॥

सविवेकी यत्र तर्कः कणादादि मनं च यत्‍ ।

सांख्याचे लक्षण
पुरुषोऽप्टौ प्रकृतयो विकाराः षोडशेति च ॥३१॥

तत्वादिसंख्यावैशिष्ट्या त्सांख्यमित्य भिधीयते ।

वेदांताचे लक्षण
ब्रह्मैकमद्वितीयं स्यान्नाना नेहास्ति किंचन ॥३२॥

मायिकं सर्वमज्ञानाद्‍ भाति वेदान्तिनां मतम्‍ ।

योगाचे लक्षण
चित्तवृत्तितिरोधस्तु प्राणसंयमनादिभि ॥३३॥

तद्योगशास्त्रं विज्ञेयं यस्मिन्ध्यानसमाधितः ।

इतिहासाचे लक्षण
प्राग्वृत्तकथनं चैक - राजकृत्यमिषादितः ॥३४॥

यस्मिन्स इतिहासः स्यात्पुरावृत्तः स एव हि ।

पुराणाचे लक्षण
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥३५॥

वंशानुचरितं यस्मिन्‍ पुराणं तद्धि कीर्तितम्‍ ।

स्मृतिचे लक्षण
वर्णादिधर्मस्मरणं यत्र वेदाविरोधकम्‍ ॥३६॥

कीर्तनं चार्थशास्त्राणां स्मृतिः सा च प्रकीर्तिता ।

अर्थशास्त्राचे लक्षण
श्रृतिस्मृत्वाविरोधेन राजवृत्तादि - शासनम्‍ ॥३७॥

सुयुक्त्याऽर्थार्जनं यत्र ह्यर्थशास्त्रं तदुच्यते ।

कामशास्त्राचे लक्षण
शशादिभेदतः पुंसामनुकूलादिभेदतः ॥३८॥

पद्यिन्यादिप्रभेदेन स्त्रीणां स्वीयादिभेदतः ।
तत्कामशास्त्रं सत्वादेर्लज्य यत्रादि चोथयोः ॥३९॥

शिल्पशास्त्राचे लक्षण
प्रासादप्रतिमाराम - गृहवाप्यादिसंत्कृतिः ।
कथिता यत्र ताच्छल्पशास्त्रमुक्तं महर्षिभिः ॥४०॥

गांधर्ववेदाच्या सात कला
हावभावादि संयुक्तं नर्तनं तु कला स्मृता ।
अनेकवाद्यविकृतौ ज्ञानं तद्वारनं कला ॥४१॥

वस्त्रालंकारसंधानं स्त्रीपुंसोश्च कला स्मृता ।
अनेकरुपाविर्भाव कृतिज्ञानं कला स्मृता ॥४२॥

शय्यास्तरणसंयोग - पुष्पादिग्रथनं कला ।
द्युताद्यनेकक्रीडाभी रञ्जानं तु कला स्मृता ॥४३॥

अनेकासनसन्धानै रतेर्ज्ञानं कला स्मृता ।
कलासप्तकमेतद्धि गान्धर्वे समुदाहतम्‍ ॥४४॥

आयुर्वेदाच्या दहा कला
मकरन्दासवादीनं मद्यादीनां कृतिः कला ।
शल्यगूढादृतौ ज्ञानं शिरव्रणव्यधे कला ॥४५॥

हीनादिरससंयोगन्नादिसंपाचनं कला ।
वृक्षादिप्रसवारोपपालनादिकृतिः कला ॥४६॥

पाषाणद्यात्वादिद्रुतिस्मडस्मकरणं कला ।
यावदिक्षुविकारणां कृतिज्ञानं कला स्मृता ॥४७॥

धात्वौषधीनां संयोग - क्रियाज्ञानं कला स्मृता ।
धातुसांकर्यपार्थक्य - करणं तु कला स्मृता ॥४८॥

संयोगापूर्वविज्ञानं धात्वादीनां कला स्मृता ।
क्षारनिष्कासनज्ञानं कलासंज्ञं तु तत्स्मृतम्‍ ॥४९॥

कलादशकमेतद्धि ह्यायुर्वेदागमेषु च ।

धनुर्वेदाच्या पाच कला
शस्त्रसंधानविक्षेपः पदादिन्यासतः कला ॥५०॥

संध्यादाताकृष्टिभेर्दर्मल्लयुद्धं कला स्मृता ।

बहुयुद्धन्तु मल्लाना - मशस्त्र मुष्टिमि स्मृतम्‍ ॥५१॥

मृतस्य तस्य न स्वर्गो यशो नेहापि विद्यते ।

वलदर्पविनाशान्तं नियुद्धं यशसे रिपोः ॥५२॥

न कस्यासीत कुर्याद्‍ वा प्रणान्तं बाहुयुद्धकम्‍ ।

कृतप्रतिकृतैश्चिचत्रैर्बाहुभिश्च सुसंकरैः ॥५३॥

सन्निपातावधातैश्च प्रमादोन्मथनैस्तथा ।
कृतं निपीडनं ज्ञेयं तन्मुक्तिस्तु प्रतिक्रिया ॥५४॥

कलाऽभिलक्षिते देशे यन्त्राद्यस्मनिपातनम्‍ ।
वाद्यसंकेततो व्यूहरचनादि कला स्मृता ॥५५॥

गजाश्वरथगत्या तु युद्धसंयोजनं कला ।
कलापश्चकमेताद्धि धनुर्वेदागमे स्थितम्‍ ॥५६॥

निरनिराळ्या आठ कला
विविधासनमुद्राभिर्देवतातोषणं कला ।
सारथ्यं च गजाश्वादेर्गतिशिक्षा कला - स्मृता ॥५७॥

मृत्तिकाकाष्ठपाषाणधातुभाण्डादिसत्क्रिया ।
पृथक्कलाचतुष्कन्तु चित्राद्यालेखनं कला ॥५८॥

दुसर्‍या बत्तीस कला
तडागवापीप्रासादसमभृमिक्रिया कला ।
घटयाद्यनेकयन्त्राणां वाद्यानां तु कृतिः कला ॥५९॥

हीनमध्यादिसंयोग - वर्णाद्यै रंजनं कला ।
जलवाय्वग्निसंयोगनिरोधैश्च क्रिया कला ॥६०॥

नौकरथादियानानां कृतिज्ञानं कला स्मृता ।
सूत्रादिरज्जुकरणं विज्ञानं तु कला स्मृता ॥६१॥

अनेकतन्तुसंयोगैः पटबन्धः कला स्मृता ।
वेधादिसरसज्ज्ञानं रत्नानां च कला स्मृता ॥६२॥

स्वर्णादीनां तु याथात्म्य - विज्ञानं च कला स्मृता ।
कृत्रिमस्वर्ण रत्नादि - क्रियाज्ञानं कला स्मृता ॥६३॥

स्वर्णाद्यलंकारकृतिः कला लेपादिसत्कृतिः ।
मार्दवादिक्रियाज्ञानं चर्तणां तु कला स्मृता ॥६४॥

पशुचर्मांगनिर्हार - क्रियाज्ञानं कला स्मृता ।
दुग्धदोहादिविज्ञानं घृतान्तन्तु कला स्मृता ॥६५॥

सीवने कुंचुकादीनां विज्ञानं तु कलात्मकम्‍ ।
बाहवादिभिश्च तरणं कलासंज्ञं जले स्मृतम्‍ ॥६६॥

मार्जने गृहभांडादेर्विज्ञानं तु कला स्मृता ।
वस्त्रंसंमार्जनं चैव क्षुरकर्म कले ह्युभे ॥६७॥

तिलमांसादिस्नेहानां कला निष्कासने कृतिः ।
सीराद्याकर्षणे ज्ञानं वृक्षाद्यारोहणे कला ॥६८॥

मनोऽनुकूलसेवायाः कृतिज्ञानं कला स्मृता ।
वेणुतृणादिपात्राणां कृतिज्ञानं कला स्मृता ॥६९॥

काचपात्रादिकरणविज्ञानं तु कला स्मृता ।
संसेचनं संहरणं जलान्तं तु कला स्मृता ॥७०॥

लोहाभिसारशस्त्रास्त्रकृतिज्ञानं कला स्मृता ।
गजाश्ववृषभोष्ट्राणां पल्याणादिक्रिया कला ॥७१॥

शिशोः संरक्षणे ज्ञानं धारणे क्रीडने कला ।
सुयुक्तताडनज्ञान - मपराधिजने कला ॥७२॥

नानादेशीयवर्णानां सुसम्यग्लेखनं कला ।
ताम्बूलक्षादिकृति - विज्ञानं तु कला स्मृता ॥७३॥

आदानमाशुकारित्वं प्रतिदानं चिरक्रिया ।
कलासु द्वौ गुणौ ज्ञयौ दे कले परिकीर्तिते ॥७४॥

चतुः षष्टिकला ह्येताः संक्षपेण निदर्शिताः ।
यां यां कलां समाधित्य तां तां कुर्यात्स एव हि ॥७५॥

प्रकरण चौथे
लोकधर्म निरुपण
चार आश्रम
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यदिः क्रमात्‍ ।
चत्वार आश्रमाश्चैते ब्राह्मणस्य सदैव हि ॥१॥

अन्येषामन्त्यहीनाश्च क्षत्रविट्शूद्रकर्मणाम्‍ ।

हे सर्व कां आहेत ?
विद्यार्थ ब्रह्मचारी स्यात्‍ सर्वेषां पालने गृही ॥२॥

वानप्रस्थ सन्दमने संन्यासी मोक्षसाधने ।

वर्तयन्त्यन्यथा दण्डया या वर्णाश्रमजातयः ॥३॥

पतिव्रता स्त्रियांच्या कर्तव्यांचा निर्देश
संगीतैर्मधुराऽऽलापैः स्वायत्तस्तु पतिर्यथा ।
भवेत्तथाऽऽचरेयुर्वै मायाभिः कामकेलिभिः ॥४॥

मुलांचा मोठेपणा कुठून ?
कदाचिद्‍ बीजमाहात्म्यात्‍ क्षेत्रमहात्म्यतः कचित्‍ ॥५॥

नीचोत्तमत्वं भवति श्रेष्ठत्वं क्षेत्रबीजतः ।

विश्वामित्रश्च वशिष्ठो मतंगो नारदादयः ॥६॥

तपोविशेषैः सम्प्रताप्ता उत्तमत्वं न जातितः ।

आचरण आणि ओळख ह्यासाठी काय करावे ?
स्वस्वजात्युक्तधर्मो यः पूर्वैराचरितः सदा ॥७॥

तमाचरेश्च सा जातिर्दण्ड्या स्यादन्यथा नृपैः ।
जातिवर्णाश्रमात्‍ सर्वान्‍ पृथक्‍ चिन्हैः सुलक्षयेत्‍ ॥८॥

देव प्रतिमा
अपि श्रेयस्करं नृणां देवबिम्बमलक्षणम्‍ ।
सलक्षणं मर्त्यबिम्बं न हि श्रेयस्करं सदा ॥९॥

सात्विकी राजसी देवप्रतिमा तामसी त्रिधा ।
विष्णवादीनां च या यत्र योग्या पूज्या तुतादृशी ॥१०॥

सात्विक प्रतिमेचे लक्षण
योगमुद्रान्विता स्वस्था वराभयकरान्विता ।
देवेन्द्रादिस्तुतनुता सात्विकी सा प्रकीर्तिता ॥११॥

राजस प्रतिमेचे लक्षण
तिष्ठन्ती वाहनस्था वा नानाभरणभूषिता ।
या शस्त्रास्त्राभयवर - करा सा राजसी स्मृता ॥१२॥

तामस प्रतिमेचे लक्षण
शस्त्रास्त्रैर्दैत्यहन्यी या ह्राग्ररुपधरा सदा ।
युद्धाभिनन्दिनी सा तु तामसी प्रतिमोच्यते ॥१३॥

प्रकरण पाचवे
राजधर्म निरुपण
पक्षपाताचे कारण
पक्षपाताधिरोपस्य कारणानि च पञ्च वै ।
रागलोभभयद्वेषा वादिनोश्च रहः श्रुतिः ॥१॥

राजासाठी निर्देश
यस्त्वधर्मेण कार्याणि मोहात्‍ कुर्यान्नराधिपः ।
अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः ॥२॥

अस्वर्ग्या लोकनाशाय परानीक भयावहा ॥३॥

आयुर्बीजहरी राज्ञामस्ति वाक्ये स्वयंकृति ।

सभासदाचे लक्षण
व्यवहारविदः प्राज्ञा वृत्तशीलगुणान्विताः ।
रिपौ मित्रे समा ये च धर्मज्ञाः सत्यवादिनः ॥४॥

निरालसा जितक्रोध कामलोभाः प्रियंवदाः ।
राज्ञा नियोजितव्यास्ते सभ्याः सर्वासु जातिषु ॥५॥

निर्णय कोणाकडून करावा
कीनाशाः कारुकाः शिल्पिकुसीदिधजिनर्तकाः ।
लिंगिनस्तस्कराः कुर्युः स्वेन धर्मेण निर्णयम्‍ ॥६॥

अशक्यो निर्णयो ह्यन्यैस्तज्जैरेव तु कारयेत्‍ ।

तपस्विनां तु कार्याणि त्रैविद्यैरेव काययेत्‍ ॥७॥

मायायोगाबिदां चैव न स्वयं कोपकारणात्‍ ।

सम्यग्विज्ञानसम्पन्नो नोपदेशं प्रकल्पयेत्‍ ॥८॥

उत्कृष्टजातिशीलानां गुर्णाचार्यतपस्विनाम्‍ ।

अनियुक्तो नियुक्तो धर्मज्ञो वस्तुमर्हति ।
दैवी वाचं स वदति यः शास्त्रमुपजीवति ॥९॥

सभेत जाण्याचे नियम
सभा वा न प्रवेष्टव्या वक्तव्यं सा समञ्जसम्‍ ।
अब्रुवन्‍ विब्रुवंश्चापि नरो भवति किल्बिषी ॥१०॥

निर्णय करण्यास समर्थ पुरुषांचे लक्षण
एकं शास्त्रधीयानो न विन्द्यात्‍ कार्यनिर्णयम्‍ ।
तस्माद्‍ ब्रह्मागमः कार्यो विवादेषूत्तमो नृपैः ॥११॥

धर्माचे लक्षण
सब्रूते यं स धर्मः स्यादेको वाऽध्यात्मचिन्तकः ।

धर्माधिकरणाच्या लक्षणाचा निर्देश
धर्मशास्त्रानुसारेण ह्यार्थशास्त्रविवेचनम्‍ ।
यत्राधिक्रियते स्थाने धर्माधिकरणं हि तत्‍ ॥१२॥

व्यवहार पदाचे कथन
स्मृत्याचारव्यपेतेन मार्गेणाघर्षितः परैः ॥१३॥

आवेदयति चंद्राज्ञे व्यवहारपद हि तत्‍ ।

राजा किंवा राजपुरुष यांनी स्वतः व्यवहार करण्याचा निषेध
नोत्पादयेत्‍ स्वयं कार्य राजा नाप्यस्य पुरुषः ॥१४॥

न रागेण न लोभेत न क्रोधेन ग्रसेन्नृपः ।
परैरप्रापितानर्थान्न चापि स्वमनीषया ॥१५॥

पन्नास छळांचे वर्णन
पथिभंगी पराक्षेपी प्राकारोपरिलंघकः ॥१६॥

निपामस्य विनाशी च तथा चायतनस्य च ।
परिखापूरकश्चैच राजच्छिद्र प्रकाशकः ॥१७॥

अन्तः पुरं वासगृहं भाण्डागारं महानसम्‍ ।
प्रविशत्यनियुक्तो यो भोजनं च निरीक्षते ॥१८॥

विण्मूत्रश्लेष्मवातानां श्रेप्ता कामान्‍ नृपाग्रतः ।
पर्यकांसनबन्धी चाप्यग्रस्थानविरोधकः ॥१९॥

नृपातिरिक्तवेषश्च विधृतः प्रतिशेत्तु यः ।
यश्चापद्वारेण विशेदवेलायां तथैव च ॥२०॥

शय्यासने पादुके च शयनास नरोहणे ।
राजन्यासन्नशयने यस्तिष्ठति समीपतः ॥२१॥

राज्ञो विद्विष्टसेवी चाप्यदत्तविहितासनः ।
अन्यवस्त्राभरणयोः स्वर्णस्य परिधायकः ॥२२॥

स्वयंग्राहेण ताम्बूलं गृहीत्वा भक्षयेत्तु यः ।
अनियुक्तप्रभाबी च नृपाक्रोशक एवं च ॥२३॥

एकवासास्तथाऽभ्यक्तो मुक्तकेशोऽवगुण्ठितः ।
विचित्रितांग स्त्रग्वी च परिधान विधूनकः ॥२४॥

शिरः प्रच्छादकश्चैव च्छिद्रान्वेषणतत्परः ।
आसंगी मुक्तकेशश्च घ्राणकर्णाक्षिदर्शकः ॥२५॥

दन्तोल्लेखनकश्चैव कर्णनासाविशोधकः ।
राज्ञः समीपे पश्चाशच्छलान्येतानि सन्ति हि ॥२६॥

दहा अपराधांचे वर्णन
आज्ञोल्लंघनकारित्वं स्त्रीवधो वर्णसंकरः ।
परस्त्रीगमनं चौर्यं गर्भश्चैव पति बिना ॥२७॥

वाक्यारुष्यमनाच्याद्यं दण्डपारुष्यमेव च ।
गर्भस्य पातनं चैवेत्यपराधा दशैव तु ॥२८॥

राजाला माहित असणारे बावीस विवादांचे वर्णन
उत्कृती सस्यधाती चाप्यग्निदश्च तथैव च ।
राज्ञो द्रोहप्रकर्ता च तन्मुद्राभेदकस्तथा ॥२९॥

तन्मन्त्रस्य प्रभेत्ता च बद्धस्य च विमोचकः ।
अस्वामिविक्रयं दानं भागं दण्ड विचिन्वति ॥३०॥

परहाघोषणाच्छावी द्रव्यमस्वामिकं च यत्‍ ।
राजावलीठद्रव्यं च यच्चैवांगविनाशकम्‍ ॥३१॥

द्वाविंशति पदान्याहुर्नृपज्ञेयानि पण्डिताः ।

दंडयोग्य वादीच्या लक्षणांचा निर्देश
उद्धतः क्रूरवारवेषो गवितश्चण्ड एवं हि ॥३२॥

सहासनश्चातिमानीवादी दण्डमवाप्नुयात्‍ ।

आवेदन पत्राचे लक्षण
आणि सर्वांना बोधप्रद वाटेल अशा उत्तराचा निर्देश
अर्थिना कथितं राज्ञे तदावेदनसंज्ञकम्‍ ॥३३॥

कथितं प्राडिवाकादौ सा भाषाऽखिलबोधिनी ।
स पूर्वपक्षः सभ्यादिस्तं विमृश्य यथार्थतः ॥३४॥

अर्थितः पूरयेद्धीनं तत्साक्ष्यमधिकं त्यजेत्‍ ।
वादिनश्चिन्हितं साक्ष्यं कृत्वा राजा विमुद्रयेत्‍ ॥३५॥

अशोधयित्वा पक्षं ये ह्युत्तरं दापयन्ति तान्‍ ।
रागाल्लोभाभ्दयाद्वापि स्मृत्यर्थे वाधिकारिणः ॥३६॥

सभ्यादीन्‍ दण्डयित्वा तु ह्यधिकारान्निवर्तयेत्‍ ।

ग्राह्याग्राह्यं विवादं तु सुविमृश्य समाश्रयेत्‍ ॥३७॥

सञ्जातपवपक्षं तु वादिनं सन्निरोधयेत्‍ ।
राजाज्ञया सत्पुरुषैः सत्यवाग्भिर्मनौरैहरैः ॥३८॥

निरालसेंगितज्ञैश्च दृढशस्त्रास्त्रधारिभिः ।

शंकाऽसतां तु संसर्गादनुभूतकृतेस्तथा ।
होढाभिदर्शनात्तत्त्वं विजानाति विचक्षणः ॥३९॥

प्रतिनिधी बनविण्याचा निर्देश
व्यवहारानभिज्ञेन ह्यन्यकार्याकुलेन च ॥४०॥

प्रत्यर्थिनाऽथिना तज्ज्ञः कार्यः प्रतिनिधीस्तदा ।

यः कश्चित्कारयेत्‍ किश्चिन्नियोगाद्‍ येन केनचित्‍ ॥४१॥

तत्तेनैव कृतं ज्ञयमनिवर्त्य हि तत्स्मृतम्‍ ।

कोणत्या स्त्रीला न्यायालयात बोलावले जाऊ शकते ?
तदधीनकुटुंबिन्यः स्वैरिण्यो गणिकाश्च याः ॥४२॥

निष्कुला याश्च पतितास्तासामाव्हानमिस्यते ।

विवादाच्या साधनांची परीक्षा करण्याचा निर्देश
स्वपुष्टौ राजपुष्टौ वा स्वभृत्या पुष्टरक्षकौ ।
ससाधनौ तत्वमिच्छुः कूटसाधनशंकया ॥४३॥

मोहाद्वा यदि वा शाठ्याद्‍ यन्तोक्तं पूर्ववादिना ।
उत्तरान्तर्गतं वा तत्प्रश्नैर्ग्राह्यं द्वयोरपि ॥४४॥

उत्तराचे भेद
सत्यं मिश्योत्तरं चैव प्रत्यवस्कन्दनं तथा ।
पूर्वन्यायविधिश्चेवमुत्तरं स्याच्चतुविधम्‍ ॥४५॥

सत्य उत्तर
अंगीकृतं यथार्थ यद्‍ वाद्युक्तं प्रतिवादिना ।
सत्योत्तरं तु तञ्ज्ञेयं प्रतिपत्तिश्च सा स्मृता ॥४६॥

मिथ्या उत्तर
श्रुत्वा भाषार्थमन्यस्तु यदि तं प्रतिषेधति ।
अर्थतः शब्दतो कपि मिथ्या तज्ज्ञेयमुत्तरम्‍ ॥४७॥

मिथ्यैतन्नाभिजानामि तदा तत्र नसन्निधिः ।
अजातश्चास्मि तत्काले इति मिथ्या चतुविधम्‍ ॥४८॥

प्रत्यवस्कन्दन उत्तर
अथिना लिखितो हार्थः प्रत्यर्थी यदिर्द्धतं तथा ।
प्रपद्य कारणं ब्रुयात्‍ प्रत्यवस्कन्दनं हि तत्‍ ॥४९॥

पूर्वन्यायविधि उत्तर
अस्मिन्नर्थे ममानेन वादः पूर्वमभूत्तदा ।
जितोऽहमिति चेद्‍ ब्रुयात्‍ प्राड्न्यायः स उदाह्यतः ॥५०॥

जयपत्रेण सम्यैर्वा साक्षिभिर्भावयाम्यहम्‍ ।
मयाजितः पूर्वमिति प्राड्न्यायस्त्रिविधिः स्मृतः ॥५१॥

अन्योऽन्ययोः समक्षं तु वादिनोः पक्षयुत्तरम्‍ ।
न हि गृह्यन्ति ये सभ्या दण्डयास्ते चौरवत सदा ॥५२॥

साक्षीदाराचे लक्षण आणि भेद
स्वेतरः कायविज्ञानी यः स साक्षी त्वनेकधा ॥५३॥

द्वष्टार्थश्च श्रुतार्थश्च कृतश्चैवाऽकृती द्विधा ।

अथिप्रत्यर्थिसान्निध्यादनुभूतं तु प्राज्‍ यथा ॥५४॥

दशनैः श्रवणैर्येन स साक्षी तुल्यबाग्‍ यदि ।

यस्य नोपहता बुद्धिः स्मृतिः श्रोत्रं च नित्यशः ॥५५॥

सुदीर्घेणामि कालेन स वे साक्षित्वमर्हति ।

अनुभूतः सत्यवाग्‍ यः सैकः साक्षित्वमर्हति ॥५६॥

उभयानुमतः साक्षी भवत्येकोऽपि धमावत्‍ ।

द्वेधे बहुनां वचनं समेषु गुणिनां वचः ॥५७॥

तत्राधिकगुणानां च गृण्हीयाद्वचनं सदा ।

यत्रानियुक्तोऽपीक्षेत श्रृणुयाद्वपि किञ्चन ।
पृष्ठस्तत्रापि स ब्रूयाद्‍ यथादृष्टं यथाश्रुतम्‍ ॥५८॥

सत्य साक्षी सर्वोत्तम
सत्यं साक्ष्यं ब्रूवन्‍ साक्षी लोकानाप्नोति पुष्कलान्‍ ।
इह चानुत्तमां कीर्ति वागेषा ब्रह्मपूजिता ॥५९॥

सत्येन पूजते साक्षी धर्मः सत्येन वर्धते ।
तस्मात सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ॥६०॥

आत्मा उत्तम साक्षी
आत्मव ह्यात्मनः साक्षी गतिरात्मैव ह्यात्मनः ।
मावमंस्थास्त्वमात्मानं नृणां साक्षित्वमुत्तमम्‍ ॥६१॥

पाप कोण पहातो ?
मन्यते यै पापकारी न कश्चित्‍ पश्यतीति माम्‍ ।
तांश्च देवाः प्रपश्यन्ति तथा ह्यन्तरपुरुषः ॥६२॥

प्रमाण हेतू मानवी आणि दैवी क्रिया
यद्येके मानुषीं ब्रुयादन्यो ब्रूयात्तु दैविकीम्‍ ।
मानुषीं तत्र गृण्हीयान्न तु दैवी क्रिया नृपाः ॥६३॥

यद्येकदेशप्राप्ताऽपि क्रिया विद्येत मानुषी ।
सा ग्राह्या न तु पूर्णादि दैविकी वदतां नृणाम्‍ ॥६४॥

वर्तते यस्य यद्धस्ते तस्य स्वामी स एव न ।
अन्यस्वमन्यहस्तेषु चौयाद्यैः किन्न दृश्यते ॥६५॥

समर्थः सन्त ददाति गृहीतं धनिकाद्धनम्‍ ।
राजा सन्दापयेत्तस्मात्‍ सामदण्डविकर्षणैः ॥६६॥

अदत्तं यश्च गृण्हाति सुदत्तं पुनरिच्छति ।
दण्डनीयावुभावेतौ धर्मज्ञेन महीक्षिता ॥६७॥

खोटी वस्तू विकणार्‍याला शिक्षा देण्याचा निर्देश
कूटपण्यस्त विक्रेता स दण्ड्यश्चौरवत्‍ सदा ॥६८॥

लोकप्रचारैरुत्पन्नौ मुनिभिर्विधृतः पुरा ।
व्यवहारोऽनन्तपथः स वस्तु नैव शक्यते ॥६९॥

उक्तं राष्ट्रप्रकरणं समासात्‍ पञ्चम तथा ।
अत्रानुक्ता गुणा दोषास्ते लोकशास्त्रतः ॥७०॥

प्रकरण सहावे
दुर्ग निरुपण
ऐरिण दुर्गाचे लक्षण
षठं दुर्गप्रकरणं प्रवक्ष्यामि समासतः ।
स्वातकष्टकपाषार्णेर्दुष्पथं दुर्गमैरिणम्‍ ॥१॥

अत्यंत श्रेष्ठ दुर्गाचे लक्षण
शूरस्य सैन्यदुर्गस्य सर्वं दुर्गमिव स्थलम्‍ ॥२॥

युद्धसम्भारपुष्टानि राजा दुर्गाणि धारयेत्‍ ।
धन्यवीरास्त्रापुष्टानि कोषपुष्टानि वै तथा ॥३॥

सहायपुष्टं यद दुर्गं तत्तु श्रेष्टतरं मतम्‍ ।
सहायपुष्टदुर्गेष विजयो निश्चयात्मकः ॥४॥

यद्यत्सहायपुष्टं तु तत्सर्वं सफल भवेत्‍ ।
परस्परानुकूलं तु दुर्गाणां विजयप्रदम्‍ ॥५॥

सातवे प्रकरण
सेना निरुपण
सेनेचा प्रभाव
सैन्याद्विना नैव राज्यं न धनं पराक्रमः ।
बलिनो वशगाः सर्वे दुर्बलस्य च शत्रवः ॥१॥

भवन्त्यल्पजनस्यापि नृपस्य तु न किं पुनः ।

सहा प्रकारच्या बलांचा निर्देश
शारीरं हि बलं शौर्यबलं सैन्यबलं तथा ॥२॥

चतुर्थमास्त्रिकबलं पञ्चम धीबलं स्मृतम्‍ ।
षष्ठमादुर्बलं त्वेतैरुपेतो विष्णुरेव सः ॥३॥

न बलेन विनाप्यल्पं रिपुं जेतुं क्षमः सदा ।
देवासुरनरास्त्वन्योपायैर्नित्यं भवन्ति हि ॥४॥

बलमेव रिपोर्नित्यं पराजयकरं परम्‍ ।
तस्माद्बलमभेद्यं तु धरयेद्यत्नतो नृपः ॥५॥

सैन्य बलांचे भेद
सेनाबलन्तु द्विविधं स्वीयं मैत्रं च तद्‍ द्विधा ।
मौलसाद्यस्कभेदाभ्यां सारासारं पुनर्द्विधा ॥६॥

सेनेचे शारीरिक बल वाढविण्याचे उपाय
समैनियुद्धकुशलैर्व्यायामैर्नति भिस्तथा ॥७॥

वर्धयेद्वाहुयुद्धार्थ भोज्यैः शारीरकं बलम्‍ ।

शौर्यबल वाढविण्याचे उपाय
मृगयाभिस्तु व्याघ्राणां शस्त्रास्त्राभ्यासतः सदा ॥८॥

वर्धयेच्छुर संयोगात्‍ सम्यक्‍ शौर्यबलं नृपः ।

सेनाबल, आस्त्रिक आणि बुद्धिबळ वाढविण्याचे उपाय
सेनाबलं सुभृत्या तु तपोभ्यासैस्तथा स्त्रिकम्‍ ॥९॥

वर्धयेच्छास्त्रचतुर - संयोगाद्‍ धीबलं सदा ।

आयुर्बलाचे लक्षण
सत्क्रियाभिश्चिरस्थायि नित्यं राज्यं भवेद्‍ यथा ॥१०॥

स्वगोत्रे तु तथा कुर्यात्तदायुर्बलमुच्यते ।
यावद्‍ गोत्रे राज्यमस्ति तावदेव स जीवति ॥११॥

युद्धासाठी उत्तम देशाचे लक्षण
यस्मिन देशे यथाकालं सैन्यव्यायामभूमयः ॥१२॥

परस्य विपरीताश्च स्मृतो देशः स उत्तमः ।

युद्धासाठी मध्यम देशाचे लक्षण
आत्मनश्च परेषां च तुल्यव्यायामभूमयः ॥१३॥

यत्र मध्यम उद्दिष्टो देशः शास्त्रविचिन्तकैः ।

युद्धासाठी अधम देशाचे लक्षण
अरातिसैन्य व्यायामसुपर्याप्तमहीतलः ॥१४॥

आत्मना विपरीतश्च स वै देशोऽधमः स्मृतः ।

मंत्राच्या सहागुणांच्या नांवाचा निर्देश
संधिं च विग्रहं यातमासनं च समाश्रयम्‍ ॥१५॥

द्वैधीभावं च संविद्यान्मन्मस्यैतांस्तु षड्गुणान्‍ ।

संधीचे लक्षण
याभिः क्रियाभिर्बलपान्‍ मित्रतां याति वैरिषु ॥१६॥

सा क्रिया सन्धिरित्युक्ता विमृशेत तां तु यत्नतः ।

विग्रहाचे लक्षण
विकर्षितः सन्‍ वाऽधीनो भवेच्छत्रुस्तु येन वै ॥१७॥

कर्मणा विग्रहस्तं तु चिन्तयेन्मंत्रिभिर्नृपः ।

यान आणि आसन यांचे लक्षण
शत्रुनाशार्थगमनं यानं स्वाभीष्टसिद्धये ॥१८॥

स्वरक्षणं शत्रुनाशो भवेत्‍ स्थानात्तदासनम्‍ ।

समाश्रय आणि द्वैधीभाव यांचे लक्षण
यैर्गुप्तो बलवान्‍ भूयाद्‍ दुर्बलोऽपि स आश्रयः ॥१९॥

द्वैधीभावः स्वसैनानां स्थापनं गुलमगुल्मयोः ।

उपहार रुपाची संधीची सर्वश्रेष्ठतेचा निर्देश
एक एवोपहारस्तु सन्धिरेष मतो हितः ॥२०॥

उपहारस्य भेदास्तु सर्वे ये मैत्रवर्जिताः ।

अभियोक्ता बलीयस्त्वादलब्ध्वा न निवर्तते ॥२१॥

उपहारदृते यस्मान्‍ सन्धिरन्यो न विद्यते ।

संधीचे अवसराचे आणि त्याच्या फायद्याचे निर्देश
संघामवान्‍ यथा वेणुनिविडैः कण्टकैर्वृतः ॥२२॥

न शक्यते समुच्छेत्तु वेणुः संघातवांस्तथा ।

युद्ध केव्हा करावे
आपन्नोऽभ्युदयाकांक्षी पीड्यमानः परेण वा ॥२३॥

देशकालबलोपेतः प्रारभेत च विग्रहम्‍ ।

विग्रह आणि कलह
प्रहनिबलमित्रं तु दुर्गस्थं शत्रुमागतम्‍ ॥२४॥

अत्यन्तविषयासक्तं प्रजाद्रव्यापहारकम्‍ ।
भिन्नमंत्रिबलं राजा पीडयेत्‍ परिवेष्ट्यन्‍ ॥२५॥

विग्रहः स च विज्ञेयो ह्यन्यश्च कलहः स्मृतः ।

बलवान शत्रूबरोबर विग्रह करु नये
बलीयसाऽत्यल्पबलः शूरेण न च विग्रहम्‍ ॥२६॥

कुर्याद्धि विग्रहे पुंसां सर्वनाशः प्रजायते ।

द्वैधीभावाचे लक्षण
अनिश्चितोपायकार्यः समयानुचरो नृपः ।
द्वैधीभावेन वर्तेत काकाक्षिबदलक्षितम्‍ ॥२७॥

प्रदर्शयेदन्यकार्यमन्यमालम्बयेच्च वा ।

सदुपायैश्च सन्मंत्रैः कार्यसिद्धिरथोद्यमैः ॥२८॥

भवेदल्पजनस्यापि किं पुनर्नृपतेर्नहि ।

उपायाची महत्ता
अयोऽभेदद्यमुपायेन द्रवतामुपनीयते ॥२९॥

लोकप्रसिद्धमेवैतद्‍ वारि वन्हेनियामकम्‍ ।
उपायोपगृहीतेन तेनैतत्‍ परिशोष्यते ॥३०॥

उपायेन पदं मूर्ध्नि न्यस्यते मत्तहस्तिनाम्‍ ।

राजानं चावियोद्धारं ब्राह्मणं चाप्रवासिनम्‍ ॥३१॥

भूमिरेतो निर्गिलति सर्पो बिलशयानिव ।

ब्राह्मणस्यापि चापत्तौ क्षत्र्यधर्मेण वर्ततः ॥३२॥

प्रशस्तं जीवितं लोके क्षत्र हि ब्रह्मसंभवम्‍ ।

भर्तुरर्थे च यः शूरो विक्रमेद्वाहिनीमुखे ॥३३॥

भयान्न विनिवर्तेत तस्य स्वर्गो ह्यनन्तकः ।

आहवे निहतं शूरं न शोचेत कदाचन ॥३४॥

निर्मुक्तं सर्वपापेभ्यः पूतो याति सलोकताम्‍ ।

वराप्सरः सहस्त्राणि शूरमायोधने हतम्‍ ॥३५॥

त्वरमाणाः प्रधावन्ति मम भर्ता भवेदिति ।

एतत्तपश्च पुण्यं च धर्मश्चैव सनातनः ॥३६॥

चत्वार आश्रमास्तस्य यो युद्धे न पलायते ।

न हि शौर्यात्‍ परं किंचित्‍ त्रिषु लोकेषु विद्यते ॥३७॥

शूरः सर्वं पालयति शूरे सर्वं प्रतिष्ठितम्‍ ।

कार्याला नष्ट न करण्याचा निर्देश
अवमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः ॥३८॥

स्वकार्यं साधयेत्‍ प्राज्ञः कार्यध्वंसो हि मूर्खता ।

कूटस्वर्णमहादानैर्भेदयित्वा द्विषाद्वलम्‍ ॥३९॥

नित्यविस्त्रंभसंसुप्तं प्रजागरकृतश्रमम्‍ ।
विलोभ्यापि परानीकमप्रमत्तो विनाशयेत्‍ ॥४०॥

तत्सहायबलं नैव व्यसनाप्तमपि कचित ।

स्वसमीपतरं राज्यं नान्यस्माद्‍ ग्रह्येत्‍ क्कचित ॥४१॥

विजिता च रिपूनेवं समादद्यात्‍ करं तथा ।
राज्यांशं वा सर्वराजं नन्दयति तत्‍ प्रजाः ॥४२॥

सत्कृतान्नियमान्‍ सर्वान्‍ यदा सम्पालयेन्नृपः ॥४३॥

तदैव नृपतिः पूज्यो भवेत्‍ सर्वेषु नान्यथा ।

यस्यास्ति नियतं कर्म नियतः सदग्रहो यदि ॥४४॥

नियतोऽसद ग्रहोत्यागो नृपत्वं सोऽश्नुते चिरम्‍ ।

शुक्रनीति - साराच्या चिंतनाचे फळ
शुक्रोक्तनीतिसारं यश्चिन्तयेरनिशं सदा ।
व्यवहारधुरे वोढूंस शक्तो नृपतिर्भवेत्‍ ॥४५॥

शुक्रनीति समान दुसरी नीति नाही याचा निर्देश
न कवेः सदृशी नीतिस्त्रिषु लोकेषु विद्यते ।
काव्यैव नीतिरन्या तु कुनीतिर्व्यवहारिणाम्‍ ॥४६॥

नाश्रयन्ति च ये नीति मन्दभाग्यास्तु ते नृपाः ।

कातर्याद्धनलोभाद्वा स्युर्वै नरकभाजनाः ॥४७॥
Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:03.2100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

योगदायन

  • n. कश्यपकुलोल्पन्न एक गोत्रकार । 
RANDOM WORD

Did you know?

जननशांती म्हणजे काय ? ती केव्हा करावी ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Latest Pages

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.