TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

शुक्रनीतिः - प्रथम अध्याय

प्रस्तुत नीति शुक्राचार्यांनी न लिहिता मूळ नीति भगवान् श्रीशंकरांनी लिहिली आहे.


प्रथमः अध्यायः
मंगलाचरण
प्रणम्य जगदाधारं सर्गस्थित्यन्नकारणम्‍ ।
संपूज्य भार्गवः पृष्टो वन्दितः पूजितः स्तुतः ॥१॥

पूर्व देवैर्ययान्यायं नीतिसार उवाच तान्‍ ।
शतलक्षश्लोकमितं नीतिशास्त्रमयोक्तवान्‍ ॥२॥

नीतिशास्त्राचा उपक्रम
स्वयंभूर्भगवाँल्लोकहितार्थ संग्रहेण वै ।
तत्सारं तु वसिष्ठाद्यैरस्माभिर्वृद्धिहेतवे ॥३॥

अर्ल्पायुर्भूभृदाद्यर्थ संक्षिप्तं तर्कविस्तृतम्‍ ।
क्रियैकदेशबोधीनि शास्त्राण्यन्यानि संति हि ॥४॥

नीतिशास्त्राची प्रशंसा
सर्वोपंजीवकंलोकस्थितिकृन्नीतिशास्त्रकम्‍ ।
धर्मार्थ काममूलं हि स्मृतं मोक्षप्रदं यतः ॥५॥

अतः सदानीतिशास्त्रमभ्यसेद्यत्नतो नृपः ।
यद्विज्ञानान्नृपाद्याश्च शत्रुजिल्लोकरंजकाः ॥६॥

सुनीतिकुशला नित्यं प्रभंवित च भूमिपाः ।
शब्दार्थानां न किं ज्ञानं विना व्याकरणादभवेत्‍ ॥७॥

सर्वलोकव्यवहारस्थितिर्नीत्या विना नहि ।
यथाऽशनैर्विना देहस्थितिर्न स्याद्धि देहिनाम्‍ ॥८॥

राजाचे नीतिशास्त्र ज्ञानामागील प्रयोजन
सर्वाभीष्टकरं नीतिशास्त्रं स्यात्सर्वसंमतम्‍ ।
अत्यावश्यं नृपस्यापि स सर्वेषां प्रभुर्यतः ॥९॥

शत्रवो नीतिहीनानां यथाऽपथ्याशिनां गदाः ।
सद्यः केश्रिश्च कालेन भवंति न भवंति च ॥१०॥

नृपस्य परमो धर्मः प्रजानां परिपालनम्‍ ।
दुष्टनिग्रहणं नित्यं न नीत्याऽतो विना ह्युभे ॥११॥

अनीतिरेव सच्छिद्रं राज्ञो नित्यं भयावहम्‍ ।
शत्रुसंवर्धनं प्रोक्तं बलहासकरं मलत्‍ ॥१२॥

नीति त्यक्त्वा वर्त्ततेयः स्वतंत्रः स हि दुःखभाक्‍ ।
स्वतंत्रप्रभुसेवा तु ह्यसिधारावलेहनम्‍ ॥१३॥

स्वाराध्यो नीतिमान्‍ राजा दुराराध्यस्त्वनीतिमान्‍ ।
यत्र नीतिबले चोभे तत्र धीस्सर्वतोमुखी ॥१४॥

अप्रेरितहितकरं सर्वराष्ट्रं भवेद्यथा ।
तथा नीतिस्तु संद्यार्था नृपेणात्महिताय वै ॥१५॥

भिन्नं राष्ट्रंबलं भिन्नं भिन्नोऽमात्यादिको गणः ।
अकौशल्यं नृपस्येतदनीतेर्यस्य सर्वदा ॥१६॥

राजदंडभयाल्लोकः स्वस्वधर्मपरो भवेत्‍ ।
यो हि स्वधर्मनिरतः स तेजस्वी भवेदिह ॥१७॥

धर्माची प्रशंसा
विना स्वधर्मान्न सुखं स्वधर्मो हि परं तपः ।
तपः स्वधर्मरुपं यद्वर्थितं येन वै सदा ॥१८॥

देवास्तु किंकरास्तस्य किं पुनर्मनुजा भुवि ।
सुदण्डैर्धर्मनिरताः प्रजाः कुर्यान्महाभयैः ॥१९॥

नृपः स्वधर्मानिरतो भूत्वा तेजः क्षयोऽन्यथा ।
नित्यं बुद्धिमतोऽप्यर्थः स्वल्पकोऽपि विवर्धते ।
तिर्थच्चोऽपि वंश यांति शौर्यनीतिबलैर्धनैः ॥२०॥

राजाचे भेद
सात्विकं राजसं चैव तामसं त्रिविधं तपः ।
याद्दक्तपति योऽत्यर्थ ताद्दग्‍ भवति वै नृपः ॥२१॥

यो हि स्वधर्मनिरतः प्रजानां परिपालकः ।
यष्टा च सर्वयज्ञानां नेता शत्रुगुणस्य च ॥२२॥

दानशौण्डः क्षमी शूरो निः स्पृहो विषयेण्वपि ।
विरक्तः सात्त्विकः स हि नृपोऽन्ते मोक्षमन्वियात्‍ ॥२३॥

विपरीतस्तामतसः स्यात सोऽन्ते नरकभाजनः ।
निर्घृणश्च मरोन्मत्तो हिंसकः सत्यवर्जितः ॥२४॥

राजसो दांभिको लोभी विषयी वंचकश्शठः ।
मनसाऽन्यश्च वचसा कर्मणा कलहप्रियः ॥२५॥

नीचप्रियः स्वतंत्रश्च नीतिहीनश्छलांतरः ।
स तिर्यक्त्वं स्थावरत्वं भविताऽन्ते नृषाधमः ॥२६॥

देवांशान्‍ सात्त्विको भुंक्ते राक्षसांशांस्तु तामसः ।
राजसो मानवांशांस्तु सत्त्वे धार्य मनो यतः ॥२७॥

सत्त्वस्य तमसः साम्यान्मानुषं जन्म जायते ।
यद्यदाश्रयते मर्त्यस्तत्तुल्यो दिष्टतो भवेत्‍ ॥२८॥

कर्माची महत्ता
कर्मैव कारणं चात्र सुयतिं दुर्गतिं प्रति ।
कर्मेव प्राक्तनमपि क्षणं कि कोऽस्ति चाक्रियः ॥२९॥

जाति भेद
न जात्या ब्राह्मणश्चात्र क्षत्रियो वैश्य ऐव न ।
न शूद्रो न च वै म्लेच्छो भेदिता गुणकर्मभिः ॥३०॥

ब्रह्मणस्तु समत्पन्नाः सर्वे ते किं तु ब्राह्मणाः ।
न वर्णतो न जनकाद्‍ ब्राह्मतेज; प्रपयते ॥३१॥

ज्ञान कर्मोपासनाभिर्देवताराधने रतः ।
शान्तो दांतो दयालुश्च ब्राह्मणश्च गुणैः कृतः ॥३२॥

लोकसंरक्षणे दक्षः शूरो दांतः पराक्रमी ।
दुष्टनिग्रहशीलो यः स वै क्षत्रिय उच्चते ॥३३॥

क्रयविक्रयकुशला ये नित्यं पण्यजीविनः ।
पशुरक्षाकृषिकरास्ते वैश्याः कीर्तिता भुवि ॥३४॥

द्विजसेवाचनरताः शूराः शान्ता जितेन्द्रियाः ।
सीरकाष्ढतृणवहास्ते नीचाः शूद्रसंज्ञकाः ॥३५॥

त्यक्तस्वधर्माचरणा निर्घृणाः परपीडकाः ।
चण्डाश्च हिंसका नित्यं म्लेच्छस्ते ह्यविवेकिनः ॥३६॥

कर्मफल आणि भाग्य
प्राक्कर्मफलभोगार्हा बुद्धिः संजायते नृणाम्‍ ।
पापकर्मणि पुण्ये वा कर्तुं शक्तो न चान्यथा ॥३७॥

बंद्धिसत्पधते ताद्दग्‍ याद्दक्कर्मफलोदयः ।
सहायास्ताद्दशा ऐव याद्दशी भवितव्यता ॥३८॥

प्राक्कमवशतः सर्वं भवत्येवेति निश्चितम्‍ ।
तदोपदेशा व्यर्थाः स्युः कार्याकार्यप्रबोधकाः ॥३९॥

श्रीमन्तो वन्द्यचरिता मन्यन्ते पौरुषं महत्‍ ।
अशक्ताः पौरुषं कर्तुं क्लीबा दैवमुपासते ॥४०॥

दैवे पुरुषकारे च खलु सर्वं प्रतिष्ठितम्‍ ।
पूर्वजन्मकृतं कर्मेहाजितं तद्‍ द्विधा कृतम्‍ ॥४१॥

बलवत्प्रतिकारि स्याद्‍ दुर्बलस्य सदैव हि ।
सबलाबलयोर्ज्ञानं फलप्राप्त्याऽन्यथा नहि ॥४२॥

फलोपलब्धिः प्रत्यक्षहेतुना नैव दृश्यते ।
प्राक्कर्महैतुकी सा तु नान्यथैवेति निश्चयः ॥४३॥

यज्जयतेऽल्पक्रियया नृणां कपि महत्फलम्‍ ।
तदपि प्राक्तनादेव केचित्‍ प्रागिह कर्मजम्‍ ॥४४॥

वदन्तीहैव क्रियया जायते पौरुषं नृणाम ।
सस्नेहवर्तिर्दीपस्य रक्षा वातात्‍ प्रयत्नतः ॥४५॥

अवश्यंभाविभावानां प्रतीकारो न चेद्यदि ।
दुष्टानां क्षपणं श्रेयो यावद्‍ बुद्धिबलोदयैः ॥४६॥

प्रतिकूलानुकूलाभ्यां फलाभ्यां च नृपोऽप्यतः ।
यीषन्मध्याधिकाभ्यां च त्रिधा दैवं विचिन्तयेत्‍ ॥४७॥

रावणस्य च भीष्मादेर्वनभंगे च गोग्रहे ।
प्रतिकूल्यं तु विज्ञातयकस्याद्वानरान्नरात्‍ ॥४८॥

कालानुकूष्यं विस्पष्टं राघवस्यार्जुनस्य च ।
अनुकूले यदा दैवे क्रियाऽल्पा सुफला भवेत्‍ ॥४९॥

महती सत्क्रियाऽनिष्टफला स्यात्‍ प्रतिकूलके ।
बलिर्दानेन संबद्धी परिश्चन्द्रस्तथैव च ॥५०॥

भवतीष्टं सत्क्रिययाऽनिष्टं तद्विपरीतया ।
शास्त्रतः सदसज्ज्ञात्वा त्यक्त्वाऽसत्सयाचरेत्‍ ॥५१॥

कालस्य कारणं राजा सदसत्कर्मणस्त्वतः ।
स्वक्रौर्योद्यतदण्डाभ्यां स्वधर्मेस्थापयेत्‍ प्रजाः ॥५२॥

राजाची अंगे
स्वाम्यमात्यसुह्रत्कोशराष्ट्रदुर्गबलानि च ।
सप्तांगमुच्यते राज्यं तत्र मूर्धा नृपः स्मृतः ॥५३॥

द्दगमात्यः सुह्रच्छोत्रं मुखं कोशो बलं मनः ।
हस्तौ पादौ दुर्गराष्ट्रे राज्यांगानि स्मृतानि हि ॥५४॥

यदि न स्यान्नरपतिः सम्यड्‍ नेता ततः प्रज्ञाः ।
अकर्णधारा जलधौ विप्लवेते नौरिव ॥५५॥

न तिष्ठन्ति स्वस्वधर्मे विना पालेन वै प्रजाः ।
प्रजया तु बिना स्वामी पृथिव्यां नैव शोभते ॥५६॥

न्यायप्रवृत्तो नृपतिरात्मानमय च प्रजा ।
त्रिवर्गेणोपसंधत्ते निहन्ति ध्रुवमन्यथा ॥५७॥

वायुर्गन्धस्य सदसत्कर्मणः प्रेरको नृपः ।
धर्मप्रवर्त्तको धर्मनाशकस्तमसो रविः ॥५८॥

पिता माता गुलरुभ्राता बन्धुर्वैश्रवणो यमः ।
नित्यं सप्तगुणैरेषां युक्तो राजा न चान्यथा ॥५९॥

गुणसाधनसंदक्षः स्वप्रजायाः पिता यथा ।
क्षमयित्र्य पराधानां माता पुष्टिविधायिनी ॥६०॥

हितोपदेष्टा शिष्यस्य सुविधाऽध्यापको गुरुः ।
स्वभागोद्धारकृद्‍ भ्राता यथाशास्त्रं पितृर्थनात्‍ ॥६१॥

आत्मस्त्रीधनगुह्यानां गोप्ता बन्धुस्तु मित्रवत्‍ ।
धनदस्तु कुबेरः स्याद्यमः स्याश्च सुदण्डकृत्‍ ॥६२॥

प्रवृद्धिमति सम्राजि निवसन्ति गुणा अमी ।
ऐते सप्त गुणा राज्ञा न हातव्याः कदाचन ॥६३॥

क्षमते योऽपराधं स शक्तः स दयने क्षमी ।
क्षमया तु विना भूपो न भात्यखिल सदगुणैः ॥६४॥

स्वान्‍ दुर्गुणान्‍ परित्यज्य ह्यतिवादांस्तितिक्षते ।
दानैर्मानैश्च सत्कारैः स्वप्रजारंजकः सदा ॥६५॥

दान्तः शूरश्च शस्त्राकुशलो रिनिषूदनः ।
अस्वतन्यश्च मेधावी ज्ञानविज्ञानसंयुतः ॥६६॥

नीचाहीतो दीर्घदर्शी वृद्धसेवी सुनीतियुक्‍ ।
गुणिजुष्टस्तु यो राजा स ज्ञेयो देवतांशकः ॥६७॥

अवश्यमेव भोक्तव्यं कृतकर्मफलं नरैः ।
प्रतिकारैर्विना नैव प्रतिकारे कृते सति ॥६८॥

तथा भोगाय भवति चिकित्सितगदो यथा ।
उपदिष्टेऽनिष्टहेतौ तत्तकर्तुं यतेत कः ॥६९॥

रज्यते सत्फले स्वान्तं दुष्फले नहि कस्यचित्‍ ।
सदसद्धोधकान्येव द्दष्टवा शास्त्राणि चाचरेत्‍ ॥७०॥

नयस्य विनयो मूलं विनयः शास्त्रनिश्चयात्‍ ।
विनयस्येन्द्रियजस्तद्युक्तः शास्त्रपृच्छति ॥७१॥

आत्मानं प्रथमं राजा विनयेनोपपादयेत्‍ ।
ततः पुत्रांस्तनोऽमात्यांस्ततो भृत्यांस्ततः प्रजाः ॥७२॥

परोपदेशकुशलः केवलो न भवेन्नृपः ।
प्रजाधिकारहीनः स्यात्‍ सगुणोपि नृपः क्कचित्‍ ॥७३॥

न तु नृपविहीनाः स्युर्दुर्गुणा ह्यपि तु प्रजाः ।
यथा न वियवेन्द्राणी सर्वदा तु तथा प्रजाः ॥७४॥

सदानुरक्तप्रकृतिः प्रजापालनतत्परः ।
विनीतात्मा हि नृपतिर्भूयसीं श्रियमश्नुते ॥७५॥

प्रकीर्णविषयारण्ये धावन्तं विप्रमाथिनम्‍ ।
ज्ञानांकशेन कुर्वीत वशमिन्द्रियदंतिनम्‍ ॥७६॥

ऐकस्येव हि यो शक्तो मनसः सन्निबर्हणे ।
महीं सागरपर्यन्तां स कथं ह्यवजेष्यति ॥७७॥

शब्द स्पर्शश्च रुपं च रसो गन्धश्च पञ्चमः ।
ऐकैकन्त्वलमेतेषां विनाशप्रतिपत्तये ॥७८॥

द्युतं स्त्री मद्यमेवैतत्मित्यं बह्वनर्थकृत्‍ ।
अद्युक्तं युक्तियुक्त हि धनुपुत्रमतिप्रदम्‍ ॥७९॥

स्त्रीचे आकर्षण
स्त्रीणांर्द्वनामापि संह्लादि विकरोत्येव मानसम‍ ।
किपुनर्दर्शनं तासां विलासोल्लासितभ्रुवाम्‍ ॥८०॥

रहः प्रचारकुशला मृदुगद्रदभाषिणी ।
कं न नारी वशीकुर्यान्नरं रक्तान्तलोचना ॥८१॥

मुनेरपि मनो वश्यं सरागं कुसतेंऽगना ।
जितेंद्रियस्य का वार्ता किंपुत्रश्चाजितात्मनाम्‍ ॥८२॥

व्यायच्छन्तश्च बहवः स्त्रीषु नाशं गता अर्या ।
इंद्रदण्डक्यनहुषरावणाद्या नृपा ह्यतः ॥८३॥

मद्य आणि काम - क्रोध यांचा प्रयोग
अतिमद्यं हि पिबतो बुद्धिलोपो भवेत्किल ।
प्रतिभां बुद्धिवैशद्यं धैर्यं चित्तविनिश्चयम्‍ ॥८४॥

तनोति मात्रया पीतं मद्यमन्याद्विनाशकृत ।
कामक्रोधौ मद्यतमो नियोक्तव्यौ यथोचितम्‍ ॥८५॥

परस्त्री संगमे कामो लोभो योज्यो नान्यधनेषु च ।
स्वप्रजादण्डने क्रोधो नैव धार्यो नृपैः कदा ॥८६॥

राजा कुणाला म्हणावे
किमुच्चते कुटुम्बीति परस्त्रीसंगमान्नरः ।
स्व प्रजादण्डनाच्छूरो धनिकोऽन्यधनैश्च किम्‍ ॥८७॥

अरक्षितारं नृपतिं ब्राह्मणं चातपस्विनम्‍ ।
धनिकं चाप्रदातारं देवा ध्नन्ति त्यजन्त्यधः ॥८८॥

स्वामित्वं चैव दातृत्वं धनिकत्वं तपः फलम्‍ ।
ऐनसः फलमथित्वं दास्यत्वं च दरिद्रता ॥८९॥

द्दष्ट्वा शास्त्राण्यथात्मानं सन्नियम्य यथोचितम्‍ ।
कुर्यान्नृपः स्ववृत्तं तु परत्रेह सुखाय च ॥९०॥

राजाचे गुण - दोष
दुष्टनिग्रहणं दानं प्रजायाः परिपालनम्‍ ।
यजनं राजसूयादेः कोशानां न्यायतोऽर्जनम्‍ ॥९१॥

करदीकरणं राज्ञां रिपूणां परिमर्दनम्‍ ।
भूमेरुपार्जनं भूयो राजवृत्तं तु चाष्ट्या ॥९२॥

न वर्धितं बलं यैस्तु न भूपाः करदीकृताः ।
न प्रजाः पालिताः सम्यक्ते वै षंढतिला नृपाः ॥९३॥

प्रजा सूद्विजते यस्माथत्कर्म परिनिन्दति ।
त्यज्यते धनिकैर्यस्तु गुणिभिस्तु नृपाधमः ॥९४॥

नट गायक गणिकामल्लषंढाल्पजातिषु ।
योऽतिसक्तो नृपो निन्द्यः स हि शत्रुमुखे स्थितः ॥९५॥

बुद्धिमंतं सदा द्वेष्टि मोदते वंचकैः सह ।
स्वदुर्गुणं न वै वेत्ति स्वात्मनाशाय सो नृपः ॥९६॥

नापराधं हि क्षमते प्रदंडो धनकारकः ।
स्वदुर्गुणश्रवणतो लोकानां परिपीऽकः ॥९७॥

नृपो यदा तदा लोकः क्षुभ्यते भिद्यते यतः ।
गूढ चारैः श्रावयित्वा स्ववृत्तं दूषयंति के ॥९८॥

भूषयंति च कैर्भावैरमात्याद्याश्च तद्विदः ।
मयि कीद्दक्‍ च संप्रीतिः केषामप्रीतिरेव वा ।
ममागुणैर्गुणैर्वापि गूढं संश्रुत्य चाखिलम्‍ ॥९९॥

चारैः स्वदुर्गुणं ज्ञात्वा लोकतः सर्वदा नृपः ।
सुकीर्त्यै संत्यजेन्नित्यं नावमन्येत वै प्रजाः ॥१००॥

शक्तेनापि हि न घृतो दण्डा तपो रजके कचित्‍ ।
ज्ञान विज्ञान संपन्न - राजदत्ताभयो पि च ॥१०१॥

समक्षं वक्ति न भयाद्राज्ञो गुर्वपि दूषणम्‍ ।
स्तुतिप्रिया हि वै देवा विष्णुमुख्या इति श्रुतिः ॥१०२॥

किं पुनर्मनुजा नित्यं निंदाजः क्रोध इत्यतः ।
राजा सुभागदंडी स्यात्सुक्षमी रंजकः सदा ॥१०३॥

यौवनं जीवितं चित्तं दाया लक्ष्मीश्च स्वामिता ।
चञ्चलानि षडेतानि ज्ञात्वा धर्मरतो भवेत्‍ ॥१०४॥

अदानेनापमानेन छलाञ्च कटुवाक्यतः ।
राज्ञः प्रबलदंडेन नृपं मुंचति वै प्रजा ॥१०५॥

अतिभीसमतिदीर्घसूत्रं चातिप्रमादिनम्‍ ।
व्यसनाद्विषयाक्रान्तं न भजन्ति नृपं प्रजाः ॥१०६॥

विपरीतगुणैरेभिः सात्वया रज्यते प्रजा ।

ऐकस्तनोति दुष्कीर्ति दुर्गुणः संघशो न किम्‍ ।
मृगयाऽक्षास्तया पानं गर्हितानि महीभुनाम्‍ ॥१०७॥

द्दष्टास्तेभ्यस्तु विपदः पांडुनैषधवृष्णिषु ।

कामक्रोधस्तथा मोहो लोभो मानो मदस्तथा ।
षड्वर्गमुत्यृजेदेनमस्मिंस्त्यक्ते सुखी नृपः ॥१०८॥

दंडक्यो नृपतिः कामात्क्रोधाच्च जनमेजयः ।
लोभदैलस्तु राजषिर्मोहाद्वाता पिरासुरः ॥१०९॥

पौलस्त्यो राक्षसो मानान्मदाद्दम्भोभ्दवो नृपः ।
प्रयाता निधनं ह्येते शत्रुषड्वर्गमाश्रिताः ॥११०॥

शास्त्राय गुरुसंयोगः शास्त्रं विनयवृद्धवे ।
विद्याविनीतो नृपतिः सतां भवति समतः ॥१११॥

प्रेर्थमाणोप्यसदवृत्तैर्नाकार्येषु प्रवतते ।
श्रृत्या स्मृत्या लोकतश्च मनसा साधु निश्चितम्‍ ॥११२॥

यत्कर्मधर्मसंज्ञं तद्वचवस्यति च पंडितः ।
आददानः प्रतिदिनं कलाः सम्यड्महीपतिः ॥११३॥

जितेंद्रियस्य नृपतेर्नीतिशास्त्रानुसारिणः ।
भवत्युच्चलिता लक्ष्म्या कीर्तयश्च नभः स्पृशः ॥११४॥

अंगानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
धर्मशास्त्रपुराणानि त्रयीदं सर्वमुच्यते ॥११५॥

कुसीदकृषिवाणिज्यं गोरक्षा वार्तयोच्यते ।
संपन्नो वार्तया साधुर्न वृत्तेर्भयमृच्छति ॥११६॥

सुजनैः संगमं कुर्याद्धर्माय च सुखाय च ।
सेव्यमानस्तु सुजनैर्महानतिविराजते ॥११७॥

हिमांशुमालीव तथा नवोत्फल्लोत्पलं सरः ।
आनन्दयति चेतांसि तथा सुजनचेष्टितम्‍ ॥११८॥

ग्रीष्मसूर्यांशुसंतप्तमुद्वेजनमनाश्रयम्‍ ।
मरुस्थलभिवोदग्रं त्यजेद्‍ दुर्जनसंगतम्‍ ॥११९॥

निः श्वासोद्रीणहुतभुग्‍ धुमधूम्रीकृताननैः ।
वरमाशीविषैः संगं कुर्यान्त त्वेव दुर्जनैः ॥१२०॥

क्रियतेऽभ्यर्हणीयाय सुजनाय यथांऽजलिः ।
ततः साधुतरः कार्यो दुर्जनाय हिताथिना ॥१२१॥

ह्यदि विद्ध ऊवात्यर्थ यथा संतप्यते जनः ।
पीडितोऽपि हि मेधावी न तां वाचमुदीरयेत्‍ ॥१२२॥

प्रियमेवाभिधातव्यं नित्यं सत्सु द्विषत्सु वा ।
शिखीव केकां मधुरां वाचं ब्रुते जनप्रियः ॥१२३॥

मदरक्तस्य हंसस्य कोकिलस्य शिखंडिनः ।
हरंति न तथा वाचो यथा वाचो विपश्चिताम्‍ ॥१२४॥

ये प्रियाणि प्रभाषंते प्रियमिच्छंति सत्कृतम्‍ ।
श्रीमन्तो वंद्यचरिता देवास्ते नरविग्रहाः ॥१२५॥

नहीदृशं संवननं त्रिषु लोकेषु विद्यते ।
दया मैत्री च भृतेषु दानं च मधुरा च वाक्‍ ॥१२६॥

पराक्रमो बलं बुद्धिः शौर्यमेते वरा गुणाः ।
एभिर्हीनो न्यगुणयुग्मद्दिभुक्‍ सयतो मि च ॥१२७॥

महीं स्वल्पां नैव भुक्ते द्रुतं राज्ज्याद्विनश्यति ।
महाधनाथ नृपतेर्विभात्यल्पो पि पार्थिवः ॥१२८॥

अव्याहताज्ञस्तेजस्वी एभिरेव गुणर्भवेत्‍ ।
राज्ञः साधारणास्त्वन्ये न शक्ता भूप्रसाधने ॥१२९॥

पूज्यस्त्वेभिर्गुणैभूपो न भूपः कुलसंभवः ।
न कुले पूज्यते याद्दग्वलशौर्यपराक्रमैः ॥१३०॥

धर्मशाळेची व्यवस्था
ग्रामद्वयान्तरे चैव पान्थशाला प्रकल्पयेत्‍ ।
नित्यं सम्मार्जितां चैव ग्रामपैश्च सुगोपिताम्‍ ॥१३१॥

तत्रागतं तु संपृच्छेत्पान्थं शालाधिपः सदा ।
प्रयातोसि कुतः कस्यात्क्क गच्छसि ऋतंवद ॥१३२॥

ससहायोऽसहायो वा सशस्त्रः किं सवाहनः ।
का जातिः किं कुलं नाम स्थितीः कुत्रास्तिते चिरम्‍ ॥१३३॥

इति पृष्ट्व लिखेत्सायं शस्त्रं तस्य प्रगृह्य च ।
सावयानमना भूत्वा स्वापं कुर्विति शासयेत ॥१३४॥

तत्रस्थान्गणयित्वा तु शालाद्वारं पिधाय च ।
संरक्षयेद्यामिकेश्च प्रभाते तान्‍ प्रबोधयेत्‍ ॥१३५॥

शस्त्रं दद्याश्च गणयेद्‍ द्वारमुद्धारय मोचयेत्‍ ।
कुर्यात्सहायं सीमान्तं तेषां ग्राम्यजनस्सदा ॥१३६॥

राजाची दिनचर्या
प्रकुर्याद्दिनकृत्यं तु राजधान्यां वसन्नृपः ॥१३७॥

उत्थाय पश्चिमे यामे मुहूर्ताद्वितयेन वै ।
नियतायश्च कत्यास्ति व्यवश्च नियतः कति ॥१३८॥

कोशभूतस्य द्रव्यस्य व्ययः कतिगतस्तथा ।
व्यवहारे मुद्रितायव्ययशेषं कतीति च ॥१३९॥

प्रत्यक्षतो लेखतश्च ज्ञात्वा चाद्य व्ययः कति ।
भविष्यति च तत्तुल्यं द्रव्यं कोशन्त्‍ निर्हरेत्‍ ॥१४०॥

पश्चात्तु बेगनिर्मोक्षं स्नानं मौहूर्तिकं मतम्‍ ।
सन्ध्यापुराणदानैश्च मुहूर्तद्वितयं नयेत्‍ ॥१४१॥

पारितोषिकदानेन मुहूर्तं तु नयेत्सुधीः ।
धान्यवस्त्रस्वर्णरत्नसेनादेशविले खनैः ॥१४२॥

सायव्ययैमुहूर्तानां चतुष्कं तु नयेत्सदा ।
स्वस्थचित्तो भोजनेन मुहूर्तं ससुह्रन्नृपः ॥१४३॥

प्रत्यक्षीकरणाज्जीर्णनवीनानां मुहूर्तकम्‍ ।
ततस्तु प्राडविवाकादिबोधितव्यवहारतः ॥१४४॥

मुहूर्तद्वितयं चैव मृगयाक्रीडनैर्नयेत्‍ ।
व्यूहाभ्यासैर्मुहूर्तं तु मुहूर्तं सन्धया ततः ॥१४५॥

मुहूर्तं भोजनेनैव द्विमुहूर्तं च वार्तया ।
गूढचारैः श्रावितया निद्रयाष्टमुहूर्तकम्‍ ॥१४६॥

एव विहरतो राज्ञः सुखं सम्यक्प्रजायते ।
अहोरात्रं विभज्यैवं त्रिंशभ्दिस्तु मुहूर्तकैः ॥१४७॥

नयेत्कालं वृथा नैव नयेत्स्त्रीमद्यसेवनैः ।

यत्कालै ह्युचितं कर्तु तत्कार्य द्रागशंकितम्‍ ॥१४८॥

काले वृष्टिः सुपोषाय ह्यन्यथा सुविनाशिनी ।

कार्यस्थानानि सर्वाणि यामिकैरभितोऽनिशम्‍ ॥१४९॥

नयवान्नीतिगतिवित्सिद्ध शस्त्रादिकैर्वरैः ।
चतुर्भिः पञ्चभिंर्वापि षड्‍ भिर्वा गोपयेत्सदा ॥१५०॥

तत्रत्यानि दैनिकानि श्रृणुयाल्लेखकाधिपैः ।
दिने दिने यामिकांना प्रकुर्यात्परिवर्तनम्‍ ॥१५१॥

राजाचे आदेश
शासनं त्वीद्दशं कार्य राज्ञा नित्यं प्रजासु च ॥१५२॥

दासे भूत्येऽथ भार्यायां पुत्रे शिष्येपि वा क्कचित ।
वाग्दंडपरुषन्नैव कार्य मददेशसंस्थितैः ॥१५३॥

तुलाशासनमानानां नाणकस्यापि वा क्कचित्‍ ।
निर्यासनां च धातूनां सजातीनां घृतस्य च ॥१५४॥

मधुदुग्धवसादीनां पिष्टादीनां च सर्वदा ।
कूट नैव तु कार्यं स्याद्वलाश्च लिखितं जनैः ॥१५५॥

युत्कोचग्रहणं नैव स्वामिकार्यविलोपनम्‍ ।

दुर्वृत्तकारिणं चोरं जारमेद्वषिणं द्विषम‍ ॥१५६॥

न रक्षन्त्वप्रकाशं हि तथान्यानपकारकान्‍ ।
मातृणां पितृणां चैव पूज्यानां विदुषामपि ॥१५७॥

नावमानं नोपहासं कुयुः सदवृत्तशालिनाम्‍ ।
न भेदं जनयेयुर्वै नृनार्योः स्वामिभृत्ययोः ॥१५८॥

भ्रातृणां गुरुशिष्याणां न कुर्युः पितृपुत्रयोः ।

द्यूतं च मद्यपानं च मृगया शस्त्रधारणम्‍ ॥१५९॥

गोगजाश्वोष्ट्रमहिणीनृणां वै स्थावरस्य च ।
रजतस्वर्णरत्नानां मादकस्य विषस्य च ॥१६०॥

क्रयं वा विक्रयं वापि मद्यसंधानमेव च ।
क्रयपत्रं दानपत्रमृणनिर्णय पत्रकम्‍ ॥१६१॥

राजाज्ञथा विना नैव जनैः कार्यं चिकित्सितम्‍ ।
महापापाभिशपनं निधिग्रहणमेव च ॥१६२॥

स्वधर्ममहानिमनृतं परदाराभिमर्शनम्‍ ॥१६३॥

कूटसाक्ष्यं कूटलेख्यमप्रकाश प्रतिग्रहम्‍ ।
निर्धारितकराधिक्यं स्जेयं साहसमेव च ॥१६४॥

मनसापि न कुर्वन्तु स्वामिद्रोहं तथैव च ।

भृत्या शुतकेन भागेन वृद्धया दर्पबलाच्छलात्‍ ॥१६५॥

आघर्षणं न कुर्वन्तु यस्य कस्यापि सर्वदा ।
परिमाणोन्मानमानं धार्यं राजमुद्रितम्‍ ॥१६६॥

गुणसाधनसंदक्षा भवन्तु निखिला जनाः ।
साहसाधिकृते दधुविनिगृहयाततायिनम्‍ ॥१६७॥

उत्सृष्टा वृषभाद्या यैस्तैस्ते धार्याः सुयंत्रिताः ।

इति मच्छासनं श्रृत्वा येऽन्यथा वर्तयन्ति तान्‍ ॥१६८॥

विनिशिष्यामि दण्डेन महता पापकारकान्‍ ।
इति प्रबोधयेन्नित्यं प्रजाः शासनडिंडिमैः ॥१६९॥

प्रजानां पालनं कार्य नीतिपूर्व नृपेण हि ।
मार्गसंरक्षण कुर्यान्नृपः पान्थसुखाय च ॥१७०॥

पान्थप्रपीडका ये ये हंतव्यास्ते प्रयत्नतः ।
राजस्य यशसः कीर्तेर्धनस्य च गुणस्य च ॥१७१॥

प्राप्तस्य रक्षणेन्यस्य हरणेऽनुद्यमोपि च ।
संरक्षणे संहरणे सुप्रयत्नो भवेत्सदा ॥१७२॥

शौर्यपांडित्यवक्तृत्वं दातृत्वं न त्यजेत्क्कचित्‍ ।
बलं पराक्रमं नित्यमुत्थानं चापि भूमिपः ॥१७३॥

शूर कोण आहे ?
समितौ स्वात्मकार्ये वा स्वामिकार्ये तथैव च ।
त्यक्त्वा प्राणभयं युध्येत्स शूरस्त्वविशंकित; ॥१७४॥

पंडित कोण आहे ?
पक्षं संत्यज्य यत्नेन बालव्यापि सुभाषितम्‍ ।
ग्रहणाति धर्मतत्त्वं व व्यवस्यति च पण्डितः ॥१७५॥

वक्ता कोण आहे ?
राज्ञोपि दुर्गुणान्वक्ति प्रत्यक्षमविशंकितः ।
स वक्ता गुणतुल्यांस्तान्न प्रस्तौति कदाचन ॥१७६॥

दाता कोण आहे ?
अदेयं यस्य वै नास्ति भार्यापुत्राविकं धनम्‍ ।
आत्मानमपि सन्दत्ते पात्रे दाता स उच्यते ॥१७७॥

बल, पराक्रम आणि उत्थान काय आहे ?
अशंकितक्षमो येन कार्यं कर्तुं बलं हि तल्‍ ।
किंकरा यिव येनान्ये नृपाधाः स पराक्रमः ॥१७८॥

युद्धानुकूलव्यापार युत्थाननमितिकीर्तितम्‍ ।

विषाक्त अन्नाची परीक्षा कशी करतात ?
विषदोषभयादन्नं विमृशेत्‍ कपिकुक्कुरैः ॥१७९॥

हंसाः स्खलन्ति कूजन्ति भृंगा नृत्यन्ति मायुराः ।
विरौति कुक्कुरो माद्येत्‍ क्रौंचो वै रेचते कपिः ॥१८०॥

ह्रष्टरोमा भवेद्‍ बभ्रुः सारिका वमते तथा ।
हष्टवैवं सविषं चान्नं तस्माद्‍ भोज्यं परीक्षयेत्‍ ॥१८१॥

शिकारीचा लाभ
शीर्यं प्रवर्धते नित्यं लक्ष्यसन्धानमेव च ॥१८२॥

अकातरत्वं शस्त्रास्त्रशीघ्र पातनकारिता ।
मृगयायां गुणा ऐते हिंसादोषों महत्तरः ॥१८३॥

राज्याचा स्वामी
सदैकनायकं राज्यं कुर्यान्न बहुनायकम्‍ ।
नानायकं क्कचिदपि कर्तुमीहेत भूमिपः ॥१८४॥

राजा कुणाला बनवावे ?
राजकुले तु बहवः पुरुषा यदि संति हि ।
तेषु ज्येष्ठो भवेद्राजा दोषास्तत्कार्यसाधकाः ॥१८५॥

गरीयांसो वराः सर्वसहायेभ्योऽभिवृद्धये ।
ज्येष्ठोपि बधिरः कुष्ठी मूको न्धः ऐव यः ॥१८६॥

स राज्यार्हो भवेन्नैव भ्राता तत्पुत्र ऐव हि ।
स्वकनिष्ठोणि ज्येष्ठस्य भ्रातुः पुत्रस्तु राज्यमाक्‍ ॥१८७॥

यथाऽग्रजस्य चाभावे कनिष्ठा राज्यभागिनः ।

राजाने निर्णय कसा घ्यावा ?
सर्वस्मादधिको दाता शूरस्त्वं धामिको ह्यसि ।
ऐति वाचं न धुणुयाच्छावका वंचकास्तु ते ॥१८८॥

रागाल्लोभाद्‍ भयाद्राज्ञः स्युर्मूका ऐव मंत्रिणः ।
नताननुमतान्विद्यान्नृपतिः स्वार्थसिद्धये ॥१८९॥

पृथक्पृथड्मतं तेषां लेखायित्वा ससाधनम्‍ ।
विमृशेत्स्वमतेनैव यत्कृर्याद्वहुसम्मतम्‍ ॥१९०॥

राजाने संगती कुणाशी धरावी ?
अतः स्वबांधवैमित्रैः स्वसाम्यप्रापितैर्गुणैः ॥१९१॥
प्रकृतिभिर्नृपो गच्छेन्न नीचैस्तु कदाचन ।

मिथ्यासत्यसदाचारैर्नीचः साधुः क्रमात्स्मृतः ॥१९२॥
साधुभ्योऽतिस्वमृदुत्वं नीचाः संदर्शऽयान्ति हि ।

राजाने दरवर्षी निरीक्षण करावे
ग्रामान्पुराणि देशांश्च स्वयं संवीक्ष्य वत्सरे ।
अधिकारिगणैः काश्च रंजिताः काश्च कर्षिताः ॥१९३॥

प्रजास्तासां तु भूतेन व्यवहारं विचिन्तयित्‍ ।
न भुत्यपक्षपाती स्थात्प्रजापक्षं समाश्रयेत्‍ ॥१९४॥

न संत्यजेञ्च स्वस्थानं नीत्या शत्रुगणं जयेत्‍ ।
स्थानभ्रष्टा नो विभांति दंताः केशा नखा नृपाः ॥१९५॥

उक्तं समासतो राजकृत्यं मिश्रेऽधिकं ब्रुवे ॥१९६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:03.0200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

male pseudohermaphrodite

  • मिथ्या उभय लिंगाभ पुरुष 
RANDOM WORD

Did you know?

कोणतेही कार्य करतांना मुहूर्त कां पहावा? त्यामागची संकल्पना काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Latest Pages

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.