भाद्रपदमास: - अनन्तपूजाविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ भाद्रपदशुक्लचतुर्दश्यां अनन्तपूजाविधि: ॥

चतुर्दशी त्रिमुहूर्ताधिकव्यापिनी पूर्णिमायुता ग्राह्या, तदभावे तु पूर्वैव । उभयदिने औदयिकत्वे पूर्णत्वात्पूर्वैव । इति निर्णयसिन्धावुक्तम्‌ । तत्र मध्याह्ने विमले जले स्नात्वा, गृहमागत्य, भूमिं गोमयेनोपलिप्य, रङ्गवल्लीभिरलङ्कृत्य, कदलीस्तम्भमण्डिते पीठे धान्यराशिं निधाय, उपरि अष्टदलं पद्मं विरच्य, तत्र आमपल्लवयुतं वस्त्रवेष्टितं कुम्भं संस्थाप्य, तत्पुरत: मुष्टिमात्रदर्भै: सप्तफणान्वितं शेषं कृत्वा निधाय, तत्समीपे नवं सुद्दढं चतुर्दशग्रन्थियुतं कुङ्कुमाक्तं दोर कद्वयं निर्माय स्थाप्य पूजामारभेत । आचम्य देशकालौ स्मृत्वा, मम सकुटुम्बस्य सपरिवारस्य क्षेमस्थैर्यआयुरारोग्यचतुर्विधपुरुषार्थसिद्धयर्थं मया आचरितस्य अनन्तव्रतस्य यथावत्प्रतिष्ठाफलसिद्धयर्थं श्रीमदनन्तप्रीत्यर्थं यथामिलितषोडशोपचारद्रव्यै: पुरुषसूक्तेन पुराणोक्तमन्त्रैश्च पूजनमहं करिष्ये । आदौ नि० महागणपतिपूजनं आसनविधिं पुरुषसूक्तन्यामान्‌ कलशशङ्खघण्टापूजनं च करिष्य । गणानां त्वा० गणपतिं सम्पूज्य, वक्रतुण्ड० प्रार्थयेत्‌ । पृथ्वि त्वया० । अपसर्पं तु० । सहस्रशीर्षेति० न्यासे विनियोग: ।
१. सहस्र० वामकराय० ।
२. पुरुष० दक्षिणकरा० ।
३. एतावा० वामपादा० ।
४. त्रिपादृ० दक्षिणपा० ।
५. तस्माद्वि० वामजानुने० ।
६. यत्पुरुषेण० दक्षिणजानु० ।
७. तंयज्ञं० वामकटयै० ।
८. तस्माद्य०सं०दक्षिणकटयै० ।
९. तस्माद्य० ऋ० नाम्यै० ।
१०. तस्माद० हृदया० ।
११. यत्पुरुषं० कण्ठाय० ।
१२. ब्राह्म० वामबाहवे० ।
१३. चन्द्रमा० दक्षिणबाहवे० ।
१४. नाभ्या० मुखाय० ।
१५. सप्तास्या० नेत्राभ्यां० ।
१६. यज्ञे० शिरसे न० ।
कलशस्य० वरुणं सम्पूज्य, शङ्खादौ शङ्खं स०, आगमार्थं० घण्टां च सम्पूज्य, अपवित्र: प० पूजासम्भारान्‌ प्रोक्ष्य आत्मानं प्रोक्ष्य, पीठस्थकलशे यमुनां पूजये‌त्‌ । श्रीमदनन्तव्रताङ्गत्वेन यमुनापूजनं करिष्ये । ध्यायेत्‌ । लोकपावनसम्भूते इन्द्रनीलसमप्रभे । यमुने त्वामहं ध्याये सर्वकामार्थसिद्धये ॥ श्रीयमुनायै नम: यमुनां ध्यायामि । सरस्वति नमस्तुभ्यं सर्वकामप्रदायिनि । आगच्छ देवि यमुने व्रतसम्पूर्णहेतवे ॥ गङ्गेच च० सर्वेसमु०, इमंमेगंगे०, या: प्रवतो० इत्येतैर्मन्त्रै: कलशे उदकमापूर्य, आपोहिष्ठेति तिसृभिरभिमन्त्र्य, श्रीयमुनां साङ्गां सपरिवारां सायुधां सशक्तिकां आवाहयामि ॥ सिंहासनसमारूढे देवि शक्तिसमप्रभे । सर्वलक्षणसम्पूर्णे यमुनायै नमोऽस्तु ते ॥ श्रीयमुनायै० आसनं० ॥ रुद्रपादे नमस्तुभ्यं सर्वलोकहितप्रिये । सर्वपापप्रशमनि तरङ्गिण्यै नमोऽस्तु ते ॥ पाद्यं० ॥ अर्ध्यं गृहाण हेदेवि शङकरप्रियभामिनि । सर्वकामप्रदे देवि यमुने ते नमो नम: ॥ अर्ध्य० ॥ विष्णु पादोद्भवे देवि सर्वाभरणभूषिते । कृष्णमूर्ते महादेवि कृष्णावेण्यै नमोऽस्तु ते ॥ आचमनीयं० ॥ पञ्चामृतं मयाऽऽनीतं पयो दधि घृतं मधु । शर्कराभि: समायुक्तं स्नानार्थं प्रतिगृ० ॥ पञ्चामृतस्नानं० ॥ नन्दपादोद्भवे देवि शङ्करार्धशरीरिणि । सर्वलोकहिते देवि भीमरथ्यै नमोऽस्तु ते ॥ स्नानं० ॥ पञ्चोपचारपूजां कृत्वा, अभिषेक: । विष्णुपादाब्जसम्भूते गङ्गे त्रिपथगामिनि । सर्वपापहरे देवि भागीरथ्यै नमोऽस्तु ते ॥ वस्त्रं० ॥ पीततन्तुयुतां दिव्यां रक्तकौशेयसम्भवाम्‌ ॥ मुञ्चन्मुक्तावलीयुक्ता कञ्चुकीं प्रतिगृ० ॥ कञ्चुकीं० ॥ माणिक्यमुक्तावलिकौस्तुभांश्च गोमेदवैडूर्यसुपुष्परागै: । वज्रैश्च नीलैश्च सुशोभितानि गृहाण सर्वाभरणानिदेवि ॥ आभरणानि० ॥ कण्ठसूत्रं ताडपत्रं हरिद्रां कुङ्कुमाञ्जनम्‌ । सिन्दूरादि प्रदास्यामि सौभाग्यं देहि मेऽव्ययम्‌ ॥ सौभाग्यद्रव्यं० ॥ चन्दनागरुकस्तूरिरोचनं कुङ्कुमान्वितम्‌ । कर्पूरेण समायुक्तं गन्धं दद्मि च भक्तित: ॥ चन्दनं० ॥ श्वेतांश्च चन्द्रवर्णाभान्‌ हरिद्रारागरञ्जितान्‌ । अक्षतांश्च सुरश्रेष्ठे ददामि यमुने शुभे ॥ अक्षतान्‌० ॥ मन्दारमालतीजातीकेतकीपाटलै: शुभै: । पूजयामि च देवेशि यमुने भक्तवत्सले ॥ पुष्पाणि० ॥

॥ अथाङ्गपूजा ॥

१. चञ्चलायै० पादौ पू० ।
२. चपलायै० जानुनी पू० ।
३. भक्तवत्सलायै० कटी० ।
४. हरायै० नाभिं पू० ।
५. मन्मथवासिन्यै० गुह्यं० ।
६. अज्ञाननाशिन्यै० हृद० ।
७. भद्रायै० स्तनौ पू० ।
८. अघहन्त्र्यै० भुजौ पू० ।
९. रक्तकण्ठयै० कण्ठं पू० ।
१०. भवहन्त्र्यै० मुखं पू० ।
११. गौर्यै नम: नेत्रे पू० ।
१२. भागीरथ्यै० ललाटं० ।
१३. यमुनायै० शिर; पू० ।
१४. सरस्वत्यै० सर्वाङ्गं पू० ।

॥ अथ नामपूजा ॥

१. यमुनायै नम: ।
२. सितायै नम: ।
३. कमलायै नम: ।
४. उत्पलायै नम: ।
५. अभीष्टप्रदायै नम: ।
६. विधात्र्यै नम: ।
७. हरिहररूपिण्यै नम: ।
८. गङ्गायै नम: ।
९. नर्मदायै नम: ।
१०. गौर्यै नम: ।
११. भागीरथ्यै नम: ।
१२. तङ्गायै नम: ।
१३. भद्रायै नम: ।
१४. कृष्णावेण्यै नम: ।
१५. भवनाशिन्यै नम: ।
१६. सरस्वत्यै नम: ।
१७. कावेर्यै नम: ।
१८. सिन्धवे नम: ।
१९. गौतम्यै नम: ।
२०. गोमत्यै नम: ।
२१. गायत्र्यै नम: ।
२२. गरुडायै नम: ।
२३. गिरिजायै नम: ।
२४. चन्द्रचूडामण्यै नम: ।
२५. सर्वेश्वर्यै नम: ।
२६. महालक्ष्म्यै नम: ।
सर्वपापहरे देवि सर्वोपद्रवनाशिनि ।
सर्वसम्पत्प्रदे देवि यमुनायै नमोऽस्तु ते ॥
दशाङ्गो गुग्गुलोदभूतश्चन्दनागरुसंयुत: । कपिलाघृतसंयुक्तो धूपोऽयं प्रतिगृ० ॥ धूपमा० ॥ घृतवर्त्तिसमायुक्तं वह्निना योजितं मया । गृहाण दीपकं देवि सर्वैश्वर्यप्रदायिनि ॥ दीपं द० ॥ शर्करामधुसंयुक्तं दधि क्षीरं च सर्पिषा । पक्वमन्नं मया दत्तं नैवेद्यं प्रतिगृ० ॥ नैवेद्यं० ॥ करोद्वर्तनं स० ॥ इदं फलं० फलं० ॥ पूगीफलं म० ताम्बूलं० ॥ हिरण्यग० दक्षिणां० ॥ त्रैलोक्यपावने गङ्गे ह्यन्धकारविनाशिनि । पञ्चार्तिक्यं गृहाणेदं विश्वप्रीत्यै नमोऽस्तु ते ॥ आर्तिक्यदीपं द० ॥ यानि कानि च० प्रदक्षिणां० ॥ अन्यथा श० नमस्कारान्‌० ॥ केतकीजातिकुसुमैर्मल्लिकामालतीभवै: । पुष्पाञ्जलिर्मया दत्तस्तव प्रीत्यै नमोऽस्तु ते ॥ पुष्पाञ्जलिं० ॥ सुरासुरेन्द्रादिकिरीटमौक्तिकैर्युक्तं सदा यत्तव पादपङ्कजम्‌ ॥ परावरं पातुवरं सुमङगलं नमामि भक्त्या मम कामसिद्धये ॥ भवानि ते महालक्ष्मि सर्वकामप्रदायिनि । व्रतं सम्पूर्णतां यातु यमुनायै नमोऽस्तु ते ॥ प्रार्थयामि । अनेन पूजनेन श्रीयमुना प्रीयताम्‌ ॥ यमुनाकलशोपरि वंशपात्रं तामपात्रं वा तण्डुलपूरितं निधाय तस्योपरि अष्टदलं विरच्य तत्र शेषं स्थापयेत्‌ ॥ शेषपूजाविधि: ॥ श्रीमदनन्तव्रताङ्गत्वेन शेषपूजं करिष्ये ॥ अथ ध्यानम्‌ ॥ शेषं च पन्नगाधीशं फणानेकशतोज्वलम्‌ । दिव्याम्बरधरं दीप्तं रत्नकुण्डलमणिडतम्‌ ॥ फणासप्तान्वितं देवं पिडगलाक्षं चतुर्भुजम्‌ । शङ्खचक्रगदापद्मयुक्तैर्दोर्भि: सुशोभितम्‌ ॥ आयंगौ:पृ० ॥ श्रीशेषाय नम: शेषं ध्यायामि ॥ शेषं सप्तफणायुक्तं कालीयं नागनायकम्‌ । अनन्तशयनार्थं त्वां भक्त्यां चावाहयाम्यहम्‌ ॥ आयंगौ: पृ० ॥ आवाहनं० ॥ आयंगौरिति मन्त्रेण आसनादिपुष्प्समर्पणान्तं कृत्वा, अङ्गपूजां कुर्यात्‌ ।
१. सहस्रपदे नम: पादौ पू० ।
२. गुढगुल्फाय० गुल्फौ पू० ।
३. हेमजङघाय० जडघे पू० ।
४. मन्दगतये० जानुनी पू० ।
५. पीताम्बरधरा० कटी पू० ।
६. गम्भीरनाभाय० नाभिं पू० ।
७. पवनाशनाय० उदरं पू० ।
८. उरगाय० स्तनौ पू० ।
९. कालियाय० भुजौ पू० ।
१०. कम्बुकण्ठाय० कण्ठं पू० ।
११. विषवक्त्राय० मुखं पू० ।
१२. फणिभूषणा० ललाटं० ॥
१३. लक्ष्मणाय० शिर: पू० ।
१४. अनन्तप्रिया० सर्वाङ्गं पू० ।
आयंगौरित्यनेन धूपादिनमस्कारान्तं कृत्वा, प्रार्थयेत्‌ । अनन्तव्रतकल्पोक्तं फलं देहि फणाधिप । त्वत्पूजारहितश्चाथ फलं नाप्नोति कर्हिचित्‌ ॥ अनेन मया कृतेन पूजनेन श्रीशेष: प्रीयताम्‌ ।
अनन्तदोरकपूजाविधि: प्राणायामं कृत्वा षडङ्गन्यासं कुर्यात्‌ ।
ॐ नमो भगवते वासुदेवाय, हृदयाय नम: ।
ॐ नमो भगवते नारायणाय शिरसे स्वाहा ।
ॐ नमो भगवते विष्णवे, शिखायै वषट्‌ ।
ॐ नमो भगवते पद्मनाभाय, कवचायहुम्‌ ।
ॐ नमो भगवते श्रीधराय, नेत्रत्रयायवौषट्‌ ।
ॐ नमो भगवते नृसिंहाय, अस्त्रायफट्‌ ।
ॐ भूर्भु० इति दिग्बन्ध: ।
चतुर्दशग्रन्थियुतकुङ्कुमाक्तदोरकद्वयस्य मोहिनीसहितअनन्तसंज्ञकस्य प्राणप्रतिष्ठां कुर्यात्‌ । अद्य पूर्वोच्च० मोहिनीसहितश्रीमदनन्तप्राणप्रतिष्ठां करिष्ये । अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषय: । ऋग्यजु: सामाथर्वाणि च्छन्दांसि । पराप्राणशक्तिर्देवता । आं बीजम्‌ । ह्नीं शक्ति: । क्रों कीलकम्‌ । मोहिनीसहितश्रीमदनन्तस्य प्राणप्रतिष्ठापने विनियोग; । ॐ आंह्नींक्रों अंयंरंलंवंशंषंसंहंक्षंअ: । क्रोंह्नींआं । मोहिनीसहितश्रीमदनन्तस्य प्राणा इह प्राणा: । ॐ आंह्नीं० जीव इह स्थित: । ॐ आंह्नीं० सर्वेन्द्रियाणि, वाङमनस्त्वकचक्षुश्रोत्रजिह्वाघ्राणपाणिपादपायूपस्थानि सुखं चिरं तिष्ठन्तु स्वाहा । असुनी० । गर्भाधानादिपञ्चदशसंस्कारसिध्यर्थं पञ्चदशप्रणवावृत्ती: करिष्ये । ॐ १५ । रक्ताम्भो० परान: । तच्चक्षुरिति मन्त्रेण नेत्रोन्मीलनं कृत्वा, नैवेद्यं समर्पयेत्‌ । अनेन प्राणप्रतिष्ठापनेन श्रीमदनन्त: प्रीयताम्‌ ।

॥ पूर्णपात्रे पीठदेवता आवाहयेत्‌ ॥
    (मध्ये)                (दक्षिणद्वारे)            (उत्तरद्वारे)
१. श्रीमदनन्ताय नम: ।        १. केसरेभ्यो नम: ।        १. वह्निमण्डलाधिपतये० ।
२. योगाय नम: ।            २. कर्णिकाभ्यो नम: ।        २. रुद्राय नम:
३. विमलाय नम: ।         ३. आचाराय नम: ।        ३. धर्माय नम: ।
४. अनन्तासनाय नम: ।     ४. अनाचाराय नम:         ४. अधर्माय नम: ।
    (पूर्वद्वारे)            ५. ज्ञानाय नम: ।                (मध्ये)
१.कूर्माय नम: ।            ६. अज्ञानाय नम:         १. सत्वात्मने नम: ।
२. वास्तुपुरुषाय नम: ।        ७. ऐश्वर्याय नम: ।        २. रजसे नम: ।
३. क्षेत्रपालाय नम: ।            (पश्चिमद्वारे)            ३. तमसे नम:
४. स्कन्दाय नम: ।         १. सूर्यमण्डलाय नम: ।        ४. मनसे नम: ।
५. नागाय नम: ।            २. सूर्याधिपतये नम: ।        ५. आत्मने नम: ।
६. पद्माय नम: ।             ३. ब्रह्मणे नम: ।            ६. परमात्मने नम: ।
७. पद्मपत्रेभ्यो नम: ।         ४. सोममण्डलाय नम:
                    ५. वह्निमण्डलाय नम:    

अथ ध्यानम्‌ । नवाम्रपल्लवाभासं पिङ्गभ्रूश्मश्रुलोचनम्‌ । पीताम्बरधरं देवं विश्वरूपं विचिन्तये ॥ सहस्र० । भागच्छानन्त देवेश तेजोराशे जगत्पते । इमां मया कृतां पूजां गृहाण पुरुषोत्तम ॥ श्रीमोहिनीसहितानन्ताय नम: अनन्तं साङ्गं सपरिवारं सायुधं सशक्तिकं आवाहयामि ॥ तदस्तु० गृहावैप्रति० ॥ पुरुषए० । विष्टरं धेहि गोविन्द गोव धर्मधर प्रभो । अनन्त दीयते यन्मे रत्नसिंहासने विश ॥ श्रीमोहिनीस हितश्रीमदनन्ताय नम: आसनं० ॥ एतावा० । यथा त्वं सर्वदेवानामिन्द्रादीनं च रक्षक: । तथा मां पालयानन्त त्वदङघिशरणागतम्‌ ॥ पाद्यं० ॥ त्रिपादू० । अनन्तानन्त देवेश अनन्तफलदायक । अनन्तानन्तरूपोऽसि गृहाणार्घ्यं नमोऽस्तु ते ॥ अर्ध्यं० ॥ तस्माद्वि० । गङ्गोदकं समानीतं हेमकुम्भेन योजितम्‌ । आचम्यतां हृषीकेश प्रसीद पुरुषोत्तम ॥ आचमनीयं० ॥ मधुवाताऋ० । दधि क्षौद्रं घृंत चैव गुडखण्डविमिश्रितम्‌ ॥ तुष्टयर्थं सर्वदेवानां मधुपर्कं ददामि ते ॥ मधुपर्कं० ॥ यत्पुरुषे० । अनन्तगुणरुपाय विश्वरूपधराय च । नमो माहात्म्यदेवाय अनन्ताय नमो नम: ॥ स्नानं० ॥ आप्याय० । सुरभेस्तु समुत्पन्नं देवानामपि दुर्लभम्‌ । पयो ददामि देवेश स्नानाय प्रतिगृ० ॥ पयस्नानं० ॥ चन्द्रमण्डलसङ्काशं सर्वदेवप्रियं हि तत्‌ । ददामि दधि देवेश स्नानार्थं प्रति० ॥ दधिस्नानं० ॥ घृतंमि० । घृतकुम्भसमायुक्तं घृतयोनेर्घृतप्रिय । घृतभुग्‌ घृतधामासि घृतं स्नानाय गृ० ॥ घृतस्नानं० ॥ मधुवाताऋ० । मधुरूपो वसन्तस्त्वं त्वमेवजगतां मधु । मधुसूदनसम्प्रीत्या मधु स्नानाय गृह्यताम्‌ ॥ मधुस्नानं० ॥ स्वादुःपव० । इक्षुदण्डात्समुदभूतां शर्करां मधुरां शुभाम्‌ । स्नानाय ते मया दत्तां गृहाण परमेश्वर ॥ शर्करास्नानं० ॥ गन्धद्वारां० गन्धोदकस्नानं० ॥ कनिक्रदज्ज० अभ्यङ्गअङ्गोद्वर्तनउष्णोदकस्नानं० ॥ नाममन्त्रेण पञ्चोपचारपूजां कृत्वा पुरुषसक्तविष्णुसूक्तेनाभिषेक: । तंयज्ञं० । तप्तकाञ्चनवर्णाभं कौशेयं च सुनिर्मितम्‌ । वस्त्रं गृहाण देवेश लक्ष्मीयुक्तं नमोऽस्तु ते ॥ वस्त्रं० ॥ वस्त्रान्ते आचमनीयं० ॥ तस्माद्यज्ञा० सं । दामोदर नमस्तेऽस्तु त्राहि मां भवसागरात । ब्रह्मसूत्रं सोत्तरीयं गृहाण पुरुषोत्तम ॥ यज्ञोपवीतं० ॥ यज्ञोपवीतानन्तरेणआचमनीयं० । तस्माद्य० ऋ० । श्रीखण्डं चन्दनं० चन्दनं० ॥ अक्षताश्च सु० अक्षतान्‌० । अहिरिवभोगै: प० सौभाग्यद्रव्यं० नानापरिमलद्रव्यं स० ॥ तस्मादश्वा० । माल्यादीनि सु० पुष्पाणि स० ॥

॥ अथ अनन्तग्रन्थिपूजा ॥

१. अनन्ताय नम: प्रथमग्रन्थिं पू०
२. कालरूपाय० द्वितीयग्रन्थिं पू० ।
३. विष्णवे नम: तृतीयग्रन्थिं पू० ।
४. महाविष्णवे चतुर्थग्रन्थिं पू० ।
५. हरये नम: प्रञ्चमग्रन्थिं पू० ।
६. शिवाय नम: षष्ठग्रन्थिं पू० ।
७. ब्रह्मणे नम: सप्तमग्रन्थिं पू० ।
८. भास्कराय० अष्टमग्रस्थिं पू० ।
९. शेपाय नम: नवमग्रन्थिं पू० ।
१०. सर्वव्यापिने० दशमग्रन्थिं पू० ।
११. ईशानाय नम: एकादशग्रन्थिं पू० ।
१२. विश्वरूपाय० द्वादशग्रन्थिं पू० ।
१३. महात्मने न० त्रयोदशग्रन्थिं पू० ।
१४. स्थितिधराय० चतुर्दशग्रन्थिं पू० ।

॥ अथाङ्गपूजा ॥
१. मत्स्याच नम: पादौ पू० ।
२. कूर्माय नम: गुल्फौ पू० ।
३. वराहाय न० जानुनी पू० ।
४. नारसिंहा० उरू पू० ।
५. वामनाय० कटी पू० ।
६. रामाय नम: उदरं पू० ।
७. श्रीरामाय० हृदयं पू० ।
८. कृष्णाय न० मुखं पू० ।
९. सहस्रशिरसे० शिर: पू० ।
१०. श्रीमदनन्ताय० सर्वाङ्गं पू० ।

॥ आवरणपूजा ॥
अनन्तस्य दक्षिणपार्श्वे रमायै नम: । वामपार्श्वे भूम्यै नम: । इति प्रथमावरणम्‌ । आवरणदेवता आवाह्य हस्तं प्रक्षाल्य गन्धपुष्पं तर्जनीमम्धमाङगुष्ठैर्धृत्वा मध्ये शङ्खोदकं गृहीत्वा, दयाब्धे त्राहि संसारसर्पान्मां शरणागतम्‌ । भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम्‌ ॥१॥
इति मन्त्रमुच्चार्य शङ्खोदकं भूमौ निक्षिप्य पुष्पं देवोपरि न्यसेत्‌ । एवं सर्वत्र ।

पूर्वादिक्रमेण । वृद्धोल्काय न० १। महोल्काय० २। शतोल्काय० ३। सहस्त्रोल्काय० ४। दयाब्धे० द्वितीयावरणार्चनम्‌ ॥२॥

वासुदेवाय० १। सङ्कर्षणाय० २। प्रद्युम्नाय० ३। अनिरुद्धाय० ४। दयाब्धे० तृतीयावरणार्चनम्‌ ॥३॥

प्राच्याम्‌ । केशवाय० १। नारायणाय० २।
माधवाय० ३। गोविन्दाय० ४। विष्णवे० ५। मधुसूदनाय० ६ । त्रिविक्रमाय० ७। वामनाय० ८। श्रीधराय० ९। हृषीकेशाय० १० । पद्मनाभाय० ११ । दामोदराय० १२। दयाब्धे० चतुर्थावरणार्चनम्‌ ॥४॥

पूर्वादिक्रमेण । मत्स्याय० १। कूर्माय० २। वराहाय० ३। नारसिंहाय० ४। वामनाय न० ५। परशुरामाय० ६। श्रीरामाय० ७। कृष्णाय० ८। बौद्धाय० ९। कल्किने० १०। अनन्ताय० ११। विश्वरूपिणे न० १२। दयाब्धे० पञ्चमावरणार्चनम्‌ ॥५॥

पूर्वादिक्रमेण । अनन्ताय० १। दक्षिणायाम्‌, बह्मणे न० २। पश्चिमायाम्‌, वायवे न० ३। उत्तरायाम्‌, ईशानाय० ४। आग्नेय्याम्‌, वारुण्यै० ५। नैऋत्याम्‌, गायत्र्यै न० ६। वायव्याम्‌, भारत्यै० ७। ईशान्यां गिरिजायै० ८। अग्रे, गरुडाय० ९। वामे, सुपुण्याय० १०। दयाब्धे० षष्ठावरणार्चनम्‌ ॥६॥

पूर्वादिक्रमेण । इन्द्राय० १। अग्नये० २। यमाय० ३। निऋतये० ४। वरुणाय० ५। वायवे० ६। सोमाय० ७। ईशानाय० ८। दयाब्धे० सप्तमावरणार्चनम्‌ ॥७॥

अग्नेय्याम्‌, शेषाय० १। नैऋत्याम्‌, विष्णवे० २। वायव्याम्‌, विधये० ३। ईशान्याम्‌, प्रजापतये० ४। दयाब्धे० अष्टमावरणार्चनम्‌ ॥८॥

आग्नेय्याम्‌, गणपतये० १। नैऋत्याम, सप्तमातृभ्यो नम: २। वायव्याम्‌ दुर्गायै० ३। ईशान्याम्‌, क्षेत्राधिपतये नम: ४। दयाब्धे० नवमावरणार्चनम्‌ ॥९॥

मध्ये, ब्रह्मणे न० १। भास्कराय० २। शेषाय० ३। सर्वव्यापिनि० ४। ईश्वराय० ५। विश्वरूपाय० ६। महाकामाय० ७। सृष्टिकर्त्रे० ८। कृष्णाय० ९। हरये नम: १०।

शिवाय० ११। स्थितिकारकाय० १२। अन्तकाय० १३। दयाब्धे० दशमावरणार्चनम्‌ ॥१०॥

पूर्वे, शौरये० १। वैकुण्ठाय० २। महाबलाय० ३ । पुरुषोत्तमाय० ४। अजाय० ५। पद्मनाभाय० ६। मङ्गलाय० ७। हृषीकेशाय० ८। वरदाय० ९। माधवा० १०। मधुसूदनाय० ११। अच्युता० १२। अनन्ताय० १३। गोविन्दाय० १४। विजयाय० १५। अपराजिताय० १६।
कृष्णाय० १७। दयाब्धे० एकादशावरणार्चनम्‌ ॥११॥

अनन्ताय० १। कपिलाय० २। शेषाय० ३। सङ्कर्षणाय० ४। हलायुधाय० ५। तारणाय० ६। सीरपाणये० ७। बलभद्राय० ८। दयाब्धे० द्वादशावरणार्चनम्‌ ॥१२॥

क्षीराब्धिशायिने० १। अच्युताय० २। भूम्याधाराय० ३। लोकनाथाय० ४। फणामणिविभूषणाय० ५। सहस्रमूर्ध्ने न० ६। सहस्रार्चिषे नम: ७। दयाब्धे० त्रयोदशावरणार्चनम्‌ ॥१३॥

केशवाय० १। नारायणाय० २। माधवाय० ३। गोविन्दाय० ४। विष्णवे० ५। मधुसूदनाय० ६। त्रिविक्रमाय० ७। वामनाय० ८। श्रीधराय० ९। हृषीकेशाय० १०। पदमनाभाय० ११। दामोदराय० १२। सङ्कर्षणाय० १३। वासुदेवाय० १४। प्रद्युम्नाय० १५। अनिरुद्धाय० १६। पुरुषोत्तमा० १७। अधोक्षजाय० १८। नारसिंहाय० १९। अच्युताय० २०। जनार्दनाय० २१। उपेन्द्राय० २२। हरये न० २३। श्रीकृष्णा० २४। दयाब्धे० चतुर्दशावरणार्चनम्‌ ॥१४॥

॥ इत्यावरणं समाप्तम‌ ॥

॥ अथ पत्रपजा ॥
१. कृष्णाय० पलाशपत्रं० ।
२. विष्णवे० औदुम्बरपत्रं० ।
३. हरये न० अश्वत्थपत्रं० ।
४. शम्भवे० भृङगिराजपत्रं० ।
५. ब्रह्मणे० तुलसीपत्रं० ।
६. भास्करा० अशोकपत्रं० ।
७. शेषाङ्ख० कपित्थपत्रं० ।
८. सर्वव्यापिने० वटपत्रं० ।
९. ईश्वराय न० आम्रपत्रं० ।
१०. विश्वरूपिणे० कदलीपत्रं० ।
११. महाकायाय० अपामार्गपत्रं० ।
१२. सृष्टिकर्त्रे न० करवीरपत्रं० ।
१३. स्थितिकर्त्रे० पुन्नागपत्रं० ।
१४. अन्तकाय० नागवल्लीपत्रं० ।

॥ अथ पुष्पपूजा ॥
१. अनन्ताय० पद्यपुष्पं० ।
२. विष्णवे न० जातीपुष्पं० ।
३. केशवाय० चम्पकपुष्पं० ।
४. अव्यक्ताय० कल्हारपुष्पं० ।
५. सहस्त्रजिते० केतकीपुष्पं० ।
६. अनन्तरूपिणे० बकुलपुष्पं० ।
७. इष्टाय न० शतपुष्पं० ।
८. विशिष्टा० पुन्नागपुष्पं० ।
९. शिष्टेष्टाय० करवीरपुष्पं० ।
१०. शिखण्डिने० धत्तूरपुष्पं स० ।
११. नहुषाय० कुन्दपुष्पं० ।
१२. विश्वबाहवे० मल्लिकापुष्पं० ।
१३.महीधराय० मालतीपुष्पं० ।
१४. अच्युताय० गिरिकर्णिकापुष्पं० ।

॥ अथ अष्टोत्तरशतनामभि: पूजयेत्‌ ।
१. अनन्ताय नम: ।
२. अच्युताय नम: ।
३. अद्भुतकर्मणे नम: ।
४. अमितविक्रमाय० ।
५. अपराजिताय० ।
६. अखण्डाय नम: ।
७. अग्निनेत्राय न० ।
८. अग्निवपुषे नम: ।
९. अद्वश्याय नम: ।
१०. अत्रिपुत्राय० ।
११. अनुकूलाय० ।
१२.अविनाशिने न० ।
१३. अनघाय नम: ।
१४. अप्सुनिलयाय० ।
१५. अहरहाय नम: ।
१६. अष्टमूर्तये न० ।
१७. अनिरुद्धाय न० ।
१८. अनिर्विष्णाय० ।
१९. अचञ्चलाय न० ।
२०. अब्दादिकाय० ।
२१. अचलरूपाय० ।
२२. अखिलाधारा० ।
२३. अव्यक्ताय न० ।
२४. अनुरुपाय न० ।
२५. अभयङ्कराय० ।
२६. अक्षताय न० ।
२७. अवपुषे नम: ।
२८. अयोनिजाय० ।
२९. अरविन्दाक्षाय० ।
३०. अशनवर्जिता० ।
३१. अधोक्षजाय० ।
३२. अदितिपुत्राय न० ।
३३. अम्बिकापतिपूर्वजाय नम: ।
३४. अपस्मारनाशि० ।
३५. अग्ययाय नम: ।
३६. अनादिने नम: ।
३७. अप्रमेयाय न० ।
३८. अघशत्रवे नम: ।
३९. अमरारिघ्ने न० ।
४०. अनीश्वराय नम: ।
४१. अजाय नम: ।
४२. अघोराय नम: ।
४३. अनादिनिधनाय० ।
४४. अमरप्रभवे न० ।
४५. अग्राह्माय न० ।
४६. अक्रूराय नम: ।
४७. अनुत्तमाय नम: ।
४८. अरूपाय नम: ।
४९. अन्हे नम: ।
५०. अमोघाधिपतये० ।
५१. अजाय नम: ।
५२. अक्षमाय न० ।
५३. अमृताय न० ।
५४. अघोरवीर्या० ।
५५. अव्यङ्गाय न० ।
५६. अविघ्नाय नम: ।
५७. अतीन्द्रियाय० ।
५८. अमिततेजसे० ।
५९. अमितये नम: ।
६०. अष्टमूर्तये न० ।
६१. अनिलाय न० ।
६२. अवशाय न० ।
६३. अणोरणीयसे० ।
६४. अशोकाय नम: ।
६५. अरविन्दाक्षाय० ।
६६. अधिष्ठाय न० ।
६७. प्रमिततनयाय० ।
६८. अरण्यवासिने० ।
६९. अप्रमत्ताय न० ।
७०. अनन्तरूपाय० ।
७१. अनलाय नम: ।
७२. अनिमिषाय० ।
७३. अस्त्ररूपाय० ।
७४. अग्रगण्याय० ।
७५. अप्रमिताय० ।
७६. अन्तकाय नम: ।
७७. अचिन्त्याय नम: ।
७८. अपां निधये न० ।
७९. अतिसुन्दराय न० ।
८०. अमरप्रियाय०
८१. अष्टसिद्धिप्रदाय० ।
८२. अरविन्दप्रिया० ।
८३. अरविन्दोद्भवाय० ।
८४. अनयाय नम: ।
८५. अर्थाय नम: ।
८६. अक्षोभ्याय न० ।
८७. अर्चिष्मते नम: ।
८८. अनेक मूर्तये० ।
८९. अनन्तब्रह्माणडपतये० ।
९०. अनन्तशयनाय० ।
९१. अमराधिपतये न० ।
९२. अनाधाराय नम: ।
९३. अनन्तनाम्ने नम: ।
९४. अनन्तश्रिये नम: ।
९५. अक्षराय नम: ।
९६. अमाय नम: ।
९७. आश्रमस्थाय नम: ।
९८. आश्रमातीताय० ।
९९. अन्नाय नम: ।
१००. अन्नादात नम: ।
१०१. आत्मयोनये न० ।
१०२. अवनीपतये० ।
१०३. अवनीधराय० ।
१०४. अनादिने नम: ।
१०५. आदित्याय० ।
१०६. सहस्रजिते० ।
१०७. अनन्तर पिणे० ।
१०८. अपवर्गप्रदा० ।

यत्पुरुषं० । दशाङ्गं गुग्गुलोदभूतं चन्दनागरुसंयुतम्‌ । सर्वेषामुत्तमं धूपं गृहाण सुरपूजित ॥ धूपं० । ब्राह्मणोस्य० । आज्यं च० दीपं० । चन्द्रमा० । अन्नं चतुर्विधं स्वादु पयो दधि घृतं तथा । नानाव्यञ्जनसंयुक्तं नैवेद्यं प्रति० ॥ नैवेद्यं० । उत्तरापोशनार्थं ते दद्मि तोयं सुवासितम्‌ ॥ गृहाण सुमुखो भूत्वा अनन्ताय नमो नम: ॥ उत्तरापोशनं० । हस्तप्र० । मुखप्र० । करोद्वार्तनकं देव मया दत्तं हि शक्तित: । चारू चन्द्रप्रभं दिव्यं गृहाण जगदीश्वर ॥ करोद्वर्तनं० । इदं फलं० । पूगीफलं महद्दिव्यं० ताम्बूलं० । हिरण्यगर्भ० दक्षिणां० । नाभ्याआसी० । यानि कानि च० प्रदक्षिणां० । सप्तास्यासन्‌० । नमस्ते भगवन्‌ भूयो नमस्ते धरणीधर । नमस्ते सर्वनागेन्द्र नमस्ते मधुसूदन ॥ नमस्कारान० । श्रियेजात:० कर्पूरदीपं० । यज्ञेनयज्ञ० । मालतीमल्लिकापुष्पै: शतपत्रै: समन्वितम्‌ । पुष्पाञ्जलिं गृहाणेश पादाम्बुज इहार्पितम्‌ ॥ पुष्पाञ्जलिं० । अथ दोरकप्रार्थना । अनन्ताय नमस्तुभ्यं सहस्रशिरसे नम: । नमोऽस्तु पद्मनाभाय नागानां नतये नम; ॥ इति प्रार्थयेत्‌ । अनन्तसंसारमहासमुद्रमग्नं समभ्युद्धर वासुदेव । अनन्तरूपे विनियोजयस्व ह्यनन्तसूत्राय नमो नमस्ते ॥ इति दोरकं गृहीत्वा, संसारसागरगुहासु सुखं विहर्तुं वाञ्छन्ति ये कुरुकुलोद्भवशुद्धसत्वा: । सम्पूज्य च त्रिभुवने शमनं तदेवं बध्नन्ति दक्षिणकरे वरदोरकं ते ॥ इति दोरकं दक्षिणकरे बध्वा, जीर्णदोरकं पञ्चोपचारै: सम्पूज्य, नम: सर्वहितार्थाय जगदानन्दकारक । जीर्णदोरममुं देव विसृजे‍ऽहं त्वदाज्ञया ॥ इति विसृजेत्‌ । पूर्वोच्च० जीर्णदोरकदानं करिष्ये । तदङ्गं ब्राह्मणपूजनं करिष्ये । अनन्तस्वरू० इदमासनमित्यादिना ब्राह्मणं सम्पूज्य, प्रार्थयेत्‌ । अनन्तानन्त देवेश अनन्तफलदायक । अनन्तानन्तरूपेण अनन्ताय नमो नम: ॥ स्वस्त्यस्तु दी० । जीर्णदोरकदानमन्त्र:-प्रतिगृह्ण द्विजश्रेष्ठ अनन्तफलदायक । त्वत्प्रसादादहं विप्र मुच्येयं कर्मबन्धनात्‌ ॥ अनन्त:प्रतिगृह्णाति अनन्तो वै ददाति च । अनन्तस्तारकोभाभ्यामनन्ताय नमो नम: ॥ इदं जीर्णदोरकदानं सदक्षिणाकं सताम्बूलं अमुकश० । प्रति० । पूजासाङ्गतासिध्यर्थं ब्राह्मणाय चतुर्दशसङख्याकअपूपवायनदानं करिष्ये । तदङ्गब्राह्मणपूजनं क० । अनन्तस्वरू० इदमासनमित्यादिना ब्राह्मणं सम्पूज्य, स्वस्त्यसु दी० । पक्वान्नफलसंयुक्तं सधान्यं घृतसंयुतम्‌ । गृहाणेदं द्विजश्रेष्ठ वायनं दक्षिणायुतम्‌ ॥ इदं चतुर्दशसङख्याकअपूपवायनदानं सोपस्करं अमुकशर्म० । प्रति० । देवस्यत्वा० प्रतिगृह्णामि । इति विप्र: पठेत्‌ । दानसाङ्गतासि० इमां द० । प्रार्थना अनन्त: सर्वनागानामधिप: सर्वकामद: । व्रतेनानेन सुप्रीतो भवत्विह सदा मम । कृतस्य क० यथाशक्ति ब्राह्मणान्‌ दम्पती च भोजयिष्ये । नानानामगो० भूयसीदक्षिणां दा० । न्यूनातिरिक्तानि परिस्फुटानि यानीह कर्माणि मया कृतानि । क्षम्याणि चैतानि मम क्षमस्व प्रयाहि तुष्ट: पुनरागमाय ॥ यान्तु देवग० । इति पीठदेवता विसर्जयेत्‌ । यस्य स्मृ० । अनेन यथाज्ञा० मया कृतेन पूजनेन श्रीमदनन्त: प्रीयताम्‌ । कथां श्रृणुयात्‌ ।

॥ अथ अनन्तव्रतकथाप्रारम्भ: ॥

सूत उवाच । अरण्ये वर्तमानास्ते पाण्डवा दुःखकर्शिता: । कृष्णं द्दष्ट्वा महात्मानं प्रणिपत्य यथाक्रमम्‌ ॥ युधिष्ठिर उवाच । अहं दुःखीह सञ्जातो भ्रातृभि: परिवारित: । कथं मुक्तिर्वदास्माकमनन्ताद दुःखसागरात्‌ ॥ कं देवं पूजयिष्यामि राज्यं प्राप्स्याम्यनुत्तमम्‌ । अथवा किं व्रतं कृत्वा त्वत्प्रसादाद्भवेद्धितम्‌ ॥ श्रीकृष्ण उवाच । अनन्तव्रतमस्त्येकं तिथावस्यामनुत्तमम्‌ । सर्वपापहरं नृणां स्त्रीणां चैव युधिष्ठिर ॥ शुक्लपक्षे चतुर्दश्यां मासि भाद्रपदे भवेत्‌ । तस्यानुष्ठानमात्रेण सर्वपापं व्यपोहति ॥ युधिष्ठिर उवाच । कृष्ण कोऽयमनन्तेति प्रोच्यते यस्त्वया विभो । किं शेषनाग आहोस्विदनन्तस्तक्षक: स्मृत: ॥ परमात्माथवानन्त उताहो ब्रह्म गीयते । क एषोऽनन्तसंज्ञो वै तथ्यं मे ब्रूहि केशव ॥ कृष्ण उवाच । अनन्त इत्यहं पार्थ मम रूपं निबोधत ॥ आदित्यादिग्रहात्मासौ य: काल इति पठयते ॥ कलाकाष्ठामुहूर्तादिदिवारात्रिशरीरवान्‌ । पक्षमासर्तुऋक्षाणि युगकालव्यवस्थया ॥१०॥
योऽयं कालो मयाऽऽख्यात:सोऽनन्त इति कीर्त्यते । सोऽहं कृष्णोऽवतीर्णोऽत्र भूभारोत्तारणाय च ॥ दानवानां वधार्थाय वसुदेवकुलोद्भवम्‌ । मां विद्धि सततं पार्थ साधूनां पालनाय च ॥ अनादिमध्यनिधनं कृष्णं विष्णूं हरिं शिवम्‌ ॥ वैकुण्ठं भास्करं सोमं सर्वव्यापिनमीश्वरम्‌ ॥ विश्वरूपं महाबाहो योगिध्येयमनुत्तमम्‌ । विश्वरूपमनन्तं च यस्मिन्निन्द्राश्चतुर्दश ॥ बसवो द्वादशादित्या रुद्रा एकादश स्म्रुता: ॥ सप्तर्षय: समुद्राश्च पर्वता: सरितो द्रुमा: ॥ नक्षत्राणि दिशो भूमि: पातालं भूर्भुवादिकम्‌ । मा कुरुष्वात्र सन्देहं सोऽहं पार्थ न संशय: ॥ युविष्ठिर उवाच । अनन्तव्रतमाहात्म्यं विधिं वेदविदां वर । किं पुण्यं किं फलं चास्य अनुष्ठानवतां नृणाम्‌ ॥ केन चादौ पुरा चीर्णं मर्त्ये केन प्रकाशितम्‌ । एवं सविस्तरं सर्वं ब्रूह्यनन्तव्रतं मम ॥ कृष्ण उवाच ॥ आसीत्पुरा कृतयुगे सुमन्तुर्नाम वै द्विज: । वसिष्ठगोत्रसम्भूतां सुरूपां च भृगो: सुताम्‌ ॥ दीक्षानाम्नीं चोपयेमे वेदोक्तविधिना नृप । तस्या:कालेन सञ्जाता दुहितानन्तलक्षणा ॥२०॥
शीलानाम्नी सुशीला सा वर्धते पितृवेश्मनि । माता च तस्या: कालेन ज्वरदाहेन पीडिता ॥ विनष्टा सा नदीतोये ययौ स्वर्गं पतिव्रता । सुमन्तुस्तु ततोऽन्यां वै धर्मपुंस: सुतां पुन: ॥ उपयेमे विधानेन दु:शीलां नाम नामत: । दुःशीलां कर्कशां चण्डीं नित्यं कलहकारिणीम्‌ ॥ सापि शीला पितुर्गेहे गृहार्चनपरा बभौ । कुडयस्तम्भबहिर्द्वारदेहली तोरणादिषु । वर्णकैश्चित्रमकरोन्नी लपीतसितासितै: । स्वस्तिकै: शङखपद्द्मैश्च अर्चायन्ती पुन: पुन: ॥ तत: काले बहुगते कौमार वशवर्तिनी । एवं सा वर्धते शीला पितृवेश्मनि मङ्गला ॥ तां द्दष्ट्वा चिन्तयामास वराननुगुणान्भुवि । कस्मै देया मया कन्या विचार्येति सुदुःखित: ॥ एतस्मिन्नेव काले तु मुनिर्वेदविदां वर: । कन्यार्थी चागत: श्रीमान्‌ कौण्डिण्यो मुनिसत्तम: ॥ उवाच रूपसम्पन्नां त्वदीयां तनयां वृणे । पिता ददौ द्विजेन्द्राय कौण्डिण्याय शुभे दिने । गृह्योक्तविधिना पार्थ विवाहमकरोत्तदा । मङ्गलाचारनिर्धोषं तत्र कुर्वन्ति योषित: ॥३०॥
ब्राह्मणा: स्वस्तिवचनं जयघोषं च बन्दिन: । निर्वर्त्यौद्वाहिकं सर्वं प्रोक्तवान्‌ कर्कशां द्विज: ॥ सुमन्तुरुवाच । किञ्चिद्दाया दिकं देयं जामातु: परितोषकम्‌ । तछत्वा कर्कशा क्रुद्धा प्रोत्सार्य गृहमण्डनम्‌ ॥ पेटके सुस्थिरं बध्वा स्वगृहं गम्यतामिति । उवाच वित्तं नैवास्ति गृहे पश्य यदि स्थितम्‌ ॥ तच्छुत्वा विमना: पार्थ संयतात्मा मुनिस्तदा । भोज्यावशिष्टचूर्णेन पाथेयंच च चकार सा ॥ कौण्डिण्योऽपि विवाह्यैनां पथि गच्छन‍ शनै: शनै: । शीलां सुमन्तोरादाय नवोढां गोरथेन हि ॥ ददर्श यमुनां पुण्यां तामुत्तीर्य तटे रथम्‌ । संस्थाप्यावश्यकं कर्तुं गत: शिष्यान्नियुज्य वै ॥ मध्याह्ने भोज्यवेलायां समुत्तीर्य सरित्तटे । ददर्श शीला सा स्त्रीणां समूहं रक्तवाससम्‌ ॥ चतुर्दश्यामर्चयन्तं भक्त्या देवं जनार्दनम्‌ । उपगम्य शनै: शीला पप्रच्छ स्त्रीकदम्बकम्‌ ॥ आर्या: किमेतन्मे ब्रूत किं नाम व्रतमीद्दशम‌ । ता ऊचुर्ये षितस्तां तु शीलां शीलविभूषणाम्‌ ॥ अनन्तव्रतमेतद्धि व्रतेऽनन्तस्तु पूज्यते । साऽब्रवीदहमप्येतत्करिष्ये व्रतमुत्तमम्‌ ॥४०॥
विधानं कीद्दशं तत्र किं दानं कोऽत्र पूज्यते । स्त्रिय ऊचु: । शीले सदन्नप्रस्थस्य पुन्नाम्ना संस्कृतस्य च ॥ अर्धं विप्राय दातव्यमर्धमात्मनि भोजनम्‌ । शक्त्या च दक्षिणां दद्याद्वित्तशाठयविवर्जित: ॥ कर्तव्यं यत्सरित्तीरे कथां श्रुत्वा हरेरिमाम्‌ । शेषं कुशमयं कृत्वा वंशपात्रे निधाय च ॥ स्नात्वाऽनन्तं समभ्यर्च्य मण्डले दीपगन्धकै: । पुष्पैर्धूपैश्च नैवेद्यैर्नानापक्वान्नसंयुतै: ॥ तस्याग्रतो द्दढं सूत्रं कुङ्कुमाक्तं सुदोरकम्‌ । चतुर्दशग्रन्थियुतं वामे करतले न्यसेत्‌ ॥ अनन्तसंसारमहासमुद्रग्मग्नं समभ्युद्धर वासुदेव । अनन्तरूपे विनियोजयस्व ह्यनन्तसूत्राय नमो नमस्ते ॥ अनन्तं च करे बध्वा भोक्तव्यं स्वस्थमानसै: । ध्यात्वा नारायणं देवमननं विश्वरूपिणम्‌ । भुक्त्वा चान्ते व्रजेद्वेश्म भद्रे प्रोक्तं व्रतं तव ॥ कृष्ण उवाच ॥ एवमाकर्ण्य राजेन्द्र प्रहृष्टेनान्तरात्मना । सापि चक्रे वतं शीला करे बध्वा सुदोरकम्‌ ॥ चतुर्दशग्रन्थियुतं वामे बाहौ यथोदितम्‌ । पाथेयमर्धं विप्राय दत्वा भुक्त्वा स्वयं तत: ॥ पुनर्जगाम संहृष्टा गोरथेन स्वकं गृहम्‌ । भर्त्रा सहैव शनकै: प्रत्ययस्तत्क्षणादभूत्‌ ॥५०॥
तेनानन्तव्रतेनास्य बभौ गोधनसङ्कुलम्‌ । गृहाश्रमं श्रिया जुष्टं धनधान्यसमन्वितम्‌ ॥ आकुलं व्याकुलं रम्यं सर्वदाऽतिथिपूजनै: । सापि माणिक्यकाञ्चीभिर्मुक्ताहारैर्विभूषिता ॥ देवाङ्गनेव सम्पन्ना सावित्री प्रतिमाऽभवत्‌ । विचचार गृहे भर्तु: समीपे सुखरूपिणी ॥ कदाचिदुपविष्टाया द्दष्टो बद्ध: सुदोरक: । शीलाया हस्तमूले तु भर्त्रा तस्या द्विजन्मना ॥ किमिदं दोरकं शीलं मम वश्याय कल्पितम्‌ । धृतं सुदोरकं त्वेतत्किमर्थं ब्रूहि तत्वत: ॥ शीलोवाच ॥ यस्य प्रसादात्सकला धनधान्यादिसम्पद: ॥ लभ्यन्ते मानवैश्चापि सोऽनन्तोऽयं मया धृत: ॥ शीलायास्तद्वच: श्रुत्वा भर्त्रा तेन द्विजन्मना । श्रीमदान्धेन कौरव्य साक्षेपं त्रोटितस्तदा ॥ कोऽनन्त इति मूढेन जल्पता पापकारिणा । क्षिप्तो ज्वालाकुले वह्नौ हाहाकृत्वा प्रधावती ॥ शीला गृहीत्वा तत्सूत्रं क्षीरमध्ये समाक्षिपत्‌ । तेन कर्मविपाकेन सा श्रीस्तस्य क्षयं गता ॥ गोधनं तस्करैर्नीतं गृहं दग्धं धनं गतम्‌ । यद्यथैवागतं गेहे तत्तथैव पुनर्गतम्‌ ॥६०॥
स्वजनै: कलहो नित्यं बन्धुभिस्ताडनं तथा । अनन्ताक्षेपदोषेण दारिद्यं पतितं गृहे ॥ न कश्चिद्वदते लोकस्तेन सार्द्धं युधिष्ठिर । शरीरेणातिसन्तसो मनसाप्यतिदुखित: ॥ निर्वेदं परमं प्राप्त: कौण्डिण्य: प्राह तां प्रियाम्‌ । कौण्डिण्य उवाच । शीले ममेदमुत्पन्नं सहसा शोककारणम्‌ ॥ येनातिदुःखमस्माकं जात: सर्वधनक्षय: । स्वजनै: कलहो गेहे न कश्चिन्मां प्रभाषते ॥ शरीरे नित्यसन्ताप: खेदश्चेतसि दारुण: । जानासि दुर्नय: कोऽत्र किं कृत्वा सुकृतं भवेत्‌ । शीलोवाच ॥ प्रत्युवाचाथ तं शीला सुशीला शीलमण्डना । प्रायोऽनन्तकृताक्षेपपापसम्भवजं फलम्‌ ॥ भविष्यति महाभाग तदर्थं यत्नमाचर । एवमुक्त: स विप्रर्षिर्जगाम मनसा हरिम्‌ ॥ निर्वेदं निर्जगामाथ कौण्डिण्य: प्रगतो वनम्‌ । तपसे कृतसङकल्पो वायुभक्षो द्विजोत्तम: ॥ मनसा ध्यायमानस्तं क्व द्रक्ष्यामि च तं विभुम्‌ । यस्य प्रसादात्सञ्जातमाक्षेपान्निधनं गतम्‌ ॥ धनादिकं ममातीव सुखदुःखप्रदायकम्‌ । एवं सञ्चितयन्सोऽथ बभ्राम गहने वने ॥७०॥
तत्रापश्यन्महाचूतं पुष्पितं फलिंत द्रुमम्‌ । वर्जितं पक्षिसङ्घातै: कीटकोटिसमावृतम्‌ । तमपृच्छद द्विजोऽनन्त: क्वचिद द्दष्टो महाद्रम । ब्रूहि सौम्य ममातीव दुःखं चेतसि वर्तते ॥ सोऽब्रवीद्भद्र नानन्त: क्वचिद द्दष्टो मया द्विज ॥ एवं निराकृतस्तेन स जगामाथ दुःखित: ॥ क्व द्रक्ष्यामीति गच्छन्स गां ददर्श सवत्सकाम् ॥ वनमध्ये प्रधावन्तीमितश्चेतश्च पाण्डव ॥ सोऽब्रवीद्धेनुके ब्रहि यद्यनन्तस्त्थयेक्षित: ॥ गौरुवाचाथ कौण्डिण्यं नानन्तं वेद्मयहं द्विज ॥ ततो व्रजन्ददर्शाग्रे वृषभं शाद्वले स्थितम्‌ । द्दष्ट्वा पप्रच्छ गोस्वामिन्ननन्तो वीक्षितस्त्वया ॥ वृषभस्तमुवाचेदं नानन्तो वीक्षितो मया ॥ ततो व्रजन्ददर्शाग्रे रम्यं पुष्करिणीद्वयम्‌ । अन्योऽन्यजलकल्लोलैर्वीचीपर्यन्तसङ्गतम्‌ । छन्नं कमलकल्हारै: कुमुदोत्पलमण्डितम् ॥ सेवितं भ्रमरैर्हंसैश्चक्रकारण्डवैर्बकै: । ते अपृच्छद द्विजोऽनन्तो युवाभ्यां नोपलक्षित: ॥ ऊचतुस्ते पुष्करिण्यै नानन्तो वीक्षितो द्विज । ततो वजन्ददर्शग्रे गर्दभं कुञ्जरं तथा ॥८०॥
ताबपृच्छद द्विजोऽनन्तो भवदभ्यां नोपलक्षित: । एवं स पृच्छन्नष्टाशस्तत्रैव निषसाद ह ॥ कौण्डिण्यो विह्नलीभूतो निराशो जीविते नृप । दीर्घमुष्णं च नि:श्चस्य पपात भुवि भारत ॥ प्राप्य संज्ञामनन्तेति जल्पन्नुत्थाय स द्विज: । नूनं त्यक्ष्याम्यहं प्राणानिति सङ्कल्प्य चेतसि ॥ यावदुद्‌बन्धनं वृक्षे चक्रे तावद्युधिष्ठिर ॥ कृपयाऽनन्तदेवोऽपि प्रत्यक्षं समजायत ॥ वृद्धब्राह्मणरूपेण इत एहीत्युवाच तम्‌ । प्रगृह्य दक्षिणे पाणौ गुहायां प्रविवेश तम्‌ । स्वां पुरीं दर्शयामास दिव्यनारीनरैर्युताम्‌ । यस्यां निविष्टमात्मानं दिव्यसिंहासने शुभे ॥ पार्श्वस्थशङ्खचक्राब्जगदागरुडशोभितम्‌ । दर्शयामास विप्राय विश्वरूपमनन्तकम‌ ॥ विभूतिभेदैश्चानन्तैरनन्तममितौजसम्‌ । कौतुकेन विराजन्तं वनमालाविभूषितम्‌ ॥ तं द्दष्ट्वा ताद्दशं रूपमनन्तमपराजितम्‌ ॥ वन्द्यमानो जगादोच्चैर्जयशब्दपुर:सरम्‌ ॥ पापोऽहं पापकर्माहं पापात्मा पापसम्भव: । त्राहि मां पुण्डरीकाक्ष सर्वपापहरो भव ॥९०॥
तच्छुत्वाऽनन्तदेवेश: प्राह सुस्निग्धया गिरा । मा भैस्त्वं ब्रूहि विप्रेन्द्र यत्ते मनसि वर्तते ॥ कौण्डिण्य उवाच ॥ मया भूत्यवलिप्तेन त्रोटितोऽनन्तदोरक: । तेन पापविपाकन भूतिम्रे प्रलयं गता ॥ स्वजनै: कलहो गेहे न कश्चिन्मां प्रभाषते । निर्वेदाद भ्रमतोऽरण्ये तब दशनकाङ्क्षया ॥ कृपाय देवदेवेश त्वयात्मा सम्प्रदर्शित: । तस्य पापस्य मे शान्तिं कारुण्याद्वक्तुमर्हसि । श्रीकृष्ण उवाच ॥ तच्छुत्वाऽनन्तदेवश उवाच द्विजसत्तमम‌ । भक्त्या सन्ताषितो देव: किं न दद्याद्युधिष्ठिर ॥ अनन्त उवाच ॥ स्वगृहे गच्छ कौण्डिण्य  मा विलम्बं कुरु द्विज । चरानन्तव्रतं भक्त्या नववर्षाणि पञ्च च ॥ सर्वपापविशुद्धात्मा प्राप्स्यसे सिद्धिमुत्तमाम्‌ । पुत्रपौत्रान्समुत्पाद्य भुक्त्या भोगान्यथेप्सितान्‌ । अन्त मत्स्मरणं प्राप्य मामुपैष्यस्यसंशयम्‌ । अन्यं च ते वरं दद्मि सर्वलोकीपकारकम्‌ ॥ इदमाख्यानकवरं शीलानन्तव्रतादिकम्‌ । करिष्यति नरो यस्तु कुर्वन्व्रतमिदं भुभम्‌ ॥ सोऽचिरात्पापनिर्मुक्त: प्राप्नाति परमां गतिम्‌ । गच्छ विप्र गृहं शीघ्रं यथा येनागतो ह्यसि ॥१००॥
कौण्डिण्य उवाच ॥ स्वामिन्पृच्छामि ते ब्रूहि किञ्चित्कौतूहलं मया । अरण्ये भ्रमता द्दष्टं तद्वदस्व जगद गुरो ॥ यश्चतवृक्ष: कस्तत्र का गौ: को वृषभस्तथा । कमलोत्पलकल्हारै: शोभितं सुमनोहरम्‌ ॥ मया द्दष्टं महारण्ये किं तत्पुष्करिणीद्वायम्‌ । क: खर:कुञ्जर:कोऽसौ कोऽसौ वृद्धो द्विजोत्तम: ॥ अनन्त उवाच । स चूतवृक्षो विप्रोऽसौ विद्यवेदविशारद: । विद्या न दत्ता शिष्येभ्यस्तेनासौ तरुतां गत: ॥ या गौर्वसुन्धरा द्दष्टा पूर्वं सा बीजहारिणी । वृषो धर्मस्त्वया द्दष्ट: शाद्वलं सत्यमास्थित: ॥ धर्माधर्मव्यवस्थानं तञ्च पुष्करिणीद्वयम्‌ । ब्राह्मण्यौ केचिदप्यास्तां भगिन्यौ ते परस्परम्‌ ॥ धर्माधर्मादि यत्किञ्चित्तन्निवेदयतो मिथ: । विप्राय वेदविदुषे न दत्तं दुर्बलाय वै । भिक्षा दत्ता न चार्थिभ्यस्तेन पापेन कर्मणा । वीचीकल्लोलमालाभिर्गच्छतस्ते परस्परम्‌ ॥ खर: क्रोधस्तथा द्दष्ट: कुञ्जरो मद उच्यते । ब्राह्मणो‍ऽसावनन्तोऽहं गुहासंसारगह्वरम्‌ ॥ इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत । स्वप्नप्रायं ततो द्दष्ट्वा तत: स्वगृहमागत: ॥११०॥
कृत्वानन्तव्रतं सम्यक नववर्षाणि पञ्च च । भुक्त्वा सर्वमनन्तेन यथोक्तं पाण्डुनन्दन ॥ अन्ते च स्मरणं प्राप्य गतोऽनन्तपुरे द्विज: । तथा त्वमपि राजर्षे कथां श्रृण्वन्‌ व्रतं कुरु ॥ प्राप्स्यसे चिन्तितं सर्वमनन्तस्य वचो यथा । यद्वञ्चतुर्दशे वर्षे फलं प्राप्तं द्विजन्मना । वर्षैकेण तदाप्नोति कृत्वोपाख्यानकव्रतम्‌ ॥ एतत्ते कथितं भूप व्रतानामुत्तमं वतम्‌ । यच्छुत्वा सर्वपापेभ्यो मुच्यते नात्र संशय: ॥ येऽपि श्रृण्वन्ति सततं पठयमानं पठन्ति ये । तेऽपि पापविनिर्मुक्ता: प्राप्त्यन्ति च हरे: पदम्‌ ॥ इति श्रीभविष्योत्तरपुराणे कृष्णयुधिष्ठिरसंवादे अनन्तव्रतकथा समाप्ता ॥



N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP