TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

भाद्रपदमास: - श्रवणद्वादशीकथाप्रारम्भ:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


श्रवणद्वादशीकथाप्रारम्भ:
॥ अथ श्रवणद्वादशीकथाप्रारम्भ: ॥

महादेव तन्ममाचक्ष्व पृच्छत: ॥ श्रीकृष्ण उवाच ॥ या राजन्छ्र्वणोपेता द्वादशी महती तु सा । तस्यामुपोषित: स्नात: पूजयित्वा जनार्दनम् ॥ प्राप्नोत्ययत्नाद्धर्मज्ञ द्वादशद्वादशीफलम्‌ । दध्योदनयुतं तस्यां जलपूर्णं तथा घटम्‌ ॥ वस्त्रसंवेष्टितं दत्वा छत्रोपानहमेव च । न दुर्गतिमवाप्नोति गतिमग्र्यां च विन्दति ॥ अक्षय्यं स्थानमाप्नोति नात्र कार्या विचारणा । श्रवणद्वादशीयोगे बुधवारो भवेद्यदि ॥ अत्यन्तं महती नाम द्वादशी सा प्रकीर्तिता । स्नानं जाप्यं तथा दानं होम: श्राद्धं सुरार्चनम्‌ ॥ सर्वमक्षय्यमाप्नोति तस्यां श्रृणु कुलोद्वह । तस्मिन्दिने तथा स्नातो यत्र क्वचन सङ्गमे ॥ स गङ्गास्नानजं राजन्‌ फलं प्राप्नोत्यसंशयम्‌ । श्रवणे सङ्गमा: सर्वे परतुष्टिप्रदा: सदा ॥ विशेषाद द्वादशीयुक्ता बुधयुक्ता विशेषत: । तथैव द्वादशी प्रोक्त बुधश्रवणसंयुता ॥ शुद्धा श्रवणसंयुक्ता सङ्गमे विजया स्मृता । वारिकुम्भं प्रदायास्यां दध्योदनसमायुतम्‌ ॥१०॥
प्रेतयोनौ न जायेत पूजयित्वाऽत्र वामनम्‌ । वंश: समुदधृतस्तेन मुक्त: पितृऋणादसौ ॥ नभस्ये सङ्गमे स्नात्वा वामनो येन पूजित: । स याति परमं स्थानं विष्णुसायुज्यमाप्नुयात्‌ ॥ युधिष्ठिर उवाच ॥ उपवासासमर्थानां तदैव पुरुषोत्तम । एका या द्वादशी पुण्या तां वदस्व ममानघ ॥ श्रीकृष्ण उवाच ॥ मासे भाद्रपदे शुक्ला द्वादशी श्रवणान्तिता । सर्वकामप्रदा पुण्या उपवासमहाफला ॥ सङ्गमे सरितां स्नात्वा द्वाद्श्यां समुपोषित: । समग्रं समवाप्नोति द्वादशद्वादशीफलम्‌ ॥ त्वमेव तीर्थराजोऽसि त्वमेव सरितां पति: । सङ्गमस्त्वं प्रसन्नो मे प्रसादं कुरु सङ्गम ॥ सा धेनुद्वादशी ज्ञेया तस्यां भाद्रपदे शुभा । दशम्यैकादशी यत्र सा नोपोष्या भवेत्तिथि: ॥ श्रवणेन तु संयुक्ता सा शुभा सर्वकामदा । पारणं तिथिवृद्धौ तु द्वादश्यामुडुसङ्क्षयात्‌ ॥ वृद्धौ क्रुयात्त्रयोदश्यां तत्र दोषो न विद्यते । इत्येषा कथिता राजन्‌ द्वादश्यां श्रवणेन या ॥ कर्तव्या सा प्रयत्नेन इहामुत्र फलप्रदा । द्वादश्यामुपवासोऽत्र त्रयोदश्यां तु पारणम्‌ ॥२०॥
निषिद्धमपि कर्तव्यमित्याज्ञा पारमेश्वरी । वुधश्रवणसंयुक्ता सैव चेद द्वादशी भवेत्‌ ॥ अतीव महती तस्यां सर्वं कृतमिहाक्षयम्‌ । द्वादशी श्रवणोपेता यदा भवति भारत । सङ्गमे सरितां स्नात्वा गङ्गादिस्नानजं फलम्‌ । सोपवास: समाप्नोति नात्र कार्या विचारणा ॥ जलपूर्णं तदा कुम्भं स्थापयित्वा विचक्षण: । पञ्चरत्नसमोपेतं सोपवीतं सवस्त्रकम्‌ ॥ तस्योपरि स्थापयित्वा लक्ष्म्य़ा सह जनार्दनम्‌ । यथाशक्त्या स्वर्णमयं शङ्खशार्ड्गविभूषितम्‌ ॥ स्थापयित्वा विधानेन सितचन्दनचर्चितम्‌ । सितवस्त्रयुगच्छन्नं छत्रोपानद्युगान्वितम्‌ ॥ ॐ नमो वासुदेवाय शिर: सम्पूजयेत्तत: । श्रीधराय मुखं तद्वद्वैकुण्ठाय हृदब्जकम्‌ ॥ नम: श्रीपतये नेत्रे भुजौ सर्वास्त्रधारिणे । व्यापकाय नम: कुक्षी केशवायोदरं नम: ॥ त्रैलोक्यजनकायेति मेण्ढ्रं सम्पूजयेद्धरे: । सर्वाधिपतये जङ्घे पादौ सर्वात्मने नम: ॥ अनेन विधिना राजन्पुष्पधूपै: समर्चयेत्‌ । ततस्तस्याग्रतो देयं नैवेधं घृतपाचितम्‌ ॥३०॥
द्वादशब्राह्मणान्कुम्भान्‌ शक्त्या दद्याच्च दक्षिणाम्‌ । एवं सम्पूज्य गोविन्दं जागरं जागरं तत्र कारयेत्‌ ॥ प्रभाते विमले स्नात्वा सम्पूज्य गरुडध्वजम्‌ । पुष्पधूपादिनैवेद्यै: फलैर्वस्त्रै: सुशोभनै: ॥ पुष्पाञ्जलिं ततो दत्वा मन्त्रमेतमुदीरयेत्‌ । नमो नमस्ते गोविन्द वुधश्रवणसंज्ञक ॥ अघौघसंक्षयं कृत्वा  सर्वसौख्यप्रदो भव । अनन्तरं बाह्मणे तु वेदवेदाङ्गपारगे ॥ पुराणज्ञे विशेषेण विधिवत्सम्प्रदापयेत्‌ । प्रीयतां देवदेवेशो मम नित्यं जनार्दन: ॥ अनेनैव विधानेन दद्यात्स्त्री वा नरोत्तम: । सर्वं निवर्तयेत्सम्यक्‌ एकभक्तिरतोऽपि सन्‌ ॥ श्रीकृष्ण उवाच ॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्‌ । महत्यरण्ये यदवृत्तं भूमिपाल श्रृणुष्व तत्‌ ॥ देशो दशार्णको नाम तस्य भागे तु पश्चिमे । अस्ति राजन्मरुद्देश: सर्वसत्वभयङ्कर ॥ सुतप्तवालुकाभूमिर्यत्र दुष्टा महोरगा: । अल्पच्छाया द्रुमास्तत्र मृतप्राणिसमाकुला: ॥ शमीखदिरपालाशकरीरैश्च सपीलुभि: । यत्र भीमगणा वृक्षा मर्कटै: परिवेष्टिता: ॥४०॥
दग्धप्राणिगणाकीर्णा यत्र भूर्द्दश्यते क्वचित्‌ । अर्कप्रतापै: सन्तप्ता परुषा निस्तृणा मही ॥ ज्वलिताग्निसमं चैव यत्किञ्चित्तत्र द्दश्यते । तथापि लोका जीवन्ति सर्वे कर्मनिबन्धनात्‌ ॥ नोदकं नो तृषा भीता राजंस्तत्र बलाहका: । कदाचिदपिद्दश्यन्ते प्लवमाना विहङ्गमा: ॥ तै: कान्तारगतै: कैश्चित्तृषितै: शिशुभि: समम्‌ । सैकतेष्वेव नश्यन्ति जलै: सैकतसेतुवत्‌ ॥ तस्मिंस्तथाविधे देशे कश्चिद्दैववशाद्वणिक्‌ । हरिदत्त इति ख्यातो वणिकधर्मोपजीवक: ॥ निजसार्थपरिभ्रष्ट: प्रविष्टो मरुजाङ्गले । द्दष्टवान्मलिनान्‌ रूक्षान्निर्मांसान्भीमदर्शनान्‌ ॥ बभ्राम भ्रान्तहृदय: क्षुत्तृषाश्रमकर्शित: । क्व ग्राम: क्व जन: क्वाहं क्व यास्यामि किमाचरे ॥ अथ प्रेतान्ददर्शासौ क्षुत्तृषाव्याकुलेन्द्रियान्‌ । क्षुत्क्षामान्‌ लम्बवृषणान्‌ निर्मांसान्स च कीकसान्‌ ॥ स्नायुबद्धास्थिचरणान्‌ धावमानानितस्तत: । वणिक सोऽपि तदाश्चर्यं द्दष्ट्वा भयमुपागत: ॥ भीतभीतस्तु तै: सार्धं जगाम पथि वञ्चयन्‌ । ततो गत्वा पिशाचास्ते न्यग्रोधं महदाश्रयम्‌ ॥५०॥
शीतच्छायं सुविस्तीर्णं तत्र ते समुपाविशन्‌ । निविष्टेषु ततस्तेषु एकदेशे स्थितो वणिक ॥ प्रेतस्कन्धसमारूढमेकं विकृतदर्शनम्‌ । ददर्श बहुभि: प्रेतै: समन्तात्परिवारितम्‌ ॥ आगच्छन्‌ शवभक्षी स स्तुतिशब्द: पुर:सरम्‌ । प्रेतस्कन्धान्महीं गत्वा तस्यान्तिकमुपागतम्‌ ॥ सोऽपि वाचा वणिकश्रेष्ठमिदं वचनमब्रवीत्‌ । अस्मिन्‌ घोरतरे देशे प्रवेशो भवत: कथम्‌ ॥ तमुवाच वणिक्‌ धीमान्सार्थभ्रष्टस्तदावश: । प्रवेशो दैवयोगेन कष्टकर्मकृतेन तु ॥ तृष्णा मे बाधतेऽत्यर्थं क्षुत्तुषौ च भृशं तथा । प्राणा: कण्ठमनुप्राप्ता वचनं नश्यतीव मे ॥ अत्रोपायं न पश्यामि जीवेयं येन केनचित्‌ । श्रीकृष्ण उवाच ॥ इत्येबमुक्त: प्रेतस्तु वणिजं वाक्यमब्रवीत्‌ ॥ पुन्नागमिममाश्रित्य प्रतीक्षस्व मुहूर्तकम्‌ । कृतातिथ्यो यथा पश्चाद गमिष्यसि यथासुखम्‌ ॥ एवमुक्तस्तथा चक्रे वणिक्‌ तृषयार्दित: । मध्याह्णसमये प्राप्ते ततस्तं देशमागत: ॥ पुन्नागवृक्षाच्छीतोदा वारिधानी मनोरमा । दध्योदनसुयुक्तेन वर्धमानेन संयुता ॥६०॥
अवतीर्य तत: सोऽग्रे ददावतिथ ये तदा । दध्योदनं च तोयं च क्षुत्तुडभ्यां पीडिताय वै ॥ दध्योदनेन तोयेन परां तृप्तिमुपागत: । वितृष्णो विज्वरश्चापि क्षणेन च बभूव ह ॥ ततस्तु प्रेतसङ्घस्य तस्माद्भागं क्रमाद्ददौ । दध्योदनात्सपानीयात्प्रेतास्तृप्तिं परां गता: ॥ अतिथिं तर्पयित्वा च प्रेतलोकं च सर्वश: । तत: स्वयं च बभुजे भुक्तशेषं यथासुखम्‌ । ततो भुक्तवतस्त्वन्नं पानीयं च स्वयं पपौ । प्रेताधिपं ततस्तुष्टो वणिकवचनमब्रवीत्‌ ॥ वणिगुवाच ॥ आश्चर्यमेतत्परमं वनेऽस्मिन्प्रतिभाति मे । अन्नपानस्य सम्प्राप्ति:परमस्य कुतस्तव ॥ स्तोकेन च तथान्नेन बिभर्षि सुबहून्वने । तृप्तिं गता: कथं त्वेते निर्मांसा भीमकुक्षय: ॥ अपरं च कथं स्नेहमवाप्तावापरिक्षयम्‌ । हिमाचलं च कस्मात्त्वं सम्प्राप्तो निर्जले वने ॥ तृप्तश्चासि कथं ग्रासमात्रेणैव शुभं ब्रवी: । पिशाचपतिरुवाच ॥ श्रृणु भद्रं प्रवक्ष्यामि दुष्कृतं कर्म चात्मन: ॥ शाकले नगरे रम्ये अहमासं सुदुर्मति: । वणिगासं पुरा काले ततो भद्रमवाप ह ॥७०॥
शाकले नगरे रम्ये नास्तिकस्य दुरात्मन: । धनलोभात्तथ तत्र कदाचित्प्रमदेरिता ॥ न दत्ता भिक्षवे भिक्षा तृषिते नु कदाचन । प्रतिवैश्यस्तु तत्रासीद ब्राह्मणो गुणवान्मम ॥ श्रवणद्वादशीयोगे मासि भाद्रपदे तथा । स कदाचिन्मया सार्धं तापीं नाम नदीं ययौ ॥ तस्यास्तु सङ्गम: पुण्यो यत्रासीच्चन्द्रभागया । चन्द्रभागा सोमसुता तापी चैवार्कनन्दिनी ॥ तयो: शीतोष्णसलिले सङ्गमे सुमनोहरे । तत्तीर्थवरमासाद्य प्रतिवैश्य: स मे द्विज: ॥ श्रवणद्वादशीयोगे स्नातश्चैवोपवासकृत्‌ । चान्द्रभागस्य तोयस्य वारिकुम्भंनवं द्दढम्‌ । दध्योदनयुतै: सार्धं सम्पूर्णं वर्धमानकै: । छत्रोपानद्युगं वस्त्रं प्रतिमां विधिवद्धरे: ॥ प्रददौ विप्रमुख्याय रहस्यज्ञो महामुनि: । वित्तसंरक्षणार्थाय तस्यापि च ततो मया ॥ सोपवासेन दत्ता वै वारिधानी सुशोभना । चान्द्रभागस्य विप्राय दध्योदनयुता तदा ॥ एतत्क्रुत्वा गृहं प्राप्तस्तत: कालेन केनचित्‌ । पञ्चत्वमहमासाद्य नास्तिक्यात्प्रेततां गत: ॥८०॥
अस्यामटव्यां घोरायां यथास्वं कुशलं तदा । पुरोहितो मया द्दष्ट: स्नात्वा गृहमुपागत: ॥ शिक्यहस्त: सकलशो द्वादश्यां समुपोषित: । तेनापिकथिता तत्र श्रवणद्वादशी शुभा ॥ सविनयं सोपदेशं व्रतं कृत्वा मयानघ । तस्येयं कर्मण: पुष्टिर्येयं द्दष्टा त्वयानघ ॥ यदन्नं च मया दत्तं सजलं घटकाञ्चनम्‌ । तत्तन्मां भजते नित्यं पिशाचत्त्वेऽपि नित्यश: ॥ सेयं मध्याह्नसमये दिवसे दिवसे मम । उपतिष्ठति वैश्येह यथा द्दष्टं त्वयानघ ॥ उपवास फलेनैव जातिस्मरणमेव च । दधिभक्तप्रदानेन जलान्नं चाक्षयं मम ॥ ब्रह्मस्वहारिणस्त्वेते पापा: प्रेतत्वमागता: । परदाररता: केचित्स्वामिद्रोहरता: परे ॥ मित्रद्रोहरता:केचिद्देशेऽस्मिंस्तु सुदारुणे । ममैते भृत्यतां प्राप्ता अन्नदानादिकेन च ॥ अक्षय्यो भगवान्विष्णु: परमात्मा सनातन:। यद्दीयते तमुद्दिश्य अक्षय्यं तत्प्रकीर्तितम्‌ ॥ तेनाक्षय्येन चान्नेन तृप्ता एते पुन: पुन: । प्रेतभावाच्च दौर्बल्यं न मुञ्चन्ति कदाचन ॥९०॥
अहं च पूजयित्वा त्वामतुथिं समुपस्थितम्‌ । प्रेतभावाद्विनिर्मुक्तो यास्यामि परमां गतिम्‌ ॥ मया विहीना: किन्त्वेते वनेऽस्मिन्भृशदारुणे । पीडामनुभवन्त्येते दारुणां कर्मयोनिजाम्‌ एतेषां तु महाभाग ममानुग्रहकाम्यया । अनेकनामगोत्रानि गृह्णीयास्त्वखिलेन च ॥ अस्ति कक्षागता चैव तत्वसम्पुटिका शुभा । हिमवन्तमथासाद्य तत्र त्वं लप्स्यसे निधिम्‌ ॥ गयाशीर्षं ततो गत्वा श्राद्धं कुरु महामते । एकमेकमथोद्दिश्य प्रेते प्रेते यथासुखम्‌ ॥ एवं सम्भाष्यमाणस्तं जप्तजाम्बूनदप्रभ: । समारुह्य विमानं स स्वर्गलोकमितो गत: ॥ स्वर्गते प्रेतनाथे वै प्रभावात्सवणिक्‌ क्रमात्‌ । नामागोत्राणि सङगृह्य प्रयात: स हिमालये ॥ तत्र प्राप्य निधिं गत्वा विनिक्षिप्य स्वकं गृहे । धनभारमुपादाय गयाशीर्षवटं ययौ ॥ प्रेतानां क्रमशस्तत्र चक्रे श्राद्धं दिने दिने । यस्य यस्य यथाश्राद्धं स करोति दिने वणिक ॥ सोऽपि तस्य तदा स्वप्ने दर्शयत्यात्मनस्तनुम्‌ । ब्रवीति च महाभाग प्रसादेन तवा नघ ॥१००॥
प्रेतभावमिमं त्यक्त्वा प्राप्तोऽस्मि परमां गतिम्‌ । ततस्तु ते विमानस्था ऊचुश्च वणिजं तथा ॥ त्वया हि तारिता: सर्वे किल्बिषाद्वणिजोत्तम । प्रयाम: स्वर्गतिं सर्वे इदानीं त्वत्प्रसादत: ॥ साधुसङ्गो न हि वृथा कदाचिदपि जायते । एवमुक्त्वा गता: सर्वे विमानै: सूर्यसन्निभै: ॥ दिव्यरूपधरा: सर्वे द्योतयन्तो दिशो दश । हरिदत्तश्च तान्‌ सर्वान्समुद्धृत्य जगाम ह ॥ स्वदेशस्थं च नगरं स्वगृहं च विवेश ह । स कृत्वा धनलोभेन प्रेतानां सद्‌गतिं वणिक ॥ जगाम स्वगृहं तत्र मासि भाद्रे युधिष्ठिर । श्रवणद्वादशीयोगे पूजयित्वा जनार्दनम्‌ ॥ दानं दत्वा च विप्रेभ्य: सोपवासो जितेन्द्रिय: । सङ्गमं च महानद्यो: प्रतिवर्षमतन्द्रित: ॥ चकार विधिवद्दानं ततो द्दष्टान्तमागत: । अवाप परमं स्थानं दुर्लभं सर्वमानवै: ॥ यत्र कामफला वृक्षा नद्य: पायसकर्दमा: । शीतलामलपानीया: पुष्करिण्यो मनोरमा: ॥ तद्देशमासाद्य वणिक महात्मा प्रतप्तजाम्बूनदभूषिताङ्ग: । कल्पं समग्रं सुरसुन्दरीभि: स्वर्गे सुरेगे मुदित: सदैव ॥११०॥
वुधश्रवणसंयुक्ता द्वादशी सर्वकामदा । दानं दध्योदनं शस्तमुपवास: परो विधि: ॥ सगरेण ककुत्स्थेन धुन्धुमारेण गाधिना । एतैश्चान्यैश्च राजेन्द्र कामदा द्वादशी कृता ॥ या द्वादशी बुधयुता श्रवणेन सार्धं सा वै जयेति कथिता मुनिभिर्नभस्ये । तामादरेण समुपोष्य सम्यक प्राप्नोति सिद्धिमणिमादिगुणोपपन्नाम्‌ ॥ इति श्रीभविष्योत्तरपुराणे श्रवणद्वादशीकथा समाप्ता ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:50:54.9100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

unearned income

  • अनर्जित आय 
  • (income that is not derived from personal labour or service but usu. from ownership of property) 
  • न. अनर्जित उत्पन्न 
  • स्त्री. अनर्जित प्राप्ति 
More meanings
RANDOM WORD

Did you know?

भीमा माहात्म्य हा ग्रंथ उपलब्ध होइल का?
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.