भाद्रपदमास: - वामनपूजाविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ अथ भाद्रशुक्लद्वादश्यां वामनपूजाविधि: ॥

द्वादशी मध्याह्णव्यापिनी श्रवणयुता ग्राह्या । उभयदिने श्रवणयोगे पूर्वैव । सर्वथा श्रवणयोगाभावे एकादश्यामेव श्रवणसत्वे मध्याह्णव्यापिनीं द्वादशीं विहाय एकादश्यामेव व्रतं कार्यम्‌ । तिथिद्वये श्रवणयोगाभावे मध्याह्णव्यापिन्यां द्वादश्यां कार्यम्‌ । तिथिद्वये श्रवणयोगाभावे मध्याह्णव्यापिन्यां द्वादश्यां कार्यम्‌ । दशमीविद्धैकादश्यां श्रवणयोगे सैव ग्राह्या । अत्र मध्याह्णशब्द: द्वेधा विभक्तस्य दिनस्य सन्धिकालवाचक: । अत्रापि श्रवणद्वादशीवत दन्तधावनादिसङ्गमस्नानं कुर्यात । गृहमागत्य भूमिं गोमयेनोपलिप्य रङ्गवल्लीभिरलङकृते पीठे पूर्वाग्रान्‌ कुशान्‌ प्रसार्य तदुपरि कृष्णाजिनं प्रस्थमात्रतिलपूर्णं निधाय अभावे यवगोधूमपूर्णं वा तदुपरि सङगमजलपूरितं घटं महीद्यौरित्यादिना स्थापनादिपूर्णपात्रनिधानान्तं कृत्वा, तत्र यथाशक्त्या सौवर्णीं वामनप्रतिमां अग्न्युत्तारणप्राणप्रतिष्ठापूर्वकं स्थापयेत्‌ । तत्समीपे पीतवस्त्रयुग्मं, कमण्डलुं, छत्रं, उपानहौ च स्थापयेत्‌, ॥ अथ पूजाविधि: ॥ आचम्य देशकालौ स्मृत्वा, मम इह जन्मनि जन्मान्तरे च समस्तपापक्षयपूर्वकसकलदोषपरिहारद्वारा पुत्रपौत्राद्यभिवृध्यर्थं श्रीविष्णुलोकप्राप्त्यर्थं आचरितवामनजयन्तीव्रताङगभूतं यथामिलितषोडशोपचारद्रव्यै: पुरुवसूक्तेन पुराणोक्तमन्त्रैश्च श्रीवामनपूजनमहं करिष्ये । तदङ्गं गणपतिपूजनं आसनविधिं कलशशङखघण्टापूजनं च करिष्ये । गणपतिपूजनादिसम्भारप्रोक्षणान्तं कृत्वा आवाहयेत्‌ । ब्रह्माण्डमुदरे यस्य महदभूतैरधिष्ठितम्‌ । मायावी वामन: श्रीशो समायातु जगत्पति: ॥ श्रीवामनाय नम: वामनं साङ्गं सपरिवारं सायुधं सशक्तिकं आवाहयामि । अथ ध्यानम्‌ ॥ ह्नस्वपादं ह्वस्वकायं महाशिरसमर्भकम्‌ । पाणिपादोदरकृशं ह्णस्वजङघोरुकेसरम्‌ ॥ मौञ्ज्या मेखलया वीतमुपवीताजिनोत्तरम्‌ ॥ जटिलं वामनं विप्रं मायामाणवक हरिम ॥ श्रीवामनाय नम: वामनं ध्यायामि ॥ पद्मरागादिसंयुक्तं मुक्तामणिविभूषितम्‌ । स्वर्णसिंहासनं चारु वामन प्रतिगृ० ॥ आसनं० ॥ कमण्डलुशिखाधारी कुब्जरूपोऽसि वामन । छत्रदण्डधरो देव पाद्यं गृह्ल नमोऽस्तु ते ॥ पाद्यं० ॥ सहस्रशीर्षा त्वं देव श्रवणर्क्षसमन्वित । अर्ध्यं गृहाण देवेश रमया सहितो हरे ॥ अर्ध्यं० ॥ कमण्डलुस्थितं चारु गङ्गातोयप्रपूरितम्‌ । देवेशाचमनार्थं च वामन प्रतिगृ० ॥ आचमनीयं० ॥ गङ्गासरस्वतीरेवापयोष्णीनर्मदाजलै: । स्नापितोऽसि मया देव तथा शान्तिं प्रयच्छ मे ॥ स्नानं० ॥ पयोदधिघृतक्षौद्रशर्करास्नानमुत्तमम्‌ । गृह्यतां देवदेवेश त्रिविक्रम नमोऽस्तु ते ॥ पञ्चामृतस्नानं० ॥ आचमनीयं० ॥ पञ्चोपचारपूजां कृत्वा, अभिषेक: । अतसीपुष्पसङ्काशं तिलकृष्णाजिनोपरि । कुरुक्षेत्रे प्रतिष्ठाप्य वामनं स्थापयाम्यहम्‌ ॥ इति प्रतिमां पीठे स्थापयेत । नम: कमलकिञ्जल्कपीतनिर्मलवाससे । वासो वै देवदेवेश गृहाण पुरुषोत्तम ॥ पीतवस्त्रयुग्मं० ॥ नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम्‌ । उपवीतं सुरश्रेष्ठ गृहाण पुरुषोत्तम ॥ यज्ञोपवीतं० । आचमनीयं० । मलयाचलसम्भूतं घनसारं मनोहरम्‌ । हृदयानन्दनं चारु चन्दनं प्रतिगृ० ॥ चन्दनं० ॥ किरीटं कुण्डले दिव्ये केयूरं रत्ननिर्मितम्‌ । कण्ठसूत्रं नुपुरे च वामन प्रतिगृ० ॥ अलङ्कारान्‌० ॥ अक्षता: परमादिव्या: सर्वकामफलप्रदा: । पूजासंरक्षणार्थाय गृह्यतां परमेश्वर ॥ अक्षतान्‌० ॥ मल्लिका शतपत्रं च जातीपुष्पं सुगन्धकम्‌ । चम्पकैर्जलयैर्युक्तं पुष्पं गृह्ल नमोऽस्तु ते ॥ पुष्पाणि स० ॥

॥ अङ्गपूजा ॥

१. मत्स्याय० पादौ पू० ।
२. कूर्माय० जानुनी० ।
३. वराहाय० गुह्यं पू० ।
४. नृसिंहाय० उदरं पू० ।
५. वामनाय० कण्ठं पू० ।
६. परशुरामा० भुजौ पू० ।
७. रामाय० कर्णौ पू० ।
८. कृष्णाय० मुखं पू० ।
९. बौद्धाय० नेत्रे पू० ।
१०. कल्किने न० शिर: पू० ।
धपोऽयं गृह्यतां देव शङ्खचक्रगदाधर । अच्युतानन्त गोविन्द वासुदेव नमोऽस्तु ते ॥ धूपं० ॥ त्वमेव पृथिवी ज्योतिर्वायुराकाशमेव च । त्वमेव ज्योतिषां ज्योतिर्दीपोऽयं प्रतिगृ० ॥ दीपं० ॥ त्वं माता सर्वदेवानां त्वमेव जगत:पिता । मया निवेदितं भक्त्या नैवेद्यं प्रतिगृ० ॥ अन्नं च० नैवेद्यं ॥ आचमनं० ॥ करोद्वर्तनं० ॥ इदं फलं म० फलं० ॥ पूगीफलं० ताम्बूलं० ॥ हिरण्यग० दक्षिणां ॥ चन्द्रादित्यौ च० नीराजनदीपं द० ॥ यानि का० प्रदक्षिणां० ॥ नमो वामनरूपाय नमस्तेऽस्तु त्रिविक्रम । नमस्ते बलिबन्धाय वासुदेव नमोऽस्तु ते ॥ नमस्कारान्‌० ॥ नमोऽस्त्वनन्ताय० पुष्पाञ्जलिं स० ॥ प्रार्थयेत्‌ अनेककर्मनिर्बन्धध्वंसिनं जलशायिनम्‌ । नतोऽस्मि मथुरावासं माधवं मधू सूदनम्‌ ॥ आवाहनं न० । नमो नमस्ते गोविन्द नमस्ते जलशायिने । द्वादश्यां मे गृहाणार्ध्यं युक्तायां  श्रवणेन तु ॥ श्रीवाम० इदं विशेषार्ध्यं स० ॥ यस्य० । अनेन मया कृतेन पूजनेन श्रीवामन: प्रीयताम्‌ । रात्रौ जागरणं कुर्यात्‌ । तत: प्रभाते नित्यविधिं निर्वर्त्य, आचम्य देशकालौ स्मृत्वा, श्रीवामनप्रीत्यर्थं उत्तरपूजनं करिष्ये । तदङ्गं पीठदानं ब्राह्मणपूजनं च करिष्ये । पञ्चोपचारै: वामनं सम्पूज्य देवता विसृजेत्‌ । यान्तु देवग० । तत: ब्राह्मणं पूजये‍त्‌ । स्वस्त्यस्तु, दीर्घमा० । वामन: प्रतिगृह्णाति वामनो वै ददाति च । वामनस्तारकोभाभ्यां वामनाय नमो नम: ॥ इदं पीठं छत्रोपानहदण्डकमण्डलुसहितं वामनस्वरूपिणे अमुकश० ब्राह्मणाय तुभ्यमहं सम्प्रददे । प्रतिगृ० प्रति० । दानसां० इमां द०। अनेन पीठदानाख्येन कर्मणा श्रीभगवान्‌ श्रीवामन: प्रीयताम्‌ । कृतस्य कर्मण: सां० यथाशक्ति ब्रह्मचारिण: ब्राह्मणांश्च भोजयिष्ये । ब्राह्मणान्‌ सम्भोज्य निर्णीते पारणाकाले स्वयं भुञ्जीत ॥ इति वामनपूजाविधि: ॥


N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP