भाद्रपदमास: - जनार्दनपूजाविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ भाद्रपदशुक्लश्रवणद्वादश्यां जनार्दनपूजाविधि: ॥

श्रवणयुतायां द्वादश्यां यं कञ्चित्सङ्गमं गत्वा द्वादशापामार्गसमिद्भि: मुखदुर्गन्धीतिमन्त्रेण दन्तान्‌ संशोध्य, द्वादशगण्डूषान्‌ कृत्वा, सङ्गमं प्रार्थयेत्‌ । त्वमेव तीर्थराजोऽसि त्वमेव सरितां पति: । सङ्गमस्त्वं प्रसन्नो मे प्रसादं कुरु सङ्गम इति ॥ तत: आचम्य देशकालौ स्मृत्वा, मम समस्तपापक्षयपूर्वकविष्णुलोकप्राप्त्यर्थं शरीरशुध्यर्थं अमुक सङ्गमे स्नानमहं करिष्ये । इति सङ्कल्प्य, वरो वरेण्यो वरदो वराहो धरणीधर: । अपवित्रं पवित्रं मां करोतु भगवान्‌ हरि: ॥ इति मन्त्रेण स्नात्वा देवपितृतर्पणं कृत्वा शुक्ले वाससी परिधाय आचम्य जलैर्घटं पूरयित्वा मौनेन गृहमागच्छेत । ततो भूर्मि गोमयेनोपलिप्त रङ्गवल्यादिभिरलङकृत्य तत्र पीठोपरि आनीतघटं बाह्मणद्वारा महीद्यौरित्यादिना स्थाप्य, पूर्णपात्रनिधानान्तं कृत्वा, तदुपरि सौवर्णीं लक्ष्मीसहितां जनार्दनप्रतिमामग्न्युत्तारणप्राणप्रतिष्ठापूर्वक स्थापयेत्‌ । तत्समीपे दध्योदनसहितं शिक्यं कौपीनं मेखलां यज्ञोपवीतं पालाशदण्डं छत्रं पादुके कमण्डलुं च स्थापयेत्‌ ॥ अथ पूजाविदि: ॥ आचम्य देशकालौ स्मृत्वा, मम इह जन्मनि जन्मान्तरे च पिशाचादिदुर्योनित्वादिसकलदोषपरिहारपूर्वकसमस्तपापक्षयार्थं पुत्रपौत्राद्यभिवृदुध्यर्थं श्रीविष्णुलोकप्राप्त्यर्थं आचरितश्रवणद्वादशीव्रताङ्गभूतं यथामिलितषोडशोपचारद्रव्यै: पुरुषसूक्तेन पुराणोक्तमन्त्रैर्वा, श्रीजनार्दनपूजनमहं करिष्ये । गणपतिपूजनादिसम्भारप्रोक्षणान्तं कृत्वा, ध्यायेत । शान्ताकारं० । ध्यायेज्जनार्दनं देवं शङ्खशार्ड्गविभूषितम्‌ । सितवस्त्रयुगच्छन्नं सितचन्दनचर्चितम्‌ ॥ श्रीलक्ष्मीसहितजनार्दनाय नम: जनार्दनं ध्यायामि ॥ सहस्त्रशी० । नमो नमस्ते गोविन्द बुधश्रवणसंज्ञक । अघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव ॥ इति मन्त्रेण सर्वा पूजा कार्या । श्रीलक्ष्मीसहितं जनार्दनं साङ्गं सपरिवारं सायुधं सशक्तिकं आवाहयामि । तत: आसनादिपुष्पसमर्पणान्तं कृत्वा, अङ्गपूजां कुर्यात्‌ ।
१. वासुदेवाय० शिर: पू० ।
२. श्रीधराय० मुखं पू० ।
३. वैकुण्ठाय न० हृदयं पू० ।
४. श्रीपतये न० नेत्रे पू० ।
५. सर्वास्त्रधारिणे० भुजौ० ।
६. व्यापकाय न० कुक्षी पू० ।
७. केशवाय न० उदरं पू० ।
८. त्रैलोक्यजनका० मेण्ढं पू० ।
९. सर्वाधिपतये० जङघे पू० ।
१०. सर्वात्मने न० पादौ पू० ।
पूर्वोक्तमन्त्रेण धूपदीपादिभि: पूजां समाप्य, जगदादिर्जगद्रूप अनादिर्जगदन्तकृत्‌ । जलाशयो जगद्योनि: प्रीयतां मे जनार्दन: ॥ इति सम्प्रार्थ्य, शिक्योऽसि दधिभक्तोऽसि लम्बितोऽसि ममोपरि । सूत्रेणैवाश्रितोऽसि त्वं वामन: प्रीयतां मम ॥ इति शिक्यं बध्वा, तदुपरि दध्यन्नकरकं स्थापयेत्‌ । अन्नं प्रजापतिर्बुह्माविष्णुरुद्रेन्द्रभास्करा: । सर्वमन्नमयं विश्वं सर्वपापं व्यपोहतु ॥ तदुपरि सुगन्धजलपूरितकरकं स्थापयेत्‌ ॥ पर्जन्यो वरुण: सोमो विष्णू रूद्र: प्रजापति: । त्रैलोक्यबीजरूपोऽसि प्रीतो भव सुरेश्वर ॥ यस्य स्मृ० । अनेन श्रवणद्वादशीव्रताङगपूजनेन श्रीजनार्दन: प्रीयताम्‌ । ततो रात्रौ जागरणं कृत्वा कथां श्रृणुयात्‌ । प्रात: स्नात्वा नित्यकर्म निर्वर्त्य, आचम्य देशकालौ स्मृत्वा, स्थापितदेवताया उत्तरपूजनं ब्रह्मचारिणे दध्योदनसहितशिक्यदानं सोपस्करपीठदानं च करिष्ये । लक्ष्मीसहितजनार्दनाय नम: इति नाममन्त्रेण पञ्चोपचारपूजां कृत्वा दध्योदननैवेद्यं समर्प्य, यान्तुदेवेति देवतां विसृज्य ब्रह्मचारिणं पूजयेत‌ । गन्धा: पातु० । स्वस्त्यस्तु दीर्घ० । दानमन्त्र:---दध्योदनयुतं शिवयं वारिधानीयुतं विभो । छत्रोपानहसंयुक्तं ब्राह्मणाय ददाम्यहम्‌ ॥ इदं दध्यादनशिक्यं छत्रोपानहादिस्थापितपदार्थसहितं सोपस्करपीठं च ब्रह्मचारिणे अमुकशर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे । प्रति०प्रतिगृ० । दान०इमां दक्षिणां० । यस्य स्मृत्या० । अनेन श्रवणद्वादशीव्रताख्येन कर्मणा श्रीजनार्दन: प्रीयताम्‌ । यथाशक्ति ब्रह्मचारिणो ब्राह्मणांश्च भोजयित्वा निर्णीतपारणाकाले स्वयं भुञ्जीत ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP