TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

भाद्रपदमास: - अदु:खनवमीव्रताङ्गपूजाविधि

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


अदु:खनवमीव्रताङ्गपूजाविधि
॥ अदु:खनवमीव्रताङ्गपूजाविधि: ॥

नवमी मुहूर्तमात्रापि दशमीयुता ग्राह्या । तत्र ष्णोमयेनोपलिप्तभूमौ गुडलिसां वेदिकां विधाय तदुपरि इक्षुच्छादितां अपूपासादितां उपरि मण्डपिकायुतां कृत्वा, तत्र पीठे ब्राह्मणद्वारा महीद्यौरित्यादिना कलशस्थापनादिपूर्णपात्रनिधानान्तं कृत्वा, अग्न्युत्तारणपूर्वकं गौरीप्रतिमां स्थापयेत्‌ ॥ अथ पूजाविधि: ॥ आचम्य देशकालौ स्मृत्वा, मम इह जन्मनि जन्मान्तरे च भर्त्रा सह सकलपातकादिदुःखनाशनपूर्वकअभीष्टकामनासिद्धिद्वारा व्रतखण्डकल्पोक्तफलावाप्त्यर्थं श्रीगौरीदेवताप्रीत्यर्थं अदू:खनवमीव्रताङ्गभूतं यथामिलितोपचारै: पुराणोक्तमन्त्रै:षोडशोपचारै: गौरीपूजनं करिष्ये । गणपतिपूजनादिसम्भारप्रोक्षणान्तं कृत्वा आवाहयेत्‌ । गौरीं दुःखहरां देवीं शिवस्यार्धाङ्गधारिणीम‌ । सुनीलवस्त्रसंयुक्तामुमामावाहयाम्यहम्‌ ॥ श्रीगौयैं नम: गौरीं साङ्गां सपरिवारां सायुधां सशक्तिकां आवाहयामि । देवपात्रधरां देवीं विभूतिं च त्रिलोचनीम्‌ । दुग्धान्नदाननिरतां गौरीं त्वां चिन्तयाम्यहम्‌ ॥ ध्यायामि ॥ प्रसन्नवदने मातर्नित्यं देवर्षिसंस्तुते । मया भावेन यदत्तं पीठंतत्प्रतिगृ० ॥ आसनं० ॥ सर्वतीर्थमयं दिव्यं सर्वभूतस्य जीवनम्‌ । मया दत्तं च पानीयं पाद्यार्थं प्रतिगृ० ॥ पाद्यं० ॥ गङ्गादिसर्वतीर्थेभ्यो भक्त्याऽऽनीतं सुशीतलम्‌ ॥ गन्धपुष्पाक्षतोपेतं गृहाणार्ध्यं नमोऽस्तुते ॥ अर्ध्यं० ॥ गङ्गादिसर्वतीर्थेभ्य आनीतं विपुलं च यत्‌ । तोयमाचमनीयार्थं निर्मलं प्रतिगृ० ॥ आचमनीयं० ॥ मात: सर्वाणि तीर्थानि गङ्गाद्याश्च तथा नदा: । स्नानार्थं तव देवेशि मयाऽऽनीता: सुशोभना: ॥ स्नानं० ॥ दध्याज्यमधुसंयुक्तं मधुपर्कं मयाऽऽहृतम्‌ । गहाण देवदेवेशि मया सम्प्रार्थितेऽनघे ॥ मधुपर्कं० ॥ पञ्चामृतं मयाऽऽनीतं पयो दधि घृतं मधु । शर्करादिसमायुक्तं स्नानार्थं प्रतिगृ० ॥ पञ्चामृतस्नानं० ॥ अभ्यङ्गार्थं मयाऽऽनीतं तैलं पुष्पादिवासितम्‌ । प्रयत्नेनार्जितं शुद्धं गृहाण परमेश्वरि । अभ्यङ्गस्नानं० ॥ अङ्गोद्वर्तनकं देवि कस्तूर्या कुङ्कुमेन च । अन्यै: सुगन्धिद्रव्यैश्च निर्मितं प्रतिगृह्यताम्‌ ॥ अङ्गोद्वर्तनं स० ॥ नानातीर्थादाहृतं च तोयमुष्णं मया कृतम्‌ । स्नानार्थं च प्रयच्छामि गृहाण परमेश्वरि ॥ उष्णोदकस्नानं० ॥ पञ्चोपचारपूजां कृत्वा, अभिषेक: । सर्वभूषाधिके सौम्ये लोकलज्जानिवारणे । मयोपपादिते तुभ्यं वाससी प्रतिगृ० ॥ वस्त्रं० ॥ मुक्तामणिगुणोपेता ह्यनर्ध्या च सुखप्रदा । कञ्चुकी च मया दत्ता पार्वति प्रतिगृ० ॥ कञ्चुकीं स० ॥ अनेकरत्नकचितं सर्वाभरणभूषितम्‌ । गृहाण भूषणं देवि इष्टसिद्धिं च देहि मे ॥ अलङ्कारान‌ स० ॥ कण्ठसूत्र ताडपत्रं हरिद्रां कुङ्कुमाञ्जनम्‌ । सिन्दूरादि प्रदास्यामि सौभ्याग्यं देहि मेऽव्ययम्‌ ॥ सौभाग्यद्रव्यं० ॥ श्रीखण्डं चन्दनं० चन्दनं० ॥ अक्षताश्च सु० अक्षतान्‌ स० ॥ माल्यादीनि सु० पुष्पाणि० ॥

॥ अथाङ्गपूजा ॥

१. उमायै० पादौ पू० ।
२. गौयैं न० जङ्घे पू० ।
३. पार्वत्यै० जानुनी पू० ।
४. जगद्धात्र्यै० उरू पू० ।
५. जगत्प्रतिष्ठायै० कटिं पू० ।
६. शान्तिरूपिण्यै० नाभिं० ।
७. देव्यै न० उदरं पू० ।
८. लोकवन्द्यायै० स्तनौ० ।
९. काल्यै न० कण्ठं पू० ।
१०. शिवायै० मुखं० ।
११. भवान्यै० नेत्रे पू० ।
१२. रुद्राण्यै० कणौं पू० ।
१३. शर्वाण्यै० ललाटं० ।
१४. मङ्गलदात्र्यै० शिर: पू० ।
१५. पुत्रदायिन्यै० सर्वाङ्गं पू० ।
वनस्पतिर० धूपमा० ॥ आज्यं च व० दीपं द० ॥ नैवेद्यं गृह्य० नैवेद्यं० ॥ करोद्वर्तनं स० ॥ इदं फलं म० फलं० ॥ पूगीफलं म० ताम्बूलं० ॥ हिरण्यगर्भ० दक्षिणां० । चक्षुर्दं सर्व० नीरा० ॥ यानि कानि च० प्रदक्षिणां० ॥ नमो देव्यै महा० नमस्कारान्‌० । भवानि कमले देवि शङ्करप्राणवल्लभे । पुष्पाञ्जलिमिमं देवि गृहाण परमेश्वरि ॥ पुष्पाञ्जलिं० ॥ आवाहनं न० प्रार्थनां० ॥ विशेषार्घ:---नमस्तुभ्यं जगद्धात्रि भक्तानां हितकारिणि ॥ जगद्भीतिविनाशिन्यै गृहाणार्ध्यं नमोऽस्तु ते ॥ श्रीगौर्यै० विशेषार्ध्यं स० । यस्य स्मृ० । अनेन पूजनेन श्रीगौरी प्रीयताम्‌ । अद्य० पूजासाङ्गतासिध्यर्थं ब्राह्मणपूजनं अपूपवायनदानं च करिष्ये । ब्राह्मणं सम्पूज्य, दानमन्त्र:--- गौर्या दूःखविनाशिन्या व्रतसम्पूर्णहेतवे । घाणकं द्विजवर्याय सहिरण्यं ददाम्यहम्‌ । इदं नवसङख्याकअपूपवायनदानं नारिकेलफलसहितं सदक्षिणाकं सताम्बूलं अमुकश० । प्र०प्र० । स्वस्त्यस्तु दी० । अनेन वायनदानाख्येन क० तेन श्रीगौरी प्रीयताग्‌ । तद्दिने सशक्तेनोपोषणं अशक्तेन हविष्यं दुग्धफलभक्षणं वा कृत्वा, रात्रौ नृत्यगीतादिना जागरणं कृत्वा, प्रात: पञ्चोपचारेऐर्देवीं सम्पूज्य, स्कन्दमातर्नमस्तुभ्यं दुःखव्याधिविनाशिनि । उत्तिष्ठ गच्छ भवनं वरदा भव पार्वति ॥ इति विसर्जयेत्‌ । अद्यपू० ब्राह्मणपूजनं पीठदानं च करिष्ये । ब्राह्मणं सम्पूज्य, इदं गौरीपीठं सोपस्करं प्रतिमासहितं अमु० । प्रतिगृ० प्र० । कृतस्य० सपत्नीकान्‌ ब्राह्मणान्‌ भोजयिष्ये । तत: स्वयं भुञ्जीत ॥

॥ अदु:खनवमीव्रतकथाप्रारम्भ: ॥

ऋषय ऊचू: । कदाचिन्नैमिषारण्ये व्यासं धर्मविदां वरम्‌ ॥ कथयन्तं कथां दिव्यामिदमूचुर्महर्षय: ॥ जय धर्मविदां श्रेष्ठ व्रतानि विविधानि च । विपाकात्कर्मणां चैव प्राणिनां विविधां गतिम्‌ । आकर्ण्य विस्मिता: सर्वे कौतूहलसमन्विता: । न तृप्तिमधिगच्छामो पीत्वा चैतत्कथामृतम्‌ ॥ संश्रृणुमो वयं सद्यो व्रतं दुःखहरं त्विदम्‌ । येन चीर्णेन धर्मज्ञ तात दुःखं न जायते ॥ कृपां कुरु महावुद्धे ब्रूहि दू:खहरं व्रतम्‌ । व्यास उवाच ॥ श्रृण्वन्तु पुरुषा: सर्वे शौनकाद्या महर्षय: ॥ ये नरा:पुण्यकर्माणो दम्भाहङ्कारवर्जिता: ॥ श्रद्धया निश्चिता नित्यमर्हिसानिरताश्च ये ॥ यथा मिलितभोक्तार: सुखिनस्तेन तेन हि । गुह्यं चान्यच्च वक्ष्यामि दु:खनाशनसूचकम्‌ ॥ येऽदुःखनवमीं प्राप्य नराश्चैनां च पण्डिता: । शिवां गच्छन्तु शरणमुत्पत्तिस्थितिकारिणीम्‌ ॥ जन्मान्तरशतैर्वापि येन दु:खस्य भागिन: । ऋषय ऊचु: ॥ अदुःखनवमी नाम त्वया केयं निरूपिता ॥ पूजनीया कदा गौरी विधानं कीद्दशं तथा । भविष्यति कदा चेयं यदा कार्यं भविष्यति ॥१०॥
एवं सर्वं विधानेन वक्तुमर्हस्यशेषत: । व्यास उयाच ॥ एतद‌ गुह्यतमं पुण्यं श्रृणुध्वं गद्तो मम ॥ न देयं नास्तिकायैतदभक्ताय शठाय च । वद्देश्च श्रद्दधानेभ्यो विधिं सर्वं विशेषत: ॥  समाहितमना: सर्वे भवन्त:पुण्यदायका: । सर्वस्याद्या महादेवि त्रिगुणा परमेश्वरी ॥ नित्यानन्दमयी देवी तम:पारे प्रतिष्ठिता । ब्रह्माण्डजननी या च योत्पत्तिस्थितिकारिणी । पुरुषप्रकृतिश्चेयमात्मानं बिभिदे द्विधा । यथा शिवस्तथा गौरी यथा गौरी तथा शिव: ॥ यथा हरिस्तथा लक्ष्मीर्दु:खपापापहारिणी । तस्या:पूजनमात्रेण न कश्चिद्दुःखभाग भवेत्‌ ॥ नभस्यशुक्लनवमी या वा पूर्णातिथिर्भवेत्‌ । अस्तदोषादिरहिता सर्वदु:खहरा परा ॥ प्रशस्तायां जले स्नात्वा नित्यं च विधिवद्‌ द्विज: । मौनेन गृहमागत्य संयतस्तत्परायण: ॥ अदु:खदायी भूत्वा च शुचिस्थानगतस्तथा । गोमयेन विलिप्तायां शुचौ मण्डपिकां शुभाम्‌ ॥ सत्कुम्भं स्थापयेत्तत्र गुडेनालिप्य वेदिकाम्‌ । आच्छादितामपूपैश्च विलिप्यानन्ददायिनीम्‌ ॥२०॥
आचार्यानुज्ञया तत्र जगद्धात्रीं प्रपूजयेत्‌ । पूजयित्वोपचारैस्तां नत्वा नत्वा पुन: पुन: ॥ वाणकं च ददेत्तस्यां सपक्वान्नफलान्वितम्‌ । शक्तश्चेदुपवासेन निशि जागरणं चरेत्‌ ॥ अशक्तेन च भोक्तव्यं पय: प्राश्य अथापि वा । फलं वापि प्रयत्नेन न हिंसारतचेतसा ॥ रात्रौ जागरणं कार्यं नृत्यगीतादिभिस्तथा । प्रभाते विमले जाते कृत्वा नित्यविधिं पुन: ॥ ब्राह्मणान्भोजयेत्पश्चात्सपत्नीकान्‌ शुचींस्तथा । देवीं विसर्जयेत्पश्चात्साचार्यं पूजयेत्तत: ॥ आचार्यस्तु स्वशाखोक्तशतमष्टोतरं हुनेत्‌ । देवीमन्त्रेण गव्याज्यं पायसञ्चापि यत्नत: ॥ आचरेन्नववर्षाणि पञ्चवर्षाणि वा तथा । सौवर्णभूषणैर्वस्त्रैर्युतां तां च समर्पयेत्‌ ॥ पञ्च वा अथवा चैकं नारिकेलैश्च वायनम्‌ । पक्वान्नं नवसङख्याकं ब्राह्मणाय निवेदयेत्‌ ॥ पश्चाद बन्धुजनै: सार्द्धं भुञ्जीयान्नियत:शुचि: । श्रुत्वा कथां पुण्यतमां वाग्यतस्तत्परो यत: ॥ स कदाचिन्न दुःखेन युज्यते नात्र संशय: । भुक्त्वा भोगांस्तथा कामं स याति परमं पदम्‌ ॥३०॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम्‌ । अरण्ये विषमे प्राप्य शापदग्धाप्सरा: किला ॥ आसीज्जातिस्मरा काचित्तिर्यग्योनिसमागता । कुक्कुटीनामतो ह्यासीत्सदा दु:खेन पीडिता ॥ तत्सखी मर्कटी नाम ते चोभे शोककर्षिते । अथ तस्मिन्वनोद्देशे परस्परहिते रते ॥ उभे अभूतां सहिते विचरन्त्यौ दिशो द्श । अथ कालेन सहिता वर्षान्ते चागता तिथि: ॥ अदु:खनवमी नाम दुःखव्याधिविनाशिनी । गत्वा तां कुक्कुटी प्राह मर्कटीं दैवयोगत: ॥ अद्य कञ्चिन्न भोक्तव्यमावाभ्यां श्रृणु कारणम्‌ । तिर्यग्योनिगते चादौ पूर्वकर्मविपाकत: ॥ दुःखापनुत्तये चाद्य न भोक्ष्येऽहं त्वया सह । तस्यै हि कारणं चोक्त्वा नवमीति वने स्थिता ॥ कृत्वा च त्वमशक्ता चेद्भक्ष शीर्णफलानि च । महामायाप्रसादेन याहि भद्रमहिंसया ॥ इत्युक्त्वा मर्कटीं तूष्णीं बभूवानश्नती तदाअ । मर्कटी नाम गत्वा पूर्ववनं प्रति । स्थित्वा तद्दिनशेषं तु क्षुधिता फीडिता भृशम्‌ ॥४०॥
अजानती तमेवार्थं पूर्वकर्मविपाकत: । निशान्तरे च सा गत्वा वनोद्देशे विचिन्वती ॥ ददर्श बर्हिणोण्डानि ह्यतीव क्षुधिता तदा ॥ भक्षयित्वा स्थितां वाक्यमुवा मर्कटीं प्रति ॥ कुक्कुटयुवाच । किंचिद भुक्तं त्वया दुष्टे वजन्त्या हरिसंयुते । व्रतं भ्रष्टं त्वया दुष्टे वारितासि मयाऽनघे ॥ नाकर्णितं मम वच: प्राय: किं निर्गतं तव । केदारं शरणं याहि मया सह भयङकरि ॥ देहत्यागेन योगेन गच्छाव: परमं पदम्‌ ॥ अथ ते निर्गते चोभे केदारं भूत भावनम्‌ ॥ गत्वा मन: समाधाय कुक्कुटी मनसा स्मरन्‌ । उत्पत्स्येऽहं सत्कुले च धनाढये वेदपारगे ॥ इति मत्वा स्वदेहं सा हृदमध्ये न्यपातयत्‌ । यास्येऽहं शरणं गौरीं नवमीत्येव मे तिथि: ॥ पुनर्भवामि राज्ञश्च पत्नी मत्वा च मर्कटी । अकरोत्स्वतनुत्यागं तद्वाक्येन सुबोधिता ॥ कुक्कुटी सा महादेव्या:प्रसादेन तथा कुले । विप्रस्य कन्यका भूत्वा भर्तारमलभद द्विजम्‌ ॥ दिव्याम्बरा धर्मशीला निरता पतिसेवने । इतरा राजपत्नी त्वं प्राप्ता सा मर्कटी सदा ॥५०॥
उभे जातिस्मरे जाते महादेव्या: प्रसादत: । अथ सा कुक्कुटी पञ्च पुत्रान्‌ जज्ञेपितु: समान्‌ ॥ बहुबोधेन सम्पन्नान्‌ रूपशीलगुणान्वितान्‌ । मर्कटी पुत्रशोकार्ता बभूव व्यथिता भृशम्‌ ॥ पूर्वकर्म स्मरन्ती सा कदाचिद्दैवयोगत: । अपश्यत्कुक्कुटीपुत्रान्‌ पञ्च चैव पितु: समान्‌ ॥ अमारयत्स्वभृत्यैस्तान्‌ पुत्रकान्मर्कटी तदा । तच्छिरांसि गृहीत्वा तु कुक्कुठयै वाणकं ददौ ॥ अदुःखनवमी प्राप्तव्रतस्था सा बभूव ह । गौरी कृपावती जाता जननी भक्तवत्सला ॥ शिरांस्यादाय सर्वेषां पुत्रकांस्तानजीवयत्‌ । तद्वाणकं सुवर्णस्य शिरोभि: परिकल्पय‌ ॥ कुक्कुटीपूजनं चक्रे गौरी दुःखविनाशिनी ॥ तत्प्रसादाज्जीवितास्ते भोक्तुं गृहमथागता: ॥ तदा तद्वाणकं प्रेक्ष्य सौवर्णं प्रेषितं ह्यभूत्‌ । स्वभर्तृपुत्रयुक्ता च द्दष्ट्वा द्विजसती तदा ॥ पुनर्बनं गता तस्माद्ददर्श तत्र पुत्रकान्‌ । पुन: पुनश्च पश्यन्ती रुरोद भृशदुःखिता ॥ आत्मानं निन्दयामास मर्कटी विह्णला सती । आगत्यस सख्या सदनमात्महिंसां निवेदयत्‌ ॥६०॥
पापिण्यहं दुराचारा दुर्भगा मृतपुत्रका । ब्रह्महत्या समायुक्ता मरिष्ये नाऽत्र संशय: ॥ इत्याकर्ण्य सखीबाक्यं कुक्कुटी विस्मिताऽभवत्‌ । अपृच्छत्कारणं बिप्र शोकसागरदायकम्‌ ॥ इदं शीलं कथं भद्रे कस्माद द्दष्टासि चात्मजान्‌ । बिभवा राजपत्नी त्वं मान्या मम सखीष्वपि ॥ मर्कटी कुक्कुटीवाक्यं श्रुत्वा वृत्तं निवेदयत्‌ । तच्छुत्वा कुक्कुटी पुत्रै: प्रायश्चित्तमकारयत्‍ ॥ स्मरेदं च व्रतं देव्या कुरु त्वं च यथाविधि । अथ देव्या:प्रसादेन मर्कटी सुषुवे सुतम्‌ । सुन्दरं सुवरं नाम पृथ्वी भारहरं परम्‌ । राजपत्नी विप्रपत्नी सुखिन्यौ सम्बभूवतु: ॥ इह लोके दुःखितस्य अदुःखनवमीव्रतम्‌ । सीतया च कृतं चैव दमयन्त्या कृतं त्विदम्‌ ॥ अन्याभिर्बहुभि: स्त्रीभिर्व्रत चाचरितं त्विदम्‌ । या कराति व्रतमिदं श्रृणोति च कथामिमाम्‌ ॥ अदुःखभाग्भवति सा सत्यं सत्यं वदाम्यहम्‌ । सर्वदुःखहरं लोके किमन्यच्छोतुमिच्छसि ॥ इति श्रीस्कन्दपुराणे व्यासऋषिसंवादे अदुःखनवमीवतकथा समाप्ता ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:50:54.6930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

म्हातारी निबर, कवटाळी जबर

  • म्हातारीची मिठी पक्षी असते. म्हातार्‍या मनुष्याच्या हातून बहुधा कोणतीहि वस्तू सुटणें कठिण असतें. ( ल.) फार म्हातारी माणसें मोठीं कपटी असतात. 
RANDOM WORD

Did you know?

सोळा वर्षाखालील मुलांना शनिची साडेसाती कां त्रस्त करत नाही?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.