भाद्रपदमास: - महालक्ष्मीपूजाविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ षोडशदिनात्मकव्रताङगमहालक्ष्मीपूजाविधि: ॥

भाद्रपदशुक्लाष्टमीमारम्य कृष्णाष्टमीपर्यन्तं पूजा कार्या । अष्टमी च अर्धरात्रोत्तरव्यापिनी ग्राह्मा । तस्यां प्रात: षोडशवारं हस्तौ पादौ प्रक्षाल्य षोडशगण्डूषांश्च कृत्वा स्नानादि नित्यकर्म कुर्यात्‌ । आचम्य देशकालौ स्मृत्वा, मम सकुटुम्बस्य सपरिवारस्य अविच्छिन्नस्थिरलक्ष्मीप्राप्त्यर्थं पुत्रपौत्रादिसकलैश्वर्याद्यभिवृद्धिसौभाग्यादिप्राप्त्यर्थं श्रीमहालक्ष्मीप्रीत्यर्थं भाद्रपदशुक्लाष्टमीमारभ्य कृष्णाष्टमीपर्यन्तं षोडशदिनात्मकं महालक्ष्मीव्रतं करिष्ये । तत्रादौ महालक्ष्मीव्रताङ्गभूतं अद्यारभ्य कृष्णाष्टमीपर्यन्तं प्रत्यहं दोरकपूजनं कथाश्रवणं च करिष्ये । आदौ निर्विघ्नतासिध्यर्थं महागणपतिपूजनं कलशपूजनं च करिष्ये । गणानां० गणपतिं सम्पूज्य । कलशे वरुणं सम्पूज्य, अपवित्र:० । षोडशतन्तुमयं षोडशग्रन्थियुतं दोरकं निर्माय, पुरत: संस्थाप्य, मालतीपुष्पचन्दनागरुणा तं धूपयित्वा दोरकमभिमन्त्रयेत्‌ । श्रीमहालक्ष्म्यै नम: महालक्ष्मीं प्रथमग्रन्थौ न्यसामि । एवं षोडशग्रन्थीनभिमन्त्र्य धारयेत्‌ । तत्र मन्त्र:-धनं धान्यं धरां धर्मं कीर्तिमायुर्यश: श्रियम्‌ । तुरगान्‌ दन्तिन: पुत्रान्महालक्ष्मी प्रयच्छ मे ॥ अनेन मन्त्रेण दक्षिणकरे, स्त्री तु वामकरे कण्ठे वा बध्वा, षोडश साग्रान्‌ समूलान्‌ दूर्वाङ्कुरान्‌ षोडश तण्डुलांश्च हस्ते गृहीत्वा, एकचित्त: कथां श्रुत्वा गृहीतषोडशदूर्वाङकुरतण्डुलैश्च करस्थं दोरकं पूजर्यत्‌ । एवमेव कृष्णाष्टमीपर्यन्तं प्रत्यहं पादहस्तगण्डूषस्नानकरणादिदोरकपूजनान्तं कुर्यात्‌ ॥
तत: कृष्णाष्टम्यां नक्तकाले स्नात्वा धौतवाससी परिधाय, पूजागृहं प्रविश्य, आसने स्थित्वा, श्वेतवस्त्रे श्वेतपात्रे वा कर्पूरागरुचन्दनै: अष्ट केशरसहितं पङकजं विलिख्य, पूर्वद लादिक्रमेण अष्टदलेषु ऐन्द्यादिअष्टदेवता:, मध्ये ध्यानोक्तने प्रकारणे महालक्ष्मीं च विलिख्य पूजयेत्‌ । आचम्य देशकालौ स्मृत्वा, मम सकुटुम्बस्य अविछिन्नस्थिरलक्ष्मीप्राप्त्यर्थं पुत्रपौत्रादिसकलैश्वर्याद्यभिवृध्यर्थं सौभाग्यप्राप्त्यर्थं श्रीमहालक्ष्मीप्रीत्यर्थं श्रीमहालक्ष्मीव्रताङ्गभूतं यथामिलिताष्टत्रिंशदुपचारद्रव्यै: श्रीसूक्तने पुराणोक्तमन्त्रैश्च महालक्ष्मीपूजनमहं करिष्ये । आदौ निर्विघ्नतासिध्यर्थं महागणपतिपूजनं आसनविधिं श्रीसूक्तन्यासान्‌ कलशशङखघण्टापूजनं च करिष्ये । इति सङकलप्य, गणपतिं सम्पूज्य, आसनविधिं विधाय, श्रीसूक्तन्यासान्‌ कुर्यात्‌ । हिरण्यवर्णामिति पञ्चदशर्चस्य सूक्तस्य । आनन्दकर्दमश्रीदचिल्कीदेन्दिरासुता ऋषय: । श्रीर्देवता । आद्याऽनुष्टुप्‌ । द्वितीया भुरिगनुष्टुप्‌ । तृतीया निचृदनुष्टुप्‌ । चतुर्थी भुरिकपुरस्तादवृहती । पञ्चमीषष्ठयौ त्रिष्टुभौ । तत: पञ्चानुष्टुभ: । द्वादशी निचृदनुष्टुप्‌ । त्रयोदशीचतुर्दश्यावनुष्टुभौ । अन्त्या आस्तारपङक्ति: । न्यासे विनियोग: ।
१. हिरण्यव० शिरसि ।
२. तांमआव० नेत्रे ।
३. अश्वपूर्वां० कर्णयो: ।
४. कांसोस्मि० नासिका० ।
५. चन्द्रांप्रभा० मुखे ।
६. आदित्य० ग्रीवायाम्‌ ।
७. उपैतुमां० बाह्नो: ।
८. क्षुत्पिपासा० हृदये ।
९. गन्धद्वा० नाभौ ।
१०. मनस:० गुह्ये ।
११. कर्दमेन० गुदे ।
१२. आप: सृ- ऊर्वो: ।
१३. आर्द्रांपु० जान्वो: ।
१४. आर्द्रांयष्क० जङ्घयो: ।
१५. तांमआ० पादयो: ।
इति विन्यस्य ।

कलशशङ्खघण्टापूजनादिसम्भारप्रोक्षणान्तं कृत्वाऽष्टद्लेषु पूर्वादिक्रमेण देवता आवाहयेत्‌ ।
१. पूर्वदले        ऐन्द्रयै नम:        ऐन्द्रीं आवाहयामि ।
२. आग्नेयदले    कौमार्यै नम:    कौमारीं आवा० ।
३. दक्षिणदले     ब्राह्मयै नम:     ब्राह्मीं आवा० ।
४. नैऋतिदले     वाराह्यै नम:     वाराहीं आवा० ।
५. पश्चिमदले     चामुण्डायै नम:     चामुण्डां आवा० ।
६. वायव्यदले     वैष्णव्यै नम:     वैष्णवीं आवा० ।
७. उत्तरदले     माहेश्वर्यै नम:     माहेश्वरीं आवा० ।
८. ईशानदले     वैनायक्यै नम:     वैनायकीं आवा० ।

इति देवता आवाह्य, मध्ये महालक्ष्मीं आवाहयेत्‌ । महालक्ष्मि समागच्छ पद्मनाभपदादिह । पञ्चोपचारपूजेयं त्वदर्थं देवि सम्भृता ॥  श्रीमहालक्ष्म्यैनम: महालक्ष्मीं साङ्गां सपरिवारां सायुधां सशक्तिकां आवाहयामि । अथ ध्यायेत्‌ । हिरण्यवर्णां० । शुभ्रवस्त्रपरीधानां मुक्तामणिविभूषिताम्‌ । पङ्कजासनसंस्थानां स्मेराननसरोरुहाम्‌ ॥१॥
शारदेन्दुकलाकान्तिस्निग्धनेत्रां चतुर्भुजाम्‌ । पद्मयुग्मामभयदां वरव्यग्रकराम्वुजाम्‌ । अभितो गजयुग्मेन सिच्यमानां घटाम्बुभि: ॥ श्रीमहालक्ष्मै नम: महालक्ष्मीं ध्यायामि ॥ तांमआवह० । आलयस्ते हि कथित: कमलं कमलालये ॥ विमले कमले ह्यस्मिन स्थितिं त्वं कृपया कुरु ॥ श्रीमहा० आसनं० ॥ अश्वपूर्वां० । गङ्गादिसलिलाधारं तीर्थमन्त्राभिमन्त्रितम्‌ । दूरयात्राश्रमहरं पाद्यं मे प्रति० ॥ श्री० पाद्यं० ॥ कांसोस्मितां० । निधीनां सर्वरत्नानां त्वमनर्ध्यगुणा ह्यसि । तथापि भक्तिसंयुक्तं गृहाणार्ध्यं नमोऽस्तु ते । श्री० अर्ध्यं० ॥ चन्द्रांप्रभासां० । आचम्य जगदाधारे सिद्धि लक्ष्मि जगत्प्रिये । चपले देवि ते दत्तं तोयं गृह्ल नमो‍ऽस्तु ते । श्रीम० आचमनीयं० ॥ आदित्यवर्णे० । इदं तव महालक्ष्म्या: कर्पूरागरुवासितम्‌ । तीर्थेभ्य: सुसमानीतं स्नानार्थं प्रति० ॥ श्रीम० स्नानं० ॥ पयो दधि घृतं क्षौद्रं सितया च समर्पितम्‌ । स्नानं पञ्चामृतेनाद्य कुरु देवि दयानिधे ॥ आप्याय०, दधिक्रा०, घृतंमि०, मधुवा०, स्वादु:प०, इत्यादिमन्त्रै: पञ्चाभृतस्नानं स० ॥ स्नानान्तरेण आचमनीयं स० ॥ अभ्यङ्गार्थं मयाऽऽनीतं तैलं पुष्पादिवासितम्‌ । प्रयत्नेनार्जितं शुद्धं महालक्ष्मी गृहाण भो: ॥ सुगन्धतैलस्नानं० ॥ अङ्गोद्वर्तनकं देवि कस्तूर्या कुङ्कुमेन च । अन्यैःसुगन्धद्रव्यैश्च निर्मितं प्रति० ॥ अङ्गोद्वर्तनं० ॥ नानातीर्थादाहृतं च तोयमुष्णं मया कृतम्‌ । स्नानार्थं च मया दत्तं गृह्य० ॥ उष्णोदकस्नानं० ॥ नाममन्त्रेण पञ्च्पोपचारपूजां कृत्वा श्रीसूक्तादिनाभिषेक: । उपैतुमां० । तन्तुसन्तानसंसिद्धं कलाकौशलकल्पितम्‌ । सर्वाङ्गाभरणं श्रेष्ठं वसनं परिधीयताम्‌ ॥ वस्त्रं० ॥ क्षुत्पिपासा० । मुक्तामणिगणोपेतामनर्ध्यां च सुखप्रदाम्‌ । कञ्चुकीं ते सुखस्पर्शां ददामि हरिवल्लभे ॥ कञ्चुकीं० ॥ वस्त्रानन्तरेण आचमनीयं० ॥ कण्ठसूत्रं ताडपत्रं हरिद्रां कुङ्कुमाञ्जनम्‌ । सिन्दूरादि प्रदास्यामि सौभाग्यं देहि मेऽव्ययम्‌ ॥ अहिरिवभो० सौभाग्यद्रव्याणि स० ॥ हारकङ्कणकेयूरमेखलाकुण्डलानि च । रत्नाढयं मुकुटोपेतं भूषणानि प्रगृह्यताम्‌ ॥ आभूषणानि स० ॥ गंधद्वारांदु० । मलयाचलसम्भूतं नानापनगसेवितम्‌ । शीतलं बहुलामोदं चन्दनं प्रति० ॥ चन्दनं० ॥ अक्षतानरविन्दाक्षि नक्षत्रेण सहोदरि । माणिक्यप्रतिमान्‌ पदमे गृहाण त्वं मयार्पितान्‌ ॥ अक्षतान्‌ स० ॥ मनस:का० । मिलत्परिमलामोदमत्तालिकुलसङकुलम्‌ । आनन्दिनन्दनोद्यानं पद्मायै कुसुमं नम: ॥ पुष्पाणि स० ॥ मधुकै:शङ्खपुष्पैश्च शतपत्रैर्विचित्रिताम्‌ । पुष्पमालां प्रयच्छामि गृहाण परमेश्वरि ॥ पुष्पमालां स० ॥ विष्णवादिसर्वदेवानां प्रियपत्रां सुशोभनीम्‌ । क्षीरसागरसम्भूतां दूर्वां स्वीकुरु सर्वदा ॥ दूर्वाङ्कुरान्‌ स० ॥ अमृतोद्भव श्रीवृक्ष महादेव प्रिय सदा । बिल्वपत्रं प्रयच्छामि दुर्गे दुर्गार्तिनाशिनि ॥ बिल्वपत्रं ० ॥

॥ अथाङ्गपूजा ॥

१. लक्ष्म्यै नम:पादौ पूज० ।
२. पद्मायै० गुल्फौ पूज० ।
३. कमलायै० जानुनी पू० ।
४. हरिप्रियायै० ऊरू पू० ।
५. इन्दिरायै न० कटी पूज० ।
६. मङ्गलायै० नाभिं पूज० ।
७. मन्मथवासिन्यै० स्तनौ० ।
८. क्षमायै नम:हृदयं पू० ।
९. क्षीराब्धितनयायै० कं० ।
१०. उमायै नम: नेत्रे पू० ।
११. रमायै नम: शिर: पू० ।
१२. श्रीमहालक्ष्म्यै० सर्वां० ।

॥ अथ नामपूजा ॥

१. श्रियै नम: ।
२. लक्ष्म्यै नम: ।
३. वनमालिकायै नम: ।
४, विभीषणायै नम: ।
५. मालिकायै नम: ।
६. शाङ्कर्यै नम: ।
७. वसुमालिकायै नम: ।
८. पङ्कजद्वयधारिण्यै नम: ।
९. मुक्ताहारसमप्रभायै नम: ।
१०. सूर्यायै नम:
११. पुष्करिण्यै नम: ।
१२. पिङ्गलायै नम: ।
१३. हेममालिन्यै नम: ।
१४. इन्दिरायै नम: ।
१५. जमदग्निप्रियायै० ।
१६. जगन्नाथायै नम: ।

॥ षोडशदूर्वापत्रपूजा ॥

१. श्रियै नम: ।
२. लक्ष्म्यै नम: ।
३. कालिकायै नम: ।
४. महाकाल्यै नम: ।
५. विकराल्यै नम: ।
६. त्रैलोक्यजनन्यै नम: ।
७. एकनाथायै नम: ।
८. रेणुकायै नम: ।
९. राममात्रे नम: ।
१०. शिवायै नम: ।
११. भूतनाथायै नम: ।
१२. भक्तवत्सलायै नम: ।
१३. भवान्यै नम: ।
१४. सिद्धेश्वयैं नम: ।
१५. विश्वरूपिण्यै नम: ।
१६. शर्वाण्यै नम: ।

कर्दमेन० । गन्धसम्भारसन्नद्धं कस्तूरीमोदसम्भवम्‌ । सुरासुरनरानन्दि धूपं देवि गृहाण मे ॥ धूपमा० ॥ आप: सृ० । मार्तण्डमण्डलाखण्डचन्द्रबिम्बाग्नितेजसाम्‌ । निधानं देवि दीपोऽयं निर्मितस्तव भक्तित: । दीपं द० ॥ आर्द्रां पु० । देवतालयपातालभूतलाधारघान्यजम्‌ । षोडशाकाकारसम्भारनैवेद्यं ते नम: श्रिये ॥ अन्नं च० नानाविधपक्वान्ननैवेद्यं स० ॥ एलोशीरलवङगादिकर्पूरपरिवासितम्‌ । प्राशनार्थं हृतं तोयं गृहाण कमले शुभे । मध्येपानीयं० ॥ उत्तरापोशनं कर्तुं तोयमुद्धृतमुज्वलम्‌ । मया निवेदितं भक्त्या गृहाण कमले शुभे ॥ उत्तरापोशनं स० ॥ हस्तप्रक्षालनं स० ॥ मुखप्रक्षालनं स० ॥ सुगन्धद्रव्यसंयुक्तं सुवासितजगत्त्रयम्‌ । करोद्वर्तनकं मातर्गृहाण परमेश्वरि ॥ करोद्वर्तनार्थे चन्दनं स० ॥ बीजपूराम्रपनसखर्जूरीदलसंयुतम्‌ । नारिकेलफलं दिव्यं गृहाण कमलालये ॥ फलानि स० ॥ पातालतलसम्भूतं वदनाम्भोजभूषणम्‌ । नानागुणसमाकीर्णं ताम्बूलं देवि ते नम: ॥ ताम्बूलं स० ॥ सुवर्णं सर्वधातून श्रेष्ठं देवि प्रियं सदा । भक्त्या ददामि वरदे स्वर्णवृष्टिं प्रदेहि मे ॥ दक्षिणां० ॥ सुरासुरशिरोरत्नप्रभानीराजितक्रमे । रूपसाम्राज्यसंसिध्यै कुर्वे नीराजनं विधिम्‌ । श्रियेजात० ।

॥ आरतीलक्ष्मीची ॥

करविरपुरवासिनिसुरवरमुनिमाता । पुरहरवरदायिनीमुरहरप्रियकांता । कुमराकारजठरीजनलज्जादाता । सहस्त्रवदनीधरणीनपुरेगुणगाता ॥ जयदेवीजयदेवीजयजयमहालक्ष्मी वसतीव्यापकरूपेतुलानिसुक्षूमि । जयदे० ॥१॥
तारामुक्तागमाशोभेगजगौरी । सांखीह्मणतीनेतीप्रकृतिगुणधारी । गायत्रीनिजबिजनिगमाश्रुतसारी । प्रगटपद्मावतीजयधर्माचारी ॥ जयदे० ॥२॥
अमृतभरितेचरितेअगदुरितेवारी । वारीअसुरभयदुस्तरनेवारी । हेरूपचिद्रूपदाखविनिर्धारी । हारीपडलोआतांभयदुस्तरनेवारी ॥ जयदेवी० ॥३॥
मातुलिंगगदाखेटकररविकरणी । छालकहाटकवाटकपीयूषशरपाणी । माणिकदशिकनाशिकमोतीमृगनयनी । निशकरवदनाराजसमदनाचीजननी ॥ जय दे० ॥४॥
चतुराननकुत्सितकर्माचीहोळी । लिहिलेहस्तेमातेनिजभाळी । पुसूनिचरणातळीसाजेवक्षाळी । मुक्तीश्वरनागरक्षीरसागरभाळी ॥ जयदे० ॥ घालिन्‌लोटांग० ॥
आर्तिक्यदीपं० ॥ कर्पूरनिर्मितं दीपं स्वर्णपात्रे निवेशितम्‌ । नीराजनं मया दत्तं गृहाण परमेश्वरि ॥ कर्पूरदीपं० ॥ आर्द्रांयष्क० । कायवाङमानसं पापं यत्कृतं जन्मजन्मनि । तन्मे नाशय देवि त्वं प्रदक्षिणविधानत: ॥ प्रदक्षिणां० ॥ तांमआ० । या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ॥ नमस्कारान्‌० ॥ य:शुचि: प्र० । पारिजातादिजातीयं नानाकुसुमसञ्चयम्‌ । अर्पयेऽनल्पसंसिध्यै पूजा सम्पूर्णताकृते ॥ पुष्पाञलिं स० ॥ विष्णोर्वक्षसि पदमे च शङ्खे चक्रे तथाम्बरे । लक्ष्मीर्नित्या यथाऽसि त्वं मयि नित्या तथा भव ॥ प्रार्थनां० ॥ स्तुतिभि:सह दिव्याभि:सहितं नर्मितं मया । नृयं तत्‌ कल्पितं भक्त्या गृहाण परमेश्वरि ॥ नृत्यं प्रदर्शयामि ॥ सवितृकिरणस्पर्धिस्फुरत्किरणमण्डलम्‌ । दर्पणं मुनिभि: क्लृप्तं गृहाण सुरपूजिते ॥ दर्पणं दर्शयामि ॥ हरिन्मणिगणाबद्धदण्डशक्तिवरप्रदम्‌ । सुवर्णकलशं छत्रं गृहाण परमेश्वरि ॥ छत्रं स० ॥ वियन्नदीप्रभे हैमे चामरे विशदप्रभे । स्वर्णदण्डोपशोभाढये गृहाण प० ॥ चामरे स० ॥ प्रवालनालसदगात्रं मुक्तामञ्चकमण्डितम्‌ । पट्टसूत्रमयं दत्तं गृहाण सरसीरुहे ॥ मञ्चकं स० ॥ उष्णगङ्गोदकं दिव्यं नानागन्धसुवासितम्‌ । चरणक्षालनं कर्तुं गृहाण प० ॥ चरणक्षालनार्थं उष्णोदकं स० ॥ उशीरनिर्मितं दिव्यं हेमदण्डपरिष्कृतम्‌ । व्यजनं कल्पितं भक्त्या गृहाण प० ॥ व्यजनं० ॥ सुगन्धनिर्मितं तैलं पुष्पसारैरनेकधा ॥ घाणाय ते महादेवि वरदा भव मङ्गले ॥ सुगन्धतैलं स० ॥ अथ दोरकोत्तारणम्‌ ॥ लक्ष्मि देवि गृहाण त्वं दोरकं यन्मया धृतम्‌ । व्रतं सम्पूर्णतां यातु कृपा कार्या मयि त्वया ॥ इति दोरकं बाह्वो: उत्तार्य लक्ष्मीपार्श्वे निवेदयेत्‌ । कथां श्रृणुयात्‌ ॥ अथ वायनदानविधि: ॥ द्वात्रिंशत्सङ्खयाकान्‌ गोधूमपिष्टनिर्मितान्‌ दीपान्‌ पिण्डीश्च कृत्वा तन्मध्ये षोडश दीपान षोडश पिण्डीश्च वंशपात्रै निधाय ब्राह्मणाय दद्यात । अद्य० पूजासाङ्गतासिध्यर्थं ब्राह्मणाय षोडशसङख्याकदीपपिण्डीवायनदानं करिष्ये । तदङ्गं ब्राह्मणपूजनं करिष्ये । आसनादिना विप्रं सम्पूज्य, स्वत्यस्तु, दीर्घ० । दानमन्त्र:---इन्दिरा प्रतिगृह्णाति इन्दिरा वै ददाति च । इन्दिरा तारकोभाभ्यामिन्दिरायै नमो नम: ॥ इदं षोडशसङख्याकदीपपिण्डीवायनदानं सदक्षिणाकं सघृतं सधान्यं अमुकश० । प्रति०, प्र० । अनेन वायनदानाख्येन कर्मणा तेन श्री महालक्ष्मी: प्रीयताम्‌ । कृतस्य कर्मण: साङ्गतासिध्यर्थं त० सुवासिनीं ब्राह्मणांश्च भोजयिष्ये । तेभ्यश्च भूयसीं दक्षिणां दातुमहमुत्सृजे । तत: षोडशदीपान्‌ षोडशपिण्डीश्च स्वयं भक्षयित्वा जागरणं कार्यम्‌ ।
चन्द्रोदये जाते चन्द्रं सम्पूज्य, शङ्खपुष्पचन्दनफलसहितं जलमादाय अर्ध्यं दद्यात्‌ । तत्र मन्त्र:---नमोऽस्तु ते निशानाथ लक्ष्मीभ्रातर्नमोऽस्तु ते । व्रतं सम्पूर्णतां यातु गृहाणार्ध्यं विधो मम ॥ रोहिणीसहितचन्द्रमसे नम: इदमर्ध्यं स० । अनेन अर्ध्यप्रदानाख्येन कर्मणा तेन श्रीचन्द्र: प्रीयताम्‌ ॥
तत: प्रात:काले नित्यविधिं कृत्वा, अद्य०र्थं आवाहितमहालक्ष्म्या: उत्तरपूजनं क० । नाममन्त्रेण पञ्चोपचारै: सम्पूज्य विसर्जयेत्‌ । पङ्कजं देवि सन्त्यज्य मम वेश्मनि संविश । यथा सपुत्रभृत्योऽहं सुखी स्यां त्वत्प्रसादत: ॥ इति मन्त्रेण पुष्पं समर्प्य तत्सूत्रं नद्यां प्रवाहयेत । यस्य स्मृ० । अनेन षोडशदिनात्मकमहालक्ष्मीव्रताख्येन कर्मणा तेन श्रीमहालक्ष्मी: प्रीयताम्‌ ॥

॥ अथ महालक्ष्मीव्रतकथाप्रारम्भ: ॥

युधिष्ठिर उवाच ॥ स्वस्थानलाभपुत्रायु: सर्वैश्वर्यसुखप्रदम । व्रतमेकं समाचक्ष्व विचार्य पुरुषोत्तम ॥ श्रीकृष्ण उवाच ॥ दुर्वारवृत्तदैतेयपरिव्याप्ते त्रिविष्टपे । एतदेव कृतस्यादौ देवेन्द्र: प्राह नारदम्‌ ॥ इन्द्र उवाच ॥ गता स्वराज्यलक्ष्मीर्मे कथमायाति सत्वरम्‌ । दानं व्रतं पुण्यकर्म तदर्थं वद साम्प्रतम्‌ ॥ तस्य श्रुत्वा ततो वाक्यं स मुनि: प्रत्यभाषत । नारद उवाच ॥ पुरन्दर पुरा पूर्वं पुरमासीच्छुभान्वितम्‌ ॥ रत्नागर्भाऽभवद्‌ भूमिर्यत्र रत्नाढयभूधरै: । यत्राङगनाजनापाङ्गभङ्ग्या लोचनसायकै: ॥ त्रैलोक्यं च वशं चक्रे देव: कुसुमसायक: । चतुर्वर्गजनिर्यत्र यच्च विश्वविभूषणम्‌ ॥ विश्वकर्माऽपि यद्वीक्ष्य कम्पयत्यनिश शिर: । तत्राभवन्महीपालो मङ्गलो मङ्गलालय: ॥ चिल्लदेवी प्रिया तस्य दुर्भगैका बभूव ह । अन्या तु चोलदेवी या महिषी सा तपस्विनी ॥ कदाचिन्मङ्गलो राजा चोलदेवीसहायवान्‌ । प्रासादशिखरारूढ: स्थलीमेकामपश्यत ॥ तामालोक्य महीपाल: स्मरस्मेरमुखाम्बुज: । चोलदेवीं प्रति प्राह दन्तद्योतितदिङमुख: ॥१०॥
चञ्चलाक्षि तवोद्यानं कान्तिनिन्दितनन्दनम्‌ । कारयामि तवोदिष्टमत्रोद्यानमकारयत्‌ ॥ सम्पन्नं च तदुद्यानं नानाद्रुमलतान्तितम्‌ । नानारक्षकसंयुक्तं नानापक्षिसमावृतम्‌ ॥ तत्रागत्य महाकोलस्तनुन्यस्तनभस्थल: । प्रावृटकालघनश्यामश्चक्षुराक्षिप्तचञ्चल: । दंष्ट्रावकृष्टचन्द्रार्क: प्रलयाम्भोधरध्वनि: । उद्यानं भञ्जयामास नानाद्रुमलतान्वितम्‌ ॥ कांश्चिदुत्पाटयामास पादपान्‌ पाण्डुनन्दन । कांश्चिद्दन्तप्रहारेण कांश्चिद्दन्तप्रघर्षणै: ॥ जघान कांश्चित्पुरुषान्‌ रक्षकानन्तकोपमान्‌ । तद भुनक्तीति विज्ञाय समेत्योद्यानपालका; ॥ सभयास्तस्य वृत्तान्तमूचुस्ते नृपते: पुर: । तदाकर्ण्य ततो राजा क्रोधारुणितलोचन: ॥ वधाय दंष्ट्रिनस्तस्य सन्दिदेशाखिलं बलम्‌ । ततश्चचाल भूपालस्त्रिगण्डगलितैर्गजै: ॥ आप्लावयन्महीं सर्वां वाजिवृन्दवृताम्बराम्‌ । चालयन्नखिलान्सैन्यान्‌ स्यन्दनौघमरुद्बवै: ॥ पत्तिव्रातमहाध्वानै: पूरयन्नखिला दिश: । ततो गाढं समावृत्य तदुद्यानं नरेश्वर: ॥२०॥
उवाचोच्चै: प्रतिध्वानैर्दिशो मुखरयन्दश । पथि यस्य वराहोऽयं प्रयात्युपवनान्तिकम्‌ ॥ तस्यावश्यं शिरश्छेदं विदधामि रिपोरिव । तस्य भूपस्य तद्वाक्यं समाकर्ण्य स शूकर: ॥ जगामास्यैव मार्गेण प्राणिनां चेष्टितं यथा । तत: क्रुद्धो धराशक्र: कशयाऽश्वं प्रताडय च ॥ व्रीडाकलङकितास्येन्दुर्मार्गं तस्यैव सोऽगमत्‌ । गत्वाऽथ विपिनं घोरं सिंहशार्दूलसङ्कुलम्‌ ॥ तमालतालहिन्तालशालार्जुनसमावृतम्‌ । भिल्लीभङ्कारसम्भारवाचालितदिगन्तरम्‌ ॥ तत्रैकचेतास्तं पश्यन्‌ बहु बभ्राम भूपति: । कोलो वेलामवाप्यैव सोऽभवद्राजसम्मुख: ॥ भल्लेन सोऽवधीत्कोलं वज्रेणाद्रिं यथा हरि: । अथ व्योम्नि विमानस्थ: स्मरसुन्दरविग्रह: । कोलरूपं परित्यज्य सोऽब्रवीन्‌ मङ्गलं नृपम्‌ । गन्धर्व उवाच ॥ स्वस्त्यस्तु ते महीपाल त्वया मुक्ति: कृता मम ॥ तदाकर्णय वृत्तान्तं येनाहं जात ईद्दश: । एकदा देवतावृन्दै: संवृत: कमलासन: ॥ चञ्चत्पुटादिभिस्तालै: षडजाद्यै: सप्तभि: स्वरै: । मन्दादिभिस्त्रिभिर्गानैर्गीयमानं मया नृप ॥३०॥
नानास्थानगुणोपेतमश्रौषीद गीतमुत्तमम्‌ ॥ गीयमाने च्युतस्तालस्ततोऽहंकर्मपाकत: ॥ शप्तश्चित्ररथस्तेन सृष्टिकर्त्रा हि वेधसा । ब्रह्मोवाच ॥ कोलो भव त्वं मेदिन्यां मुक्तिस्ते तु यदा तदा ॥ निर्जिताखिलभूपालो मङगलस्त्वां हनिष्यति । तदद्य घटितं सर्वं त्वत्प्रसादान्महीपते ॥ त्वं गृहाण वरं भूप यद्देवस्यापि दुर्लभम्‌ । महालक्ष्मीव्रतं दिव्यं चतु र्वर्गफलप्रदम्‌ ॥ लभस्व सार्वभौमत्वं गच्छ राज्यं निजं द्रुतम्‌ । नारद उवाच ॥ चित्ररथोऽथ गन्धर्व उक्त्वेत्थं भूपर्ति प्रति ॥ अन्तर्धानं गतस्तुष्ट: शरत्काल इवाम्वुद: । अथ मङ्गलभूपाल: पार्श्वस्थं द्विजमागतम्‌ ॥ विलोक्य बटुकं कञ्चित्कक्षानिक्षिप्तशम्बलम्‌ । उवाच मधुरां वाचं स्मितपूर्वं शुचिस्मिताम्‌ ॥ देवस्त्वं दानवस्त्वं वा गन्धर्वो वाथ राक्षस: । तथ्यं वद बटो करमात्किमर्थं त्वमिहागत: ॥ श्रुत्वेत्याशिष्य तं बिप्र:प्राह त्वद्देशसम्भव: । बटुरुवाच ॥ सार्धं त्वया यातस्तदादिश यथोचितम्‌ ॥ राजाऽथ तमुवाचेदं त्वं बटो नूतनाख्यक: । अफल्याणं विधायाश्वं तूर्णं तोयं च पायय ॥४०॥
अथ विश्रम्य भूपालं बटुको वटपादपे । तथा कृतं तुरङ्गं च समारुह्य महामति: ॥ जगाम पक्षिघोषेण यत्रास्ते सुन्दरं सर: । कमलैकविलासेन रथाङ्गाभरणेन च ॥ वनमालालयत्वेन दधन्नारायणीं तनुम्‌ । भयवायुसुतोयोगमक्षारं विषवर्जितम्‌ ॥ नाशितागस्त्यतृष्णार्तिप्रसन्नं सागराधिपम्‌ । पङ्के मग्नोऽथ तत्राश्व: पृष्ठादुत्तीर्य तस्य स: ॥ चतुर्दिक्षु निरीक्ष्याथ तस्यैव सरसस्तटे । दिव्यवस्त्रपरीधानं दिव्याभरणभूषितम्‌ ॥ कथयन्तं कथां दिव्यां स्त्रीणां सार्थमपश्यत । उपसृत्याथ तं सार्थं सवृत्तान्तं निवेद्य च ॥ कृताञ्चलिरिति प्राह बटुर्मधुरया गिरा । बटुरुवाच । किं क्रियते तडागे हि भवतीभिर्विशेषत: ॥ व्रतं वा पूजनं वापि वदध्वं देवताऽत्र का । सार्थ उवाच । श्रृणु विप्रैकचित्तस्त्वं श्रद्धाभक्तिसमन्वित: ॥ या माया प्रकृति: शक्तिस्त्रैलोक्ये सचराचरे । व्रतमेतन्महालक्ष्म्यास्तस्या: सर्वफलप्रदम्‌ ॥ आकर्णय विधिं चास्य कथ्यमानं मया बटो । भाद्रे मासि सिताष्टम्यां प्रारम्भोऽस्य विधीयते ॥५०॥
प्रात: षोडशकृत्वस्तु प्रक्षाल्याङव्रीकरौ मुखम्‌ । तन्तुषोडशसंयुक्तं ग्रन्थिषोडशसंयुतम्‌ ॥ मालतीपुष्पकर्पूरचन्दनागरुधूपितम्‌ । लक्ष्म्यै नमोऽथ मन्त्रेण प्रतिग्रन्थ्यभिमन्त्रितम्‌ ॥ धनं धान्यं धरां हर्म्यं कीर्तिमायुर्यश: श्रियम्‌ । तुरगान्दतिन: पुत्रान्महालक्ष्मि प्रयच्छ मे ॥ मन्त्रेणानेन बध्वाऽथ दोरकं दक्षिणे करे । काण्डानि षोडशादाय दूर्वाया: साक्षतानि च ॥ एकचित्त: कथां श्रुत्वा पूजयेत्तैश्च दोरकम्‌ । ततस्तु प्रातरारभ्य यावत्स्यादसिताष्टमी ॥ तावत्प्रक्षान्य तद्वत्तु पादादीनि कथां तथा । श्रृणुयात्प्रत्यहं विप्र तत्सङ्ख्यैरक्षतादिभि: ॥ अथ कृष्णाष्टमीं प्राप्य नक्तकाले जितेन्द्रिय: । स्नात: शुक्लाम्बरधरो व्रती पूजागृहं विशेत्‌ ॥ तत्रोपविश्य पूर्वास्यश्चारुधौतासनोपरि । श्वेतवस्त्रे लिखेदष्टदलं कमलमुत्तमम्‌ । ऐन्द्री माहेश्वरी ब्राह्मी कौमारी वैष्णवी तथा । वाराही नारसिंही च भैरवीत्यष्टशक्तय: ॥ ऐन्द्रयादिशक्तिसंयुक्तं पार्श्वपत्रं सकेसरम्‌ । कर्णिकायां ततो लक्ष्मीं कर्पूरक्षोदपाणडुराम्‌ ॥६०॥
शुभ्रवस्त्रपरीधानां मुक्तामणिविभूषिताम्‌ । पङकजासनसंस्थानां रमेराननसरोरुहाम्‌ । शारदेन्दुकलाकान्तिस्निग्धनेत्रां चतुर्भुजाम्‌ । पद्मयुग्मामभयदां वरव्यग्रकराम्बुजाम्‌ ॥ अभितो गजयुग्मेन सिञ्च्यमानां घटाम्बुभि: । सञ्चिन्त्यैवं लिखेद्देवीं कर्पूरागरुचन्दनै: ॥ ततस्त्वावाहनं कुर्यान्मत्रेणानेन सुव्रती । महालक्ष्मि समागच्छ पद्मनाभपदादिह । पञ्चोपचारपूजेयं त्वदर्थं देवि सम्भृता ॥ आवाहनमन्त्र: । आलयस्ते हि कथित: कमलं कमलालये । विमले कमले ह्यस्मिन्‌ स्थितिं मे कृपया कुरु ॥ स्थापनमन्त्र: । गङ्गादिसलिलाघारं तीर्थमन्त्राभिमन्त्रितम्‌ । दूरयात्राश्रमहरं पाद्यं मे प्रतिगृह्यताम्‌ । पाद्यमन्त्र: । महालक्ष्मि महामाये मलयाचलवासिनि । मया निवेदितं भक्त्या गृहाणार्ध्यं सुरेश्वरि ॥ अर्ध्यंमन्त्र: । स्नानं तव महालक्ष्म्या: कर्पूरागरुवासितम्‌ । सुतीर्थेभ्य: समानीतं तोयं मे प्रतिगृह्यताम्‌ ॥ स्नानीयमन्त्र: । स्नानादिकं विधायाथ यत: शुद्धिरवाप्यते । एतदाचमनीयं मे महालक्ष्मि विधीयताम्‌ ॥ आचमनमन्त्र: । तन्तुसन्तानसंसिद्धं कलाकौशलकल्पितम्‌ । सर्वाङ्गाभरणं श्रेष्ठं बसनं परिधीयताम्‌ ॥७०॥
वस्त्रमन्त्र: । मलयाचलसम्भूतं नानापन्नगसेवितम्‌ । शीतलं बहुलामोदं चन्दनं प्रतिगृह्यताम्‌ ॥ चन्दनमन्त्र: । मिलत्परिमलामोदमत्तालिकुलसङ्कुलम्‌ । आनन्दनन्दनोद्यानं पद्मायै कुसुमं नम: ॥ पुष्पमन्त्र: । गन्धसम्भारसन्नद्धं पृथग्वस्तुसमुद्भवम्‌ ॥ सुरासुरनरानन्दि धूपं देवि गृहाण मे ॥ धूपमन्त्र: । मार्त्तणडमणडलाखणडचन्द्रबिम्बाग्नितेजसाम्‌ ॥ निधानं देवि दीपोऽयं निर्मितस्तव भक्तित: ॥ दीपमन्त्र: । देवतालयपातालभूतलाधारधान्यजम्‌ । षोडशाकारसम्भारनैवेद्यं ते नम: श्रियै ॥ नैवेद्यमन्त्र: । पातालतलसम्भूतं वदनाम्भोजभूषणम्‌ । नानागुणसमाकीर्णं ताम्बूलं देवि ते नम: । ताम्बूलमन्त्र: । विष्णोर्वक्षसि पद्मे च शङखे चक्रे तथाम्बरे । लक्ष्मीर्नित्या यथाऽसि त्वं मयि नित्या तथा भव ॥ प्रार्थनामन्त्र: । उतार्य दोरकं बाह्णोर्लक्ष्मीपार्श्वे निवेदयेत्‌ ॥ लक्ष्मि देवि गृहाण त्वं यन्मया दोरकं धृतम्‌ । व्रतं सम्पूर्णतां यातु कृपा कार्या मयि त्वया ॥ दोरकोत्तारणमन्त्र: । नानाप्रकारपूजा च कार्यं तौर्यत्रिकादिकम्‌ ॥ कथां श्रुत्वा सुवर्णं च आचार्याय च दक्षिणाम्‌ ॥ एवं निर्वर्त्य विधिवत्पूजनं बटुकश्रिय: । चातुर्वर्ण्याय देया च दत्वाऽऽचार्याय दक्षिणाम्‌ ॥८०॥
दीपान्षोडशपिणडीश्च गोधूमस्य द्विजाय ते । दत्वा तत्सङख्यकान्भुक्त्वा रात्रौ जागरणं चरेत्‌ ॥ चन्द्रोदयेऽथ सञ्जाते दद्यादर्ध्यं ततो व्रती । मन्त्रेणानेन राजेन्द्र शङखेनाम्बुफलादिना ॥ नमोऽस्तु ते निशानाथ लक्ष्मीभ्रातर्नमोऽस्तु ते । व्रतं सम्पूर्णतां यातु गृहाणार्ध्यं विधो मम ॥ चन्द्रार्ध्यमन्त्र: । प्रातर्विसर्जयेद्देवीं मन्त्रेणानेन सुव्रती । पङ्कजं देवि सन्त्यज्य मम वेश्मनि संविश ॥ यथा सपुत्रभृत्योऽहं सुखी स्यां त्वत्प्रसादत: ॥ देविविसर्जनमन्त्र: । षोडशाब्दे तु सम्पूर्णे कुर्यादुद्यापनं व्रती । अनेन विधिना बिप्र कुरु श्रद्धासमन्वितम्‌ ॥ दातव्या धेनुरेका वै स्वर्णश्रृङ्गादिसंयुता । आचार्याय सुवर्णं च दद्याद गोवसनानि च ॥ यथाशक्त्या सुवर्णं च दत्वा पूर्णं भवेद व्रतम्‌ । एतत्ते कथितं विप्र वतानामुत्तमं व्रतम्‌ ॥ यद्विधानादनायासाल्लभते वाञ्छितं फलम्‌ । कृत्वा त्वं सत्वरं विप्र राजानं तं च कारय ॥ वतमेतत्त्वया विप्र देयं श्रद्धावते परम्‌ । नास्तिकानां पुरस्तात्त न प्रकाश्यं कथञ्चन ॥ तदक्षतं च नैवेद्यं बटो गृह्लीष्व सत्वरम्‌ । नमस्कृत्य तु तं सार्थं पङ्कादुत्थाप्य वाजिनम्‌ ॥९०॥
प्रपीयाम्भ: समादाय पद्मिनीपत्रयन्त्रितम्‌ । आरुह्य तुरगं विप्रो राजान्तिकमुपागमत्‌ ॥ स घोटकं बटुं तत्र राजाऽपश्यन्मुदान्वितम्‌ । उपनीतं जलं तेन तृषार्त्ताय महीभुजे ॥ पीत्वा तदुदकं राजा पृच्छतिस्म बटुं तदा । किंनु जातो विलम्बस्ते कस्मात्ते हर्षसम्भव: ॥ इति पृष्टो यथावृत्तं सर्वं राज्ञेन्यवेदयत्‌ । निवेद्य तदव्रतं विप्रो राजानं तमकारयत्‌ ॥ नानाप्रकारसम्भारं शम्बलं बटुकस्य च । व्रतप्रभावादभवद बुभुजे भूभुजां पति: ॥ आरुह्य च महीपालो बटुपल्याणि तं हयम्‌ । तद्वतस्य प्रभावेण तूर्णं स्वपुरमागत: ॥ तमायान्तं समालोक्य मङगलं भूपुरन्दरम्‌ । उत्सवं चक्रिरे पौरास्तौर्यत्रिकपुर:सरम्‌ ॥ चलत्पताकदोर्मालं राजत्कलशमौक्तिकम्‌ । पुरं नृत्यदिवा भाति क्षुद्रघण्टौघघर्घरै: ॥ अथोत्कलिकया काचिद्धावतिस्म पुराङ्गना । स्वर्णमुक्तालताजालैश्चतुष्कमिव कुर्वती ॥ काचिद्विमुक्तकेशी च परैकनयनाञ्जना । काचिन्नितम्बभारार्त्ता काचित्पीनपयोधरा ॥१००॥
अथाविशन्महीपाल: सहितो बटुनालयम्‌ । पौरनारीजनाक्षिप्तलाजै: पूरितविग्रह: ॥ अथोत्तीर्य हयात्तस्माद्‌ बटुबाहुविलम्बित: । जगाम मङ्गलो राजा चोलदेवी तु यत्र वै ॥ द्दष्ट्वाऽथ चोलदेवी सा दोरकं राजबाहुके । विमृश्य मनसा क्रुद्धा शङ्कां चक्रे ततस्त्विमाम्‌ । आखेटकस्य व्याजेन गतोऽन्यां वल्लभां प्रति ॥ सौभाग्याय तया बद्धो दोरको दक्षिणे करे । तयैव बटुकश्चायं द्र्ष्टुं मां प्रेषितो धुवम्‌ ॥ ततो दुर्दैवदुष्टा सा कोपादाच्छिद्य दोरकम्‌ । निचिक्षेप महीपृष्ठे स्वसौभाग्यसुखै: सह ॥ न वुबोध च तां राजा त्रोटयन्तीं तु दोरकम्‌ । सामन्तमन्त्रिभृत्याद्यै: कुर्वन वार्तां वनोद्भवाम्‌ ॥ चिल्लदेव्यास्तदा काचिद्दासी द्रष्टुं समागता । तया दोरकमादाय बटुमापृच्छय तद्वतम्‌ ॥ तद्‌वतस्य विधानं च स्वस्वामिन्यै न्यवेदयत्‌ । ततो नूतनमाहूय चिल्लदेव्यकरोद्‌ वतम्‌ ॥ अथ संवत्सरेऽतीते लक्ष्मीपूजादिने नृप: । तौर्यत्रिकस्य निस्वानं चिल्लदेवीगृहेऽश्रृणोत्‌ ॥ तमाकर्ण्य महीपालो नूतनं बटुमब्रवीत्‌ । अहहाद्य  दिनं लक्ष्म्या: क्व गतो मम दोरक: ॥११०॥
इति श्रुत्वा नृपं प्राह दोरकत्रोटनक्रमम्‌ । तच्छुत्वा मङ्गलो राजा चोलदेव्यै प्रकुप्य च ॥ मयापि पूजनं कार्यं चिल्लदेवीगृहं प्रति । अथ मङ्गलभूपालो बटुबाहुविलम्बित: ॥ जगाम कमलार्चायै चिल्लदेवीगृहं प्रति । अत्रान्तरे महालक्ष्मीर्वृद्धारूपं विधाय च ॥ जिज्ञासार्थं गृहे तस्याश्चोलदेव्या जगाम सा । गच्छ गच्छाथ दुष्टे किमिहागत्य करोषि मे ॥ तया दुराशयात्यर्थं लक्ष्मी: साप्यपमानिता । शशापाथ महालक्ष्मीश्चोलदेवीमिति क्रुधा ॥ कोलास्या भव दुष्टे त्वं त्वयाहमपमानिता । चोलदेवी श्रिय: शापात्कोलास्या तत्क्षणादभूत्‌ ॥ कोलापुरमिति ख्यातं क्षितौ तन्मङ्गलं पुरम्‌ । अथागता महालक्ष्मीश्चिल्लदेवीनिकेतनम्‌ ॥ बहुधा चिल्लदेव्या सा लक्ष्मी: सम्मानितार्चिता । वृद्धारूपं परित्यज्य प्रत्यक्षा साऽभवत्तदा ॥ पञ्चोपचारपूजाभि: श्रियं राज्ञी ततोऽर्चयत्‌ । परितुष्टा ततो लक्ष्मीर्चिल्लदेवीमुवाच ह ॥ श्रीरुबाच ॥ प्रसन्नास्म्यर्चनैरेभिश्चिल्लदेवि वरं वृणु । वरं वव्रे ततो राज्ञी चिल्लदेवी शुभाशया ॥१२०॥
चिल्लदेव्युवाच । ये करिष्यन्ति ते देवि व्रतमेतत्सुरेश्वरि । न तद्वेश्म त्वया त्याज्यं यावच्चन्द्रदिवाकरौ ॥ अद्यारभ्य कथा ह्येषा भूपसम्बन्धिनी मम । ख्यातिं यातु क्षितौ देवि भक्तिर्भवतु मे त्वयि ॥ सद्भावेन कथामेतां ये श्रृण्वन्ति पठन्ति च । तेषां च वाञ्छितं सर्वं त्वया कार्यं सदैव हि ॥ तथेत्युक्त्त्वा महालक्ष्मीस्तत्रैवान्तरधीयत । अथ मङ्गलभूपालस्तत्रागत्य श्रियोऽर्चनम्‌ ॥ चक्रे परमया भक्त्या चिल्लदेवीसमन्वित: । अथेर्ष्यया दुराचारा चिल्लदेवीगृहं प्रति ॥ चोलदेवी समायाता द्वारस्थैर्वारिता जनै: । जगाम विपिनं घोरं यत्रासीदङगिरा मुनि: ॥ अथालोक्यादभुताकारां ज्ञानद्दष्ठया व्यचिन्त्य च । स मुनि:श्रीव्रतं दिव्यं चोलदेवीमकारयत्‌ ॥ व्रते कृतेऽथ सञ्जाता चोलदेवी शुभानना । दाक्षिण्यकेलिलीलाभिर्लावण्यैकनिकेतना ॥ तत: कदाचिदागत्य वनमाखेटकं नृप: । मुनेर्वेश्मनि तां राजा ददर्शोत्पललोचनाम्‌ ॥ अथ राजा मुनिं प्राह केयं धन्येति कथ्यताम्‌ । तद्‌वृत्तान्तं समाख्याय राज्ञे तामददान्मुनि: ॥१३०॥
अथागत्य नृपो राज्यं चोलदेवीसमन्वित: । चोलदेव्या च सहितो बुभुजे मङ्गलो नृप: ॥ चिल्लदेवी वरं वव्रे चोलदेवीसमागमम्‌ । चिल्लदेवी सुखापन्ना चोलदेवीसमागमे ॥ समुद्रस्य यथा गङ्गायमुने वल्लभे सदा । परस्पराधिके प्रीते तत्य राज्ञो बभूवतु: ॥ चिल्लदेव्या समं राज्यं चोलदेव्या समन्वितम्‌ । सप्तद्वीपवतीं पृथ्वीं वुभुजे मङ्गलो नृप: ॥ व्रतस्यास्य प्रभावेण बटुक: सोऽपि नूतन: । अभून्मङ्गलभूपस्य मन्त्री तव यथा गुरु: ॥ भुक्त्वाऽथ विपुलान्भोगान्‌ मङ्गलो भूभृतां वर: । स पुन: स्वर्गमागत्य नक्षत्रं विष्णुदैवतम्‌ ॥ नारद उवाच । एतत्ते कथितं शक्र वतानामुत्तमं वतम्‌ । यत्कथाश्रवणेनापि लभते वाञ्छितं फलम्‌ ॥ प्रयाग इव तीर्थेषु देवेषु मघवानिव । नदीषु च यथा गङ्गा वतेष्वेतत्तथा वतम्‌ ॥ धर्मं चार्थं च कामं च मोक्षं च यदि वाञ्छसि । तर्ह्येदं च वतं शक्र कुरु श्रद्धासमन्वित: ॥ श्रीकृष्ण उवाच । वतमिदमथ चक्रे नारदेनोपदिष्टं सुरपतिरपि यस्माद्वाञ्छितार्थं स लेभे । त्वमपि कुरु तदेतद्धर्मसूनो यथा स्यादभिमतफलसिद्धि: पुत्रपौत्र दिवृद्धि: ॥१४०॥
इति श्रीभविष्योत्तरपुराणे नारदसंवादन्तर्गतकृष्णयुधिष्ठिरसंवादे महालक्ष्मीवतकथा समाप्ता ॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP