TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

भाद्रपदमास: - ऋषिपञ्चमीव्रताङ्गपूजाविधि

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


ऋषिपञ्चमीव्रताङ्गपूजाविधि
॥ ऋषिपञ्चमीव्रताङ्गपूजाविधि: ॥

पञ्चमी मध्याह्नव्यापिनी ग्राह्या, दिनद्वये तद्वयाप्तावव्याप्तौ वा पूर्वैव । तस्यां मध्याह्नसमये नद्यादौ गत्वा, आचम्य देशकालौ स्मृत्वा, ऋषिपञ्चमीव्रताङ्गभूतं दन्तधावनपूर्वकं स्नानविर्धि करिष्ये । अष्टोत्तरशतं सप्त वा अपामार्गसमिधो गृहीत्वा, आयुर्षलं यशो वर्च: प्रजा:पशुवसूनि च । ब्रह्मप्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥ इति सम्प्रार्थ्य, मुखदुर्गन्धिनाशाय दन्तानां च विशुद्धये । ष्ठीवनाय च गात्राणां कुर्वेऽहं देन्तधावनम्‌ ॥ इति मन्त्रेण दन्तान्‌ संशोध्य, केशवाय नम इत्यादिपञ्चभिर्नाममन्त्रै: पञ्चगव्यं सम्पाद्य तैरेव मन्त्रै: मृत्स्नानपूर्वकं स्नायात्‌ । सुवासिनीभिस्तु दन्तान्‌ संशोध्य, तिलामलककल्केन केशान्‌ संशोध्य स्नातव्यमिति विशेष: । आचम्य, तत: शुक्लवाससी परिधाय मौनेन गृहमागत्य शुद्धदेशे भूमिं गोमयेनोपलिप्य रङ्गवल्लयादिभिरलङकृते पीठे प्रादेशमात्रै: साग्रै: सप्तभि: कुशै: प्रदक्षिणग्रन्थि विधाय सप्तऋषीन्‌ सम्पाद्य, तेषु अथवा अक्षतपुञ्जेषु उदकसंस्थमावाह्य पूजां कुर्यात्‌ । आचम्य देशकालौ स्मृत्वा, मया ज्ञानत: अज्ञानतो वा प्रथमऋतुदर्शनादारम्य रजस्वलावस्थायां कृतभाण्डादिसम्पर्कजनितदोषेण दुर्योनित्वादिसमस्तदोषपरिहारार्थं अरुन्धतीसहितकश्यपादिसप्तऋषिप्रीत्यर्थं ऋषिपञ्चमीव्रताङ्गत्वेन विहितं यथामिलितषोडशोपचारद्रव्यै: पूजनमहं करिष्ये । आदौ निर्विघ्नतासिध्यर्थं महागणपतिपूजनं कलशघण्टापूजनं च करिष्ये । महागणपतिं सम्पूज्य वक्रतुण्डेति प्रार्थयेत्‌ । कलशपूजनादिसम्भारप्रोक्षणान्तं कृत्वा, उदकसंस्थं आवाहयेत्‌ ।
१. कश्यपाय नम: कश्यपं आ० ।
२. अत्रये नम: अत्रिंआवा० ।
३. भरद्वाजाय० भरद्वाजंआ० ।
४. विश्वामित्रा० विश्वामित्रं० ।
५. गौतमाय नम: गौतमं आ० ।
६. जमदग्नये० जमदग्निं० ।
७. वसिष्ठाय० वसिष्ठंआ० ।
८. अरुन्धत्यै नम: अरुन्धतीं० ।
ध्यायेत्‌ । मूर्तिं ब्रह्मण्यदेवस्य ब्रह्मणस्तेज उत्तमम्‌ ॥ सूर्यकोटिप्रतीकाशं ब्रह्मवृन्दं विचिन्तये ॥ ब्रह्मसूत्रं सोत्तरीयं बिभ्रतोऽजिनदण्डकम्‌ । कमण्डलुधरान्‌ सप्त चिन्तयामि मुनीश्वरान्‌ ॥ अरुन्धतीसहितकश्यपादिसप्तऋषीन्‌ ध्यायामि । कुशासने पवित्रेऽस्मिंस्तिष्ठन्तु मुनिसत्तमा: । अरुन्धत्या समेताश्च जटामुकुटधारिण: ॥ अरुन्धतीसहितकश्यपादिसप्तऋषिभ्यो नम: । आसनं० । गन्धपुष्पाक्षतैर्युक्तं पाद्यं गृह्लन्तु भो द्विजा: । प्रसादं कुरुत प्रीतास्तुष्टा: सन्तु सदा मम ॥ पाद्यं० ॥ नभस्ये शुक्लपञ्चम्यामर्चिता ऋषिसत्तमा: । दहन्तु पापं मे सर्वं गृह्लन्त्वर्ध्यं नमो नम: । अर्ध्यं० ॥ लोकानां तुष्टिकर्तारो यूयं सर्वे तपोधना: । नमो वो धर्मविज्ञेभ्यो महर्षिभ्यो नमो नम: ॥ आचमनं० ॥ इदं क्षीरं समानीतं सर्वेषां पुष्टिकारकम्‌ । ऋषयो दीयते भक्त्या स्नानार्थं प्रति० ॥ पयस्नानं० ॥ गोदुग्धं विकृतं देवा दधिरूपं गुणालयम्‌ । स्नानार्थं च प्रयच्छामि गृ० ॥ दधिस्नानं० ॥ इदं मयार्पितं सर्पि: प्रियं सर्वदिवौकसाम्‌ । सर्वेषां हविषां श्रेष्ठं घृतं स्नानाय गृ० ॥ घृतस्नानं० ॥ पुष्पेभ्य: सारमादाय मक्षिकाभि: कृतं मधु । एतद्ददामि वो देवा मधु स्नानाय गृ० ॥ मधुस्नानं० ॥ अथेक्षुरससम्भुता शर्करा जगतां प्रिया । मया दत्ता गृहाणेमां स्नानार्थं ऋषिसत्तमा: ॥ शर्करास्नानं० ॥ मन्दाकिन्या: समानीतं हेमाम्भोरुहवासितम्‌ । तोयमेतद्‌ गन्धयुक्तं स्नानार्थं प्रति० ॥ स्नानं० ॥ नाममन्त्रेण गन्धादिपञ्चोपचारपूजां कृत्वा अभिषेक: । सर्वे नित्यं तपोनिष्ठा ब्रह्मज्ञा: सत्यवादिन: । वस्त्राणि प्रतिगृह्लन्तु । मुक्तिदा: सन्तु मे सदा ॥ वस्त्राणि० ॥ नानामन्त्रै: समुद्भतं त्रिवृतं ब्रह्मसूत्रकम्‌ । प्रत्येकं च प्रयच्छामि ऋषय: प्रति० ॥ यज्ञोपवीतानि० ॥ कुङ्कुमागरुकर्पूरसुगन्धैर्मिश्रितं शुभम्‌ । गन्धाढय चन्दनं दिव्यं गृह्लन्तु ऋषिसत्तमा: ॥ चन्दनं० ॥ शुभ्राक्षताश्च सम्पूर्णा: प्रक्षाल्य च नियोजिता: । शोभायै वो मया दत्ता गृह्यन्तां मुनिसत्तमा: ॥ अक्षतान्‌० ॥ कण्ठसूत्रं ताडपत्र हरिद्रां कुङ्कुमाञ्जनम । सिन्दूरादि प्रदास्यामि सौभाग्यं देहि मेऽव्ययम्‌ ॥ अरुन्धत्यै नम: सौभाग्यद्रव्यं स० ॥ मालतीचम्पकादीनि तुलस्यादीनि वै द्विजा: । मयाऽऽहृतानि पुष्पाणि पूजार्थं प्रति ॥ पुष्पाणि० ॥ वनस्पति० धूपोऽयं प्रति० ॥ धूपं० ॥ सुवर्तिघृतसंयुक्तमन्धकारविनाशनम्‌ । दीपोऽयं गृह्यतां विप्रा भक्त्या चैव मयार्पितम्‌ ॥ दीपं० ॥ नानापक्वान्नसंयुक्तं रसै: षडभि: समन्वितम्‌ । गृह्लन्तु ऋषय: सर्वं निवेद्यं वसुदायका: ॥ नैवेद्यं० ॥ मध्येपानीयं० । हस्तप्रक्षालनं० । मुखप्र० । मृगनाभिसमायुक्तं कदलीसम्भवान्वितम्‌ । गृह्यन्तां मुनय: सर्वे हस्तोद्वर्तनकं तथा ॥ करोद्वर्तनं० ॥ नारिकेलं च क्रमुकं पक्वं च कदलीफलम्‌ । उर्वारुकं च खर्जूरीफलानि प्रति० ॥ फलानि स० । पूगीफलं म० । ताम्बूलं० । हिरण्यगर्भग० दक्षिणां० ॥ अग्निर्ज्योती रविर्ज्योतिरात्मज्योतिस्तथैव च । त्वमेव सर्वज्योतींषि आर्तिक्यं प्रति० ॥ आर्तिक्यदीपं द० ॥ ऋषय: सर्वलोकेशा: प्रजासर्जनकारिण: । नराणामृषिरूपेण सर्वपापप्रणाशना: ॥ यानि कानि च० प्रदक्षिणां० ॥ नमोऽस्तु ऋषिवृन्देभ्यो देवर्षिभ्यो नमो नम: ॥ सर्वपापहरेभ्यो हित वेदविद्भयो नमो नम: ॥ नमस्कारान्‌० ॥ कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतम; । जमदग्निर्वसिष्ठश्च साध्वी चैवाप्यरुन्धती ॥ पुष्पाञ्जलिं स० ॥ एते सप्तर्षय: सर्वे भक्त्या सम्पूजिता मया । सर्वे पापं व्यपोहन्तु ज्ञानतोऽज्ञानत: कृतम्‌ ॥ प्रार्थनां० ॥ अथार्ध्यविधि: ॥ अर्ध्यपात्रे गन्धाक्षतफलहिरण्योदकं प्रक्षिप्य अष्टावर्ध्यान्दद्यात्‌ । तत्र मन्त्रा:--- कश्यपाय नमस्तुभ्यं सर्वभूतहिताय च । नारीणां पापनाशाय ऋषिरूपधराय च ॥ कश्यपाय नम: इदमर्ध्यं० स० ॥१॥
अत्रये च नमस्तुभ्यं सर्वभूतहितैषिणे । तपोरूपाय सत्याय ब्रह्मणेऽनन्तशक्तये ॥ अत्रये० इदमर्ध्यं स० ॥२॥
भरद्वाज नमस्तुभ्यं सदाध्यानपरायण । महाजटिल धर्मात्मन्‌ पातकं हर मे सदा ॥ भरद्वाजाय० इदम० ॥३॥
विश्वामित्र नमस्तुभ्यं ज्वलन्मुख महाव्रत । अध्यक्षीकृतगायत्री तपोरूप नमोऽस्तु ते ॥ विश्वामित्राय० इदम० ॥४॥
गौतम: सर्वभूतानामृषीणां च महाप्रिय । कृतानां कर्मणां चैव सम्प्रदायप्रवर्तक ॥ गौतमाय० इदमध्यं स० ॥५॥
जमदग्निर्महातेजास्तपसा ज्वलनप्रभ । लोकेषु धर्मसिध्यर्थं निवर्तयतु मे ह्यघम्‌ ॥ जमदग्नये० इदमर्ध्यं० ॥६॥
नमस्तुभ्यं वसिष्ठाय जटिलाय महात्मने । धर्मरूपाय सत्याय लोकानां हितकारिणे ॥ वसिष्ठाय० इदमर्ध्यं० ॥७॥
अरुन्धति नमस्तुभ्यं महापातकनाशिनि । पतिव्रतानां सर्वासां धर्मशीलप्रवर्तके ॥ अरुन्धत्यै० इदमर्ध्यं० ॥८॥
यस्य स्मृ० । अनेन पूजनेन अरुन्धतीसहितकश्यपादिसप्तऋषय: प्रीयन्ताम्‌ । अद्य० र्थं कृताया: पूजाया: साङ्गतासिध्यर्थं अरुन्धतीसहितकश्यपादिसप्तऋषिप्रीत्यर्थं ब्राह्मणाय सप्तशाकदानं सौभाग्यवायनदानं च क० । तदङ्गं ब्राह्मणपूजनं करिष्णे । आसनादिपूजां कृत्वा स्वस्त्यस्तु । दीर्घ० । विप्राय वे० इदं सप्तशाकदानं ब्राह्मणाय तुभ्यमहं सम्प्रददे । प्र०प्र० । सौभाग्यवायनदानमन्त्र:--- भवन्त: प्रतिगृह्लन्तु ज्योतीरूपास्तपोधना: । उभयोस्तारका: सन्तु वायनस्प प्रदानत: ॥ इदं सौभाग्यवायनदानं सदक्षिणाकं सताम्बूलं सधान्यं अमुक्तशर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे । प्र०प्र० । अनेन वायनदानाख्येन कर्मणा अरुन्धतीसहितकश्यपादिसप्तऋषय: प्रीयन्ताम्‌ । न्यूनातिरिक्तानि परिस्फुटानि यानीह कर्माणि मया कृतानि । क्षम्याणि चैतानि मम क्षमध्वं प्रयात तुष्टा: पुनरागमाय ॥ यान्तु देव० इति विसर्जयेत्‌ । कृतस्य० दम्पतीब्राह्मणान्‌ भोजयिष्ये ॥

॥ अथ ऋषिपञ्चमीव्रतकथाप्रारम्भ: ॥

युधिष्ठिर उवाच ॥ श्रुतानि देवदेवेश व्रतानि सुबहून च । साम्प्रतं मेऽन्यदाचक्ष्व व्रतं पापप्रणाशनम्‌ ॥ श्रीकृष्ण उ० ॥ अथान्यदपि राजेन्द्र पञ्चमीमृषिसंजिताम्‌ । कथयिष्यामि यत्कृत्वा नारी पापात्प्रमुच्यते ॥ सुधिष्ठिर उ० ॥ कीद्दशी पञ्चमी कृष्ण कथं च ऋषिसंज्ञिता । पातकान्मुच्यते कस्मान्नारी यदुकुलोद्भव ॥ पापानि च बहून्यत्र विद्यन्ते किल केशव । कथं वा ऋषिपञ्चम्यां नारी कस्मात्‌ प्रमुच्यते ॥ कृष्ण उवाच ॥ अज्ञानाज्ज्ञानतो वापि या स्त्री जाता रजस्वला । दुष्टा स्पृशति भाण्डानि गृहकर्मणि संस्थिता ॥ प्राप्नोति सा महापापं सत्यं सा नरकं व्रजेत्‌ । श्रृणु तत्कारणं यस्माद्वर्जनीया रजस्वला ॥ प्रोत्सार्य गृहतो दूरं चातुर्वर्ण्येन भारत । ब्रह्महत्यां पुरा शक्रो वृत्रं हत्वा ह्यवाप च ॥ तया वै राजशार्दूल व्रीडितो वृत्रसूदन: । ब्रह्माणं समुपागच्छदात्मन: शुद्धिकारणात्‌ ॥ शुद्धिं शक्रस्य राजेन्द्र प्रहृष्टेनान्तरात्मना । विभज्य ब्रह्महत्यां तु चतुर्धा च चतुर्मुख: ॥ प्राक्षिपद्राजशार्दुल चतु:स्थानेषु वै तदा । वह्नौ प्रथमज्वालासु नदीषु प्रथमोदके ॥१०॥
पर्वताग्रे वृक्षजातौ नारीरजसि पार्थिव । ततो रजस्वला नारी प्रोत्सार्य च प्रयत्नत: ॥ ब्रह्मण: शासनात्यार्थ चातुर्वर्ण्येन सर्वदा । प्रधमेऽहनि चाण्डाली द्वितीये ब्रह्मघातकी ॥ तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यति । भ्रर्यु: शुद्धा चतुर्थेऽह्नि दैवे पित्र्ये च पञ्चमे ॥ अज्ञानाज्ज्ञानतो वापि जातं सम्पर्कपातकम्‌ । तत्पापसंक्षयार्थं वै कार्येयमृषिपञ्चमी ॥ सर्वपापप्रशमनी सर्वोपद्रवनाशिनी । ब्रह्मक्षत्रियविट्शूद्रस्त्रीभि: कार्या विशेषत: ॥ कृष्ण उवा० ॥ अत्रार्थे यत्पुरावृत्तं प्रवक्ष्यामि कथानकम्‌ । पुरा कृतयुगे राजा विदर्भायां बभूव ह ॥ श्येनजिन्नामराजर्षिश्चातुर्वर्ण्यानुपालक: । तस्य देशे वसन्विप्रो वेदवेदाङ्गपारग: ॥ सुमित्रो नाम राजेन्द्र सर्वभूतहिते रत: । कृषिवृत्यां सदा युक्त: कुटुम्वपरिपालक: ॥ तस्य भार्या सुसाध्वी च पतिशुश्रूषणेरता । जयश्रीर्नाम विख्याता बहुभृत्यसुहृज्जना ॥ अतिचिन्तान्विता सा च प्रावृटकाले सुमध्यमा । क्षेत्रादिषु रता साध्वी व्याकुलीकृतमानसा ॥२०॥
एकदा सात्मन: प्राप्तमृतुकालं व्यलोकयत्‌ । रजस्वलापि सा राजन्‌ गृहकर्म चकार ह ॥ भाण्डादीन्यस्पृशद्राजन्नृतौ प्राप्तेऽपि भामिनी । कालेन बहुना साध्वी पञ्चत्वमगमत्तदा ॥ तस्या भर्तापि विप्रोऽसौ कालधर्ममुपेयिवान्‌ । एवं तौ दम्पती राजन्स्वकर्मवशगौ तदा ॥ भार्या तस्य जयश्री: सा ऋतुसम्पर्कदोषत: । शुनियोनिसमुत्पन्ना सुमित्रोऽपि नरेश्वर ॥ तस्या: सम्पर्कवशगौ सदा ॥ ऋतुसम्पर्कदोषेण तिर्यग्योनिमुपागतौ । स्वधर्माचरणाज्जातावुभो जातिस्मरौ तथा ॥ सुतस्यैव गृहे राजन्स्मरन्तौ पूर्वपातकम्‌ । सुमित्रस्य च पुत्रोऽभूद गुरुशुश्रूषणे रत: ॥ सुमतिर्नाम धर्मज्ञो देवतातिथिपूजक: । अथ क्षयाहे सम्प्राप्ते पितुस्तु सुमतिस्तदा ॥ भायीं चन्द्रवतीं प्राह सुमति: श्रद्धयान्वित: । अद्य सांवत्सरदिनं पितुर्मे चारुहासिनि ॥ भोजनीया द्विजा भीरु पाकशुद्धिर्विधीयताम्‌ । तया कृता पाकशुद्धि: सुमतेर्भर्तुराज्ञया ॥३०॥
मुक्तं पायसभाण्डे वै सर्पेण गरलं तत: । द्दष्ट्वा ब्रह्मवधाद्भीता शुनी भाण्डानि साऽस्पृशत्‌ ॥ द्विजभार्या च तां द्दष्ट्वा उल्मुकेन जघान ह । भाण्डादीनि च प्रक्षाल्य त्यक्त्वा पाकं सुमध्यमा ॥ पुन: पाकं च कृत्वा तु श्राद्धं कृत्वा विधानत: । ततो भुक्तेषु विप्रेषु विप्रेषु नोच्छिष्टं च ददौ बहि: ॥ भूमौ क्षिसं तदा शुन्या उपवासस्ततोऽभवत्‌ । ततो रात्र्यां प्रवृत्तायां सा शुनी क्षुधिता भृशम्‌ ॥ बलीवर्दमुपागत्य भर्तारमिदमब्रवीत्‌ । वुभुक्षिताद्य हे भर्तर्न दत्तं भोजनादिकम्‌ ॥ ग्रासादिकं च न प्राप्तं क्षुधा मां बाधते भृशम्‌ । अन्यस्मिन्दिवसे पुत्रो मम लंह्यं ददात्यसौ ॥ अद्य मह्यं किमप्येष उच्छिष्टमपि नो ददौ । पायसान्ने पपाताद्य गरलं सर्पसम्भवम्‌ ॥ मया विचिन्त्य मनसा मरिष्यन्ति द्विजोत्तमा: । संस्पृष्टं पायसं गत्वा बध्वाऽहं ताडिता भृशम्‌ ॥ दुःखितं तेन मे गात्रं कर्टिभग्ना करोमि किम्‌ । तत: प्राह स चानडवान्‌ भद्रे ते पापसङ्ग्रहात ॥ किं करोमि ह्यशक्तोऽहं भारवाहोऽद्यसंस्थित: । अद्याहमात्मजक्षेत्रे वाहिता सकलं दिनम्‌ ॥४०॥
मारितश्चात्मजेनाहं मुखं बध्वा बुभुक्षित: । वृथा श्राद्धं कृतं तेन जाताद्य मम कष्टता ॥ कृष्ण उवा० ॥ तयो: संवदतोरेवं मातापित्रोश्व भारत । श्रुत्वा पुत्रस्तदा वाक्यं यदुक्तं च तदोभयो: ॥ ततो रजन्यां तत्कालमभयोर्भोजनं ददौ । पितरौ तौ विदित्वा तु दत्तवान्सुमतिस्तदा ॥ तदाऽसौ दु:खित: पुत्रो ज्ञात्वाऽवस्थां तदा तयो: । मातापित्रोस्तु राजेन्द्र तदाऽसौ प्रस्थितो वनम्‌ ॥ ज्ञातुमिच्छामि कष्टं वै मातापित्रोश्च भारत । तत्र गत्वा ज्ञानवृद्धान्‌ ऋषीन्‌ परमधार्मिकान्‌ ॥ प्रणिपत्याब्रवीद्वाक्यं हितं चैव तदा तयो: । सुमतिरुवाच । कथयध्वं विप्रवर्या: प्रश्नमेकं समाहित: ॥ केन कर्मविपाकेन पितरौ मे तपोधना: । इमामवस्थां सम्प्राप्तौ मुच्येते पातकात्कथम्‌ ॥ ऋषय ऊचु: । तव माता पुरा विप्र स्वगृहे बालभावत: ॥ प्राप्तं ऋतुं विदित्वा तु सम्पर्कमकरोद द्विज । तेन कर्मविपाकेन शुनियोनिमुपागता ॥ पितापि स्पर्शदोषेण बलीबर्दो बभूव ह । एतयोर्मुक्तिकामार्थं कुरु त्वमृषिपञ्चमीम्‌ ॥५०॥
भार्यया सह विप्रेन्द्र ऋषीन्सम्पूज्य यत्नत: । आचरस्व व्रतं तत्र सप्तवर्षं द्विजोत्तम ॥ अन्ते चोद्यापनं कुर्याद्वित्तशाठयाविवर्जित: । शाकाहारस्तु कर्तव्यो नीवारै: श्यामकैस्तथा ॥ कन्दं वाथ फलं मूलं हलकृष्टं न भक्षयेत्‌ । प्राप्य भाद्रपदे मासि शुक्लपक्षस्य पञ्चमी ॥ तस्यां मध्याह्नसमये नद्यादौ विमले जले । कृत्वापामार्गसमिधा दन्तधावनमादित: ॥ आयुर्बलं यशो वर्च: प्रजा: पशुवसूनि च । ब्रह्मप्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥ सम्प्रार्थ्यानेन मन्त्रेण कुर्याद्वै दन्तधावनम्‌ । मुखदुर्गन्धिनाशाय दन्तानां च विशुद्धये ॥ ष्ठीवनाय च गात्राणां कुर्वेऽहं दन्तधावनम्‌ । अनेन दन्तान्संशोध्य स्नायान्मृत्स्नानपूर्वकम्‌ ॥ तिलामलककल्केन केशान्संशोध्य यत्नत: । परिधाय नवे शुद्धे वाससी च समाहित: ॥ विधाय नित्यकर्माणि दत्वा द्वारवती मृषीन्‌ । स्नापयेद्विधिवद्भक्त्या पञ्चामृतरसै: शुभै: ॥ चन्दनागरुकर्पूरैर्विलिप्य च सुगन्धिभि: । पूजयेद्विविधै: पुष्पैर्गन्धधूपादिदीपकै: ॥६०॥
समाच्छाद्य शुभैर्वस्त्रै: सोपवीतैर्यथाविधि । ततो नैवेद्यसम्पन्नैरर्ध्यं दद्याच्छुभै: फलै: ॥ पूजयस्व ऋषीन्‌ दिव्यानरुन्धत्या समन्वितान्‌ । कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतम: ॥ जमदग्निर्वसिष्ठश्च साध्वी चैवाप्यरुन्धती । मन्त्रेणानेन सप्तर्षीन्पूजयेत्सुसमाहित: ॥ व्रतेन ऋषिपञ्चम्या: कृतेनैव द्विजोत्तम । ऋतुसम्पर्कजो दोष:क्षयं याति न संशय: ॥ श्रीकृष्ण उवा० ॥ तच्छुत्वा सुमतिर्वाक्यं परमं ऋषिभाषितम्‌ । गृहमेत्य व्रतं चक्रे सभार्य: श्रद्धयान्वित: ॥ व्रतं तु ऋषिपञ्चम्या: सर्वपापप्रणाशनम्‌ । कृत्वा सर्वं यथोक्तं च मातापित्रो: फलं ददौ ॥ व्रतपुण्यप्रभावेण माता तस्य श्वयोनित: । मुक्ता नृपतिशार्दूल विमानवरसंस्थिता ॥ दिव्याम्बरधरा भूत्वा गता स्वर्गं च भारत । पितापि स मृतो ऽगच्छत्सुमते: पशुयोनित: ॥ स्वर्गं प्राप्तो महाराज व्रतस्यास्य प्रभावत: । कायिकं वाचिकं वापि मानसं यच्च दुष्कृतम्‌ ॥ तत्सर्वं विलयं याति व्रतस्यास्य प्रभावत: । अस्य यज्जायते पुण्यं तच्छुणुष्व नृपोत्तम ॥७०॥
सर्वव्रतेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम्‌ । सर्वदानेषु द्त्तेषु तदेतदव्रतचारणात्‌ ॥ कुरुते या व्रतं नारी सा भवेत्सुखभोगिनी । रूपलावण्ययुक्ता च पुत्रपौत्रादिसंयुता ॥ इह लोके सुखं भूयात्परत्र च परां गतिम्‌ । एतत्ते कथितं राजन्व्रतानामुत्तमं व्रतम्‌ ॥ सर्व सम्पत्प्रदं चैव नारीणां पापनाशनम्‌ । धनं यशश्च स्वर्गं च पुत्रानपि युधिष्ठिर ॥ पठतां श्रृण्वतां चापि सर्वपापप्रणाशनम्‌ ॥७४॥
इति श्रीभविष्योत्तरपुराणे ऋषिपञ्चमीव्रतकथा सम्पूर्णा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:50:54.3800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

octadiene

  • न. ऑक्टॅडाइन 
RANDOM WORD

Did you know?

रुक्मिणीस्वयंवर पोथीची पारायणे केली असता मुलींची लग्ने लवकर जमतात, हे खरे आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.